Digital Sanskrit Buddhist Canon

अथैकादशः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Athaikādaśaḥ paṭalavisaraḥ

अथैकादशः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। अस्ति मञ्जुश्रीः ! त्वदीयें मध्यमं पटविधानं मध्यमकर्मोपयिकसाधनविधिः समासतो तां भाषिष्ये। तं शृणु। साधु च सुष्ठु च मनसि कुरु। भाषिष्ये॥



अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेवमाहः– तद् वदतु भगवां लोकानुकम्पको शास्ता सर्वसत्त्वहिते रतः। यस्येदानीं कालं मन्यसे। अस्माकमनुकम्पार्थमनागतानां च जनतामवेक्ष्य।



एवमुक्ते भगवां मञ्जुश्रिया कुमारभूतेन भगवानेतदवोचत् – शृणु मञ्जुश्रीः ! आदौ तावद् शीलव्रतशौचाचारनियमजपहोमध्यानविधिं यत्र प्रतिष्ठिता सर्वमन्त्रचर्यासाधनकर्माण्यवन्ध्यानि भवन्ति सफलानि। आशु च सर्वमन्त्रचर्यासाधनकर्मान्यवन्ध्यानि भवन्ति सफलानि। आशु च सर्वमन्त्रप्रयोगानि सिद्धिं गच्छन्ति। कतमं च तत्। भाषिष्येऽहं शृणु कुमार !॥



आदौ तावद् विद्याव्रतशीलचर्यासमादानं प्रथमत एव समाददेत्। प्रथमं तावन्मण्डलाचार्योपदेशनसमयमनुप्रविशेत्। त्वदीयं कल्पराजोक्तं व्यक्तं मेधाविनं लब्ध्वाचार्याभिषेकत्वं शासनाभिज्ञं कुशलं व्यक्तं धार्मिकं सत्यवादिनं महोत्साहं कृतज्ञं दृढसौहृदं नातिवृद्धं नातिबालं निस्पृहं सर्वलाभसत्कारेषु ब्रह्मचारिणं कारुणिकं न लोभमात्रेण भोगहेतोर्वा अनुनयहेतोर्वा न मृषां वदते कः पुर्नर्वादो स्वल्पमात्रैणैव लोभमोहप्रकारैः दृढप्रतिज्ञा समता सर्वभूतेषु दयावां दानशीलः कृतपुरश्चरणः त्वदीयगुह्यमन्त्रानुजापी पूर्वसेवकृतविद्यः त्वदीयमण्डलसमनुपूर्वप्रविष्टः लोकज्ञः विधिज्ञः समनुग्राहकः कार्यावां विचक्षणः श्रेयसप्रवृत्तः अभीरु अच्छम्भिनममङ्कुभूतः दृढवीर्यः अव्याधितः येन व्याधिना अकर्मशीली महोच्चकुलप्रसूतश्चेति। एभिर्गुणैर्युक्तो मण्डलाचार्यो भवति॥



साधकश्च तत्समः न्यूनो वा किञ्चिदङ्गैः तादृशं मण्डलाचार्यमभ्यर्थ्य प्रार्थयेत्। इच्छाम्याचार्येण महाबोधिसत्त्वस्य कुमारभूत स्यार्यमञ्जुश्रियस्य समयमनुप्रविष्टुम्। तद् वदत्वाचार्योऽस्माकमनुकम्पार्थं हितचित्तो दयावां॥



ततस्तेन मण्डलाचार्येण पूर्वनिर्दिष्टेन विधिना शिष्यां यथापूर्वं परीक्ष्य प्रवेशयेत्। पूर्ववदभिषेकं दत्त्वा, मन्त्रं दद्यात्। यथावत् क्रमशो समयं दर्शयेत्। रहस्यतन्त्रमुद्राकर्माणि च प्रभूतकालेनैव सुपरीक्ष्य आशयं ज्ञात्वा दर्शयेत्। सर्वतन्त्रमन्त्रादिषु कर्माणि नान्येषामिति विधिरेषा प्रकीर्त्तिता॥



ततः शिष्येण मण्डलाचार्यस्य यथाशक्तितः आचार्यो वा येन तुष्येत, आत्मानं भोगांश्च प्रतिपादयेत्॥



ततस्तेन मण्डलाचार्येण पुत्रसंज्ञा उपस्थापयितव्या। पुत्रवत् प्रतिपत्तव्यम्। मातुश्च भोगा उपसंहर्तव्या इति।



ततस्तेन साधकेन अन्यतमं मन्त्रं गृहीत्वा एकान्तं गत्वा पूर्वनिर्दिष्टे स्थाने पेयालं तैरेव मन्त्रैः आह्वाननविसर्जनप्रदीपगन्धधूपबलिनिवेद्यं मण्डलोक्तेन विधिना विस्तरेण कर्त्तव्यम्। आहूय अर्घमासनं दत्त्वा त्रिसन्ध्या त्रिस्नायी त्रिचैलपरिवर्ती जापं कुर्यात् प्रत्यहं तत्र सन्ध्याकालं नाम रात्र्यन्तात् प्रभृति यावद् युगमात्रादित्योदयम्। अत्रान्तरे प्रथमं सन्ध्यमुच्यते। मध्यन्दिने च आदित्ये उभयान्ते युगमात्रं प्रमाणं व्योम्नि सन्निश्रितं रविमण्डलं मध्यं सन्ध्यमुच्यते। अस्तमनकाले च युगमात्रशेषं त्रितीयं सन्ध्यमुच्यत इति॥



