Digital Sanskrit Buddhist Canon

अथ पञ्चदशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha pañcadaśaḥ paṭalavisaraḥ

अथ पञ्चदशः पटलविसरः।



अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वस्तत्रैव पर्षन्मध्ये सन्निपतितोऽभूत्। सन्निषण्णः स उत्थायासनाद् भगवन्तं त्रिः प्रदक्षिणीकृत्य, भगवतश्चरणयोर्निपत्य, भगवन्तमेतदवोचत् – साधु साधु भगवन् ! सुदेशितं, सुप्रकाशितं परमसुभाषितं विद्यामन्त्रप्रयोगमहाधर्ममेघविनिसृतं सर्वतथागतहृदयं महाविद्याराजचक्रवर्तिनमहाकल्पविस्तरसर्वथापारिपूरकं सफलं सम्पादकबोधिमार्गनिरुत्तरं क्रियाभेदसंध्यजपहोमविद्यचर्यानुवर्त्तिनां मार्गं दृष्टफलकर्मप्रत्ययजनितहेतुनिमित्तमहाद्भुतदशबलाक्रमणकुशलबोधिमण्डमाक्रमणनियतपरायणम्। तत् साधु भगवां वदतु शास्ता मन्त्रसाधनानुकूलानि स्वप्नसन्दर्शनकालनिमित्तम्; येन विद्यासाधकानुवर्त्तिनः सत्त्वाः सिद्धिनिमित्तं कर्म आरभेयुः, सफलाश्च सर्वविद्याः कर्मनिमित्तानि भवन्ति रिति॥



एवमुक्ते भगवां शाक्यमुनिः वज्रपाणिं बोधिसत्त्वमेतदवोचत् – साधु साधुस्त्वं यक्षेश ! बहुजनहिताय त्व प्रतिपन्नः बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय सर्वविद्यासाधकानामर्थाय। तं शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्येऽहं ते॥



आदौ तावत् पूर्वकर्मारम्भं सर्वकर्मेषु निःसङ्गं स्थान गत्वा, पर्वताग्रे नदीकूले वा गुहाचत्वरकेषु वा, शुचौ देशे उडयं कृत्वा, पटे प्रतिष्ठाप्य महती पूजां कृत्वा, तेनैव विधिना पूर्ववत् सर्वकर्मेषु शुक्लपक्षे प्रातिहारपक्षे वा अवश्यं शुभेऽहनि रात्रौ प्रथमे यामे श्वेतचन्दनकर्पूरकुङ्कुमं चेकीकृत्य, खदिरकाष्ठैरग्निं प्रज्वाल्य, पटस्याग्रतश्चतुर्हस्तप्रमाणमाग्रथितः आहुतिं सहस्राष्टं जुहुयान्निर्धूमे विगतज्वाले चाङ्गारे तद होमान्ते पद्मपुष्पाष्टसहस्रं जुहुयात्। श्वेतचन्दनाभ्यक्ताम्। होमान्ते च भद्रपीठं मुद्रां बध्वा आसनं दद्यात् स्वमन्त्रस्य स्वमन्त्रेणैव। अनेन मन्त्रेण तु होमं कुर्यात् – नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - ॐ कुमाररूपिण दर्शय दर्शयमात्मनो भूति समुद्भावय स्वप्नं मे निवेद यथाभूतम्। हूँ हूँ फट् फट् स्वाहा।



अनेन मन्त्रेण कृतरक्षो होमकर्मणि सर्वान्यस्मिं कर्म कुर्यात्। ततो भयाग्रां कुशां संस्तीर्य कुशविण्डकशिरोपधानपूर्वशिरः पटस्याग्रतो नातिदूरे नात्यासन्ने स्वपेत् प्रथमं यामं जागरिकायोगमनुयुक्तः सर्वबुद्धबोधिसत्त्वानां प्रणम्य पापं च प्रतिदेश्य आत्मानं निर्यातयेत् सर्वबुद्धानाम्। ततो निद्रां वशमागच्छेत् यथा सुखमिति॥



