Digital Sanskrit Buddhist Canon

अथ सप्तदशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha saptadaśaḥ paṭalavisaraḥ

अथ सप्तदशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः सर्वतथागतविकुर्वितं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः ऊर्णाकोशाद् रश्मयो निश्चरति स्म। नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णः। सर्वं चेदं बुधक्षेत्रमवभास्य, सर्वलोकधात्वन्तराणि चालोकयित्वा, सर्वग्रहनक्षत्रांश्च मुहूर्तमात्रेण जिह्मीकृत्याकृष्टवा। आकृष्टा च स्वकस्वका स्थानानि सन्नियोज्य तत् पर्षन्मण्डलं बुद्धाधिष्ठानेनाकृष्य च, तत्रैव भगवतः शाक्यमुनेरूर्णाकोशान्तर्धीयते स्म। सर्वं च ग्रहनक्षत्रतारकाः ज्योतिषोरुपरुध्यमाना आर्ता भीता भगवन्तं शाक्यमुनिं प्रजग्मुः। कृताञ्जलयश्च तस्थुरे प्रकम्पयमाना मुहुर्मुहुश्च धरणितले प्रपतनमानाः॥



अथ भगवान् शाक्यमुनिः सर्वेषां ग्रहनक्षत्रतारकाज्योतिषाणां च बालिशोपजनितबुद्धीनां च देहिनामनुग्रहार्थं वाचमुदीरयते स्म। शृण्वन्तु भवन्तो मार्षाः ! देवसङ्घा समानुषाः ! कर्म एव सत्त्वानां विभजते लोकवैचित्र्यम्। यश्च बुधानां भगवतां वज्रकायशरीरतामभिनिष्पत्तिर्यश्च ससुरासुरस्य लोकस्य भ्रमत्संसाराटवीकान्तारप्रविष्टस्य लोकस्य विचित्रशरीरतामभिनिष्पत्तिः सर्वेदं कर्मजं शुभाशुभं निबन्धनम्। न तत्र कर्ता कारकः ईश्वरः प्रधानो वा पुरुषा साङ्ख्यापसृष्टो वा प्रवर्तते किञ्चिद् वर्जयित्वा तु कर्मजं सर्वकर्मप्रत्ययजनितो हेतुमपेक्षते। स च हेतुप्रत्ययमपेक्षते। एवं प्रतीत्यसमुत्पत्तिप्रत्ययान्तोऽन्यमुपश्लिष्यते श्लेष्माणां च भूताभिनिष्पत्तिमहाभूतां जनयते। ते च महाभूता स्कन्धान्तरमनादिगतिकात् प्रतिपद्यन्ते। प्रपन्नाश्च गतिदेशान्तरं विस्तरविभागशोऽभ्युपपद्यन्ते। कालान्तरोपरोधविलोमताज्ञानवह्निमीरिता कर्मोपरचितवासना अशेषमपि निर्दहन्ते। त्रिधायानसमता निःप्रपञ्चतां समतिनिर्हरन्ते। महायानदीर्घकालोपरचितकर्म स्वकं मध्यकालप्रत्येकखड्गिनां स्वयम्भु ज्ञानं प्रवर्तते। परघोषानुप्रवृत्तिश्रवश्रावकानां ह्रस्वकालाचिराधिराज्यं तेनात्यप्रवृत्तिधर्मान्तरं बुद्धिरेव प्रवर्तते बालिशानां विमोहितानाम्॥



अथ च पुनर्विचित्रकर्मजनितोऽयं लोकसन्निवेशदेशवेषोपरतः शिवं निर्जरसम्पदमशोकविरजकर्मलोकसिद्धिमपेक्षते। विमलं मार्गविनिर्मुक्तमष्टाङ्गोपेतसुशीतलं कर्म एव कुरुते कर्म नान्यं कर्मापेक्षते॥