शीलव्रतसमायुक्तमाचार्यं दक्षपण्डितम्।

महाकुलोच्चप्रसूतं च दृढवीर्यं तु सर्वतः॥

मन्त्रतन्त्राभियुक्तं च सर्वकार्येषु दक्षधीः।

सूक्ष्मो निपुणमन्त्रज्ञः धर्मधातुधरो सदा॥

महोत्साही च तेजस्वी लोकधर्मानुपेक्षिणः।

श्राद्धो मुनिवरधर्मोऽस्मिं लौकिकानां तु वर्जिताः॥

कृतजापी विवेकज्ञो पूर्वसेवानुसेविनः।

मन्त्रज्ञो मञ्जुघोषस्य दृष्टप्रत्ययतत्परः॥

लौकिकानां प्रयोगज्ञो मन्त्राणां बुद्धभाषिताम्।

कृतरक्षो दृढस्थामो शौचाचाररतः सदा॥

बुद्धोपदेशितं मार्गमनुवर्त्ती च सर्वतः।

उद्युक्तो मन्त्रजापेऽस्मिं प्रशस्ते जिनवर्णिते॥

दृष्टकर्मफले नित्यं परलोकें तथैव च।

भीरुः स्यात् सर्वपापानामणुमात्रं तथैव च॥

शुचिर्दक्षोन्यनलसः मेघावी प्रियदर्शनः।

दशबलैः कथिता मन्त्रास्तथैव जिनसूनुभिः॥

लौकिका ये च मन्त्रा वै वज्रान्तकुलयोरपि।

तेषां कृतश्रमो नित्यं ग्रन्थशास्त्रार्थधारकाः॥

अव्याधितो नशक्तिष्ठो जराबाल्योविवर्जितः।

सिद्धमन्त्रो तथारक्षो आशुकारी तु सर्वतः॥

अदीर्घसूत्री तथा मानी इङ्गितज्ञो विशेषतः।

ब्रह्मचारि महाप्रज्ञो एकाकीचरसङ्गकृत्॥

लब्धाभिषेको शूरश्च तन्त्रेऽस्मिन् मञ्जुभाषिते।

कृतजापान्तकृद्युक्तो कृतविद्यो तथैव च॥

महानुभावो लोकज्ञो गतितत्त्वानुचिन्तकः।

श्रेयसायैव प्रयुक्तश्च दाता भूतहिते रतः॥

तथा विशिष्टो आचार्यो प्रार्थनीयो सदा तु वै।

लिखितं तेन मन्त्राणां मण्डलं सिद्धिमर्छति॥

अभिषेकं तु तेनैवं दत्तं भवति महत् फलम्।

सिद्धिकामस्तु शिष्यैर्वा पूज्योऽसौ मुनिवत् सदा॥

अलङ्घ्यं तस्य वचनं शिष्यैः कर्तव्य यत्नतः।

भोगास्तस्य दातव्याः यथाविभवसम्भवाः॥

स्वल्पमात्रा प्रभूता वा येन वा तुष्टि गच्छति।

कायजीवितहेत्वर्त्थं चित्तं देहं यथा पितुः॥

तथैव शिष्यो धर्मज्ञो आचार्याय ददे धनम्।

प्राप्नुयाद् यशः सिद्धिं आयुरारोग्यमेव तु॥

पुष्कलं गतिमाप्नोति शिष्यो पूज्यस्तु त गुरुम्।

मन्त्रास्तस्य च सिध्यन्ति विधिमार्गोपदर्शनात्॥

सेवनाद् भजनाद् तेषां मानना पूजनादपि।

तुष्यन्ते सर्वबुद्धास्तु तथैव जिनवरात्मजाः॥

सर्वे देवास्तु तुष्यन्ते सत्क्रिया तु गुरौ सदा।

एतत् कथितं सर्वं गुरूणां मन्त्रदर्शिनाम्॥

समयानुप्रवेशिनां पूर्वं प्रथमं वा साधकेन तु।

जनो वा तत्समो वापि उत्कृष्टो वा भवेद् यदि॥

नावमन्यो गुरुर्नित्यं मेकाद्वा अधिकोऽपि वा।

तेनापि तस्य तन्त्रेऽस्मिं उपदेशः सदा तु वै॥

कर्तव्यो मन्त्रेसिद्धस्मै यथासत्त्वानुदर्शिते।

न मत्सरो भवेत् तत्र शिष्येऽस्मिं पूर्वनिर्मिते॥

स्नेहानुवर्तिनी चक्षुः सुप्रतिष्ठितदेहिनाम्।

तमेव कुर्याच्छिष्यत्वं आचार्या शिष्यहेतवः॥

अन्योन्यानुवर्तिनी यत्र स्नेहसन्ततिमानिनी।

स्निग्धसन्तानानुधरा नु मन्त्रं दद्यात्तु तत्र वै॥

आचार्यो शिष्यमेवं तु शिष्यो वा गुरुदर्शने।

उत्सुकौ भवतः नित्या साध्वसयोगतः उभौ॥

तेषां नित्यं तु मार्गं वै मन्त्रचर्यानुदर्शने।

सफलानुवर्तनौ मन्त्रज्ञौ उभयो पितृपुतृणौ॥

धृतिं तुष्टिं च लेभे तौ तथा शिष्य गुरुः सदा।

रक्षणीयो प्रयत्नेन पुत्रो धर्मवत्सलः सदा॥

अवयवच्छेदबुद्धानां धर्मता भवति तेषु वै।

तदभावे ह्यनाथानां दद्यान्मन्त्रं यथोदितम्॥

दरिद्रेभ्यश्च सत्त्वेभ्यो क्लिबेभ्यो विशेषतः।

सर्वेभ्योऽपि सत्त्वेभ्यो मन्त्रचर्या विशिष्यते॥

सर्वकाले व कुर्वीत अधमोत्तममध्यमे।

सदा सर्वस्मिं धर्मेषु कुर्यानुग्रहहेतुतः॥

ईप्सितेभ्योऽपि प्रदातव्यं गतियोनिर्विचेष्टिते।

शिष्येणैव तु तस्मै तु मन्त्रं गृह्य यथातमम्॥

तेनैवोपदिष्टेन मार्गेणैव नान्यथा।

सिद्धिकामो यतेत् तस्मिन्नितरेषां परायिके॥

पितृवत् प्रणम्य शिरसा वैनतो गच्छं यथेष्टतः।

एकान्तं ततो गत्वा जपेन्मन्त्रं समासतः॥

भिक्षभैक्षाशवृत्ती तु मौनी त्रिःकालजापिनः।

पूर्वनिर्दिष्टमेवं स्याद् यथामार्गं प्रवर्तकः॥

तदानुवृत्ती सेवी च स्थानमायतनानि च।

महारण्यं पर्वताग्रं तु नदीकूले शुचौ तथा॥

गोष्ठे महापुरे चापि विविक्ते जनवर्जिते।

शून्यदेवकुले वृक्षे शिलोच्चये॥

महोदकतटे रम्ये पुलिने वापि दीपके।

विविधैः पूर्वनिर्दिष्टैः देशैश्चापि मनोरमैः॥

एतैश्चान्यैः प्रदेशैस्तु जपेन्मन्त्रं समाहितः।

सखायैर्लक्षणोपेतैः मन्त्रार्थं नीतितार्किकैः॥

इङ्गिताकारतत्त्वज्ञै आत्मसमसादृशैः।

शूरैर्विजितसङ्ग्रामैः सात्त्विकैश्च सहिष्णुभिः॥

श्राद्धैर्मन्त्रचर्यायां शासनेऽस्मि जिनोदिते।

प्रशस्तैर्लक्षणोपेतैः क्षमिभिस्तु सहायकैः॥

सिध्यन्ते सर्वकर्माणि अयत्नेनैव तस्य तु।

प्रातरुत्थाय शयनात् स्नात्वा चैव शुचे जले॥

निःप्राणके जले चैव सरिन्महासरोद्भवे।

उद्घृष्य गात्रं मन्त्रज्ञो मृद्गोमयचूर्णितैः॥

मन्त्रपूतं ततो कृत्वा जलं चौक्षं सनिर्मलम्।

स्नायीत जपी युक्तात्मा नातिकालं बिलङ्घये॥

ततोत्थाय तटे स्थित्वा हस्तौ प्रक्षाल्य मृत्तिकैः।

सप्त सप्त पुनः सप्त वारान्येकविंशति॥

उपविश्य ततस्तत्र दन्तकाष्ठं समाचरेत्।

विसर्जयित्वा दन्तधावनं ततो वन्देत तापिनम्॥

वन्दित्वा लोकनाथं तु पूजां कुर्यान्मनोरमाम्।

विविधैः स्तोत्रोपहारैस्तु संस्तुत्य पुनः पुनः॥

सुगन्धपुष्पैस्तथा शास्तु अर्धं दत्त्वा तु जापिनः।

प्रणम्य शिरसा बुद्धां तदा तु शिष्यसम्भवां॥

तेषां लोकनाथानां अग्रतो यापदेशना।

निवेध चाशनो तत्र पटस्याग्रत मध्यमे॥

कुशविण्डकृतः तत्स्थः निषण्णोपसमाहितः।

जपं कुर्यात् प्रतत्नेन अक्षसूत्रेण तेन तु॥

यथालब्धं तु मन्त्रं वै नान्यमन्त्रं तदा जपेत्।

