Digital Sanskrit Buddhist Canon

अथ षोडशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha ṣoḍaśaḥ paṭalavisaraḥ
अथ षोडशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु मञ्जुश्रीः ! त्वदीये सर्वार्थक्रियाकर्मपटलविसरं पूर्वनिर्दिष्टं पर्षन्मण्डलमध्ये सविस्तरं वक्ष्येऽहम्।



पृष्टोऽयं यक्षराजेन वज्रहस्तेन धीमता।

सर्वमन्त्रार्थयुक्तानां स्वप्नानां च शुभाशुभम्॥

अत प्रसङ्गेन सर्वेदं कथितं मन्त्रजापिनाम्।

यक्षराट् स्तुष्टमनसो मूर्ध्नि कृत्वा तु अञ्जलिम्॥

प्रणम्य शिरसा शास्तुरभ्युवाच गिरां मुदा।

अनुग्रहार्थं तु लोकानां कथितं ह्यग्रबुद्धिना॥

ममैवमनुकम्पार्थं सत्त्वानां च सुखोदया।

जापिनां सर्वमन्त्राणां स्वप्नानां च शुभाशुभम्॥

चरितं गुणविस्तारं सत्त्वाधिष्टनिकृष्टिनाम्।

उत्तमा गति योनिभ्यो हेतुज्ञानविचेष्टितम्॥

अतीतानागतं ज्ञानं वर्तमानं शुभाशुभम्।

सर्वं सर्वगतं ज्ञानं सर्वज्ञज्ञानचेष्टितम्॥

अनाभास्यमनालम्ब्यं निःप्रपञ्चं प्रपञ्चितम्।

मन्त्राकारवरोपेतं शिवं शान्तिमुदीरितम्॥

प्रभावं सर्वबुद्धानां वर्णितं ह्यग्रबुद्धिना।

सर्वमन्त्रार्थयुक्तानां जापिनां च विशेषतः॥

कर्म कर्मफलं सर्वं क्रियाकालं तथैव च।

पात्रं स्थानं तथा वेषं स्वप्नप्रसङ्गे प्रचोदितम्॥

यक्षराण्मुनिवरं श्रेष्ठं सप्तमन्त्रतथागतम्।

भद्रकल्पे तु ये बुद्धाः सप्तमोऽयं शाक्यपुङ्गवः॥

शाक्यसिंहो जितामित्रः सप्तमोऽयं प्रकल्पितः।

युगाधमेऽभिसंबुद्धो लोकनाथो प्रभङ्करः॥

महावीर्यो महाप्राज्ञो महास्थामोदितो मुनिः।

वज्रपाणिस्तु तं यक्षो बोधिसत्त्वो नमस्य तम्॥

स्वकेषु आसने तस्थुस्तूष्णीम्भूतोऽथ बुद्धिमान्।

मञ्जुश्रियोऽथ महाप्राज्ञः पृष्टोऽसौ मुनिना तदा॥

अध्येषयति तं बुद्धं कन्यसं मुनिसत्तमम्।

साधु भगवां सम्बुद्धः कर्मज्ञान सविस्तरम्॥

जातकं + + + + ++ + + + + + + + + ++ सदा शुभम्॥

चरितं बहुसत्त्वानां कर्मज्ञानसहेतुकम्॥

निविष्टाविष्टचेष्टानां श्रेयसार्थार्थयुक्तिनाम्।

जापिनां सिद्धिनिमित्तानि साध्यसाध्यविकल्पिताम्॥

भूतिकामा तथा लोके ऐश्वर्याभोगकाङ्क्षिणाम्।

राज्यहेतुप्रकृष्टानां सिद्धिधारणकामिनाम्॥

सर्वं सर्वगतं ज्ञानं संक्षेपेण प्रकाशतु।

इत्युवाच मुनिः श्रेष्ठो अध्येष्टो जिनसूनुना॥

कलविङ्करुतो धीमान् दिव्यदुन्दुभिनादिनः।

