Digital Sanskrit Buddhist Canon

अथ दशमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha daśamaḥ paṭalavisaraḥ

अथ दशमः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः पुनरपि कर्मसाधनोत्तमं भाषते स्म। इह कल्पराजे अन्यतमं मन्त्रं गृहीत्वा गङ्गामहानदीमवतीर्य नौयानसंस्थितः गङ्गायाः मध्ये क्षीरोदनाहारः त्रिंशल्लक्षाणि जपेत् यथेष्टदिवसैः॥



ततो जपान्ते सर्वान् नागां पश्यति। ततः साधनमारभे तत्रैव नौमध्ये अग्निकुण्डं कारयेत् पद्माकारम्। ततो नागकेसरपुष्पैः पटस्य महतीं पूजां कृत्वा ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखं कुशविण्डकोपविष्टः नागकेसरपुष्पं एकैकं सप्ताभिमन्त्रितं कृत्वा खदिरकाष्ठेन्धनाग्निप्रज्वालिते जुहुयात्। यावत् त्रिंशसहस्राणि श्वेतचन्दनकुङ्कुमपूतानां नागकेसरपुष्पां नान्येषां नागानां दर्शनमवेक्ष्यं सिद्धद्रव्यैश्च प्रलोभयन्ति। न ग्रहीतव्यानि॥



ततो होमान्ते नौयानेन सार्द्धमुत्पतति। विद्याधरचक्रवर्ती भवति। सर्वनागेन्द्रराजाश्चास्यानुचरा भवन्ति। भृत्या इव तिष्ठन्ते। त्रिंशत्यन्तरकल्पां जीवति। स्वच्छन्दचारी चास्य भवति। अप्रतिहतगतिः आर्यमञ्जुश्रियं साक्षात् पश्यति। स मूर्ध्नि स्पृशति स्पृष्टमात्रश्च पञ्चाभिज्ञो भवति। नियतं बुद्धत्वमधिगच्छति। अपरमपि उत्तमकर्मोपयिकसाधनं भवति। गङ्गामहानदीमवतीर्य एककाष्ठेनैव विल्ववृक्षमयेन नौयानं कृत्वा सुदृष्टं सुकृतं तत्र समाभिरूह्य बिल्वकाष्ठकमयं वाहनं तेनैव तां नौ अनुसाधकेनैव व्यक्तेन निपुणतरेण वाहये गङ्गामहानदीमपरित्यज्य बाहयेत् समन्तात्। तिर्यग् दीर्घं वा। अतोऽन्यतरं मन्त्रं गृहीत्वा मूलमन्त्रषडक्षरसकृत् अष्टाक्षर एकाक्षरं वा क्रोधदूतीदूत अपरा वा अन्यतरं वा मन्त्रं गृहीत्वा ज्येष्ठं पटं तत्रैव अश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वामुखं प्रथमतः पश्चाद् यथेष्टं भवति क्षीरयावकफलाहारो वा उदककन्दमूलफलाहारो वा मौनी त्रिः कालस्नायी त्रिचेलपरिवर्ती शुक्लकर्मसमाचारी सुशुक्लबुद्धिः। प्रथमं तावत् पटस्याग्रतः यथोपदिष्टपूर्वदृष्टविधिः विद्यां षष्टिलक्षाणि जपेत्। ततो जपान्ते नौर्महासमुद्राभिगामिनी भवति॥



ततो साधकेनोपकरणानि सङ्गृह्य पूर्वस्थापितकानि कुर्यात् तत्रैव नौयाने। ततो महासमुद्रं गच्छता न भेतव्यम्। नापि निवारयितव्या। न च शक्यन्ते निवर्त्तापयितुं वर्जयित्वा साधकशात्॥