अतिहीनं च वर्जीतं अतिउत्कृष्ट एव वा॥

मध्यमं मध्यकर्मेषु जपेन्मन्त्रं सदा व्रती।

अत्युच्चं वर्जयेद् यत्नाद् वचनं चापि चेतरम्॥

मध्यमं मध्यकर्मेषु प्रशस्तो जिनवर्णितः।

नात्युच्चं नातिहीनं च मध्यमं तु सदा जपेत्॥

वचनं श्रेयसाद्युक्तो सर्वबुद्धैस्तु पूर्वकैः।

न जपे परसामीप्ये परकर्मपथे सदा॥

गुप्ते चात्मविदे देशे जपेन्मन्त्रं तु मध्यमम्।

तथा जपे तु प्रयुक्तं स्यात् कश्चिन्मन्त्रार्थसुश्रुतः।

भूयो जपेत तन्मन्त्रं मध्यमां सिद्धिमिच्छतः॥

तस्मा जन्तुविगते मन्त्रतत्त्वार्त्थसुश्रुते।

विवेके विगतसम्पाते जपेन्मन्त्रं तु जापिनः॥

चतुर्थे रात्रिभागे तु तदर्ध अर्ध एव तु।

ताम्रारुणे युगमात्रे च उदिते रविमण्डले॥

प्रथमं सन्ध्यमेवं तु कथितं मुनिपुङ्गवैः।

युगमात्रं चतुर्हस्तो मध्यमो परिकीर्तितः॥

अतो व्योम्ने दिते भानोः मन्त्रजापं तदा त्यजेत्।

मन्त्रजापं तदा त्यक्त्वा विसर्ज्यार्घं ददौ व्रती॥

शेषकालं तदाद्युक्तो कुशलेऽस्मिन् शासने मुनौ।

सद्धर्मवाचनादीनि प्रज्ञापारमितादयः॥

पुस्तका दशभूमाख्याः पूज्या वाच्यास्तु वै सदा।

कालमागम्य तस्या वै प्रणम्य जिनपुङ्गवां॥

स्वमन्त्रं मन्त्रनाथं च ततो गच्छेन्न जीविकम्।

कालचारी तथा युक्तो कालभोजी जितेन्द्रियः॥

धार्मिको साधकोद्युक्तो प्रसन्ने बुद्धशासने।

प्रविशेद् ग्रामान्तरं मौनी शौचाचाररतो सदा॥

गृहे तु धार्मिके सत्त्वे प्रविशेद् भिक्षां जपी सदा।

निष्प्राणोदकसंसिद्धे वाके शुचिसम्मते॥

सम्यग् दृष्टिसपत्नीके प्रसन्ने बुद्धशासने।

तथाविधे कुले नित्यं भिक्षार्त्थी भिक्षमाददेत्॥

यथा योधः सुसन्नद्धो प्रविशेद् रणसङ्कटम्।

अरीन् मर्दयते नित्यं रिपुभिर्न च हन्यते॥

एवं मन्त्री सदा ग्रामं प्रविशेद् भिक्षानुजीविनः।

रञ्जनीयं तथा दृष्ट्वा रूपं शब्दांस्तु वै शुभाम्॥

रागप्रशमनार्त्थाय भावयेदशुभा शुभा।

दृष्ट्वा कलेवरं स्त्रीषु यौवनाचारभूषिताम्॥

भावयेदशुचिदुर्गन्धां पूतिमूत्रादिकुत्सितम्।

क्रिमिभिः क्लिन्नः श्मशानस्थं अनित्यं दुःखं कलेवरम्॥

बालिशा यत्र मूढा वै भ्रमन्ति गतिपञ्चके।

ग्रथिता कर्मसूत्रैस्तु चिरकालाभिशोभिनः॥

अज्ञानावृतमूढास्तु जात्यन्धा दुःखहेतुकाः।

विपरीतधियो यत्र सक्ताः सीदन्ति जन्तवः॥

विविधैः कर्मनेपत्थैः अनेकाकाररञ्जिताः।

दीर्घदोलाभिरूढास्तु गमनागमनेषु चेक्षिताः॥

नृत्यतायैव युक्तस्तु चरणाकारचेष्टिताः।

सीदन्ति चिरमध्वानं यत्र सत्त्वा शुचे रताः॥

अरघट्टघटाकारं भवार्णवजलोद्भवाः।

न क्षयं जन्म तेषां वै दुःखवारिसमप्लुताम्॥

दुःखमूलं तथा ह्युक्तो स्त्रिया बुद्धैस्तु केवलः।

श्रावकैर्बोधिसत्त्वैस्तु प्रत्येकमुनिभिस्तथा॥

एतन्महार्णवं दुःशोषं अक्षोभ्यं भवसागरम्।

यत्र सत्त्वानि मज्जन्ते स्त्रीषु चेतनवञ्चिताः॥

नरकं तिर्यलोकं च प्रेतलोकं च सासुरम्।

मानुष्यं लोकं वै दिव्यं दिव्यं चैव गतिः सदा॥

पर्यटन्ति समन्ताद्वै अशक्ताः स्त्रीषु वञ्चिताः।

निमज्जन्ते महापङ्कात् संसारार्णवचारकात्॥

स्त्रीषु सक्ता नरा मूढाः कुणमेणैव क्रोष्टुकाः।

यत्र सत्त्वा रता नित्यं तीव्रां दुःखां सहन्ति वै॥

निर्नष्टशुक्लधर्माणां प्रविष्टा बुद्धशासने।

निवारयन्ति सर्वाणि दुःखा नैव भवार्णवे॥

मन्त्रजापरतोद्युक्ताः महेशाक्षा मनस्विनः।

तेजस्विनो जितमित्राः तेषां दुःखो न विद्यते॥

संयता ब्रह्मसत्यज्ञा गुरुदेवतपूजकाः।

मातृपितृभक्तानां स्त्रीषु दुःखं न विद्यते॥

अनित्यं दुःखतो शून्यं परमार्थानुसेविनाम्।

गण्डशल्यं तथाभूतं जापिनां स्त्रीकलेवरम्॥

रागी बालिशदुर्बुद्धिः संसारादपलायितः।

स्त्रीप्रसक्तो भवेन्नित्यं तस्य सिद्धिर्न विद्यते॥

न तस्य गतिरुत्कृष्टा न चापि गतिमध्यमा।

कन्यसा नापि सिद्धिश्च दुःशीलस्येह जापिने॥

दुःशीलस्य मुनीन्द्रेण मन्त्रसिद्धिर्न चोदिता।

न चापि मार्गं दिदेशं वै निर्वाणपुरगामिनम्॥

कुतः सिध्यन्ति मन्त्रा वै बालिशस्येह कुत्सिते।

न चापि सुगतिस्तस्य दुःशीलस्येह जन्तुनः॥

न चापि नाकपृष्ठं वै न च सौख्यपरायणः।

कः पुनः सिद्धिमेवं स्यान्मन्त्राणो जिनभाषिताम्॥

छिन्नो वा तालवृक्षस्तु मस्तके तु यदा पुनः।

अभव्ये हरितत्त्वाय अङ्कुराय पुनः कार्या॥

एवं मन्त्रसिद्धिस्तु मूढस्येह प्रकीर्तिता।

दुःशीलो पापकर्मस्तु स्त्रीषु सङ्गी पुनः सदा।

अकल्याणमित्रसम्पर्की कुतः सिध्यन्ति मन्त्रराट्॥

तस्मा दान्तो सदा जापी स्त्रीदोषमविचारकः।

सङ्गं तेषु वर्जीत सिद्धिस्तेषु विधीयते॥

नान्येषां कथिता सिद्धिः बालिशां स्त्रीषु मूर्छिताम्।

अव्यग्ररतो धीमां शुचिर्दक्षमसङ्गकृत्॥

कुलीनो दृढशूरश्च सौहृदो प्रियदर्शनः।

धर्माधर्मविचारज्ञो सिद्धिस्तेषां न दुर्लभा॥

एवं प्रवृत्तो मन्त्रज्ञो ग्रामं भिक्षार्त्थमाविशे।

यथाभिरुचितं गत्वात्र स्थानं पूर्वकल्पितम्॥

भुञ्जीत गत्वा देशे तु कल्पिकं + + + + + + + + + ।

शुचौ देशे तु संस्थाप्य भिक्षाभाजनशुद्धधीः॥

पादौ प्रक्षाल्य बहिर्गत्वा तस्मादावसथात् पुनः।

निःप्राणके तदा अम्भे प्रथमं जङ्घमेव तु॥

द्वितीय वामहस्तेन जङ्घं चाश्लिष्य चाघृषे।

अपसव्यं पुनः कृत्वा हस्तं प्रक्षाल्य मृत्तिकैः॥

पूर्वसंस्थापितैः शुद्धैः शुचिभिः सप्त एव तु।

मन्त्रपूतं ततो चौक्षं शुचिनिर्मलभाजने।

गृह्य गोमयसुद्यं तु कपिलागौपरिश्रुते।

निष्प्राणकाम्भसंयुक्ते कुर्या शास्तुर्मण्डमण्डलम्॥

प्रथमं मुनिवरे कुर्यात् हस्तमात्रं विशेषतः।

द्वितीयं सुमन्त्रनाथस्य तृतीयं कुलदेवते॥