कर्माकर्मविनिर्मुक्तो निःप्रपञ्चः स तिष्ठति।

त्रिधा यानप्रवृत्तस्तु नान्यं शान्तिमजायते॥

त्रिविधैव भवेन्मन्त्रं त्रिधा कर्म प्रकीर्त्तिता।

त्रिविधः फलनिष्पत्तिस्त्रिविधैव विचारणा॥

विपरीतं त्रिधा कर्म त्रिविधैव प्रदृश्यते।

कुशलं तत् त्रिविधं प्रोक्तं पुनस्तन्त्रे प्रदृश्यते॥

पुनरेव विधं गोत्रं मन्त्राणामास्पदं शान्तम्।

शान्तं निर्वाणगोत्रं तु बुद्धानां शुद्धमानसाम्॥

तदेव कर्म प्रत्यंशं मन्त्राङ्गे प्रकीर्तितः।

ज्योतिषाङ्गं तथा लोके सिधिहेतोः प्रकल्पितम्॥

तदेव अंशं कर्मं वै प्रत्ययांशे प्रवर्तते।

यथा हि शाली व्रीहीणामङ्कुरेण विभाव्यते॥

तथा हि सिद्धद्रव्याणां लक्षणेन विभाव्यते।

यथा हि शुक्लो वर्णस्तु व्यवहारेण प्रकल्प्यते॥

तथाहि ज्योतिषयुक्तीनां व्यवहार्थं प्रकल्प्यते।

सर्वतः सर्वयुक्तीनां कर्म एवं प्रशंसितम्॥

न तत् कर्म विना चिह्नैः क्वचिद् देहः संस्थितः।

चिह्नैश्च चरितैश्चापि जातकैर्गोत्रमाशृतैः॥

विविधैः शकुनैर्नित्यं तत् कर्मं चोपलभ्यते।

न क्वचिद् विग्रही कर्म अन्तलीनोऽन्यलक्ष्यते॥

ज्वरितः सर्वतो जन्तुर्विकारैश्चोपलक्ष्यते।

एवं देहे समासृत्य कर्म दृश्यति देहिनाम्॥

शुभाशुभफलाचिह्नजातकास्तु प्रकीर्त्तिताः।

विविधा शकुनयः सत्त्वा विविधा कर्ममुद्भवा॥

बलकाल तथा यात्रा विविधा प्राणिनां रुता।

शुभाशुभफला + + + + + ++ ++ + + + सदा॥

सिद्ध्यसिद्धिनिमित्तं तु प्रत्ययार्थमवेक्षते।

निमित्तं चरितं चिह्नं प्रत्ययेति प्रकल्पितम्॥

तस्मात् सर्वप्रयत्नेन प्रत्ययं तु अपेक्षते।

यज्जापिना सता मन्त्रे सिधिहेतोरपेक्षयेत्॥

कर्मस्वकान्यतानि अव्यङ्गानि लक्षयेत्।

अलक्षितं तु सर्वं वै विघ्रकर्मैः सुदारुणैः॥

तस्मात् सर्वाण्येतानि अङ्गानीति मुनेर्वचः।

सालेन्द्रराजः सर्वज्ञो बोधिमण्डे समाविशेत्॥

मन्त्रं उदीरयामास सर्वविघ्नप्रनाशनम्।

दुःस्वप्नं दुर्निमितं तु दुःसहं च विनाशनम्॥

तस्य बोधिगतं चित्तं सर्वज्ञस्य महात्मने।

मारेण दुष्टचित्तेन कृतो विघ्नो महाभयोः॥

अनिमित्तं तेन दृष्टं वै तरोर्मूले महाभयम्।

अनिमित्तात् तस्य जायन्ते अनेकाकारभीषणाः॥

तस्य पुण्यबलाधाना चिरकालाभिलाषिणा।

तेन मन्त्रवर्ण तस्य बलासौ भग्नाशौ नमुचिंस्तदा॥

ऋद्धिमन्तो महावीर्या संवृतोऽसौ महाद्युतिः।

तस्य मन्त्रप्रभावेन लिप्से बोधिमुत्तमाम्॥

स एव वक्ष्यते मन्त्रः दुर्निमित्तोपघातनम्।

दुःस्वप्नं दुःसहं चैवं दुष्टसत्त्वनिवारणम्॥

शृण्वन्तु देवसङ्घा वै ग्रहनक्षत्रज्योतिषाम्।

मन्त्रराट् भाषितः पूर्वं शालेन्द्रेण जिनेन वै।

निग्रहार्थं च दुष्टानां ग्रहनक्षत्रतारकाम्।

भूतां चैव सर्वेषां सौम्यचित्तां प्रबोधनाम्॥

शृण्वन्तु भूतगणाः सर्वे ये केचित् पृथिवीचराः।

अपदा बहुपदा वापि द्विपदा वापि चतुःपदा॥

सर्वे संक्षेपतः सत्त्वा ये केचित् त्रिषु स्थावराः।

नमः समन्तबुद्धानामप्रतिहतशासनानाम्॥



ॐ ख ख खाहि खाहि। हुम् हुम्। ज्वल ज्वल। प्रज्वल प्रज्वल। तिष्ठ तिष्ठ। ष्णीः फट् फट् स्वाहा।



एष बुद्धाद्ध्युषितो मन्त्रः ज्वालोष्णीषेति प्रकीर्तितः।

यानि कर्मसहस्राणि अशीति नव पञ्च च॥

करोति विविधां कर्मां सर्वमङ्गलसम्मतः।

दुःस्वप्नान् दुर्निमित्तांस्तु सकृज्जापेन नाशयेत्॥

करोति अपरां कर्मां सर्वमन्त्रेषु स्वामिनः।

वशिता सर्वसत्त्वानां बुद्धोऽयं प्रभवो गुरुः॥

स्मरणादस्य मन्त्रस्य सर्वे विघ्नाः प्रणश्यिरे।

देवातिदेवसम्बुद्ध इत्युक्त्वा मुनिसत्तमः॥

मुहूर्तं तस्थुरे तूष्णीं यावत् कालमुदीक्षयेत्।

तस्थुरे देवसङ्घाश्च शुद्धावासोपरिस्तदा॥

सर्वेषां देवमुख्यानां नक्षत्रग्रहतारकाम्।

समयं जग्मु ते भीता उष्णीषो मन्त्रभाषिताः॥

तुल्यवीर्यो महावीर्य उष्णीषाख्यो महाप्रभाः।

शतपञ्चचतुष्कां वा सप्ताष्टा नवतिस्तथा॥

द्विषष्टि पञ्चसप्तान्या उष्णीषेन्द्राः प्रकीर्तिताः।

एतत् सङ्ख्यमसङ्ख्येया राजानो मूर्धजा शुभा॥

तेष तुल्यो अयं मन्त्रः जिनमूर्धजजा इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात्

महायानवैपुल्यसूत्रात् पञ्चदशमः

कर्मस्वकप्रत्ययपटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project