Digital Sanskrit Buddhist Canon

अथ नवमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Atha navamaḥ paṭalavisaraḥ
अथ नवमः पटलविसरः।



अथ खलु भगवान् शाक्यमुनिः सर्वावती पर्षन्मण्डलोपनिषण्णां देवसङ्घानामन्त्रयते स्म। शृण्वन्तु भवन्तो मार्षा मञ्जुश्रियस्य कुमारभूतस्य चर्यामण्डलमन्त्रसाधकमोपयिकं रक्षार्थं साधकस्य परमगुह्यतमं परमगुह्यहृदयं सर्वतथागतभाषितं महाविद्याराजम्। येन जप्तेन सर्वमन्त्रा जप्ता भवन्ति। अनतिक्रमणीयोऽयं भो देवसङ्घाः ! अयं विद्याराजा। मञ्जुश्रियोऽपि कुमारभूतोऽनेन विद्याराज्ञा आकृष्टो वशमानीतो सम्मतीभूतः। कः पुनर्वादः तदन्ये बोधिसत्त्वाः, लौकिकलोकोत्तराश्च मन्त्राः। सर्वविघ्नांश्च नाशयत्येष महावीर्यः प्रभावः एकवीर्यः एक एव सर्वमन्त्राणाम् अग्रमाख्यायते। एक एव एकाक्षराणामक्षरमाख्यायते। कतमं च तत्। एकाक्षरं सर्वार्थसाधकं, सर्वकार्यकरणं सर्वमन्त्रच्छेदनं दुष्टकर्मिणां सर्वपापप्रनाशनं सर्वमन्त्रप्रतिपूरणं शुभकारिणं सर्वलौकिकलोकोत्तरमन्त्राणामुपर्युपरिवर्तते अप्रतिहतसर्वतथागतहृदयसर्वाशापारिपूरक कतमं च तत्। तद्यथा - कळ्ळ्हीं। एष स मार्षा परमगुह्यतमं सर्वकर्मिकं एकाक्षरं नाम विद्याराजा अनतिक्रमणीयः सर्वसत्त्वानाम्। अधृष्यः सर्वभूतानां मङ्गलं सर्वबुद्धानां साधकः सर्वमन्त्राणां प्रभुः सर्वलोकानाम् ईश्वरो सर्ववित्तेशानां मैत्रात्मको सर्वविद्विष्टानां कारुणिको सर्वजन्तूनां नाशकः सर्वविघ्नानां संक्षेपतः यथा यथा प्रयुज्यते तथा तथा करोति असाधितोऽपि कर्माणि करोति। मन्त्रजपता यं स्पृशति स वश्यो भवति वस्त्राण्यभिमन्त्र्य प्रावरेत् सुभगो भवति। दन्तकाष्ठमभिमन्त्र्य भक्षये दन्तशूलमपनयति। श्वेतकरवीरदन्तकाष्टमभिमन्त्र्य भक्षयेत् अप्रार्थितमन्नमुत्पद्यते। अक्षिशूले सैन्धवं चूर्णयित्वा सप्तवारानभिमन्त्र्य अक्षि पूरयेत् अक्षिशूलमपनयति। कर्णशूले गजविष्ठोत्थितांगर्जानसम्भवां छत्रिकां केधुकपत्रावनद्धां मृद्वाग्निना पचेत्। सुकेलायितां सुखोष्णं सैन्धवचूर्णपूतां कृत्वा सप्ताभिमन्त्रितेन कर्णां पूरयेत्। तत्क्षणादुपशमयति। प्रसवनकाले स्त्रियाया वा मूढगर्भायाः शूलाभिभूतायाः आटरुषकमूलं निष्प्राणकेनोदकेन पीषयित्वा नाभिदेशं लेपयेत्। सुखेनैव प्रसवति नष्टशल्यो वा पुरुषः पुराणघृतं अष्टशतवारानभिमन्त्र्य पाययेल्लेपयेद् वा तत्प्रदेशं तत्क्षणादेव निःशल्यो भवति। अजीर्णविशूचिकायातिसारे मूलेषु सौवर्चलं सैन्धवं वा अन्यं लवणं सप्तवारानाभिमन्त्र्य भक्षये तस्माव्द्याधेर्मुच्यते तदह एव स्वस्थो भवति। उभयातिसारे सद्यातिसारे वा मातुलुङ्गफलं पीपयित्वा निष्प्राणकेनोदकेन तस्मादाबाधान्मुच्यते। सकृज्जप्तेन तु जप्तेन वा वन्ध्यायाः स्त्रिया वा अप्रसवधर्मिण्याः प्रसवमाकांक्षता अश्वगन्धमूलं गव्यघृतेन सह पाचयित्वा गव्यक्षीरेण सह पीषयित्वा गव्यक्षीरेणैवाद्वाल्य पञ्चविंशत्परिजप्तं ऋतुकाले पायये स्नानान्ते च परदारवर्जी गृही काममिथ्याचारवर्जितः स्वदारमभिगच्छे। स्वपतिं वा जनयते सुतं त्रिपञ्चवर्षप्रसवनकालातिरेकं वा अनेकवर्षविष्टब्धो वा परमन्त्रतन्त्रोषधपरमुद्रितपरदुष्टकृतं वा गर्भधारणविधृतं वा व्याधिसमुत्थितं वा अन्यं वा यत्किञ्चि व्याधिं परविधृतस्थावरजङ्गमकृत्रिमाकृत्रिमगरादिप्रदत्तं वा सर्वमूलमन्त्रौषधिमित्रामित्रप्रयोगकृतं वा सप्तविंशतिवारां पुराणघृतमयूरचन्द्रकं चेकीकृत्य पीषयेत्। ततः सुपिष्टं कृत्वा शर्करेण सह योज्य हरीतकीमात्रं भक्षयेत्। सप्तदिवसानि च शर्करोपेतं शृतं क्षीरं पाययेद् अभिमन्त्र्य पुनः पुनः। मस्तकशूले काकपक्षेण सप्ताभिमन्त्रितेन उमार्जायेत् स्वस्थो भवति। स्त्रीप्रदरादिषु रोगेषु आलम्बुषमूलं क्षीरेण सह पीषयित्वा नीलिकामूलसंयुक्तमष्टशताभिमन्त्रितं क्षीरेणालोड्य पाययेत्। एवं चातुर्थकाहिकद्व्याहिकत्र्याहिकसाततिकं नित्यज्वरविषमज्वरादिषु पायसं घृतसंयुक्तं अष्टशताभिमन्त्रितं भक्षापयेत्। स्वस्थो भवति॥