य जापिनो यदा मन्त्री तत् कुर्यात्तु सदा पुनः।

चतुर्थं सर्वसत्त्वानामुपभोगं तु कीर्त्यते॥

दक्षिणे लोकनाथस्य् मण्डले तु सदा इह।

रत्नत्रयाय कुर्यात्तं मण्डलं चतुरश्रकम्॥

द्वितीयं प्रत्येकबुद्धानां तृतीयं दशबलात्मजैः।

इत्येते मण्डलाः सप्त चतुरश्रा समन्ततः॥

हस्तमात्रार्धहस्तं वा कुर्या चापि दिने दिने।

गुप्ते देशे तदा जापी प्रत्यहं पापनाशना॥

ततोत्थाय पुनर्मन्त्री हस्तौ प्रक्षाल्य यत्नतः।

उपस्पृश्य जले चौक्षे शुद्धे प्राणकवर्जिते॥

निर्मले शुचिने यत्नात् शुचिभाण्डे तदाहृते।

महासरे प्रस्रवर्ण वापि औद्भवे सरितासृते॥

शुचिदेशसमायाते शुचिसत्वकरोद्धृते।

उपस्पृश्य पुनर्मन्त्री द्वे त्रयो वा सदा पुनः॥

आमृशेत ततो वक्त्रं कर्णश्रौत्रौ तथैव च।

+ + + + + + + + + ++ अक्ष्णौ नासापुटौ भुजौ॥

मूर्ध्नि नाभिदेशे च संस्पृशेत् शुभवारिणा।

वारां पञ्चसप्तं वा कुर्यात् सर्वं यथाविधिम्॥

शौचाचारसम्पन्नो शुचिर्भूत्वा तु जापिनः।

भिक्षाभाजनमादाय गच्छेत् सलिलालयम्॥

यत्र प्रतिष्ठिता वारि निम्नागा चोद्भवे तथा।

नदीप्रस्रवणादिभ्यो भिक्षां प्रक्षालयेत् सदा॥

ततोत्थाय पुनर्गच्छे विहारमावसथं तु वै।

पूर्वसन्निश्रितो यत्र वशे तत्र तु तं वज्रेत्॥

गत्वा तं तु वै देशं न्यसेत् पात्रं तं जपी।

उपस्पृश्य ततः क्षिप्रं गृह्य पात्रं तथा पुनः॥

पात्रे मृन्मये पर्णे राजते हेम्न एव वा।

ताम्रे वल्कले वापि दद्यात् शास्तुर्निवेदनम्॥

निवेद्यं शास्तुनो दद्यात् स्वमन्त्रं मन्त्रराट् पुनः

एकं तिथिमागम्य दुःखितेभ्योऽपि शक्तितः॥

नातिप्रभूतं दातव्यं निवेद्यं चैव सर्वतः।

नात्मानुपाया मन्त्रज्ञो कुर्याद् युक्ता तु सर्वतः॥

कुक्षिमात्रप्रमाणं तु स्थाप्यंमानं ददौ सदा।

न बुभुक्षापिपासार्त्ता शक्तो मन्त्रार्त्थसाधने॥

नात्याशी मल्पभोजी वा शक्तो मन्त्रानुवर्तने।

अत एव जिनेन्द्रेण कथितं सर्वदेहिनाम्॥

आहारस्थितिसत्त्वानां येन जीवन्ति मानुषाः।

देवासुरगन्धर्वनागयक्षाश्च किन्नराः॥

राक्षसाः प्रेतपिशाचाश्च भूतोस्तारकसग्रहाः।

नासौ संविद्यते कश्चिद् भाजने योऽवहितपेक्षिणः॥

आदौरिकमाकारकवडीकाहारश्च कीर्तिताः।

सूक्ष्माहारिकसत्त्वा वै इत्युवाच तथागतः।

ध्यानाहारिणो दिव्याः रूपावचरचेष्टिता।

आरूप्याश्च देवा वै समाधिफलभोजिनः॥

अन्तराभवसत्त्वाश्च गत्वाहाराः प्रकीर्तिताः।

कामधातौ तथा सत्त्वा विचित्राहारभोजनाः॥

कामिकोऽसुरमर्त्यानां कबलिकाहारभोजनाः।

अत एव जिनेन्द्रैस्तु कथितं धर्महेतुभिः॥

आहारस्थिति सत्त्वानां सर्वेषां च प्रकीर्तिता।

जापिनो नित्ययुक्तस्तु मात्रा एव भुजक्रिया॥

शक्तो हि सेवितुं मन्त्रा भोजनेऽस्मिं प्रतिष्ठितः।

आचारपरिशुद्धस्तु कुशलो ब्रह्मचारिणः॥

मात्रज्ञता च भुक्तेस्मिं सिद्धिस्तस्य न दुर्लभा।

यथैवाक्षपभ्यज्य शाकटी शकटस्य तु॥

चिरकालाभिस्थित्यर्त्थं भारोद्वहनहेतवः।

तथैव मन्त्री मन्त्रज्ञो आहारं स्थितये ददौ॥

कलेवरस्य याप्ययाव्यर्त्थं पोषयेत सदा जपी।

मन्त्राणां साधनार्थाय बोधिसम्भारकारणा॥

जपेन्मन्त्रं तथा मर्त्ये लोकानुग्रहकारणात्।

अत एव मुनिः श्रेष्ठो इत्युवाच महाद्युतिः॥

काश्यपो नाम नामेन पुरा तस्मिं सदा भुवि।

श्रेयसार्त्थं हि भूतानां इदं मन्त्रं प्रभाषत॥

दुःखिनां सर्वलोकानां दीनां दारिद्र्यखेदिनाम्।

आयासोपरतां क्लिष्टां तेषामर्थाय भाषितम्॥

श्रेयसायैव भूतानां संसृतानां तथा पुनः।

आहारार्त्थं तु भूतानां इदं मन्त्रवरं वदेत्॥

शृण्वन्तु श्रावकाः सर्वे बोधिसनिश्रिताश्च ये।

मह्येदं वचनं मन्त्रं गृह्ण त्वं व्याधिनाशनम्॥

क्षुद्व्याधिपीडिता ये तु ये तु सत्त्वा पिपासिताः।

सर्वदुःखोपशान्त्यर्थं शृण्वध्वं भूमिकांक्षिणः॥

इत्येवमुक्त्वा मुनिप्रख्ये काश्यपोऽसौ महाद्युतिः।

श्रावका तुष्टमनसो प्रार्त्थयामास तं विभुम्॥

वदस्व मन्त्रं धर्मज्ञो धर्मराजा महामुनिः।

सत्त्वानुकम्पकः अग्रो समयो प्रत्युपस्थितः॥

इत्युक्त्वा मुनिभिः अग्रो मन्त्रं भाषेत विस्तरम्।

कलविङ्करुताघोषा दुन्दुभीमेघनिस्वनः॥

ब्रह्मस्वरो महावीर्यो ब्रह्मणो ह्यग्रणी जिनः।

शृण्वन्तु भूतसङ्घा वै ये केचिदिहागताः॥

अपदा बहुपदा चापि द्विपदा चापि चतुष्पदाः।

संक्षेपतो सर्वसत्त्वार्थं मन्त्रं भाषे सुखोदयम्॥

अतीतानागता सत्त्वा वर्तमाना इहागताः।

संक्षेपतो नु वक्ष्यामि शृण्वध्वं भूतकांक्षिणम्॥ इति॥



नमः सर्वबुद्धानामप्रतिहतशासनानाम्॥ तद्यथा - ॐ गगने गगनगञ्जे आनय सर्वं लहु लहु समयमनुस्मर आकर्षणि मा विलम्ब यथेप्सितं मे सम्पादय स्वाहा। इत्येवमुक्त्वा भगवां काश्यपः तूष्णी अभूत्॥



अत्रान्तरे भगवता काश्यपेन सम्यक् सम्बुद्धेन विद्यामन्त्रपदानि सविस्तराणि सर्वं तं गगनं महार्हभोजनपरिपूर्णमेघं सन्दृश्यते स्म। सर्वं तं त्रिसाहस्रं महासाहस्रलोकधातुं भोजनमेघसञ्छन्नगगनतलं सन्दृश्यते स्म। यथाशयसत्त्वभोजनमभिकांक्षिणं यथाभिरुचितमाहारं तत्तस्मै प्रवर्तते स्म। यथाभिरुचितैश्चाहरैः भोजनकृत्यं क्षुद्‍दुःखप्रशमनार्थं पिपासितस्य पानं पानीयं चाष्टाङ्गोपेतं वारिधारं तत्रैव मनीषितं निपतति स्म॥



सर्वसत्त्वाश्च तस्मिं समये तस्मिं क्षणे सर्वक्षुद्व्याधिप्रशमनसर्वतृषापनयनं च कृतामभूत्। सा च सर्वावती पर्षत् आश्चर्यप्राप्तो औद्विल्यप्राप्तो भगवतो भाषितमभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा तत्रैवान्तर्हिता। भगवां काश्यपश्च तथागतविहारैः विहारियुरिति मया च भगवता शाक्यमुनिनाप्येतर्हि भाषिता चाभ्यनुमोदिता च॥