प्रथमे यामे तु ये स्वप्ना तां विदुः श्लेष्मसम्भवाम्।

द्वितीये पित्तमुत्थानाद् गर्हिता लोकसम्भवा॥

तृतीये वातिकं विन्द्याच्चतुर्थे सत्यसम्भवाम्।

श्लेष्मिके स्वप्नमुख्ये तु ईदृशां पश्य वे सदा॥

मणिकूटां मुक्ताहारांश्च समन्ततः प्रभूताम्।

अम्भराशिं तृप्लुतं चात्मानं स पश्यति॥

समन्तात् सरिता कीर्णं महोदधिसमप्लुतम्।

तत्रस्थो मात्मदेहस्थो पश्ये चैव यत्र वै॥

तत्र तं देशमाकीर्णं पुष्करिण्यो समन्ततः।

प्लवं चोद्पानं च पानागारं च वेश्मनम्॥

उदकोघैरुह्यमानं तु पश्यैच्चैव समन्ततः।

हिमालयं तथाद्रिं वा स्फटिकस्थं महानदम्॥

नगं शैलं च राजं च स्फटीकाभिः समं चितम्।

मुक्ताजालसंछन्नं मुक्ताराशिं च पश्यति॥

महावर्षं जलौघं च पश्यतेऽसौ कहावहः।

श्वेतं सितं छत्रं पाण्डरं वापि भूषणम्॥

कुञ्जरं शुक्लरूपं वा कफिने स्वप्नमुच्यते।

सितं चामरपुरुषं वा अम्बरं वापि दर्शनम्॥

स्पर्शनं सैन्धवादीनां लवणानां च सर्वतः।

कर्पासं क्षौमपट्टं वा लोहरूप्यं तथागुरुम्॥

स्पर्शने ग्रसने चैव श्लेष्मिके स्वप्नमिष्यते।

माषाध्मातकाश्चैव तिलपिष्टा गुडोदना॥

विविधा माषभक्षास्तु कफिने स्वप्नमिष्यते।

स्वस्तिकापूपिका चान्ये कृसरा पायसा परे॥

तेषां भक्षणा स्वप्ने श्लेष्मिकस्य विधीयते।

शङ्कुल्या पर्पटा खाद्या विविधा सूपजातयः॥

स्पर्शनाद् भक्षणाश्चैव स्वप्ने श्लेष्माघबृंहणम्।

अनेकप्रकारपूर्वास्तु खाद्यभोज्यानुसम्मता॥

भक्षणास्पर्शनात्तेषां कफिने स्वप्नचेष्टितम्।

आशनं सयनं यानं वाहनं सत्त्वसम्भवम्॥

स्पर्शनारोहणाचैव प्रथमे यामे तु दर्शनम्।

स्वप्ना यदि दृश्येरं कफिने सर्वमुच्यते॥

एवंप्रकारा ये स्वप्ना जलसम्भवचेष्टिता।

विविधा वा खाद्यभोज्यानां श्लेष्मिकानां च दर्शनम्॥

तेषां स्वप्ने दृष्ट्वा वै श्लेष्मिकानां तु चेष्टितम्।

अचिन्त्यो ह्यन्येका कथिता स्वप्ना लोकनायकैः॥

पैत्तिकस्य तु स्वप्नानि द्वितीययामे हि देहिनाम्।

ज्वलन्तमग्निरूपं वा नानारत्नसमुद्भवाम्॥

अग्निदाहं महोल्कं वा ज्वलन्तं सर्वतो दिशः।

स्वप्ने पश्यते जन्तुः पित्तसम्मूर्च्छितो ह्यसौ॥

पद्मराग तथा रत्नं अन्यं वा रत्नसम्भवम्।

स्वप्ने दर्शनं विन्द्या पैत्तिकस्य तु देहिनः॥

अग्निसंसेवनादाघा स्पर्शनाद् भक्षणादपि।

विविधां पीतवर्णानां स्वप्ने पित्तमूर्च्छितैः॥

तपन्तं नित्यमादित्यं आतपं कटुकं सदा।

स्वप्ने यानि पश्येत पित्तान्तदेहमूर्च्छितः॥

हेमवर्णं तदाकाशं पीतवर्णं महीतलम्।

स्वप्ने योऽभिपश्येत पित्तग्लान्यसम्भवा॥

समन्ताज्ज्वलितं बह्निं द्योतमानं नभस्तलम्।

पश्यते स्वप्नकालेऽस्मिं पित्ताक्रान्तो हि देहिनः॥

हेमवर्णं तदा भूमिं पर्वतं वा शिलोच्चयम्।

महानागं तथा यानं सर्वं हेममयं सदा॥

पश्यते नित्यस्वप्नस्थो पित्तचेष्टाभिमूर्च्छितः।

सर्वं हेममयं भाण्डं यानं भूषणवाहनम्॥

आसनं शयनं चापि जातरूपसमुद्भवम्।

स्पर्शनारोहणाच्चैव पैत्तिकं स्वप्नदर्शनम्॥

पीतमाल्याम्बरसंवीतः पीतवस्त्रोपशोभितः।

पीतनिर्भासगन्धाढ्यो पीतयज्ञोपवीतिनः॥

पीताकारं च आत्मानं स्वप्ने योऽभिपश्यति।

पित्तमूर्च्छासमुत्थानाद् द्वितीये यामे तु दर्शनात्॥

एवंप्रकारा विविधा वा येभ्यः स्वप्नानुवर्णिताः।

विविधा पीतनिर्भासा स्वप्ना पित्तसमुद्भवा॥

मध्यमे यामनिर्दिष्टा पित्तकान्तानु देहिनाम्।

अनेकाकाररूपास्तु पीताभाससमुद्भवाः॥

कथिता लोकमग्रैस्तु स्वप्नाः पित्तसमुद्भवाः।

वातिका ये तु स्वप्ना वै तृतीये यामे नु कथ्यते।

प्रभास्वरा समन्ताद्वै दिशः सर्वा नु दृश्यते।

आकाशगमनं चापि तिर्यं चापि नभस्तले॥

समन्ता ह्यटते नित्यं आकाशे च नभस्तलम्।

वातिकं स्वप्नमित्युक्तं ईदृशं तु विधीयते॥

प्लवनं लङ्घनं चैव तरूणां चाभिरोहणम्।

पठनं सर्वशास्त्राणां मन्त्राणां च विशेषतः॥

भाषणं जल्पनं चापि प्रभूतं चापि वातिके।

