Digital Sanskrit Buddhist Canon

अथ द्वादशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvādaśaḥ paṭalavisaraḥ

अथ द्वादशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि सर्वावन्तं शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। शृणु त्वं मञ्जुश्रीः ! त्वदीयं विद्यामन्त्रानुसारिणां सकलसत्त्वार्थसम्प्रयुक्तानां सत्त्वानाम्। येन जाप्यन्ते मन्त्राः येन वा जाप्यन्ते अक्षसूत्रविधिं सर्वतन्त्रेषु सामान्यसाधनोपयिकसर्वमन्त्राणाम्। तं शृणु साधु च सुष्ठु च मनसि कुरु। भाषिष्ये॥



एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्। साधु भगवां ! तद् वदतु अस्माकमनुकम्पार्थं सर्वमन्त्रचर्यानुसमयप्रविष्टानां सत्त्वानामर्थाय सर्वसत्त्वानां च॥



एवमुक्ते मञ्जुश्रिया कुमारभूतेन भगवानस्यैतदवोचत्। शृणु त्वं मञ्जुश्रीः ! भाषिष्ये विस्तरविभावशो; येन सर्वमन्त्रचर्याभियुक्ताः सत्त्वाः सर्वार्थां साधयन्ति। कतमं च तत्॥



आदौ तावन्मन्त्रं भवति। नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्। तद्यथा - ॐ कुरु कुरु सर्वार्थां साधय साधय सर्वदुष्ट विमोहनि ! गगनाबलम्बे ! विशोधय स्वाहा।



अनेन मन्त्रेण सर्वाक्षसूत्रेषु कर्माणि कुर्यात्। शोधनवेधनगृह्णनविरेचनादीनि कर्माणि कुर्यात् प्रथममक्षसूत्रेषु वृक्षं चाभिमन्त्रयेत्।



