Digital Sanskrit Buddhist Canon

सप्तमः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptamaḥ paṭalavisaraḥ

सप्तमः पटलविसरः।



अथ खलु मञ्जुश्रीः कुमारभूत उत्थायासनाद् भगवन्तं शाक्यमुनिं त्रिः प्रदक्षिणीकृत्य, भगवतश्चरणयोर्निपत्य, भगवन्तमेवमाह – साधु साधु भगवता यस्तथागतेनार्हता सम्यक् सम्बुद्धेन सुभाषितोऽयं धर्मपर्यायः सर्वविद्याव्रतचारिणामर्थाय हिताय सुखाय लोकानुकम्पायै बोधिसत्त्वानामुपायकौशल्यता दर्शिता निर्वाणोपरिगामिनी वर्त्मोपविशेषा नियतं बोधिपरायणा सन्ततिर्बोधिसत्त्वानां सर्वमन्त्रार्थचर्यासाधनीयमेतन्मन्त्ररहस्यसर्वजनविस्तारणकरी भविष्यत्यनागतेऽध्वनि निर्वृते लोकगुरौ अस्तमिते तथागतादित्यं वंशे रिञ्चिते सर्वबुद्धक्षेत्रे सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः अन्धकारीभूते लोकभाजने, विच्छिन्ने आर्यमार्गे, सर्वविद्यामन्त्रोषधिमणिरत्नोपगते साधुजनपरिहीणे निरालोके सत्त्वधातौ सत्त्वा भविष्यन्ति कुसीदा नष्टस्पृहतया अश्राद्धाः खण्डका अकल्याणमित्रपरिगृहीताः शठाः मायाविनो धूर्तचरिताः। ते इमं धर्मपर्यायं श्रुत्वा च सत्रासमापत्स्यन्ते। आलस्यकौसीद्याभिरता न श्रद्धास्यन्ति कामगवेषिणो न पतीष्यन्ति मिथ्यादृष्टिरताः। ते बहु अपुण्यं प्रसविष्यन्ति सद्धर्मप्रतिपक्षेपकाः अवीचिपरायणाः घोराद् घोरतरं गताः। तेषां दुःखितानामर्थाय अवशानां वशमानेता वश्यानां भयप्रदाय उपायकौशल्यसङ्ग्रहया मन्त्रपटविधानं भाषतु भगवां। यस्येदानीं कालं मन्यसे॥



अथ भगवान् शाक्यमुनिः मञ्जुश्रियं कुमारभूतं साधुकारमदात्। साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमर्थं परिप्रष्टव्यं मन्यसे। अस्ति मञ्जुश्रीः ! त्वदीयं परमं गुह्यतमं विद्याव्रतसाधनचर्यापटलपटविधानविसरं परमहृदयानामर्थं परमं गुह्यतमं महार्थं निधानभूतं सर्वमन्त्राणां, षडेते षडाक्षरपरमहृदयाः अविकल्पतो तस्मिं काले सिद्धिं गच्छन्ति। तेषां सत्त्वानां दमनाय उपायकौशल्यसम्भारसमन्त्रप्रवेशनताय नियतं सम्बोधिप्रापणताया षट्सप्ततिबुद्धकोटिभिः पूर्वभाषितमहमप्येतर्हि इदानीं भाषिष्ये। अनागतजनतापेक्षाय तं शृणु साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते। कतमं च तत्॥



अथ खलु भगवां शाक्यमुनिर्मन्त्रं भाषते स्म – “ॐ वाक्यार्थे जय। ॐ वाक्यशेषे स्व। ॐ वाक्येयनयः। ॐ वाक्यनिष्ठेयः। ॐ वाक्येयनमः। ॐ वाक्येदनमः”। इत्येते मञ्जुश्रीः! त्वदीयषड्मन्त्राः षडक्षराः महाप्रभावाः तुल्यसमवीर्याः परमहृदयाः परमसिद्धाः बुद्धमिवोत्पन्नाः सर्वसत्त्वानामर्थाय सर्वबुद्धैः सम्प्रभाषिताः समयग्रस्ताः सम्प्रचलिताः सर्वकर्मिकाः बोधिमार्गानुदेशकाः, तथागतकुले मन्त्रप्रवराः उत्तममध्यमेतरतृधासम्प्रयुक्ताः सुशोभनं कर्मफलविपाकप्रदाः शासनान्तर्धानकालसमयसिद्धिं यास्यन्ति। समवशरणं सद्धर्मनेत्रारक्षणार्थं ये साधयिष्यन्ति, तेषां मूल्यप्रयोगेणैव महाराज्यमहाभोगैश्वर्यार्थं ते साधयिष्यन्ति। तेषां क्षिप्रतरं तस्मिं काले तस्मिं समये सिद्धिं यास्यन्ति। अन्ततो जिज्ञासनहेतोरपि साधनीया ह्येते परमहृदयाः संक्षेपतः यथा यथा प्रयुज्यन्ते, तथा तथा सिद्धिं यास्यन्ति समासतः। एषां पटविधानं भवति तस्मिं काले तस्मिं समये महाभैरवे पञ्चकषाये सत्त्वा अल्पपुण्या भविष्यन्ति। अल्पेशाख्याः अल्पजीविनः अल्पभोगाः मन्दवीर्या न शक्यन्ते अतिविस्तरतरं पटविधानादीनि कर्माणि प्रारभन्तुम्। तेषामर्थाय भाषिष्ये संक्षिप्ततरम्॥