रोहणं कण्टकवृक्षाणां भक्षणं वातितिक्तकम्॥

कट्वम्लं सर्वखाद्यानां भक्षणं चापि वातिके।

वातसङ्कधमुख्यानां फलानां वातिकोपिताम्॥

तेषां तु भक्षणे स्वप्ने निर्दिष्टा वातसम्भवा।

भक्षाहारविशेषाणां द्रव्याणां च वातलम्॥

क्षिप्तचित्ता तथा जन्तु स्पर्शनाद् भक्षणादपि।

भृत्यता सर्वभूतानां दर्शनाच्चापि आत्मनाम्॥

स्वप्ने यो हि पश्येत् तादृशं वातिकं विदुः।

विविधाकारचेष्टां तु विविधलिङ्गनभाषिता॥

विविधाघोरभाषास्तु वातिके स्वप्नदर्शने।

एवमादीनि स्वप्नानि कथिता लोकपुङ्गवैः॥

त्रिधा प्रयोगाद्यु युक्तानि रागद्वेषमोहिनाम्।

रागिणां विन्द्याच्छलेष्मजं पैत्तिकं द्वेषमुद्भवम्॥

मोहजं वातिकं चापि व्यतिमिश्रं विमिश्रितः।

स्वप्नोपघातं रागाख्यं ग्राम्यधर्मं तु दर्शनम्॥

स्त्रीषु सङ्ख्या भवेत् तत्र स्वप्ने श्लेष्मसमुद्भवे।

द्वेषिणां कलहशीलाख्यं स्वप्ने पित्तसमुद्भवे॥

मोहजं स्तिमिताकारं स्मृतिनष्टोपदर्शने।

व्यतिमिश्रेण संयुक्तोस्तु स्वप्ना दृश्यन्ति वै सदा॥

तस्मात् सर्वप्रकारेण स्वप्नाख्यं सत्त्ववर्जितम्।

क्रियाकालसमश्चैव निर्दिष्टस्तत्त्वदर्शिभिः॥

श्लेष्मिकाणां कथिता सत्त्वा वर्णवन्तः प्रियंवदा।

दीर्घायुषोऽथ दुर्मेधा स्निग्धवर्णा विशारदा॥

गौराः प्रांशुवृत्ताश्च स्त्रीषु सङ्गे सदा रताः।

धर्मिष्ठा नित्यशूराश्च बहुमानाभिरताः सदाः॥

नक्षत्रे जातिनिर्दिष्टः मत्सरास्यादचिह्निते।

महीपाला तथा चान्ये सेनापत्यार्थसंस्थिते॥

जायते भोगवत्याश्च यथाकर्मोपजीविनः।

स्वकर्मफलनिर्दिष्टं न मन्त्रं कर्मवर्जितम्॥

न कर्मं मन्त्रमुख्यं तु कथितं लोकनायकैः।

तस्मात् श्लेष्मिके सत्त्वे सिद्धिरुक्ता महीतले॥

भूम्याधिपत्यं महाभोगे सिद्धिमायातु तस्य तु।

आहारां श्लेष्मिकां सर्वां नातिसेवी भवेज्जपी॥

अत्यर्थं सेविता ह्येते स्वप्ना शुद्ध्यार्थसम्भवा।

ता न सेवे तदा मन्त्री भिद्यर्था तु वर्णितः॥

नापि स्वपे तदा काले युक्तिमन्तो विचक्षणः।

पैत्तिकस्या तु सत्त्वस्य कथ्यते चरितं सदा॥

द्वेषाकारक्रुद्धं तु कृष्णवर्णोऽथ दुर्बलः।

क्रूरः क्रूरकर्मा तु सदा वक्रो विधीयते॥

शूरः साहसिको नित्यं बलबुद्धिसमन्वितः।

वह्वभाष्ये बहुमित्रा बहुशास्त्रसमाधिगः॥

धार्मिकः स्थिरकर्मान्तः द्वेषमुत्थानवर्णितः।

मनस्वी बहुशक्रश्च जायते द्वेषलक्षितः॥

शूर द्वेषी च बह्वार्थो लोकज्ञो प्रियदर्शनः।

निर्मुक्तो निःस्पृहश्चापि धीरो दुःसहः सदा॥

मानी मत्सरः क्रुद्धः स्त्रीषु कान्तो सदा भवेत्।

महोत्साही दृढमन्त्री च महाभोगोऽथ जायते॥

आक्रम्य चरते सत्त्वां यथाकर्मानुलब्धिनाम्।

नित्यं तस्य सिद्ध्यन्ते मन्त्राः प्राणोपरोधिनः॥

क्षिप्रं साधयते ह्यर्थां दारुणां मुनिरूर्जिताम्।

सत्त्वोपघाताः यः कर्माः सिद्ध्यन्ते तस्य देहिनः॥

विविधप्रयोगास्तु ये कर्माः प्रयुक्ता सर्वमन्त्रिणाम्।

आदरा ते तु सिद्ध्यन्ते नान्यसत्त्वेषु कर्मसु॥

द्वेषिका ये तु मन्त्रा वै परसत्त्वानुपीडिनः।

परमन्त्रा तथा च्छिन्दे क्रोधसत्त्वस्य सिद्ध्यति॥

परद्रव्यापहारार्थं परप्राणोपरोधिनः।

सिद्ध्यन्ते क्रोधमन्त्रास्तु नान्यमन्त्रेषु योजयेत्॥

कुरुते चाधिपत्यं वै एष सत्त्वोऽथ द्वेषजः।

कृष्णवर्णोऽथ श्यामो वा गौरो वाथ मिश्रितः॥

जायते क्रोधनो मर्त्यो हेमवर्णविवर्जितः।

रूक्षवर्णोऽथ धूम्रो वा कपिलो वा जायते नरः॥

शूरः क्रूरः तथा लुब्धः वृश्चिकाराशिमुद्भवः।

अङ्गारग्रहक्षेत्रस्थः श्लेष्मणाय बृहस्पतेः॥

जायते ह्यल्पभोजी स्यात् कट्वंम्लरससेविनः।

आयुष्यं तस्य दीर्घं तु स्मृतिमन्त्रोऽथ जायते॥

वातिकस्य तु वक्ष्येऽहं चरितं सत्त्वचेष्टितम्।

विवर्णो रूक्षवर्णस्तु प्रमाणो नातिदुर्वलः॥

नष्टबुद्धिः सदा प्राज्ञो हृत्स्थिरो ह्यनवस्थितः।

गात्रकम्पं भ्रमिश्चापि छर्दि प्रश्रवनं बहुः॥

बह्वासी नित्यभोजी च बह्वावाचो भवे हि सः।

