Digital Sanskrit Buddhist Canon

अथ त्रयोदशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha trayodaśaḥ paṭalavisaraḥ

अथ त्रयोदशः पटलविसरः।



अथ खलु भगवां शाक्यमुनिः पुनरपि पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयतेस्म। अस्ति मञ्जुश्रीः ! त्वदीयं मन्त्रपटलसमस्तविन्यस्तविशेषविधिना होमकर्मणि प्रयुक्तस्य विद्यासाधकस्य अग्न्योपचर्याविशेषविधानतः। यत्र प्रतिष्ठिता सर्वविद्याचर्यानियुक्ता सत्त्वा प्रयुज्यन्ते। कतमं च तत्॥



रहस्यविद्यामन्त्रपदानि। तद्यथा - ॐ उत्तिष्ठ हरिपिङ्गल ! लाहिताक्ष ! देहि ददापय। हूँ फट् फट् सर्वविघ्नां विनाशय स्वाहा। एष सः मञ्जुश्रीः ! परमाग्निहृदयं सर्वकर्मकरं सर्वकामदम्॥



आदौ तावत् साधकेन अनेनाग्निहृदयेन सकृज्जप्तं घृताहुतित्रयं अग्नौ होतव्यम्। अग्निराह्वानितो भवति। अथाप्रयुक्तस्य शान्तिकपौष्टिकरौद्रकर्मेषु त्रिधा समिधाकाष्ठानि भवन्ति॥