ततो मुहूर्तमात्रेणैव महासमुद्रं प्रविशति योजनसहस्रस्थितापि, किं पुनः स्वल्पमध्वानम्। तत्र प्रविष्टः सरितालये साधनकर्ममारभेत्। खदिरकाष्ठैरग्निं प्रज्वाल्य पूर्वकारिताग्निकुण्डे कुम्भकारकारिते वा मृद्भाण्डे नागकेसरकिञ्जल्काहुतीनां श्वेतचन्दनकर्पूरव्यामिश्राणां स्वल्पतराणां प्रभूततरप्रमाणानां वा षष्टिलक्षाणि जुहुयात्॥



जुह्वतश्च लङ्कापुरिवासिनो राक्षसा बहुरूपधारिणः हाहाकारं कुर्वन्ताः नागपुरिभोगवतीवासिनाश्च नागराजानः उत्तिष्ठन्ते विविधरूपधारिणो क्रूरतराः सौम्यतराश्च। ते नागराक्षसाश्च एवमाहुः - उत्तिष्ठतु भगवानुत्तिष्ठतु भगवानिति। अस्माकं स्वामी भवत्। एवं असुराः यक्षाः देवाः महोरगाः सिद्धाः सर्वमानुषाश्च प्रलोभयन्ति। नोत्थातव्यं न भेतव्यं च॥



ततो विद्याधरेण मन्त्रं जपता वामहस्ते तर्जन्या तर्जयितव्या। ततो विद्रवन्ति इतश्चामुतश्च प्रपलायन्ते नश्यन्ति च। ततो होमावसाने सा नौतं साधकं गृहीत्वा क्षणेनाकनिष्ठभवनं गच्छन्ति। अपराण्यपि लोकधातुं गच्छत्यागच्छति च बोधिसत्त्वचित्तविदो भवति पञ्चाभिज्ञः महर्द्धिको भवति महानुभावः। आर्यमञ्जुश्रियं चास्य सततं पश्यति। सर्वनागाः सर्वराक्षसाः सर्वदेवाः सर्वासुराः सर्वसत्त्वा चास्य वश्या भवन्ति। आज्ञाकराः स्थापयित्वा सर्वबुद्धबोधिसत्त्व प्रत्येकबुद्धार्यश्रावकानामिह मन्त्रसिद्धानां च। ते चास्य मैत्रात्मका भवन्ति अनुमन्तारः यावत्सर्वसत्त्वानामधृष्यो भवति॥



अपरमपि कर्मोपयिकोत्तमसाधनं भवति। बिल्वकाष्ठैर्महता नौयानं कारापये। एककाष्ठदारुसङ्घातैर्वा महतावस्थानं च कुर्यात्। गङ्गामध्यस्थे द्वीपकं तत्रस्थं नौयानं कुर्या। तस्मिंश्च नौयाने विंशोत्तरशतं पुष्पाणां प्रदीपव्यग्रहस्तानां नौयानमभिरूढानां शुक्लाम्बरवसनानां कृतरक्षाणां ज्येष्ठपटपूर्वविधिसंस्थापितकस्याग्रतः संस्थापयेत्। ततो पटस्य महतीं पूजां कृत्वा नागकेसरचूर्णानां कुङ्कुमश्वेतचन्दनकर्पूरव्यामिश्राणां खदिरानले आहूतीसहस्राणि षट्‍त्रिंश जुहुयात्॥



ततो होमावसाने सा नौ क्षणमात्रेण ब्रह्मलोकं गच्छति। आगच्छति च। यथेष्टं विचरते। आर्यमञ्जुश्रियं साक्षात् पश्यति। दृष्टमात्रश्च भूमिप्राप्तो भवति पञ्चाभिज्ञः चिरकालजीवी महाकल्पस्थायी महाविद्याधरचक्रवर्तिराजा भवति। ते चास्य प्रदीपधरा सिद्धविद्याधरा भवन्ति। सहायका तैः सार्द्धं यथेष्टं विचरते स्वच्छन्दगामी भवति। बुद्धान्यं भगवतां पूजाभिरतो भवति। अन्ते च बुद्धत्वं नियतं भवति। अपरमपि कर्मोपयिकसाधनोत्तमो भवति॥