विरुद्धः सर्वलोकानां बह्वमित्रोऽथ जायते॥

दुःशीलो दुःखितश्चापि जायतोऽसौ महीतले।

अन्तर्द्धानिकमन्त्रा वै तस्य सिद्धिमुदाहृतम्॥

वातप्रकोपना ये भक्षास्ते तस्यानुवर्तिनः।

तं न सेवेत् सदा जापी कर्मसिद्धिमकांक्षयम्॥

मोहामुद्भवमेषां तु सत्त्वानां वातकोपिनाम्।

मोहजा कथिता ह्येते मूढमन्त्रप्रसाधिता॥

नित्यं तेषु मूढानां मोहानां सिद्धिरिष्यते।

नक्षत्रे जलजाराशौ ग्रहसत्यार्थमीक्षिते॥

नाचरेच्छुभकर्माणि वातिके सत्त्वमुर्च्छिते।

वश्याकर्षणभूतानां मोहनं जम्भनं तथा॥

वातिकेष्वपि सत्त्वेषु मोहजैः पापमुद्भवैः।

कथिता लक्षणा ह्येते स्वप्नानां सत्यदर्शना॥

मुनिभिर्वर्णिता ह्येते पुरा सर्वार्थसाधका।

मेषो वृषो मिथुनश्च कर्कटः सिंह एव तु॥

तुला कन्या तथा वृश्चीश्च धनुर्मकर एव तु।

कुम्भमीना गजः दिव्यं वानरमसुर एव तु॥

सिद्धगन्धर्वयक्षाद्या मनुजानां ये प्रकीर्तिता।

राशयो बहुसत्त्वानां कथिता ह्यग्रपुङ्गवैः॥

बहुप्रकारा विचित्रार्था विविधा कर्मवर्णिता।

तेषु सर्वेषु कर्मे च फलन्ति गुणविस्तराः॥

न कर्मगुणनिर्मुक्तं पठ्यते खलु देहिनाम्।

गुणे च कर्मसंयुक्तः करोति पुनरुद्भवम्॥

गुणं धमार्थसंयुक्तं सिद्धिमन्त्रेषु जायते।

जापी गुणतत्त्वज्ञः कर्मबन्धगुणागुणम्॥

न हितां कुरुते कर्म यद् गुणेष्वपि सत्क्रियाम्।

क्रिया हि कुरुते कर्म न क्रिया गुणवर्जिता॥

क्रियाकर्मगुणां चैव संयुक्तः साधयिष्यति।

विधिपूर्वं क्रिया कर्म उक्तं दशबलैः पुरा॥

क्रिया कर्मगुणा ह्येते द्रष्टा सत्त्वोपचेष्टिता।

विविधा स्वप्नरूपास्तु दृश्यन्ते कर्ममुद्भवाः॥

तस्मात् स्वप्ननिमित्तेन प्रयोज्याः कर्मविस्तराः।

विधाकारचित्राश्च मनोज्ञाः प्रियदर्शनाः॥

विघ्नरूपाः अरूपाश्च दृश्यन्ते स्वप्नहेतवः।

महोत्साहा महावीर्या सिद्धिमाकांक्षिणो नराः॥

उत्तमाधममध्येषु सिद्धिस्तेषु प्रकल्प्यते।

रौद्राः क्रूरकर्मास्तु स्वप्ना सद्यफला सदा॥

उत्तमा ध्रुवकर्मासु चिरकालेषु सिद्धये।

लौकिका लोकमुख्यानां गुणोत्पादनसम्भवाः॥

दृश्यन्ते विविधाः स्वप्ना जापिनां मन्त्रसिद्धये।

असिद्ध्यर्थं तु मन्त्राणां निद्रा तन्द्री प्रकल्प्यते॥

विघ्नघातनमन्त्रं तु तस्मिं काले प्रकल्प्यते।

युक्तिरूपा तदा मन्त्रा जापिनां तं प्रयोजयेत्॥

षड्भुजोऽथ महाक्रोधः षण्मुखश्चैव प्रकल्पिते।

चतुरक्षरो महामन्त्रः कुमारे मूर्त्तिनिसृतः॥

घोररूपो महाघोरो वराहाकारसम्भवः।

सर्वविघ्नविनाशार्थं कालरात्रं तदेव राट्॥

व्याघ्रचर्मनिवस्तस्तु सर्पाभोगविलम्बितः।

असिहस्तो महासत्त्वः कृतान्तरूपी महौजसः॥

निर्घृणः सर्वविघ्नेषु विनायकानां प्राणहन्तकृत्।

शृण्वन्तु सर्वभूता वै मन्त्रं तन्त्रे सुदारुणम्॥

नाशको दृष्टसत्त्वानां सर्वविघ्नोपहारिकः।

साधकः सर्वमन्त्राणां देवसङ्घा शृणोथ मे॥



नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - हे हे महाक्रोध ! षण्मुख ! षट्चरण ! सर्वविघ्नघातक ! हूँ हूँ। किं चिरायसि विनायक ! जीवितान्तकर ! दुःस्वप्नं मे नाशय। लङ्घ लङ्घ। समयमनुस्मर फट् फट् स्वाहा॥



समनन्तरभाषितोऽयं महाक्रोधराजा सर्वविघ्नविनायकाः आर्ताः भीताः भिन्नहृदयाः त्रस्तमनसो भगवन्तं शाक्यमुनिं, मञ्जुश्रियं कुमारभूतं नमस्कारं कुर्वते स्म। समये च तस्थुः॥



अथ भगवान् शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य, त च महापर्षन्मण्डलं, एवमाह - भो भो देवसङ्घाः ! अयं क्रोधराजा सर्वलौकिकलोकोत्तराणां मन्त्राणां साध्यमानानां यो हि दुष्टसत्त्वः जापिनं विहेठयेत्, तस्यायं क्रोधराजा सकुलं दमयिष्यति। शोषयिष्यति। न च प्राणोपरोधं करिष्यति। परिताप्य परिशोष्य व्यवस्थायां स्थापयिष्यति। जापिनस्य रक्षाधरणगुप्तये स्थास्यति। अनुबृंहयिष्यति। यो ह्येवं समयमतिक्रमेत् क्रोधराजेन कृतरक्षं साधकं विहेठयेत्॥

सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी।

इत्येवमुक्त्वा मुनिश्रेष्ठो मञ्जुघोषं तदाब्रवीत्॥

कुमार ! त्वदीयमन्त्राणां सकलार्थार्थविस्तराम्।

मन्त्रतन्त्रार्थमुक्तानां साधकानां विशेषतः॥

क्रोधराट् कथितं तन्त्रे सर्वविघ्नप्रनाशनम्।

लोकनाथै पुरा ह्येतत् तथैव सन्नियोजितम्॥

दुष्टविघ्नविनाशाय अरीणां क्रोधनाशनम्।

जापिनां सततं ह्येतन्निशासु पठयेत्सदा॥

एष रक्षार्थसत्त्वानां दुःस्वप्नानां च नाशनम्।

कथितं लोकमुख्यैस्तु सर्वमन्त्रार्थसाधने॥

अतः परं प्रवक्ष्यामि पुरुषाणां लक्षणं शुभम्।

येषु मन्त्राणि सिद्ध्यन्ते उत्तमाधममध्यमा॥

तेजस्वी च मनस्वी च कनकाभो महोदरः।

विशालाक्षोऽथ सुस्निग्धो मन्दरागी क्रोधवर्जितः॥

रक्तान्तनयन प्रियाभाषी उत्तमं तस्य सिद्ध्यति।

तनुत्वचोऽथ श्यामाभो तन्वङ्गो नातिदीर्घकः॥

महोत्साही महोजस्कः सन्तुष्टो सर्वतः शुभः।

उत्कृष्टो योनितः शुद्धः अल्पेच्छेथ दुर्बलः॥

तस्य सिद्धिर्ध्रुवा श्रेष्ठा दृश्यते सर्वकर्मसु।

अहीनाङ्गोऽथ सर्वत्र पूर्वश्यामो महौजसः॥

अक्लिष्टचित्तो मनस्वी च ब्रह्मचारी सदा शुचि।

+ वासाभिरतो नित्यं लोकज्ञो धर्मशीली च॥

बहुमित्रो सदा त्यागी मात्रा च चरतो सदा।

शुचिनः दक्षशीलश्च शौचाचाररतः सदा॥

सत्यवादी घृणी चैव उत्तमा तस्य सिध्यति।

अव्यङ्गगुणविस्तारः कुलीनो धार्मिकः सदा॥

मातृपितृभक्तश्च ब्राह्मणातिथिपूजकः।

अतिकारुणिको धीरस्तस्यापि सिद्धिरुत्तमा॥

श्यामावदातः स्निग्धश्च अल्पभाषी सदा शुचिः।

मृष्टान्नभोजनाकांक्षी शुचिदाराभिगामिनः॥

लोकज्ञो बहुमतः सत्त्वस्तस्यापि सिद्धिरुत्तमा।

नातिहस्वो न चोत्कृष्टः भिन्नाञ्जनमूर्धजः॥

स्निग्धलोचनवर्णश्च शुचिः स्नानाभिरतः सदा।

रत्नत्रये च प्रसन्नोऽभूत् तस्यापि सिद्धिरुत्तमा॥

उत्कृष्टकर्मप्रयुक्ता च सत्त्वानामाशयतद्विदः।

सहिष्णुः प्रियवाक्यश्च प्रसन्नो जिनसूनुना॥

लोकोत्तरी तदा सिद्धिः सफला तस्य शिष्यते।

महासत्त्वो महावीर्यः महौजस्को महाव्रती॥

महाभोगी च मन्त्रज्ञः सर्वतन्त्रेषु तत्त्ववित्।

वर्णतः क्षत्रियो ह्यग्रो ब्राह्मणो वा मनस्विनः॥

स्त्रीषु सेवी सदा रागी कनकाभोऽथ वर्णतः।

दृश्यते प्रांशुगौरश्च तुङ्गनासो महाभुज॥

प्रलम्बबाहु शूरश्च महाराज्याभिकांक्षिणः।

प्रसन्नो जिनपुत्राणां स्त्र्याख्यादेविपूजकः॥

रत्नत्रये च भक्तश्च बोधिचित्तविभूषितः।

अतिकारुणिको धीरः क्वचिद् रोषो महोजः क्वचित्॥

महाभोगी महात्यागी महोजस्को दुरासदः।

स्त्रीषु वल्लभशूरश्च तस्यापिं सिद्धिरुतमा॥

अतिमानरतः शूरः स्त्रीषु सङ्गी सदा पुनः।

कनकाभः स्वल्पभोजश्च विस्तीर्णः कठिनः शुचिः॥

घृणी कारुणिकः दक्षो लोकज्ञः बहुमतो गुणैः।

मन्त्रजापी सदा भक्तः जिनेन्द्राणां प्रभङ्करम्॥

तेषु श्रावकपुत्राणां खड्गिनां च सदा पुनः।

प्रभविष्णुलोकमुख्यश्च वर्णतः द्वितीये शुभे॥

अव्यङ्गः सर्वतः अङ्गैः क्रूरः साहसिकः सदा।

त्यागशीली जितामित्रो धर्माधर्मविचारकः॥

नातिस्थूलो नातिकृशो नातिदीर्घो न ह्रस्वकः।

मध्यमो मनुजः श्रेष्ठः सिद्धिस्तस्यापि उत्तमा॥

आताम्रनखसुस्निग्धः रक्तपाणितलः शुचिः।

चरणान्तं रक्ततः स्निग्धश्चक्रस्वस्तिकभूषितः॥

ध्वजतोरणमत्स्याश्च पताका पद्ममुत्पलाः।

दृश्यन्ते पाणिचरणयोः मनुजो लक्षलक्षणै॥

तादृशः पुरुषः श्रेष्ठः अग्रसिद्धिस्तु कल्प्यते।

शुक्लदंष्ट्रो असुषिरस्तुङ्गः सिखरिणः समाः॥

तुङ्गनासो विशालाख्यः संहतभ्रूचिबुके शुभाः।

गोपक्ष्मलोकचिह्नस्तु कृष्णदृक् तारकाञ्चितः॥

ललाटं यस्य विस्तीर्णं छत्राकारशिरः शुभः।

उष्णीषाकारशिरश्चैव कर्णौ शोभनतः शुभौ॥

सिंहाकारहनुः सदा अघरौ पक्वबिम्भसमप्रभौ।

पद्मपत्ररक्ताभा जिह्वा यस्य दृश्यते तालुकाचाभिरक्तिका॥

ग्रीवा कम्बुसदृशा पीनस्कन्धा समुद्भवा।

कक्षवक्षः शुभः श्रेष्ठः विस्तीर्णोरस्तथैव च॥

स्वल्पतो नाभिदेशश्च विस्तीर्णकठिनः शुभः।