अशोककाष्ठं शान्त्यर्थे सार्द्रं चैव विशिष्यते।

वितस्तिहस्तमात्रं वा त्र्यङ्गुलं वापि चोच्छृतम्॥

स्निग्धाकारप्रशस्तं तु विधिरेषा विधीयते।

अकोटरं असुषिरं वापि शुकपत्रनिभं तथा॥

हरितं शुक्लवर्णं वा कृष्णवर्णं विवर्जयेत्।

कृमिभिर्न च भक्षितं वर्ज्यमकोटरं वापि सन्दधेत्॥

अन्यवर्णो प्रकृष्टास्तु अधर्मश्चैव वर्जिता।

नातिशुष्का न चार्द्रापि न च दग्धं समारभे॥

अपूतिं अवक्रं चैव अत्युच्चं चापि वर्जयेत्।

अग्निकुण्डं तथा कृत्वा चतुःकोणं समन्ततः॥

अधश्चेव खनेद्यत्नाच्चतुर्हस्तं प्रमाणतः।

त्रिहस्तं द्वे तु हस्तानि एकहस्तं तथैव च॥

प्राणिभिर्विवर्जितं नित्यं सिंहतासंस्थितं च तत्।

पद्माकारं ततो वेदिः समन्तान्मण्डलाकृतिः॥

चतुरश्रं चापि यत्नेन कुर्याच्चापाकृतिं तथा।

वज्राकारसङ्काशं उभयाग्रं त्रिसूचिकम्॥

कुर्यादग्निकुण्डेऽस्मिं द्विहस्ता तियंञ्च तत्।

शुचौ देशे परामृष्टे नदीकूले तथा वरे॥

एकस्थावरदेशे च श्मशाने शून्यवेश्मनि।

कु + द्धोमं सुसंरब्धो पर्वताग्रे तथैव च॥

शून्यदेवकुले नित्यं महारण्ये तथैव च।

यानि साधनदेशानि कथितान्यग्रपुड्गलैः॥

एतानि स्थानान्युक्तानि होमकर्मिति सर्वतः।

कुशविण्डकोपविष्टेन स्थित्वा हस्तमात्रं ततः॥

कुर्यात् तत्र मन्त्रज्ञो होमकर्म विशेषतः।

क्षिप्रमेभिः स्थितं सिद्धिः स्थानेष्वेव न संशयः॥

प्राङ्मुखो उदङ्मुखो वापि कुर्यात् शान्तिकपौष्टिके।

दक्षिणेन तु रौद्राणि तानि मन्त्री तु वर्जयेत्॥

प्राङ्मुखे शान्तिका सिद्धिः पौष्टिके चापि उदङ्मुखा।

एभिर्मन्त्री सदाकालं मन्त्रजापं तु मारभेत्॥

विल्वाम्रप्लक्षन्यग्रोधैः कुर्यात् कर्मणि पौष्टिकम्।

आभिचारुककाष्ठानि शुष्ककट्वाम्लतीक्ष्णकाः॥

तानि सर्वाणि वर्जीत निषिद्धा मुनिभिः सदा।

शान्तिके पौष्टिके कर्मे सार्द्रकाष्ठा प्रशस्यते॥

रौद्रकर्मे तथा कर्मा वर्जिता मुनिभिः सदा।

तेषामभावे समिधानां काष्ठं तेषां तु कल्पयेत्॥

समन्ता कुशसंस्तीर्णं उभयाग्रं तु कल्पयेत्।

हरितैः स्निग्धसङ्काशैर्मयूरग्रीवसन्निभैः॥

तथाविधैः कुशैर्नित्यं कुर्यात् शान्तिकपौष्टिकम्।

मरकताकाशसङ्काशैस्तथा शुष्कैः त्रिणैः सदा॥

कुर्यात् पावककर्माणि निषिद्धा जिनवरैरिह।

निर्मले चाम्भसो शुद्धे कृमिभिर्वर्जिते सदा॥

ततोऽभ्युक्ष्य समन्ता वै कुर्याच्चापि प्रदक्षिणम्।

ज्वालयेद् वह्नि युक्तात्मा उपस्पृश्य यथाविधि॥

शुचिना तृणमूलेन कुर्यादुल्का प्रमाणतः।

मुष्टिमात्रं ततो कृत्वा ज्वालयेद् वह्नि यत्नतः॥

न चापि मुखवातेन वस्त्रान्तेन वा सदा।

निवासनप्रावरणाभ्यां वर्जिता नान्यमम्वरे॥

न चापि हस्तवातेन उपहन्याभिरतेन वा।

शुचिव्यजनेन तथा वस्त्रे पर्णे चापि प्रवातये॥

समीरिते कृते वह्नौ एभिरुद्भूतमारुते।

ज्वालयेदधिमन्त्रज्ञो होमार्थी सुसमाहितः॥

त्रीन्वारां ततोऽभ्युक्षे कृत्वा वा अपसव्यकम्।

आहुतित्रयं ततो दद्या आज्ये गव्ये तु तत्र वै॥

ततो कुर्यात् प्रणामं वै सर्वबुद्धानतायिनाम्।

स्वमन्त्रमन्त्रनाथं च ततो वन्दे यथेष्टतः॥

अग्निहृदये ततो मन्त्रे जप्ते जप्तेन वै सदा।

आह्वयेद् वह्नियुक्तात्मा पुष्पैरेव सुगन्धिभिः॥

आह्वयति नित्यं मन्त्रज्ञो स्थानं दद्याद् विचक्षणः।

आसनं स्थानं दत्वा तु तेन मन्त्रेण नान्यवै॥

दधिप्लुतमाज्यमिश्रं तु मध्वाक्तं समिधां त्रयम्।

जुहुयादग्निपूजार्थं मन्त्रकर्मेण सर्वतः॥

उभयस्थं तदा कुर्यात् समिधानां द्रव्यमिश्रितम्।

आज्यमध्वक्तसंयुक्तां दध्यमिश्रे तथैव च॥

सहस्रं लक्षमात्रं वा शताष्टं चापि कल्पयेत्।

गुह्यमन्त्री तथा मन्त्रं सकृज्जप्त्वा क्षिपेत् शिखौ॥

ज्वालामालिने वह्नौ एकज्वाले तथैव च।

शान्तिकर्मणि जुह्वीत निर्धूमे चापि पौष्टिकम्॥

सधूमे रौद्रकर्माणि गर्हिते जिनवर्णिते।