एवं डाकिनीग्रहगृहीतेषु आत्मनो मुखमष्टशतवारानभिमन्त्र्य निरीक्षयेत्। स्वस्थो भवति। एवं मातरवालपूतनवेतालकुमारग्रहादिषु सर्वामानुषदुष्टदारुणगृहीतेषु आत्मनो हस्तमष्टशताभिमन्त्रितं कृत्वा गृहीतकं मस्तके स्पृशेत्। स्वस्थो भवति॥



एकजप्तेनात्मरक्षा द्विजप्तेन सहायरक्षा तृजप्तेन गृहरक्षा चतुर्जप्तेन ग्रामरक्षा पञ्चजप्तेन यामगोचरगतरक्षा भवति। एवं यावत्सहजप्तेन कटकचक्ररक्षा कृता भवति। एतानि चापराणि अन्यानि च क्षुद्रकर्माणि सर्वाणि करोति असाधितेऽपि। अथ साधयितुमिच्छति क्षुद्रकर्माणि कार्याणि। एकान्तं गत्वा विविक्तदेशे समुद्रगामिनीं सरित्समुद्भवे समुद्रकूले गङ्गानदीकूले वा अथवा महानदीकूलमाश्रित्य शुचौ प्रदेशे उडयं कृत्वा त्रिस्नायी त्रिचैलपरिवर्ती मौनी भिक्षभैक्षाहारसाधकः यावकपयो फलाहारो वा त्रिंशल्लक्षाणि जपेत् सिद्धिनिमित्तं ततो दृष्ट्वा ततो साधनमारभेत्। ज्येष्ठं पटं तत्रैव देशे तस्मिं स्थाने पटस्य महतीं पूजां कृत्वा सुवर्णरूप्यमयी ताम्रमृत्तिकमयैर्वा प्रदीपकैः तुरुष्कतैलपूर्णैः गव्यघृतपूर्णैर्वा प्रदीपकैः प्रत्यग्रवस्त्रखण्डाभिः खण्डाभिः कृतवर्तिभिः लक्षमेकं पटस्य प्रदीपानि निवेदयेत्। सर्वाणि समं समन्तात् समनन्तरप्रदीपितैः प्रदीपमालाभिः पटस्य रश्मयो निश्चरन्ति। समनन्तरनिश्चरितै रश्मिभिः पटः समन्तज्वालमालाकुलो भवति। उपरिष्टाच्चान्तरिक्षे दुन्दुभयो नदन्ति। साधुकारश्च श्रूयते॥