नदीकूले समुद्रकूले वा हिमवन्तगिरौ तथा।

पर्वते विन्घ्यराजेऽस्मिं साधयेत् कर्ममुत्तमम्॥



सह्ये मलये चैव अर्बुदे गन्धमादने।

तृकूटे पर्वतराजेऽस्मिं शाधयेत् कर्ममुत्तमम्॥



महासमुद्रे तथा शैले वृक्षाढ्ये पुष्पसम्भवे।

एते देशेषु सिध्यन्ते मन्त्रा वै जिनभाषिता।

विविक्तदेशे शुचौ प्रान्ते ग्राम्यधर्मविवर्जिते॥



सिध्यन्ते मन्त्रराट् सर्वे तथैव गिरिगह्वरे।

प्रान्तशय्यासने रम्ये तथैव जिनवर्णिते॥

दुष्टसत्त्वविनिर्मुक्ते सिध्यन्ते सर्वमन्त्रराट्।

धार्मिके नृपे देशे शौचाचाररते जने॥



मातपितृभक्ते च द्विजवर्णाविवर्जिते।

देवता सिद्धिमायान्ति तस्मिं स्थाने तु नान्यथा॥



भागीरथीतटे रम्ये युमने चैव सुशोभने।

सिन्धुनर्मदवक्षे च चन्द्रभागे शुचौ तटे॥



कावेरी सरस्वती चैव सिता देवमहानदी।

सिद्धिक्षेत्राण्येतानि उक्ता दशबलात्मजैः॥



दशबलैः कथिताः क्षेत्राः उत्तरापथपर्वताः।

कश्मीरे चीनदेशे च नेपाले काविशे तथा॥



महाचीने तु वै सिद्धि सिद्धिक्षेत्राण्यशेषतः।

उत्तरां दिशिमाश्रित्य पर्वताः सरिताश्च ये॥



पुण्यदेशाश्च ये प्रोक्ता यवगोधूमभोजिनः।

सत्त्वा दयालवो यत्र सिद्धिस्तेषु ध्रुवा भवेत्॥



श्रीपर्वते महाशैले दक्षिणापथसंज्ञिके।

श्रीधान्यकटके चैत्ये जिनधातुधरे भुवि॥



सिद्ध्यन्ते तत्र मन्त्रा वै क्षिप्रः सर्वार्थकर्मसु।

वज्रासने महाचैत्ये धर्मचक्रे तु शोभने॥



शान्तिं गतः मुनिः श्रेष्ठो तत्रापिः सिद्धि दृश्यते।

देवावतारे महाचैत्ये सङ्कश्ये महाप्रातिहारिके॥



कपिलाह्वये महानगरे वरे वने लुम्बिनि पुङ्गवे।

सिद्ध्यन्ते मन्त्रराट् तत्र प्रशस्तजिनवर्णिते॥



गृध्रकूटे तथा शैले सदा सीतवने भुवि।

कुसुमाह्वये पुरधरे रम्ये तथा काशीपुरी सदा॥



मधुरे कन्यकुब्जे तु उज्जयनी च पुरी भुवि।

वैशाल्यां तथा चैत्ये मिथिलायां च सदा भुवि॥



पुरीनगरमुख्यास्तु ये वान्ये जनसम्भवा।

प्रशस्तपुण्यदेशे तु सिद्धिस्तेषु विधीयते॥



एते चान्ये च देशा वै ग्रामजनपदकर्वटा।

पत्तना पुरवरा श्रेष्ठा पुण्या वा सरिताश्रिता॥



तत्र भिक्षानुवर्ती च जपहोमरतो भवेत्।

लपने चाभ्यवकाशे च शून्यमायतने सदा॥



पूर्वसेवां तु कुर्वीत मन्त्राणां सर्वकर्मसु।

मध्यदेशे सदा मन्त्री जपेन्मन्त्रं समन्ततः॥



जापप्रवृत्तो सदायुक्तंः त्यागाभ्यासात् मन्त्रवित्।

शीलाचारसुसत्यश्च सर्वभूतहिते रतः॥