ब्रह्मस्वरो महावीर्यपर्जन्यो घोषनिःस्वनः॥

बुद्धवाचोदितः शुद्धो वाचे गाथां सप्तमो मुनिः।

एष कुमार ! परार्थगतानां सिद्धिमजायत लोकहितानाम्।

श्रेयसिसर्वहितेजगतिप्रणितारोशुद्ध्यतुतिष्ठतुमोक्षविहूनाम्॥

सत्ययाक्षयवीर्यवां हि तच्चित्ता मदमैत्ररता स तदानरता ये।

सिद्धिभवे सद तेषु जनेषु नान्य कथञ्चन सिद्धिमुपेष्ये॥

मन्त्रवरे सद तुष्टिरता ये शासनि चक्रधरे तथा मञ्जुधरे वा।

धर्षयिमार प्रवर्त्तयि चक्रं सोऽपि ह चक्रधरो इह युक्तः॥

वाचा दिव्यमनोरम यस्या बालिशजन्तु विवर्जितनित्या।

दिव्यमनोरमकर्णसुखा च प्रेमणीया मधुरा अनुकूला॥

चित्तप्रह्लादनसौख्यप्रदा च मञ्जुरिति समुदीरय बुद्धा।

यस्य न शक्यमभावमजानं तेऽपि तथागतज्ञानविशेषैः॥

तेषु सुताथ च भूमिप्रविष्टा दिव्यप्रकृष्टदशतथागतसङ्ख्या।

तेऽपि सुरेश्वरलोकविशिष्टा दिव्यप्रभावमजानमशक्या॥

रूप्यः अरूप्या तथा अभूमा कामिकदिव्यं नृजा मनुजा वा।

योगिन सिद्धिं गता अथ लोके सर्वविशिष्ट तथा नरमुख्या॥

सत्त्वमसौ न स विद्यति कश्चिद् यो प्रतिजानि तु तस्य श्रिया मे।

एष सिरिपरिकल्पिततुल्यं मञ्जुसिरीति प्रतिजानि तु बुद्धाः॥

मञ्जुश्रियं परिकल्पिततुल्यं नाममियं तथ पूर्वजिनेभिः।

एष कृता तव संज्ञितकल्पे दिव्य अनागतबुद्धमतीतैः॥

नामश्रुणि पर्यस्तव शुद्धो नास्य मनो भवि एकमनो वा।

तस्य मिमं शिवशान्ति भवेयं बोधिवरा भवि अग्रविशिष्टा॥

मन्त्र अशेष तु सिद्ध भवेया उत्तमयोनि गति लेभे।

उत्तमिधर्मि समाश्रयि नित्य विघ्नविवर्जित सिद्धि भवेया॥

ईप्सितमन्त्र प्रसाधयि सर्वां क्षिप्र स गच्छति बोधि ह मञ्जुम्।

लप्स्यति बोधिगतो मुनिमुख्यः गत्व निषीदति सत्त्वहितार्थम्॥

बुद्धयि बोधिप्रवर्तयि चक्रं एष गुणो कथितो जिनमुख्यैः।

मञ्जुरितिशिरींत्वयिसंस्मरिनामंअचिन्त्यगुणाःकथिताजिनमुख्यैः॥

दर्शतु नित्यप्रभाव त्वदीयं पूर्वकसर्वगतैर्जिनमुख्यैः।

कल्पभणे या न शक्यमसङ्ख्यैः मन्त्रशता तव शुद्धकुमार !॥

मञ्जुश्रियं तव मन्त्रचर्यं भाषित सर्वमशेषकबुद्धैः।

एषं कुमार थ सर्वगता वै शासन तुभ्य रतोत्तम वीराः॥

शुद्धावासनिषण्णजना वै सत्त्वमशेषत ईहय सत्ता।

न क्रमिमन्त्र त्मदीय कदाचिं नापि कथञ्चिह ये तव मन्त्रय्॥ इति॥



आर्यमञ्जुश्रीमूलकल्पान्महायानवैपुल्यसूत्रात्

चतुर्दशमः गाथापटलनिर्देशविसरः

परिसमाप्तमिति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project