आदौ तावद् विक्रयेण सूत्रकं क्रीत्वा, पलमात्रमर्धपलमात्रं वा, हस्तमात्रं दीर्घत्वेन अर्घहस्तमात्रं तिर्यक्कर्पटं सदशं तन्तुवायेन वाययितव्यम्। अपगतकेशमन्यं वा नवं कर्पटखण्डं प्रत्यग्रमत ऊर्ध्वं पथेप्सतः द्विहस्तचतुर्हस्तं वा षट् पञ्च दश चाष्टं वा सुशुक्लं गृह्य यथेप्सतः चित्रकरेण चित्रापयितव्यम्। अश्लेषकैरङ्गैः चन्दनकर्पूरकुङ्कुमसितैः पटं चन्दनकुङ्कुमकर्पूरं चैकीकृत्य, निष्प्राणकेनोदके निःकलुषेनालोड्य नवे भाण्डे पटं प्लावयित्वा, दिवसत्रयं सुपिधानं पथि तं स्थापयेत्। कृतरक्षां शुचौ देशे आत्मनः शुचिर्भूत्वा, शुक्लपक्षे पूर्णमास्यां पटभाण्डस्याग्रतः पूर्वाभिमुखः कुशविण्डकोपविष्टः इमे मन्त्रपदाः अष्टशतवारमुच्चारयितव्याः। तद्यथा - ॐ हे हे भगवं ! बहुरूपधरः दिव्यचक्षुषे अवलोकय अवलोकय मां समयमनुस्मर कुमाररूपधारिणे महाबोधिसत्त्व ! किं चिरायसि। हूँ हूँ फट् फट् स्वाहा। अनेन मन्त्रेण कृतजापः तत्रैव स्वपेत। स्वप्ने कथयति सिद्धिरसिद्धिं वा॥



ततोत्थाय अविलम्बितसिद्धिनिमित्तं स्वप्नं दृष्ट्वा तं पटं लिखापयेत्, न चेदसिद्धिनिमित्तानि स्वप्नानि दृश्यन्ते। तत् पटं तस्माद् भाण्डादुद्धृत्य आतपे शोषयेत्। शोषयित्वा च भूयः अन्ये नवे भाण्डे न्यसेत्। सगुप्तं च कृतरक्षं च स्थापयेत्। ततो भूयो तेषां परमहृदयानां अन्यतमं मन्त्रं गृहीत्वा, यथेष्टतः षडक्षराणां भूयो अक्षरलक्षं जपेत्। ततो आशु तत्पटं सिध्यतीति॥



आदौ तावत् तं पटं गृह्य प्रातिहारकपक्षे अन्ये वा शुक्लेऽहनि शुभनक्षत्रसंयुक्ते शुभायां तिथौ शुक्लपक्षदिवसे वा सुशोभनैः शकुनैः मङ्गलसम्मतायां रात्रौ अर्धरात्रकालसमये उपोषधिकेन चित्रकरेण तं पटं चित्रापयेत् शुचौ प्रदेशे कर्पूरधूपं दहता॥



आदौ तावदार्यमञ्जुश्रियं बालदारकाकारं पञ्चचीरकशिरस्कं बालालङ्कारभूषितं कनकवर्णं नीलपट्टचलनिकानिवसितं नीलपट्टांशुकोत्तरीयं धर्मं देशयमानं सिंहासने अर्धपर्यङ्कोपविष्टदक्षिणचरणं रत्नपादपीठस्थं स्थापितसिंहासनोपविष्टं सर्वालङ्कारोपेतं चारुदर्शनं ईषस्मितमुखं साधकगतदृष्टिं चित्रापयेत्॥



दक्षिणे पार्श्वे आर्यसमन्तभद्रं सितचामरोद्धूयमानं प्रियङ्गुश्यामं वामहस्तचिन्तामणिविन्यस्तं सर्वाङ्गशोभनं सर्वालङ्कारभूषितं नीलपट्टचलनिकानिवस्तं मुक्ताहारयज्ञोपवीतं सिकतं श्वेतपद्मासनस्थं चित्रापयितव्यम्॥



आर्यमञ्जुश्रियस्य वामपार्श्वे आर्यावलोकितेश्वरः नीलपट्टवलनिकानिवस्तः सर्वाङ्गशोभनः सर्वालङ्कारविभूषितः मुक्ताहारयज्ञोपवीतः वामहस्ते श्वेतपद्मविन्यस्तः दक्षिणहस्ते सितोद्धूयमानचमरः हेमदण्डविन्यस्तः सौम्याकारः आर्यमञ्जुश्रियगतदृष्टिः तथैवार्यसमन्तभद्रः श्वेतपद्मासनस्थौ उभावप्येतौ अभिलेख्यौ एकपद्मविटपित्थितौ॥