श्राद्धो मन्त्रचर्यायां पूर्वमेव जपे व्रती।

शुचौ देशे सुक्षेत्रे म्लेच्छतस्करवर्जिते॥



सरीसृपादिषु सर्वेषु वर्जितं च विरिष्यते।

फलपुष्पसमोपेते प्रशस्ते निर्मलोदके॥



सर्वे मन्त्रविन्मन्त्रं नान्यदेशेषु कीर्त्यते।

देवालये श्मशाने वा एकस्थावरलक्षिते॥



एकलिङ्गे तथा प्रान्ते सर्वे मन्त्रं तु मन्त्रवित्।

आत्मरक्षां सखायां तु कृत्वा वै स पुरश्चरी॥



मन्त्रयुक्तो सदा मन्त्री सेवेन्मन्त्रमुत्तमम्।

महारण्ये महावृक्षे कुसुमाढ्ये फलोद्भवे॥



+ + + + + ++ + + + + + + + पर्वताग्रे तु निम्नगे।

उदकस्थाने शुचौक्षे च महासरित्तटे वरे॥



सेवेत मन्त्रं मन्त्रज्ञो स्थानेष्वेह + + + + ।

प्राग्देशे च लौहित्ये महानद्ये नदीशुभे॥



कामरूपे तथा देशे वर्धमाने पुरोत्तमे।

यत्रासौ निम्नागा श्लिष्टातिपुण्याग्रसरिद्वरा॥



तस्मिं स्थाने सदाजापी भजेत सुविगां शुचिः।

पूर्वसेवं तु तस्माद्वै कुर्यात्सर्वकर्मसु॥



गङ्गाद्वारे तथा नित्यं गङ्गासागरसङ्गमे।

शुचिर्जपेत् मन्त्रं वै प्रयोगे चैव सव्रतः॥



महाश्मशानान्येतानि जापी तत्र सदा जपेत्।

विमलोदकानि सरितानि कृमिभिर्वर्जितानि च॥



अतएव जपी तत्र जपेन्मन्त्रं समाहितः।

न पुण्यं तत्र वै किञ्चिद् दृश्यते लोकचेष्टितम्॥



किन्तु मन्त्रापदेशेन किञ्चित्कालं वसेत वै।

अन्यत्र वा ततो गच्छे समये सोमग्रहे त्रवत्॥



समयप्राप्तो वसत्तत्र किञ्चित्कालं तु नान्यथा।

अन्यत्र वा ततो क्षिप्रं गच्छे शक्ता तु मन्त्रवित्॥



सुगतध्युषितचैत्येषु भूतलेषु सदा वसेत्।

लोकतीर्थानि सर्वाणि कुदृष्टिपतितानि च॥



अन्यानि तीर्थस्थानानि मन्त्रविद् वर्जये सदा।

न वसेत् तत्र मन्त्रज्ञो कुहेतुगतिमुद्भवाम्॥



आक्रान्तं जिनवरैर्यस्तु भूतलं प्रत्येकखड्‍गिभिः।

बोधिसत्त्वैर्महासत्त्वैः श्रावकैर्जिनवरात्मजैः॥



तानि सर्वाणि देशानि सेवेन्मन्त्रविन्मन्त्रजापी।

पूर्वमेवं प्रयत्नेन तस्मिं स्थाने सदाचरे॥



विधिदृष्टेन मन्त्रज्ञो जपेन्मन्त्रं पुनः पुनः।

पापं ह्यशेषं नाशयति जपहोमैश्च देहिनाम्॥

तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं सुसमाहितमिति॥



एतानि स्थानान्युक्तानि सर्वकर्मेषु च उत्तमकर्मोपयिकसाधनेषु। एषामलाभेन यत्र वा तत्र वा स्थाने शुचौ पूर्वसेवाः कार्या श्रद्धाविमुक्तेन साधनोपयिकोत्तमकर्म समाचरेत्॥