सप्तत्रिंशतिवाराणि कृतरक्षो व्रती तदा।

एकरात्रं स्वपे तत्र स्वप्ने चैव स पश्यति॥

अमनुष्यं रूपसम्पन्नं विरूपं वा चिरकालयम्।

क्रवते तस्य सौमित्री गृह्यमर्थयथावनः॥

ततोऽसौ साधको गच्छेत् प्रातरूथाय तं तरुम्।

चापि पश्यते स्वप्नं विरूपं वा महोत्कटम्॥

वर्जयेत् तं तरुं मन्त्री अन्यत्रं वाथ गच्छेय।

प्रथमं रुद्रमक्षं तु इन्द्रमक्षमतः परम्॥

पुत्रञ्जीवकमिष्टं वा अन्यं वा फलसम्भवः।

वृक्षारोहसुसम्पन्नैः सहायैश्चापि मारुहेत्॥

सहायानामभावेन स्वयं वा आरुहेज्जपी।

ऊर्ध्वशाखाफलस्था + + + + + + + + + + ॥

+ + + + ++ + + तस्मिं ऊर्ध्वशाखाविनिर्गतः।

ऊर्ध्वशाखां फलं गृह्य ऊर्ध्वकर्म प्रयोजयेत्॥

ऊर्ध्वे उत्तमा सिद्धिः कथितं ह्यग्रपुङ्गलैः।

मध्यमे मध्यमा सिद्धिः कन्यसे ह्यधमेवतु॥

फलं तेषु समादाय अकुप्सां प्राणिभिः सदा।

पश्चिमे शाखिनां प्राप्य सिध्यन्ते द्रव्यहेतवः॥

उत्तरे यक्षयोन्यादीं आनयेद्देवतां सह।

कृत्यमाकर्षः ख्यातो सर्वभूतार्थशान्तये॥

देवतासुरगन्धर्वा किन्नरामथ राक्षसा।

विधे सुकुरुते कर्मं सर्वभूतार्थपुष्टये॥

सफलां कुरुते कर्मां अशेषां भुवि चेष्टिताम्।

पूर्वायां दिशि ये शाखा तत्रस्था फलसम्भवा॥

तेषु कुर्यात् सदा यत्नाद् दीर्घायुष्यार्थहेतवः।

करोति विविधाकारां यत्र सिद्धिः फलैः सदा॥

या तु दक्षिणतो गच्छेत् शाखा पर्णानुशालिनी।

तं जपी वर्जयेद् यस्मात् सत्त्वानां प्राणहारिणी॥

दक्षिणासृतशाखासु फला ये तु समुच्छ्रिता।

अक्षैः तैः समं जप्याः शत्रूणां पापनाशनम्॥

तं जापी वर्जयेद् यत्नाद् बहुपुण्यानुहेतवः।

अधः शाखावलम्बस्था फला ये तु प्रकीर्तिता॥

गच्छेद् रसातलं तैस्तु दानवानां च योषिताम्।

तैः फलैः अक्षसूत्रं तु गृहीता सम्प्रकीर्तिता॥

अघो या यां तु निलयाः पातालं तेन तं व्रजेत्।

प्रविश्य तत्र वै दिव्यं सौख्यामासाद्य जापिनः॥

आसुरीभिः समासक्तो तिष्ठेत् कल्पं वसेच्चसौ।

गृह्य अक्षफलं सर्वां ततो अवतरेज्जपी॥

कृतरक्षो सहायैस्तु ततो गच्छेद् यथासुखम्।

गत्वा तु दूरतः स्थानं शुचौ देशे तथा नित्यम्॥

तिष्ठेत्तत्र तु मन्त्री शोधयेमक्षमुद्भवाम्।

गृह्य अक्षफलद्युक्तो संशोध्यं वाथ सर्वतः॥

संशोध्य सर्वतः अक्षां वेधयेन्मन्त्रशालिनः।

तृसप्तरष्ट एकं वा वारां ते एकविंशति॥

शोधयेन्मत्रसत्त्वज्ञो पूर्वमन्त्रेण तुः सदा।

सप्तजप्तेथमष्टैर्वा ततो शुद्धिः समिष्यते॥

कन्याकर्तितसूत्रेण पद्मनालासमुत्थितैः।

त्रिगुणैः पञ्चभिर्युक्तो कुर्याद् वर्त्तितकं व्रती॥

तं ग्रन्थेन्मन्त्रतत्त्वज्ञो फलां सूक्ष्मां सुवर्तुलाम्।

अच्छिद्रां प्राणकैर्नित्यं अव्यङ्गां वाप्यकुत्सिताम्॥

शोभनां चारुवर्णांस्तु अच्छिद्रामस्फुटितां तथा।

रुद्राक्षं सुतजीवं वा इन्द्राक्षफलमेव तु।

अरिष्टां शोभनां नित्यं अव्यङ्गां फलसम्मताम्।

ग्रथेन्मन्त्री सदा ह्युक्तो अक्षमालां तु यत्नतः॥

सौवर्णमथ रूप्यं वा माणिक्यं स्फाटिकं समम्।

शङ्खं सुसारं चैव मौक्तं वापि विधीयते॥

प्रवालैर्विविधा माला कुर्यादक्षमालिकाम्।

अन्यरत्नांश्च वै दिव्यान् कुर्यात् शुभमालिकाम्॥

पार्थिवैर्वर्तुलैर्गुलिकैर्ग्रथेत् सूत्रे समाहितः।

अन्यं वा गुलिकां किञ्चित् फलैर्वा धातुसम्भवैः॥

कुशाग्रग्रथिकां चैव कुर्याद् यत्नानुजापिनः।

शताष्टं पञ्चविंशं वा पञ्चाशं चैव मध्यमाम्॥

एतत्प्रमाणमालां तु ग्रथेन्मन्त्री समाहितः।

सहस्रं साष्टकं चैव कुर्यान्मालां तु ज्येष्ठिकाम्॥

एतच्चतुर्विधां मालां ग्रथितं नित्यमन्त्रिभिः।

ततो ग्रथितुमाला वै त्रिमात्रां द्विक एव वा॥

पुष्पलोहमयैः कटकैः सौवर्णैः रजतैस्तथा।

ततो ताम्रमयैर्वापि ग्रथेन्माला समासतः॥

ततोऽन्ते पाशकं कृत्वा न्यसेत् तदानुपूर्वतः।

वेष्टयेत् तं तृसन्ध्यन्ताद् यथा बद्धोऽवतिष्ठति॥

परिस्फुटं तु ततो कृत्वा मण्डलाकारदर्शनम्।

सर्वभोगतथाकारं परिवेष्ट्याभिभूषितम्॥

मुक्ताहारसमाकारो कण्ठिकाकारनिर्मितः।

स्नात्वा शुभे अम्भे सरिते वापि निर्मले॥

स्नात्वा च यथापूर्वं उत्तिष्ठे सलिलालयात्।

उपस्पृश्य यथायुक्त्या गृह्यमक्षाणुसूत्रितम्॥

प्रक्षाल्य पञ्चगव्यैस्तु तथा मृत्तिकचूर्णिकैः।

प्रक्षाल्य शुभे अम्भे सुगन्धैश्चानुलेपनैः॥

प्रशस्तैर्वर्णकैश्चापि श्वेतचन्दनकुङ्कुमैः।

प्रक्षाल्य यत्नतो तस्मात् ततो गच्छेदुडयं तथा॥

यथास्थानं तु गत्वा वै यत्रासौ पटमध्यमः।

जिनश्रेष्ठो मुनिर्मुख्यो शाक्यसिंहो नरोत्तमः॥

शास्तुबिम्बे तथा नित्यं भुवि धातुवरे जिने।

त + + + + + + + + + + + ++ + + + + + समीपतः॥

संस्थाप्य पटे तस्मिं अग्रते समुपस्थिते।

सहस्राष्टशतं जप्तं शतं चैकत्र साष्टकम्॥

अहोरात्रोषितो भूत्वा ददौ मालां मुनिसत्तमे।

कृतजापी तथा पूर्वं प्रमाणेनैव तत्समः॥

परिजप्य ततो मालां रात्रौ तत्रैव संन्यसेत्।

स्वपेत् तत्रैव मन्त्रज्ञः कुशसंस्तरणे भुवि॥

स्वप्ने यद्यसौ पश्य शोभनां स्वप्नदर्शनाम्।

सफलां स्वप्ननिर्दिष्टां सिद्धिस्तस्य विधीयते॥

बुद्धश्रावकखड्गीणां स्वप्ने यद्य दृश्यते।

सफलं सिद्‍ध्यंते मन्त्री ध्रुवं तस्य विधिक्रिया॥

कुमाररूपिणं बालं विचित्रं चारुदर्शनम्।

स्वप्ने यद्यसौ दृष्ट्वा मालां दद्या तथैव च॥

अमोघं तस्य सिद्ध्यन्ते मन्त्रा सर्वार्थसाधका॥ इति।



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्

आर्यमञ्जुश्रियमूलकल्पाद् मध्यमपटविधानविसराद् द्वादशमः अक्षसूत्रविधिपटलविसरः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project