होमकर्मप्रयुक्तस्तु अग्नौ वर्णो भवेद्यदि॥

शान्तिके सितवर्णस्तु शस्तं जिनवरैः सदा।

सिद्ध्यन्ति तत्र मन्त्रा वै सितेऽग्नौ जुह्वतो यदि॥

रक्तवर्णं तथा नित्यं पौष्टिकात् सिद्धिमिष्यते।

कृष्णे वा धूमवर्णे च कपिले चापि पायिकम्॥

इत्येषा त्रिविधा सिद्धिः त्रिधा वर्णप्रवर्तिता।

अन्यवर्णाभ्रवर्णा वा विविधाकारवर्णिता॥

न सिद्धिस्तेषु मन्त्राणां पुनरस्तीह महीतले।

तादृशं वर्णसङ्काशं विविधाकारवर्णितम्॥

शिखिं ज्वलन्तं दृष्ट्वा तु पुनः कर्मं समारभेत्।

भूयोऽपि कृतजापस्तु मन्त्रसिद्धिर्भवेद् यदि॥

पुनर्होमं प्रवर्तीत विधिदृष्टेन कर्मणा।

विसर्ज्याह्वानना चैव वह्निं मन्त्रमुदीरयेत्॥

पूर्वप्रकल्पितेनापि मण्डलेऽस्मिं यथाविधि।

तेनैव कुर्याद्धोमं वै विसर्जनाह्वाननकर्मणाम्॥

सर्वकर्माणि तेनैव कुर्यात् तत्रैव कर्मणि।

अग्निचर्या तथारूपं पटस्याग्रत मारभेत्॥

सिद्ध्यन्ति तत्र मन्त्रा वै पूर्वमुक्तं तथागतैः।

जिनवर्णितकर्माणि कुर्यान्न च तत्र वै सर्वतः॥

नान्यकर्माणि कुर्वीत पापकानि विशेषतः।

गर्हीता जिनवरैर्यद्व विरुद्धां लोककुत्सिताम्॥

उत्तिष्ठ चक्रवर्तिर्वा बोधिसत्त्वोऽथ भूमिपः।

पञ्चाभिज्ञं तथा लाभे देवत्वं वाथ सिद्ध्यति॥

पटेऽस्मिन् नित्ययुक्तज्ञो होमकर्मविशारदः।

पातालांधिपत्यं वा अन्तरीक्षचरामथ॥

भौम्यदेवयक्षत्वं यक्षीमाकर्षणे सदा।

राज्ये आधिपत्ये वा विषयेऽस्मिं ग्राम एव वा॥

विद्याधरमसुरत्वं सर्वसत्त्ववशानुगे।

आकर्षणे च भूतानां महासत्त्वां महात्मनाम्॥

बोधिसत्त्वां महासत्त्वां दशभूमिसमाश्रिताम्।

आनयेद्धोमकर्मेण किं पुनर्मानुषं भुवि॥ मिं

सेनापत्यं तथा लोके ऐश्वर्ये च विशेषतः।

सर्वभूतसमावश्यं नृपतत्वं तथापि च॥

वश्यार्थं सर्वभूतानां नृपतेर्वापि समं भुवि।

सर्वकर्मान् तथा नित्यं कुर्याद्धोमेन सर्वतः॥

सर्वतो सर्वयुक्तात्मा सर्वकर्म समाश्रयेत्।

नियतं सिद्‍ध्यते तस्य कर्म श्रेयोऽर्थमुत्तमम्॥

मध्यमाश्चैव तत्रैव सिद्धिमुक्ता त्रिधा पुनः॥

दृश्यते सफला सिद्धिः होमकर्मे प्रवर्तिते।

मुद्रा पञ्चशिखां बध्वा मन्त्रां चैव केशिनीम्॥

कुर्यात् सर्वकर्माणि आत्मरक्षावानुधीः।

होमकर्मे प्रवृत्तस्तु पठेन्मन्त्रमिमं ततः॥

सप्तजप्ताष्टजप्तं वा कर्मेऽस्मिं इदं सदा।

नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम्॥

तद्यथा - ॐ ज्वल तिष्ठ हूँ रु रु विश्वसम्भव सम्भवे स्वाहा।

अनेन मन्त्रप्रयोगेण जपे काष्ठं पुनः पुनः।

द्विजप्तं सप्तजप्तं वा जुह्यादग्नौ स मन्त्रवित्॥

पुष्पधूपगन्ध वा सर्वं चैव समन्ततः।

वारिणा मन्त्रजप्तेन अनेनैव तु प्रोक्षयेत्॥

ततो सर्वकर्माणि आरभेद् विधिहेतुना।

पूर्वप्रयोगेणैव कर्त्तव्यो सर्वकर्मसु॥

पूर्वपञ्चशिखां बध्वा महामुद्रां यशस्विनीम्।

कृतरक्षी ततो भूत्वा केशिन्या चैव सदा जपी॥

आरभेत् सर्वकर्माणि सिद्धिहेतो विशारदाः।

शकुना यदि दृश्यन्ते शब्दा चैव शुभा सदा॥

सफलास्तस्य मन्त्रा वै वरदाने यथेप्सतः।

आदिकर्मेषु प्रयुक्तस्तु प्रवृत्ता मन्त्रहेतुना॥

सफला सकला चैव सिद्धिस्तेषु विधीयते।

जयशब्द पटहो वा दुन्दुभीनां च निस्वनम्॥

सिद्धिः सर्वत्र ह्युक्ता होमकर्मे समाश्रितः।

अन्या वा शकुना श्रेष्ठा पक्षिणानां वा शुभा रुताः॥

विविधाकारनिर्घोषा शब्दार्था जिनवर्णिताः।

प्रशस्ता दिव्या मङ्गल्या दिव्या मनोज्ञा विविधा रुताः।

छत्रध्वजपताकांश्च योषिताचाप्यलङ्कृताः।

पूर्णकुम्भं तथा अर्धदर्शनं सिद्धिहेतवः॥

अनेकाकारवर्णा वा प्रशस्ता लोकपूजिता।

तेषां दर्शन सिध्यन्ते मन्त्रा विविधगोचरा॥ इति।



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्

आर्यमञ्जुश्रीमूलकल्पात् त्रयोदशमपटलविसरः परिसमाप्तमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project