आदौ तावज्ज्येष्ठं पटं पञ्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखं प्रतिष्ठाप्य वल्मीकाग्रमृत्तिकां वा गङ्गानदीकूलमृत्तिकां वा गृह्य उशीरश्वेतचन्दनकुङ्कुमं वा कर्पूरादिभिर्व्यतिमिश्रयित्वा मयूराकारं कुर्यात्। तं पटस्याग्रतः स्थापयित्वा अच्छिन्नाग्रैः कुशैः शुचिदेशसमुद्भवैः चक्राकारं कृत्वा पटस्याग्रतः दक्षिणहस्तेन गृहीत्वा वामहस्तेन मयूरं शुक्लपूर्णमास्यां रात्रौ पटस्य महतीं पूजां कृत्वा कर्पूरधूपं दहता तावज्जपेद् यावत्प्रभात इति॥



ततः सूर्योदयकालसमये तन्मृन्मयं मयूरः महामयूरराजा भवति। चक्रश्चादीप्तः। आत्मनश्च दिव्यदेही दिव्यमाल्याम्बराभरणविभूषितः उदितादित्यसङ्काशः कामरूपी। सर्वबुद्धबोधिसत्त्वानां प्रणम्य पटं प्रदक्षिणीकृत्य पटं गृहीत्वा तस्मिं मयूरासने निषण्णः मुहूर्तेन ब्रह्मलोकमतिक्रामति। अनेकविद्याधरकोटीनयुतशतसहस्रपरिवारितः विद्याधरचक्रवर्ती भवति। षष्टिमन्वन्तरकल्पां जीवति। यथेष्टगतिप्रचारो भवति। अप्रतिहतगतिः दिव्यसम्पत्तिसमन्वागतो भवति। आर्यमञ्जुश्रियं साक्षात् पश्यति साक्षात् पश्यति। स एवास्य कल्याणमित्रो भवति। अन्ते च बुद्धत्वं प्राप्नोतीति॥



एवं दण्डकमण्डलुयज्ञोपवीतमनशिलारोचनखड्गनाराचभिण्डिपालपरशुनानाविधांश्च प्रहरणविशेषां मृन्मयां द्विपदचतुष्पदां पक्षिवाहनविशेषां सिंहव्याघ्रतर्क्ष्वादींश्च वल्मीकमृत्तिकमयां नदीमृत्तिकमयां वा सुगन्धगन्धाभिप्लुतां आसनवाहनशयनवाहनसितातपत्रमकुटाभरणविशेषां सर्वांश्च रत्नविशेषां सर्वांश्च प्रव्रजितोपकरणविशेषां अक्षसूत्रोपानहकाष्ठपादुकपात्रचीवरखखरकशूचीशस्त्रप्रभृतयो पुष्पलोहमयानि अन्ये वा यत्किञ्चित् सर्वोपकरणभाण्डप्रभृतयो पुष्पलोहमयां वाल्मीकमृत्तिकनदीकूलमृत्तिकमयां वा तां सर्वां पञ्चगव्येन प्रक्षालयित्वा अभ्युक्षयित्वा वा अष्टशतेनाभिमन्त्रितं कृत्वा संशोधनमन्त्रेणैव एकाक्षरेण मन्त्रेण वा अन्यतरेण वा मन्त्रेणेहकल्पराजोक्तेन वर्जयित्वानुसाधनोपयिकेन मन्त्रेण यथेष्टतः यथाभिरुचितं आत्मनो कृतरक्षः सहायकांश्च कृतपरित्राणः सगुप्तमन्त्रतन्त्रज्ञः पूर्वनिर्दिष्टेषु स्थानेषु पश्चान्मुखं प्रतिष्ठाप्य आत्मनो पूर्ववत् पटस्य महतीं पूजां कृत्वा ज्येष्ठस्य कर्पूरधूपं दहता तेषां पूर्वनिर्दिष्टानां प्रहरणोपकरणसर्वविशेषां पूर्वनिर्दिष्टकृत्रिमां शुक्लपुर्णमास्यां रात्रौ अन्यतरं सङ्गृह्य तेषां रात्रौ तावज्जपेत् यावत्सूर्योदयकालसमयम्॥