गम्भीरप्रदक्षिणा नाभी सिराजाले अकुर्वता॥

प्रलम्बबाहुर्महाभुजः कटिसिंहोरचिह्नितः।

ऊरू चास्य वर्तुलकौ कौर्परौ खर्तवर्जितौ॥

एणेयजङ्घः सुसम्पन्नवर्तुलाश्च प्रकीर्तिताः।

चरणौ मांसलौपेतौ अङ्गुलीभिः समुन्नतौ॥

रक्तौ रक्तनखौ स्निग्धौ उन्नतौ मांसशोभितौ।

अथ शिरो महीतलावर्णौ शोभनौ प्रियदर्शनौ।

अश्लिष्टौ वर्णतः शुद्धौ प्रशस्तौ लोकचिह्नितौ॥

उपरिष्टात्तु तेषां वै शिराजाल अनुन्नतौ॥

पुरीषप्रस्रवणौ मार्गौ गम्भीरावर्तदक्षिणौ।

प्रशस्तौ स्वल्पतरौ नित्यं वृषणौ वर्तुलौ शुभौ॥

अवधौ अखण्डौ च अनेकश्चैव कीर्त्यते।

अङ्गजाते यदा शुद्ध्या रागान्ते च समाश्रितः॥

स्वप्नकाले चाहारे वृष्याणां खाद्यभोजनैः।

प्रश्रुतो वर्णतो नीलो रक्तो वा यदि दृश्यते॥

प्रभूतस्रावी स्निग्धश्च शुभलक्षणलक्षितैः।

तथाविधेये सत्त्वाख्ये उत्तमा सिद्धिरिष्यते॥

तृपुरीपी पुण्मूत्री च शौचाचाररतः शुचिः।

शयते यो हि यामान्ते प्रातरुत्थाति जन्तवः॥

तस्य शुद्धि सदा श्रेष्ठा दृश्यते सर्वकर्मिका।

फलां विविधाकारां सम्पदा बहु वा पुनः॥

अनुभोक्ता भवेन्मध्यैर्लक्षणैरभिलक्षितः।

नक्षत्रैश्च तथा जातः पुष्यै रेवतिफल्गुनैः॥

मघासु अनुराधायां चित्रारोहिणिकृत्तिकैः।

जनकः तेपु दृश्यस्थः समर्थो ग्रहचिह्नितः॥

प्रभातकाले यो जातः सिद्धिस्तेषु प्रदृश्यते।

मध्याह्ने प्रातरश्चापि अत्रान्ते च शुचिग्रहाः॥

शुक्ला सोमशुक्लाश्च पीतको बुधः बृहस्पति।

सामर्थ्यकार्यसिद्ध्यर्थं निरीक्ष्यन्ते सर्वजन्तूनाम्॥

अत्रान्तरे च ये जाता मनुजः शुभकर्मिणः।

तेषां सिद्ध्यन्त्ययत्नेन मन्त्राः सर्वार्थसाधने॥

मध्याह्नापरतेनैव रवावास्तमने सदा।

अत्रान्तरे सदा क्रूराः ग्रहाः पश्यन्ति देहिनाम्॥

आदित्याङ्गारकः क्रूराः केतुराहुशनिश्चरः।

ये च ग्रहमुख्यास्तु कम्पनिर्घात‍उल्किनः॥

तारा घोरतमश्चैव कृष्णारिष्टसमस्तथा।

कालमारकुरुः रौद्रो दृश्यते तस्मि कालतः॥

आदित्योदयकाले च बुधः पश्यति मेदिनीम्।

युगमात्रे रथत्युच्चे पश्यतेऽसौ बृहस्पतिः॥

शुक्रः परेण धनाध्यक्षो पश्यतेऽसौ युगे रवौ।

मध्याह्नादापूर्यते चन्द्रः दर्शनं चन्द्रदेहिनाम्॥

बुधकाले भवेद् राज्यं बृहस्पतो अर्थभोगकृत्।

शुक्रे धननिष्पत्तिः महाराज्यं भोगसम्पदम्॥

दीर्घायुष्मं तथा चन्द्रे ऐश्वर्यं चापि साफलम्।

मध्यंदिने तथा भानो मध्यदृष्टिसमोदिता॥

मध्याह्ने विगते नित्यं आदित्यो दिशमीक्षते।

युगमात्रे ह्नासिता नोच्चे केतुरेवमुदाहृताः॥

राहुः शनैश्चरश्चैव तमकालयुगान्तकः।

ततः परेणा ह्रस्यायां निष्टरिष्टोल्ककम्पकः॥

आताम्रेऽस्तं गते भानौ सिन्दूरपुञ्जवर्णिते।

योऽसौ ग्रहमुख्यस्तु बालदारकवर्णिनः रूपिणः॥

शक्तिहस्तो महाक्रूरः अङ्गारस्येव दर्शने।

ततो युगान्तार्पिते भानो शुभानां ग्रहयोनयः॥

आदित्यदर्शनाज्जातः क्रूरः साहसिको भवेत्।

सत्यकाङ्गारके जातः क्रुद्धलुब्धोऽभिमानिनः॥

केतुरिष्टातिधूम्राणां जनयन्ते व्याधिसम्भवा।

दरिद्रा व्याधिनो लुब्धा मूर्ध्वाश्चैव जना सदा॥

कालस्तमकम्पानां उल्किकां ग्रहकुत्सिताम्।

कम्पनिर्घातताराणामशनिश्चैव प्रतापिन॥

वज्रोरिष्टतथाचान्यां ऋक्षादीनां प्रकल्पते।

राहुदर्शनघोरस्तु दृश्यते सर्वजन्तुनाम्॥

दरिद्रानाथदुःशीला पापचौरनरा सदा।

जायन्ते दुःखिता मर्त्या जना व्याधिमाणया।

कुष्ठिनो बहुरोगाश्च काणखञ्जसदजुला॥

षण्डपण्डेऽनपत्याश्च दुर्भगाः स्त्रीषु कुत्सिता।

नरा नार्यस्तथा चान्ये दर्शनाग्रहकुत्सिताम्॥

जायन्ते बहुधा लोकां जातकेष्वेव जातका।

शुक्लपीतग्रहाः श्रेष्ठा तेषु जातिशुभोदयाः॥

वर्णतः शुक्लपीताभाः प्रशस्ता जिनवर्णिताः।

चत्वारो ग्रहमुख्यास्तु शुक्रचन्द्रगुरुर्बुधः॥

तेषां दर्शनसिद्ध्यर्थं जापिना सर्वकर्मसु।

बालिशानां च सत्त्वानां जातिरेव सदा शुभा॥

सर्वसम्पत्सदा मिष्टाः कथिता लोकपुङ्गवैः।

क्षणमात्रं तथोन्मेषनिमेषं चापि अच्छटम्॥

एषां संक्षेपते जाति कथिता लोकपुङ्गवैः।