त्रीणि पद्मानि। मध्यमे मूलपद्मकर्णिकायामार्यमञ्जुश्रियस्य सिंहासनं रत्नपीठं च। अपरस्मिं पद्मे आर्यसमन्तभद्रः, तृतीये पद्मे आर्यावलोकितेश्वरः। शोभनं च तत् पद्मदण्डं मरकतपद्माकारं अनेकपद्मपुष्पमुकुलितं पत्रोपेतं विकसितार्धविकसितपुष्पमहासरानवतप्तोत्थितं द्वौ नागराजावष्टब्धनाभं नन्दोपनन्दसन्धारितं तत् पद्मदण्डं सितवर्णा च तौ नागराजानौ सप्तस्फटावभूषितौ सर्वालङ्कारशोभितशरीरौ मनुष्यार्धकायौ अहिभोगाङ्कितमूर्तयः आर्यमञ्जुश्रियं निरीक्षमाणौ जलान्तार्धनिलीनौ मणिरत्नोपशोभितच्छदौ लिखापयितव्यौ॥



समन्ताच्च महासरं अधस्तात् साधकः दक्षिणपार्श्वे पटान्तकोणे आर्यमञ्जुश्रियस्य वत्क्रमण्डल निरीक्षमाणो धूपकटच्छकव्यग्रहस्तः अवनतशिरकोर्परजानुकायः यथा वेषपर्णतः, तथामभिलेख्यम्॥



उपरिष्टादार्यमञ्जुश्रियस्य उभौ पतान्तकोणाभ्यां द्वौ देवपुत्रौ मालाधारिणौ पुष्पमालागृहीतौ उत्पतमानौ मेघान्तर्निलीनौ महापुष्पौघमुत्सृजमानौ सुशोभनौ अभिलेख्यौ॥



समन्ताच्च तत्पटं नागकेसरादिभिः पुष्पैः प्रकिरितमभिलिखेत्। यथेष्टश्च त्रिरूपकाधिष्ठितं वा अभिलिखेत्। आर्यमञ्जुश्रीः धर्मं देशयमानः आर्यसमन्तभद्रः आर्यावलोकितेश्वरश्चमरविन्यस्तपाणयो लिखापयितव्याः। यथाभिरुचितकं वा साधकस्य त्रीणि रूपकाणि अवश्यं लिखापयितव्यानि। यथेष्टाकारा वा यथासंस्थानसंस्थिता वा साधकस्य यथा यथा रोचते तथा तथा लिखितव्यानि॥



मध्ये व आर्यमञ्जुश्रीः, उभयान्ते च आर्यावलोकितेश्वरः, समन्तभद्रश्च यथेप्सितः अन्य अवश्यं लिखापयितव्यानि। यथालब्धे वा कर्पटखण्डे वितस्तिहस्तमात्रे वा आत्मना वा परेण वा चित्रकरेण पोषधिकेन वा अपोषधिकेन वा श्राद्धेन वा अश्राद्धेन वा शुचिना वा अशुचिना वा शीलवतेन वा दुःशीलेन वा चित्रकरेण लिखापयितव्यः॥



आत्मना साधकेन अवश्यं कृतपुरश्चरणेन श्राद्धेन उत्पादितबोधिचित्तेन अवश्यं भवितव्यमिति॥



एवं सिध्यन्ति मन्त्रा वै नान्येषां पापकारिणाम्।

श्राद्धेन तथा भूत्वा साधनीया मन्त्रदेवताः॥

सिध्यन्ते मन्त्रराट् तस्य श्राद्धस्यैवेह नान्यथा।

श्रद्धा हि परमं यानं येन यान्ति विनायकाः॥

अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहते।

बीजानामग्निदग्धानामङ्कुरो हरितो यथा॥

श्राद्धे स्थितस्य मर्त्यस्य बोद्धारं हि कर्मणा।

सिध्यन्ते देवतास्तस्य अश्राद्धस्य न सिध्यति॥

+ + + + + + + + + सर्वमन्त्रा विशेषतः।

लौकिका देवता येऽपि येऽपि लोकोत्तरा तथा॥

सर्वे वै श्रद्दधानस्य सिध्यते विगतकल्मषः।

आशु सिद्धिर्ध्रुवा तेषां बोधिस्तद्गतमानसाम्॥

नान्येषां कथ्यते सिद्धिः शासनेऽस्मिन् निवारिताः।

पटः स्वल्पो विशेषो वा मध्यमो परिकीर्तितः॥

अधुना तु प्रवक्ष्यामि सर्वकर्मसु साधनमिति॥



बोधिसत्त्वपिटकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् सप्तमः पटलविसरात्

चतुर्थः पटविधानपटलविसरः परिसमाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project