अत्रान्तरे महाप्रभामाली पटो सन्दृश्यते। यदि वाहनविशेषं साधकेन गृहीतो भवति तदाभिरुह्य यथेष्टं गच्छति। यद्याभरणविशेषो प्रहरणविशेषो वा तं गृहीत्वा वन्द्यो वा विद्याधरचक्रवर्तीं भवति। यथेष्ट गच्छति दिव्यरूपी उदितादित्यसङ्काशः महाप्रभामाली विद्युद्योतितमूर्त्तिः सर्वविद्याधरप्रभुः दीर्घजीवी महाकल्पस्थः अनेक विद्याधरकोटीनयुतशतसहस्रपरिवारः दिव्यमहामणिरत्नचारी येन वा वाहनेन पूर्वपरिकल्पितेन दृष्ट येन सिद्धो स एवास्य महाप्रभावो भवति। तमेवास्य वाहनं स एवास्य सहायकः परमन्त्राणुसिद्धिः निवारयित्वा आत्ममन्त्रसिद्धिं सम्प्रयोजितमैत्रात्मको हितकामः सततानुबद्धः य एवास्य प्रहरणाभरणरत्नविशेषाः आसनशयनयानसत्त्व प्रभृतयो त एवास्य महारक्षावरणगुप्तये नित्यानुबद्धा भवन्ति। महाप्रभावो महावीर्यो महाकायश्च भवति। आर्यमञ्जुश्रियं साक्षात् पश्यति। साधुकारं च ददाति। मूर्ध्निरपरामृष्टेन कल्याणमित्रतां च प्रतिलभते। यावद् बोधिमण्डलमनुप्राप्त इति दशबलतां नियतमवाप्नोति। पूज्यश्च भवति। सर्वसत्त्वानामनभिभवनीयः अधृष्यो भवति सर्वभूतानां भूतकोटीवंशानुच्छेदकः भूमिप्राप्तश्च भवति। दशबलानां बोधिसत्त्वनियामतां च समनुगच्छतीति संक्षेपतो उत्तमकर्माणि सर्वाणि उत्तमस्थानस्थिते उत्तमपटस्याग्रतः उत्तमपूजाभिरतः उत्तमान्येव कर्माणि कुर्यात्। विद्याधरत्वमाकाशगमनं बोधिसत्त्वमनुप्रवेशं पञ्चाभिज्ञतां भूमिमनुप्रापणतां अनेनैव देहेन लोकधातुसङ्क्रमणतां दशबलवंशपरिपूरितायै आर्यमञ्जुश्रियं साक्षाद्‍दर्शनतायै अवन्ध्यदर्शनधर्मदेशनश्रवणतायै बुद्धवंशानुपच्छेदनतायै सर्वज्ञज्ञानानुक्रमणसमनुप्रापणतायै धर्ममेघविसृतसमनुप्रवेशनतायै क्लेशानुच्छोषण अमृतवृष्टिधारिभिः प्रशमनतायै लोकानुग्रहप्रवृत्तिरनुष्ठानतायै तथागतधर्मनेत्रारक्षणतायै तथागतवचनावन्ध्यकरणतायै मन्त्रचर्यासाधनोपयिकविधिप्रभावनतायै सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकमाहात्म्यधर्ममुद्भावनतायै साधनीयमिमं कल्पराजविसरं मन्त्रप्रतिभाषयुक्तज्येष्ठपटाग्रसमीपस्थसर्वलौकिकलोकोत्तरमन्त्रकल्पसर्वतन्त्रेषु विधिमार्गेण संक्षेपतो इहान्यकल्पभाषितैरपि कर्मभिः साधनीयोऽयं पटराजा। आशुस्तेषां मन्त्राणां सिद्धिर्भवतीति यन्मया कथितं तदवश्यं सिध्यतीति॥



बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् दशमः उत्तमपटविधानपटलविसरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project