अस्मिं कल्पराजोत्तमे सर्वसत्त्वानामर्थाय क्षुत्पिपासापनयनार्थं सर्वमन्त्रजापिनां च विशेषतः पूर्वं तावज्जापिना इमं मन्त्रं साधयितव्यम्। यदि नोत्सहेद् भिक्षामटितुं, पर्वताग्रमभिरुह्य षड् लक्षाणि जपेत् त्रिशुक्लभोजी क्षीराहारो वा। ततो तत्रैव पर्वताग्रे आर्यमञ्जुश्रियस्य मध्यमं पटं प्रतिष्ठाप्य पूर्ववन्महतीं पूजां कृत्वा उदारतरं च बलि निवेद्यम्। अनेनैव काश्यपसम्यक्सम्बुद्धैर्भाषितेन मन्त्रेण खदिरसमिद्भिरग्निं प्रज्वाल्य औदुम्बरसमिधानां दधिमधुघृताक्तानां सार्द्राणां वितस्तिमात्राणां श्रीफलसमिधानां वा अष्टसहस्रं जुहुयात्॥



ततोऽर्धरात्रकालसमये महाकृष्णमेघवातमण्डली आगच्छति। न भेतव्यम्। नाप्योत्थाय प्रक्रमितव्यम्। आर्यमञ्जुश्रियाष्टाक्षरहृदयेन आत्मरक्षा कार्या मण्डलबन्धश्च सहायानां च पूर्ववत्। ततो सा कृष्णवातमण्डली अन्तर्धीयते। स्त्रियश्च सर्वालङ्कारभूषिताः प्रभामालिनी दिशाश्चावभास्यमाना साधकस्याग्रतो कुर्वते। उत्तिष्ठ भो महासत्त्व ! सिद्धास्मीति। गतः साधकेन गन्धोदकेन। जातीकुसुमसन्मिश्रेण अर्घो देयः। ततः सा तत्रैवान्तर्धीयते। तदह एव आत्मपञ्चविंशतिमस्य सहयैर्वा यथाभिरुचितैः कामिकं भोजनं प्रयच्छति। यथेष्टानि चोपकरणानि सन्दधाति। ततः साधकेन विसर्ज्यार्घं दत्त्वा पटं त्रिः प्रदक्षिणीकृत्य पटमादाय सर्वबुद्धबोधिसत्त्वान् प्रणम्य यथेष्टं स्थानं साधनोपयिकं पूर्वनिर्दिष्टं महारण्यं पर्वताग्रं वा निर्मानुषं वा स्थानं गन्तव्यम्॥



तत्रात्मनः सहायैर्वा उडयं कृत्वा प्रतिवस्तव्यम्। प्रतिवसता च तस्मिं स्थाने आकाशगमनादिकर्माणि कुर्यात्। ततो साधकेन पूर्ववत् कुशविण्डकोपविष्टेन मध्यमं पटं प्रतिष्ठाप्य प्रतिष्ठाप्य पूर्ववत् खदिरकाष्ठैरग्निं प्रज्वाल्य त्रिसन्ध्यं श्वेतपुष्पाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् दिवसान्येकविंशति॥



ततोऽर्धरात्रकालसमये होमान्ते आर्यमञ्जुश्रियं साक्षात् पश्यति। ईप्सितं वरं ददाति। आकाशगमनमन्तर्धानबोधिसत्त्वभूमिप्रत्येकबुद्धत्वं श्रावकत्वं पञ्चाभिज्ञत्वं वा दीर्घायुष्कत्वं वा महाराज्यमहाभोगतायैर्वा नृपप्रियत्वं वा। आर्यमञ्जुश्रिया सार्धमन्त्रविचरता संक्षेपतो वा यन्मनीषितं तत् सर्वं ददाति। यं वा याचते तमनुप्रयच्छति। सिद्ध्यद्रव्याणि वा सर्वाणि लभते। आकर्षणं च महासत्त्वानां च करोति। संक्षेपतो यथा यथा उच्यते तत् सर्वं करोति। प्राक्तनं वा कर्मापराधं वा संशोधयतीत्याह भगवां शाक्यमुनिः॥



अपरमपि कर्मोपयिकमध्यमसाधनं भवति। आदो तावद् तथा विशिष्टे स्थाने शुचौ देशे नद्याः पुलिनकूले वा पूर्ववत् सर्वं कृत्वा पञ्चान्मुखं पटं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखो भूत्वा कुशविण्डकोपविष्टः पेयालं विस्तरेण कर्तव्यम्। त्रिसन्ध्यं षड् लक्षाणि जपेत्। जपपरिसमाप्ते च कर्णिकारपुष्पाणां शुक्लचन्दनमिश्राणां कुङ्कुममिश्राणां वा शतसहस्राणि जुहुयात्। पूर्ववत् तथैवाग्निं प्रज्वाल्य होमपर्यवसाने च पटप्रकम्पने मन्त्रित्वं पटरश्म्यवभासे निश्चरिते च रश्मौ राज्यं पटसमन्तज्वालमालाकुले चतुर्महाराजकायिकराज्यत्वं वाक्निश्चरणे पटे त्रयः त्रिदशेश्वरत्वं शक्रत्वं पटधर्मदेशननिश्चरणे बोधिसत्त्वत्रिभूमेश्वरत्वं पटबाहुमूर्ध्निं स्पर्शने पञ्चाभिज्ञासप्तभूमिमनुप्रापणदशबलनियतमनुपूर्वप्रापणमिति॥



अथ साधकेन भगवां काश्यपभाषितेन मन्त्रे साधिते क्षुत्पिपासाप्रतिघातार्थमनुप्राप्ते तेनैव विधिना तेनैवोपकरणेन मन्त्रचर्यार्थसाधनोपयिके धर्मे समनुष्ठेयम्। नान्यथा सिद्धिरिति॥



एवमनुपूर्वमन्त्रचर्यामनुवृत्तिः समतोरनुष्ठेया नियतं सिद्ध्यति। द्रव्योपकरणोषध्यपि शेषाणि मणिरत्नानि यथापूर्वनिर्दिष्टानीति॥