एतन्मात्रं प्रमाणं तु ग्रहाणां लोकचिन्तिनाम्॥

उदयन्ते तथा नित्यं एतत्कालं तु तत्त्वतः।

श्रेयसा पापका ह्येते भ्रमन्ते चक्रवत् सदा॥

शुभाशुभकरा तेऽत्र मन्त्रं एकवत् सदा।

ते देवलोकसमासृता नु + + + + + + + + + + ॥

एतेषां क्वचित् किञ्चित् पापबुद्धिस्तु जायते।

शुभाशुभफलासत्त्वाज्जायन्ते बहुधा पुनः॥

स एषां दर्शनमित्याहुर्ग्रहाणां कर्मभोजिनाम्।

सत्त्वानां सत्त्वरमायान्ति शीघ्रगामित्वसत्वराः॥

दृश्यादृश्यं क्षणान्मेषमच्छटां त्वरिता गतिः।

ततः कालं प्रकल्प्येते + + + + + + + + + + + ॥

एतत्कालप्रमाणं तु दर्शितमग्रबुद्धिभिः।

अतः परं प्रवक्ष्यामि नियते जातके सदा॥

मुहूर्त्ता द्वादशाश्चैव कालं कालं यानुहेतवः।

अपात्रं चैव वक्ष्यन्ते सिद्धिहेतुर्न वा पुनः॥

शकुनं चैव लोकानां दृष्ट्यादृष्ट्य पुनः पुनः।

राष्ट्रभङ्गं च दुर्भिक्षं + + + नृपतेः शुभम्॥

कालाकालं तदा मार्यः शिवं चक्रे सदा जन।

केतुकम्पोऽथ निर्घातमुल्कं चैव सधूभिनम्॥

नक्षत्रवारताराणां चरितं च शुभाशुभम्।

चरितं सर्वभूतानां शिवशिवविचेष्टितम्॥

क्रव्यादां मातरांश्चैव रौद्रसत्त्वोपघातिनाम्।

दुष्टसत्त्वां तथा वक्ष्ये चरितं पिशिताशिनाम्॥

प्रसन्नाना देवता यत्र रत्नधर्माग्रबुद्धिनाम्।

शुभकर्मसदायुक्तां मैत्रचित्तदयालवाम्॥

साधुचेष्टार्थबुद्धीनां परपूर्त्तिसमाश्रिताम्।

आकृष्टा मन्त्रमुक्तीभिः ओपध्याहारहेतुनाम्॥

विस्तरं चरितं वक्ष्ये लक्षणं यत्र आश्रिताः।

परदेह समाश्रित्य तिष्ठन्ते मानुषा सृता॥

देवा पुनस्तमित्याहुरसुरा मानहेतुना।

द्विविधा तेऽपि तत्रस्था पार्षद्या सुरासुरा॥

तेऽपि तत्र द्विधा यान्ति क्रूर साधारणा पुनः।

तेऽपि तत्र द्विधा यान्ति शुभाशुभगतिपञ्चकम्॥

तत्रस्था त्रिविधा यान्ति विंशत्रिंशदसङ्ख्यकम्।

अकनिष्ठा यावदेवेन्द्रा यामासङ्ख्यमभूपकाः॥

अपर्यन्तं याव धातूनां लोकानां च शुभाशुभम्।

या वां संसारिका सत्त्वा यावां चार्यश्रावकाः॥

बुद्धप्रत्येकबुद्धानां तदौरसां च सूनुनाम्।

बोधिसत्त्वां महासत्त्वां दशभूमिप्रतिष्ठिताम्॥

सर्वसत्त्वा तथा नित्यं सत्त्वयोनिसमाश्रिताम्।

सर्वबालिसजन्तूनां गतियोनिसमाश्रिताम्॥

विनिर्मुक्तानां संसाराहे बुद्धानां सर्वार्याम्।

सर्वतो नित्यं लक्षणं चरितं सदा॥

वाचामिङ्गिततत्वं तु तेषां वक्ष्ये सविस्तरम्।

आकृष्टा सर्वभूतास्तु मन्त्रतन्त्रसयुक्तिभिः॥

आविष्टाकृष्टमन्त्रज्ञो परदेहसमाश्रिताम्।

कुशलैः कुशलकर्मज्ञैरप्रमत्तैः सजापिभिः॥

अमूढचरितैः सर्वैर्निग्रहानुग्रहक्षमैः।

आकृष्टा भूतला ले के मानुष्ये मन्त्रजापिभिः॥

तेषां सिद्धिनिमित्तं तु सर्वं वक्ष्ये तु तत्त्वतः।

तेषां देहानुरोधार्थं मानुषाणां सदारुजाम्॥

नित्यमत्यन्तधर्मार्थं मोक्षार्थं तु प्रकल्प्यते।

निग्रहं तेषु दुष्टानां विशुद्धानां तु पूजना॥

निग्रहानुग्रहं चैवं मन्त्रतन्त्रं प्रकल्प्यते।

वातः श्लेष्मपित्तानां त्रिविधात्र त्रिधा क्रिया॥

तेषां तु प्रकल्पयेच्छान्ति त्रिविधैव क्रमो मतः।

तत्र मन्त्रैः सदा कुर्यान्मानुषाणां चिकित्सितम्॥

महाभूतविकल्पस्तु भूतो भूताधिकः स्मृतः।

अभिभूतं तथाभूतैरधिभूतः स उच्यते॥

अधिभूतो यदा जन्तुरस्वास्थ्यं जनयेत् तदा।

भूतं भूतप्रकारं तु द्विविधं तु प्रकल्प्यते॥

सत्त्वभूतस्तथा नित्यमसत्त्वश्चैव प्रकल्प्यते।

पित्तश्लेष्म तथा चायुर्ये चान्ये + + + + + + + ॥

चत्वारश्च महाभूताः पञ्चममाकाशमिष्यते।

आपस्तेजो समायुक्तं पृथिवी वायुसमायुता॥

असत्त्वसङ्ख्यमित्याहुर्बुद्धिमन्तः सदा पुनः।

लोकाग्राधिपति ह्यग्रः इत्युवाच महाद्युतिः॥

असत्त्वसङ्ख्यं ह्यमानुष्यं + + + + + + + +।

मानुषं सत्त्वमित्याहुरग्रधीर्वदतां वरः॥

अमानुषं मानुषं वापि सत्त्वसङ्ख्यं सदैवतम्।

सत्त्वानां श्रेयसार्थं तु सार्वज्ञं वचनं पुनः॥

अतीतानागतैर्बुद्धैः प्रत्युत्पन्नैस्तथैव च।