ततो विद्याधरेण सत्त्वरमाणरूपेण साधकपटान्तकोणं पूर्वलिखितपटः निःसृतं अर्घं दत्त्वा प्रदक्षिणीकृत्य सर्वबुद्धां प्रणम्य ग्रहेतव्यम्। ततो गृहीतमात्रेण सर्वप्रदीपगृहीतैः सत्त्वैः सार्धं समुत्पतति एकाधिकविमानलक्षणं वा गच्छन्ति। दिव्यतूर्यप्रतिसंयुक्ते मधुरध्वनिगीतवादितनृत्योपेतैः विद्याधरीभिः समन्तादाकीर्णं तं साधकं विद्याधरचक्रवर्तिराज्ये अभिपेचयन्ति। सह तैः प्रदीपधारिभिः अजरामरलीली भवति। महाकल्पस्थायी भवति। उदितादित्यसङ्काशः दिव्याङ्गशोभी विचित्राम्बरभूषितः। त एवास्य किङ्कराः। तैः सार्धं विचरति। सर्वविद्याधरराजास्य दासत्वेनोपतिष्ठन्ते। विद्याधरचक्रवर्ती भवति। चिरञ्जीवी अधृष्यो भवति। सर्वसिद्धानां परमसुभगो भवति। विद्याधरकन्यानां वशेता भवति। सर्वद्रव्यानां बुद्धबोधिसत्त्वांश्च पूजयति। ततो भवति क्षणमात्रेण ब्रह्मलोकमपि गच्छति। शक्रस्यापि न गणयति। किं पुनस्तदन्यविद्याधराणाम्। अन्ते चास्य बुद्धत्वं भवति। आर्यमञ्जुश्रियश्चास्य + + + + + + + + + + + + + + + + + + साधनं भवति। उत्तप्ततरम्। तत एकान्ते गत्वा विगतजने निःसङ्गसङ्गरहिते महारण्यमनुप्रविश्य यत्र स्थाने पद्मसरं सरितोपेतं एकपर्वताश्रितं पर्वताग्रमभिरुह्य एकाक्षरं विद्याराजं मञ्जुश्रीकल्पभाषितं वा तथागतान्यबोधिसत्त्वभाषितं वा अन्यतरं मन्त्रं गृह्य तेषां यथेप्सतः पद्ममूलफलाहारो पयोपयोगाहारो वा विद्या षट्‍त्रिंशल्लक्षाणि जपेत्। जपान्ते च तेनैव विधिना पूर्वनिर्दिष्टेन ज्येष्ठं पटं प्रतिष्ठाप्य पद्मपुष्पाणां श्वेतचन्दनकुङ्कुमाभ्यक्तानां खदिरकाष्टैरग्निं प्रज्वाल्य पूर्वपरिकल्पितां पद्मां षट्‍त्रिंशत् सहस्राणि जुहुयात्॥



ततो होमावसाने भगवतः शाक्यमुनेः पटस्य रश्मयो निश्चरन्ति। ततो साधकमवभास्य मूर्धान्तर्धीयन्ते। समनन्तरस्पृष्टश्च साधकः पञ्चाभिज्ञो भवति। बोधिसत्त्वलब्धभूमिः दिव्यरूपी यथेष्टं विचरते। षट्‍त्रिंशत्कल्पां जीवति। षट्‍त्रिंशद्बुद्धक्षेत्रानतिक्रामति। तेषां च प्रभावं समनुपश्यति। षट्‍त्रिंशद्बुद्धानां प्रवचनं धारयति। तेषां च पूजोपस्थानाभिरतो भवति। अन्ते च बोधिपरायणो भवति। आर्यमञ्जुश्रीकल्याणमित्रपरिगृहीतो भवति। यावद् बोधिनिष्ठं निर्वाणपर्यवसानम् इति॥



बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पान्नवमः पटलविसराद् द्वितीयः

उत्तमसाधनोपयिककर्मपटलविसरः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project