मन्त्रज्ञो मन्त्रजापी च विधिराख्यातमानसः।

तस्मिं देशे तदा मन्त्री शुचिजश्वेतदोदनम्॥

भुक्त्वा तु तुष्टमनसो परिपुष्टेन्द्रियः सदा।

गुह्य तं पात्रशेषं तु सरिद् गच्छे शुभोदके॥

एकान्ते छोरयित्वा तु तिर्येभ्यो ददौ व्रती।

तिर्येभ्यो तु दत्वा वै पात्रं प्रक्षाल्य यत्नतः॥

मृन्मयं तु पुनः पाकं ततः कुर्वत यत्नतः।

शेषपात्रं तु कुर्वीत निस्नेहं निरामिषम्॥

गन्धं चैव सन्त्याज्य शेषपात्रं मुनिर्वरः।

यस्मिन् पात्रे अटे भिक्षां न जग्धे तत्र भोजनम्॥

न भक्षे तत्र भक्षाणि फलद्रव्याणि तु सदा।

न भुञ्जेत् पद्मपत्रेण न चापि कुवलयोद्भवैः॥

सौगन्धिकेषु वर्जीत न भुङ्क्ते तत्र मन्त्रिणः।

कौमुदा ये च पत्रा वै प्लक्षोदुम्बरसम्भवा॥

न चापि वटपत्रैस्तु कर्णशाकोगौल्मिणाम्।

न चापि आम्रपत्रेषु तथा पालाशमुद्भवैः॥

शालपत्रैः शिरीषैश्च बोधिवृक्षसमुद्भवैः।

यत्रासौ भगवां बुद्धः शाक्यसिंहो निषण्णवां॥

तं वृक्षं वर्जयेद् यत्नात् तत्काष्ठं चापि न खनेत्।

नागकेसरवृक्षेषु न कुर्यात्पत्रशातनम्॥

नापि भुङ्क्ते कदा कस्मिं सर्वे ते वर्जिता बुधैः।

नापि लङ्घेत् कदा मोहा मुनीनां पर्णशालिनाम्॥

समयाद् भ्रश्यते मन्त्री तेषां पर्णेषु भोजने।

अन्यपर्णैर्न भुञ्जीत भोजनं तत्र मन्त्रिणः॥

मृन्मये ताम्रनिर्दिष्टैः तथा रूप्यैः सातमुद्भवैः।

स्फटिकैः शैलमयैर्नित्यं तथा भोजनमाददे॥

न भुङ्क्ते पर्णपृष्ठैस्तु तथा हस्ततले तथा।

निवेद्यसम्भवा ये पर्णा मारारेर्दशबलात्मजां॥

प्रत्येकखड्गिणां ये च तथा श्रावकपुड्गलाम्।

वर्जये तं जपी पर्णं पद्भ्यां चैव न लङ्घयेत्॥

विविधां भक्षपूपां तु तथा पानं च भोजनम्।

न मन्त्री आददे यत्नात् सर्वं चैव निवेदितम्॥

जिनानां जिनचाराणां च तथा श्रावकपुड्गलाम्।

रत्नत्रयेऽपि दत्तं वै तं जापी वर्जयेत् सदा॥

मन्त्रास्तस्य न सिद्ध्यन्ते स्वल्पमात्रापि देहिनाम्।

कः पुनः श्रेयसा दिव्यं सर्वमङ्गलसम्मताम्॥

पौष्टिकं शान्तिकं चैव सर्वाशापरिपूरिणम्।

पौष्टिकं शान्तिकं चैव सर्वाशापरिपूरिणम्।

न सिद्ध्यन्ति तदा तस्य निवेद्य बलिभोजिनः॥

शुचिनो दक्षशीलस्य घृणिनो धार्मिणस्तथा।

सिद्ध्यन्ति मन्त्राः सर्वत्र शौचाचाररतस्य वै॥

अन्न सर्वेषु दत्त्वाद्यं न भुङ्क्ते तत्र जापिनः।

अन्यमन्नं न भुञ्जीत भुञ्जीतान्येभ्यो प्रतिपादितम्॥

भोजनं स्वल्पमात्र तु स्वदत्तं चापि आददे।

य एव प्रवृत्तो मन्त्रज्ञो तस्य सिद्धि करे स्थिता॥

अनेन विधिना तं जापी भोजनं आददेद् व्रती।

मुनिभिः सम्प्रशस्तं तु सर्वमन्त्रेषु साधने॥

विधिदृष्टां समासेन सर्वभोजनकर्मसु।

अतः परं प्रवक्ष्यामि मन्त्रं सर्वशोधने॥

उपस्पृश्य ततो जापी इदं मन्त्रं पठेत् सदा।

सप्तबारां ततो मन्त्री जपित्वा कायशोधनम्॥

शृणु तस्यार्थविस्तारं भूतसङ्घानुदेवता।

सर्वकायं परामृश्य इदं मन्त्रं वदेन्मुनी॥

नमः सर्वबुद्धानामप्रतिहतशासनानाम्॥ तद्यथा -



ॐ सर्वकिल्बिषनाशनि ! नाशय नाशय सर्वदुष्टप्रयुक्तां समयमनुस्मर हूँ जः स्वाहा॥ अनेन मन्त्रेण भिक्षोदनं यं वा अन्यं परिभुङ्क्ते स मन्त्राभिमन्त्रितं कृत्वा परिभोक्तव्यः। भुक्त्वा चोपस्पृश्य पूर्ववत् मूर्ध्नप्रति सर्वं कायं परामृज्य ततो विश्रान्तव्यम्। विश्राम्य च मुहूर्तं अर्धार्धेहयामं वा ततः पटमभिवन्द्य सर्वबुद्धानां सद्धर्मपुस्तकां वाचयेत्। आर्यप्रज्ञापारमिता आर्यचन्द्रप्रदीपसमाधिं आर्यदशभूमकः आर्यसुवर्णप्रभासोत्तमः आर्यमहामायूरी आर्यरत्नकेतुधारिणीम्। एषामन्यतमान्यतमं वाचयेद् युगमात्रसूर्यप्रमाणतालम्। ततो परिनाम्य यथापरिशक्तितश्च वाचयित्वा पुस्तकामुत्सार्य शुचिवस्त्रप्रच्छन्नां वा कृता सद्धर्मं प्रणम्य ततो स्नानायमवतेरे नदीकूलं महाह्रदं वा गत्वा निष्प्राणकां मृत्तिकां गृह्य सप्तमन्त्राभिमन्त्रितां कृत्वा अनेन मन्त्रेण जलं क्षिपेत्। कतमेन॥



नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - ॐ सर्वदुष्टां स्तम्भय हूँ इन्दीवरधारिणे कुमारक्रीडरूपधारिणे बन्ध बन्ध समयमनुस्मर स्फट् स्फट् स्वाहा। अनेन तु रक्षां कृत्वा दिशाबन्धं च सहायानां च मण्डलबन्धं तुण्डबन्धं सर्वदुष्टप्रदुष्टानां सर्वाकर्षणं च शुक्रबन्धं सप्तजप्तेन सूत्रेण कटिप्रदेशावबद्धेन सर्वतश्च पर्यटेत्। जपकाले च सर्वस्मिं सर्वकालस्नानकाले च दुष्टविघ्नविनाशनमुप्रशमनार्थमस्य मन्त्रस्य लक्षमेकं जपेत्। ततः सर्वकर्माणि करोति। पञ्चशिखमहामुद्रोपेतं न्यसेत् सर्वकर्मेषु। सर्वां करोति नान्यथा भवतीति॥



ततः साधकेन मृद्गोमयचूर्णादीं गृह्य स्नायीत यथासुखम्। निष्प्राणकेनोदकेन स्नातव्यम्। सर्वत्र च सर्वकर्मसु निष्प्राणकेनैव कुर्यात्। ततो स्नात्वा मृद्गोमयानुलेपनैरन्यैर्वा सुगन्धगन्धिभिश्चोपकरणविशेषैः नापि सलिले खेटमूत्रपुरीषादीनुत्सृजेत्। सलिलपीकधारां वा नोत्सृजेत्। नापि क्रीडेत् करुणायमानः सर्वसत्त्वानामात्मनश्च प्रत्यवेक्ष्य अनात्मशून्यदुःखोपरुद्धवेदनाभिनुन्नं रूर्णमिव मातृविप्रयोगदुःखितसत्त्वो। एवं साधनरहितो मन्त्रज्ञो हि तथाविधं शतनपतनविकिरणविध्वंसनादिभिः दुःखोपधानैरुपरुद्ध्यमानं संसारार्णवगहनस्थमात्मानं पश्येत्। अलयनमन्त्राणमशरण अदीनमनसमात्मातमवेक्ष्य। ध्यायीत कण्ठमात्रमुदकस्थो नाभिमात्रमुदकस्थितो वा तत्रैव तु जलमध्ये चित्तैकाग्रतामुपस्थाप्य॥



प्रथमं तावन्महापद्मविटपं महापद्मपुष्पोपेतं महापद्मपत्रोपशोभितं चारुदर्शनरत्नमयं वैदूर्यकृतगण्डं मरकतपत्रं पद्मकेसरं स्फटिकसहस्रपत्रं अतिविकसितं तदा न जातस्फटिकपद्मरागपुष्पोपशोभितं तत्रस्थं सिंहासनं रत्नमयमनेकरत्नोपशोभितं दुष्पयुगप्रतिच्छन्नं तत्रस्थं बुद्धं भगवन्तं ध्यायीत धर्मं देशयमानं कनकावदातं समन्तज्वालमालिनं ध्याय प्रभामण्डलमण्डितं महाप्रमाणं व्योम्निरिव उल्लिखमानं पर्यङ्कोपनिषण्णम्। दक्षिणतश्च आर्यमञ्जुश्रीः सर्वालङ्कारवरोपेतं पद्मासनस्थं चामरग्राही भगवतः स्थितको नो निषण्णः रक्तगौराङ्गः पिष्टकुङ्कुमवर्णो वा वामतश्च आर्यावलोकितेश्वरः शरत्काण्डगौरः चमरव्यग्रहस्तः। एवमष्टौ बोधिसत्त्वाः आर्यमैत्रेयः समन्तभद्रः क्षितिगर्भः गगनगञ्जः सर्वनीवरणविष्कम्भी अपायजह आर्यवज्रपाणि सुधनश्चेत्येते दश बोधिसत्त्वाः दक्षिणतो प्रत्येकबुद्धाः अष्टौ ध्यायीत। चन्दनः गन्धमादनः केतुः सुकेतु सितकेतु ऋष्ट‍उपारिष्टनेमिश्चेति। अष्टौ महाश्रावकाः तत्रैव स्थाने। तद्यथा - आर्यमहामौद्गल्यायन शारिपुत्र गवाम्पति पिण्डोल भरद्वाज पिलिन्दवत्सः आर्यराहुलः महाकाश्यप आर्यानन्दश्चेति। इत्येषां महाश्रावकाणां समीपे अनन्तं भिक्षुसङ्घं ध्यायीत। प्रत्येकबुद्धानां समीपे अनन्तां प्रत्येकबुद्धां ध्यायीतं। महाबोधिसत्त्वानां चाष्टासु स्थानेषु अनन्तं बोधिसत्त्वसङ्घं ध्यायीत॥