भाषितं कर्ममेवं तु शुभाशुभफलोदयम्।

केवलं वचनं बुद्धानामवश्यं कर्म करोति।

तन्निमित्तं गोत्रसामान्यात् सिद्धिरेव प्रदृश्यते॥

सर्वज्ञं ज्ञानमित्याहुः क्षेमं शान्तं सदा शुचिम्।

निष्ठं शुद्धनैरात्म्यं परमार्थं मोक्षमिष्यते॥

तदेव वर्त्म सत्त्वेषु इदं सूत्रमुदाहृतम्।

तत्र मन्त्रसदोषध्या अशेषं वचनं जगे॥

भूतं भविष्यमत्यन्तं सर्वशास्त्रसुपूजितम्।

लोकाग्र्यं धर्मनैरात्म्यं सदाशान्तशिवं पदम्॥

एतत् सार्वज्ञवचनं निष्ठं तस्य परं पदम्।

केवलं तु प्रकल्प्येते सर्वज्ञज्ञानमुद्भवम्॥

प्रभावं सर्वबुद्धानां बोधिसत्त्वानां च धीमताम्।

मन्त्राणां सर्वकर्मेषु सिद्धिः सर्वत्र दर्शिता॥

अत एव मुनीन्द्रेण कल्पराजः प्रभाषितः।

अनेन वर्त्मना गच्छन्मन्त्ररूपेण देहिनाम्॥

निर्वाणपुरमाप्नोति शान्तनिर्जरसम्पदम्।

अशोकं विरजं क्षेमं बोधिनिष्ठं सदाशिवम्॥

य एष सर्वबुद्धानां शासनं मन्त्रजापिनाम्।

कथिते भूतले तन्त्रमशेषं मन्त्रजापिनाम्॥

सर्वं ज्ञानज्ञेयं च कर्महेतुनिबन्धनम्।

सर्वमेतं तु मन्त्रार्थं त्रिविधा बोधिनिम्नगा॥

अशेषज्ञानं तु बुद्धानामिह कल्पे प्रदर्शितम्।

सत्त्वानां च हितार्थाय सर्वलोकेषु प्रवर्तितम्॥

ये हास्ति कल्पराजेऽस्मिन्नान्यकल्पेषु दृश्यते।

योऽन्यकल्पेषु कथितं मुनिपुत्रैस्तु मुनिवरैः॥

ते हास्ति सर्वमन्त्राणां कल्पं विस्तरमेव तु।

अत एव जिनेन्द्रेण कथितं सर्वदेहिनाम्॥

महीतले च त्रिलोकेऽस्मिं न सौ वि + + + + ।

योऽस्मिन् कल्पराजेन्द्रे नानीतो न वशीकृतः॥

अस्तंगते मुनिचन्द्रे शून्ये भूतलमण्डले।

इह कल्पे स्थिते लोके शासनार्थं करिष्यति॥

कुमारः सर्वभूतानां मञ्जुघोषः सदा शुभः।

बुद्धकृत्यं तथा लोके शासनेऽस्मिन् करिष्यति॥

प्रभावं कल्पराजस्य चिरकालाभिलाषिणाम्।

श्रुत्वा सकृदधिमुच्यन्ते तेषु सिद्धिः सदा भवेत्॥

अवन्ध्यं सर्वभूतानां वचनेदं सदा शुभम्।

मन्त्रिणां सर्वभूतेषु जापहोम सदा रताम्॥

त्र्यद्विकेषु ज्ञानेषु ज्ञानं यत्र प्रवर्तते।

स एव प्रवर्तते अस्मिं कल्पराजे वरोत्तमे॥

मन्त्रप्रतिष्ठा बुद्धानां शासनं स इहोदितम्।

निर्विकल्पस्तु तं मन्त्रं विकल्पेऽस्मिं तदिहोच्यते॥

करोति सर्वसत्त्वानामर्थानर्थं शुभाशुभम्।

गतिबुद्धिस्तथा सत्त्वं लोकानां च शिवाशिवम्॥

स एष प्रपञ्च्यते कल्पे निःप्रपञ्चास्तथागता।

लोकातीता स्वसम्बुद्धा लोकहेतोरिहोच्यते॥

अधिकं सर्वधर्माणां लोकधर्मा ह्यतिक्रमा।

करोति विविधां कर्मी विचित्रां लोकपूजिताम्॥

मन्त्रराट् कर्मसूद्युक्तः सत्त्वराशेस्तथा हितः।

कुमारो मञ्जुघोषस्तु बुद्धकृत्यं करोति सः॥

तस्यार्थं गुणनिष्पत्तिलोकाधानं शुभाशुभम्।

अध्येष्टाहं प्रवक्ता वै नाध्येष्टा धर्ममुच्यते॥

केवलं सर्वसत्त्वानां हितार्थं बुद्धभाषितम्।

अतीतैः सर्वबुद्धैस्तु भाषितं तुं प्रवक्ष्यते॥

बुद्धवंशमविच्छिन्नं भविष्यत्यधिमुच्यते।

ते सर्वज्ञज्ञानमुद्भवमन्त्रिणां सर्वकर्मसु॥

सर्वज्ञज्ञानप्रवृत्तं तु कर्ममेकं प्रशस्यते।

पूर्वकर्म स्वकं लोके तदधुना परिभुज्यते॥

तस्मात् कर्म प्रकुर्वीत इह जन्मसु दुष्करम्।

मन्त्राः सिद्‍ध्यन्त्ययत्नेन कर्मबन्ध इहापि तम्॥

जन्मे सिद्धिः स्यादिह कर्मेऽपि दृश्यते।

तस्मात् सर्वबुद्धैस्तु कर्ममेकं प्रशंसितम्॥

विधियुक्तं तु तत् कर्म क्षिप्रं सिद्धि इहापि तत्।

भ्रमन्ति सत्त्वा विधिहीना बालिशास्तु प्रमोहित्ताः॥

तस्मात् सर्वप्रकारेण कर्म एकं प्रशंसितम्।

विधिं कर्मसमायुक्तं संयुक्तः साधयिष्यति॥

विधिहीनं तथा कर्म सुचिरेणापि न सिद्ध्यति।

न हि ध्यानैर्विना मोक्षं न मोक्षं ध्यानवर्जितम्॥

तस्माद्‍ध्यानं च मोक्षं च संयुक्ते बोधिमुच्यते॥ इति॥



आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् त्रयोदशमः सर्वकर्मक्रियार्थः पटलविसरः परिसमाप्त इति।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project