एवं शस्तं नभस्तलं महापर्षन्मण्डलोपेतं ध्यायीत। आत्मनश्च नाभिमात्रोदकस्थो नानाविधैः पुष्पैः दिव्यमानुष्यकैः मान्दारवमहामान्दारव पद्ममहापद्मधातुः कारिक‍इन्दीवरकुसुमैश्च नानाविधैः महाप्रमाणैः महाकूटस्थैः पुष्पपुटैः भगवतः पूजां कुर्या। सर्वश्रावकप्रत्येकबुद्धबोधिसत्त्वानां चूर्णच्छत्रध्वजपताकैः दिव्यमानुष्यकैः प्रभूतैः प्रदीपकोटीनयुतशतसहस्रैश्च पूजां कुर्यान्मनोरमाम्॥



एवं च बलिधूपनिवेद्यादिसर्वपूजोपस्थानान्युपकरणानि दिव्यमानुष्यकान्युपहर्तव्यानि। भगवतश्च शाक्यमुने ऊर्णकोशाद्रश्मिंमभिनिश्चरन्तं चात्मानमवभास्यमानं सर्वासां ध्यायीत। समनन्तरध्यानगतस्य जापिनः ब्राह्मपुण्यफलावाप्तिः नियतं बोधिपरायणो भवतीति॥



इत्येवमादयो ध्यानाः कथिता लोकपुङ्गवैः।

श्रेयसः सर्वभूतानां हितार्थं चैव मन्त्रिणाम्॥

आदिमुख्यो तदा ध्यानो हितार्थं सर्वमन्त्रिणाम्।

कथयामास सत्त्वेभ्यो मुनिः श्रेष्ठोऽथ सत्तमः॥

मण्डलाकारतद्वेषप्रथमे मुनिभाषिते।

द्वितीयं मण्डलं चापि तृतीयं मन्त्रमतः परम्॥

प्रथमे उत्तमा सिद्धिः मध्यमे तु तथा परम्।

कन्यसे क्षुद्रसिद्धिस्तु निगम्य मुनिपुङ्गवः॥

पटाकारं तथा ध्यानं ज्येष्ठमध्यमकन्यसाम्।

समासेन तु तद्ध्यानं सर्वकिल्विषनाशनम्॥

नातःपरं प्रपद्येत ध्यानाकारमनीषिणः।

सिद्ध्यन्ति तस्य मन्त्रा वै ध्यानेऽस्मिं सुप्रतिष्ठिताः॥

यथेष्टं विधिनाख्यातं ध्यानं ध्यात्वा तु जापिनः।

विसर्ज्य तत्र वै मन्त्रं अर्घं दत्त्वा यथासुखम्॥

उत्तीर्य तस्माज्जलौघात्तु ततो गच्छेद् यथासुखम्।

स्थानं पूर्वनिर्दिष्टं विधिदृष्टं सुसंयतम्॥

जपेन्मन्त्रं तदा मन्त्री पूर्वकर्म यथोदिते।

विसर्ज्य मन्त्रं वै तत्र आहूता आश्च देवताः॥

ततो निकृत्वा रक्षा सहायानां वा तथैव च।

कुशलो कर्मतत्त्वज्ञो विधिकर्मरतो मतः॥

विविधैः स्तोत्रोपहारैस्तु संस्तुत्वा अग्रपुङ्गलम्।

स्वमन्त्रं मन्त्रनाथं च श्रावकां प्रत्येकखड्‍गिणा॥

बोधिसत्त्वां महासत्त्वां त्रैलोक्यानुग्रहक्षमां।

ततोत्थाय पुनस्तस्मादासनान्मन्त्रजापिनः॥

दूरादावसथाद् गत्वा बहिर्वातान्तवर्जिताम्।

विसृजेच्छटसिङ्घाणं मूत्रप्रस्रवणं तथा॥

दिवा उदङ्मुखं चैव रात्रौ दक्षिणामुखम्।

न तत्र चिन्तयेदर्थां मन्त्रजापी कदाचन॥

न जपेत्तत्र मन्त्रं वै स्वकर्मकुलभाषितम्।

प्रशस्ता गतिचिह्नाद्यैः उपविष्टो तदा भुवि॥

उपस्पृश्य जले शुद्धे शुचिवस्त्रान्तगालिते।

प्रक्षाल्य चरणौ जानोर्मृत्तिकैः सप्त एव तु॥

प्रश्रुतो सप्त गृह्णीयात् + + + + + + + + + + ।

पुरीषस्रावणे त्रिंशत् उभयान्ते करे उभौ।

खेटच्छोरणे चैव सिङ्घाणे द्वयं तथा॥

उपस्पृश्य ततो उत्ना दूरादावसथा भुवि।

शब्दमात्रं तथा गत्वा अध्वानादिषुक्षेपणा॥

ततो परे यथेष्टं तु दक्षिणान्तां दिशां बहिः।

श्वभ्रकेदामौषर्ये सिकतास्तीर्णे तथैव च॥

नदीवर्जां तु पारं चैत्यजेदवस्करदाशुचिम्।

प्रच्छन्ने रसहि विश्रब्धो प्रान्ते जनविवर्जिते॥

तदा भवे तु बिन्मन्त्री कुर्यात् पूतिच्छोरणम्।

त मन्त्रजापी कालज्ञो कुर्याद् वेगविधारणम्॥

यथेष्टं ततो गत्वा देशं वै शुचिं प्रान्ते यथाविधि।

कुटिः प्रस्रवणं कृत्वा तस्मिं देशे यथासुखम्॥

उडये वा रहसिच्छन्ने गुप्ते वा चैव भूतले।

मौनी सङ्गवर्जीत कुर्यात् प्रस्रवणं सदा॥

विगते मूत्रपुरीषे तु कुर्यात् शौचं सदा व्रती।

सुकुमारां सुस्पर्शपिष्टां तु मृत्तिकां प्राणवर्जिताम्॥

गृह्य तिस्रं तथा चैकं गुदौ सदा उभयान्ते च करौ तथा।

गृह्य पूर्वं तु निर्दिष्टमन्त्रिणा च सदा भुवि॥

पादौ प्रक्षाल्य यत्नेन दक्षिणं तु ततः परम्।

अन्योन्यनैवं संश्लिष्य पादा चैव सदा जपी॥

विस्तरः कथितं पूर्वं शौचं मन्त्रजापिनाम्।

गन्धनिर्लेपशौचं तु कथितं शुचिभिः पुरा॥

एतत् संक्षेपतो ह्युक्तं शौचं मन्त्रवातिनाम्।

गन्धनिर्लेपतो शौचं शुचिरेव सदा भवेत्॥

दृश्यते सर्वतन्त्रेऽस्मिन् इत्युवाच मुनिप्रभुः।

उपस्पृश्य तति जापी सिद्धकर्मरतो यतिः॥

विधिना पूर्वमुक्तेन अन्तः शुद्धेन मानसा।

शौचं पञ्चविधं प्रोक्तं सर्वतन्त्रेषु मन्त्रिणाम्॥

कायशौचो तथा पा + + ध्यानश्चैव कीर्त्यते।

चतुर्थं सत्यशौचं तु आपः पञ्चम उच्यते॥

सत्यधर्मा जितक्रोधो तन्त्रज्ञः शास्त्रदर्शिनः।

सूक्ष्मतत्त्वार्थकुशलाः मन्त्रज्ञः कर्मशालिनः॥

हेतुदध्यात्मकुशलाः सिद्धिस्तेषु न दुर्लभा।

न भाषेद्वितथा पूजां सत्यधर्मविवर्जिताम्॥

क्रूरां क्रूरतरां चैव सर्वसत्यविवर्जिताम्।

विद्वेषणीं सरोषां कर्कशां मर्मघट्टनीम्॥

सत्यधर्मविहीनां तु परसत्त्वानुपीडनीम्।

पिशुनां क्लिष्टचित्तां च सर्वधर्मविवर्जिताम्॥

हिंसात्मकीं तथा नित्यं कुशीलां धर्मचारिणीम्।

मन्त्रजापी सदावर्ज्या ग्राम्यधर्मं तथैव च॥

मिथ्यासं वक्रोधं वै परलोकातिभीरुणा।

गर्हितं सर्वबुद्धेस्तु बोधिसत्त्वैस्तु धीमतैः॥

प्रत्येकखड्‍गिभिर्नित्यं श्रावकैश्च सदा पुनः।

मृषावादं तथा लोके सिद्धिकामार्थिनां भुवि॥

नरका घोरतरं याति मृषावादोपभाषिणः।

पुनस्तिर्यग्भ्यो तथा प्रेते यमलोके सदा पुनः॥

वसते तत्रैव नित्यं मृषावादोपजीविना।

तपने दुर्मतिर्घोरे कालसूत्रे प्रताप्रते॥

सञ्जीवेऽसिपत्रे च तथैव शाल्मलीवने।

बहुकल्पां वसेत् तत्र मृषावादी तु जन्तुनः॥

कुतस्तस्य तु सिद्ध्यन्ते मन्त्रा वै मिथ्यभाषिणः।

उद्वेजयति भूतानि मिथ्यावाचेन मोहितः।

ततोऽसौ मूढकर्मा वै मन्त्रसिद्धिमपश्ययम्॥

एवंच वदते वाचां नास्ति सिद्धिस्तु मन्त्रिणाम्।

कुतस्तस्य भवेत् सिद्धिः बहुकल्पा न कोटिभिः॥

प्रतिक्षिप्त येन बुद्धानां शासनं तु महीतले।

ततोऽसौ पद्यते घोरे अविद्यां तु महाभये॥

सञ्जीवे कालसूत्रे च नरके च प्रतापने।

महाकल्पं वसेत् तत्र सद्धर्मो मे विलोपनात्॥

निरये घोरतमसे पच्यन्ते बालिशा जनाः।

सद्धर्मावमन्यं तु अन्धेन तमसा वृता॥

अज्ञाना बालभावाद्वा मूढा मिथ्याभिमानिनः।

पतन्ति नरके घोरे विद्याराजावमन्य वै॥

तस्मात् पापं न कुर्वीत मिथ्याकार्यं च गर्हितम्।

सद्धर्मं चावमन्यं वै मिथ्यादृष्टिश्च गर्हिताः॥

तस्मात् श्राद्धो सदा भूत्वा सेवन्मन्त्रविधिं सदा।

सत्यवादी च मन्त्रज्ञो सत्त्वानां च सदा हितः।

भजेत मन्त्रं मन्त्रज्ञो ध्रुवं सिद्धिस्तु तस्य वै॥

करोति विविधां कर्मा उत्कृष्टाधममध्यमाम्।

क्रिया हि कुरुते कर्म नाक्रिया हि हितं सदा॥

क्रियाकर्मसमायुक्तो सिद्धिस्तस्य सदा भवेत्।

क्रियार्थसर्वमर्थत्वात् कर्ममर्थसदाक्रिया॥

अक्रियार्थं क्रियार्थं च क्रियाकर्म च युज्यते।

सफलं चैव क्रिया यस्य क्रियां चैव सदा कुरु॥

कृत्यं कर्मफलं चैवं कृत्यकर्मफलं सदा।

अफलं फलतां यान्ति फलं चैव सदाफलम्॥

अफला सफलाश्चैव सर्वे चैव फलोद्भवाः।

संयोगात् साध्यते मन्त्रं संयोगो मन्त्रसाधकः।

असंयोगवियोगश्च वियोगो संयोगसाधकः॥

साध्यसाधनभावस्तु सिद्धिस्तेषु न सिद्ध्यते।

सिद्धिद्रव्यास्तु सर्वत्र विरुद्धाः सिद्धिहेतवः॥

अप्रसिद्धा सिद्धमन्त्राणां मन्त्राः साधनकारणाः।

कर्तुरीप्सिततमं कर्म कर्मरिप्सु क्रियाभवः॥

अकर्म सर्वकर्मेषु न कुर्यात् कर्महेतवः।

मन्त्रतन्त्रार्थयुक्तश्च सकलं कर्ममारभेत्॥

आरब्धं आरभेत् कर्म अकर्मां चैव नारभेत्।

अनारम्भक्रिया मन्त्रा न सिध्यन्ते सर्वदेहिनाम्॥

पुरा गीतं मुनिभिः श्रेष्ठैः सर्वसद्धर्मभाषिभिः।

समयं जिनपुत्राणां मन्त्रवादे तु दर्शितम्॥

साधकः सर्वमन्त्रज्ञो कल्पराजे इहापरे।

देशितं मन्त्ररूपेण मार्गं बोधिकारणम्॥

सिध्यन्ति मन्त्राः सर्वे मे यत्र युक्ति सदा भवेत्।

सोऽचिरेणैव कालेन सिद्धिं गच्छेन्मनीषिताम्॥

शिवार्थं सर्वभूतानां सम्बुद्धैस्तु प्र + + + ।

+ + + + + + रूपेण निर्वाणपुरगामिनाम्॥

बोधिमार्गं तथा नित्यं सर्वकर्मार्थपूरकम्।

बुद्धत्वं प्रथमं स्थानं निष्ठं तस्य परायणम्॥

अनाभोगे तथा सिद्धिः प्राप्नुयात् सफलानिह।

विचित्रकर्मधर्मज्ञा मन्त्राणां करणं भवेत्॥

शीलध्यानविमोक्षाणां प्राप्तिरेषा समासतः।

कथिता जिनमुख्यैस्तु सर्वार्थसाधना॥

पुष्कलान् प्राप्नुयादर्थां उत्तमां गतिनिश्रयाम्।

यक्षाध्यक्ष तथा नित्यं अधमा राज्यकारणा॥

नृसुरासुरलोकानां प्राप्नुयात् सर्वमन्त्रिणः।

आधिपत्यं तथा तेषां कुरुते सफलां क्रियाम्॥

शौचाचारसमायुक्तो शीलध्यानरतः सदा।

जपेन्मन्त्रं तति मन्त्री सर्वमन्त्रेषु भाषिताम्॥

चित्रां कुरुते कर्मां तथा चोत्तममध्यमान्।

कन्यसांश्चैव कुर्वीत भूतिमाकाङ्क्ष्य मन्त्रिणः॥

कन्यसे भोगवृद्धिस्तु मध्यमे चोर्ध्वदेहिनाम्।

उत्कृष्टं चोत्तमेनैव सम्प्राप्नोति जापिनः॥

जपान्ते विश्रमेन्मन्त्री यावत् कालमुदीक्षयेत्।

साधनं तत्र कुर्वीत प्राप्तकाले तु जापिनः॥

सिध्यन्ति सर्वकर्माणि तथापि तत्र नित्यं जापी पापक्षयाच्च पुंसाम्।

करोति मन्त्री विधिपूर्वकर्म यत्तत् कृतं कर्मपरम्परासु॥

सिद्धिः स्थिता तस्य भवे कदाद्वा समग्रतां याव लभेत् पुंसः।

जपेत मन्त्रं पुन मन्त्रजापी पापक्षयार्थं तत कर्मनाशना॥

सिध्यन्तु मन्त्रास्तु तथोत्तमानि ये मध्यमा कन्यसलोकपूजिता।

जपेन पापं क्षपयन्त्यशेषं यत्तत् कृतं जन्मपरम्परासु॥

नश्यन्ति पापा तथा सर्वदेहिनां करोति चित्रां विविधाङ्गभूषणाम्।

मनोरमां सर्वगुणानुशालिनां यक्षे समावासनृपत्वनित्यम्॥

सर्वार्थसिद्धिं समवाप्नुवन्ति मन्त्रं जपित्वा तु तथागतानामिति॥



बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पाद् एकादशमपटलविसराच्चतुर्थः साधनोपयिककर्मस्थानजपनियमहोमध्यानशौचाचारसर्वकर्मविधिसाधनपटलविसरः समाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project