Digital Sanskrit Buddhist Canon

चतुर्थः पटलविसरः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturthaḥ paṭalavisaraḥ

चतुर्थः पटलविसरः।



नमो बुद्धाय सर्वबुद्धबोधिसत्त्वेभ्यः। अथ खलु मञ्जुश्रीः सर्वावन्तं शुद्धावासभवनमवलोक्य, पुनरपि तन्महापर्षन्मण्डलसन्निपातमवलोक्य, शाक्यमुनेश्चरणयोर्निपत्य, प्रहसितवदनो भूत्वा, भगवन्तमेतदवोचत्॥



तत् साधु भगवां सर्वसत्त्वानां हिताय मन्त्रचर्यासाधनविधाननिर्हारनिष्यन्दधर्ममेघप्रवर्षणयथेप्सितफलनिष्पादनपटलविसरः पटविधानं, अनुत्तरपुण्यप्रसवः, सम्यक् सम्बोधिबीजमभिनिर्वर्तकं सर्वज्ञज्ञानाशेष अभिनिर्वर्तकं संक्षेपतः सर्वाशापारिपूरकं सर्वमन्त्रफलसम्यक् सम्प्रयुक्तः सफलीकरण अवन्ध्यसाधितसाधकं सर्वबोधिसत्त्वचर्यापारिपूरकं महाबोधिसत्त्वसन्नाहसन्नद्धः सर्वमारबल अभिभवनपरापृष्ठीकरणं तद्वदतु भगवानस्माकमनुकम्पामुपादाय सर्वसत्त्वानां च॥



एवमुक्ते मञ्जुश्रिया कुमारभूतेन, अथ भगवांश्छाक्यमुनिर्मञ्जुश्रियं कुमारभूतमेतदवोचत्॥



साधु साधु मञ्जुश्रीः ! यस्त्वं बहुजनहिताय प्रतिपन्नो लोकानुकम्पायै यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे। तच्छृणु साधु च सुष्ठु च मनसि कुरु, भाषिष्येहं ते त्वदीयं पटविधानविसरसर्वसत्त्वचर्यासाधनमनुप्रवेशमनुपूर्वकः वक्ष्येऽहं पूर्वनिर्दिष्टं सर्वतथागतैः। अहमप्येदानीं भाषिष्ये॥



आदौ तावच्छुचौ पृथिवीप्रदेशे रजोविगते पिचुं गृह्य समयप्रविष्टैः सत्त्वैः तत् पिचुं संशोधयितव्यम्। संशोध्य च अनेन मन्त्रेण मण्डलाचार्येणाभिमन्त्रितव्यम् अष्टशतवारां। नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतमतिगतिप्रतिचारिणाम्। नमः संशोधनदुःखप्रशमनराजेन्द्रराजाय तथागतायार्हते सम्यक्सम्बुद्धाय। तद्यथा - ‘ॐ शोधय शोधय सर्वविघ्नघातक ! महाकारुणिक ! कुमाररूपधारिणे। विकुर्व विकुर्व। समयमनुस्मर। तिष्ठ तिष्ठ। हुम् हुम् फट् फट् स्वाहा’॥



ततः अवितथग्राम्यधर्मकुमारीब्राह्मणकुलक्षत्रियकुलप्रसूतं वैश्यकुले प्रसूतं नातिकृष्णवर्णयोनिवर्णयोनिवर्जितां अविकलं सर्वाङ्गशोभनां मातापितृ अनुष्कृतां उपोषधपरिगृहीतां उत्पादितबोधिचित्तां कारुणिकां अवदातवर्णां अन्यवर्णविवर्जितां संक्षेपतः स्त्रीलक्षणसुप्रशस्तचिह्नां सशोभनेऽहनि शुक्लपक्षे शुक्लशुभग्रहनिरीक्षिते विगतधूपनिर्हारवदलापगते विगतवाते शुचौ प्रदेशे पूर्वनिर्दिष्टां कुमारीं स्नापयित्वा, शुचिवस्त्रप्रावृतेन सुनिवस्तां कृत्वा, अनेनैव मन्त्रेण महामुद्रोपेतरक्षां कृत्वा, श्वेतचन्दनकुङ्कुमं निष्प्राणकेनोदकेनालोड्य तत् पिबन्तां च कन्यां तेनैव मन्त्रेण संशोधनेनाभ्युक्षयेत्। चतुर्दिशं च क्षिपेत् श्वेतचन्दनं कुङ्कुमोदकं, इत्यूर्ध्वमधश्च विदिक्षु श्वेतचन्दनकुङ्कुमकर्पूरं चैकीकृत्य पूर्वं दापयेत्। स्वयं वा दद्यात्। साधकाचार्ये वा। तदेवं वाचा भाषितव्यं त्रीन् वारां - अधितिष्ठन्तु बुद्धा भगवन्तो इदं पटसूत्रं दशभूमिप्रतिष्ठिताश्च महाबोधिसत्त्वाः। ततस्ते बुद्धा भगवन्तो समन्वाहरन्ति। महाबोधिसत्त्वाश्च। धूपं दहता तस्मिं समये मयूरक्रौञ्चहंससारसचक्रवाकविविधा शुभशकुनया जलस्थलचारिणोऽन्तरिक्षी गच्छेयुः। शुभं वा कूजयेयुः। तत् साधकेन ज्ञातव्यम्। सफलं मे एतत् कर्म अधिष्ठितं मे बुद्धैर्भगवद्भिमहाबोधिसत्त्वैश्च मे। तत् पटसूत्रं सुजीवितं मेह जन्मनि अवन्ध्या मे मन्त्रसिद्धिः। पटहभेरीमृदङ्गशङ्खवीणावेणुपणवमुखशब्दं वा भवेयुः। + + + + + + + + + एवं वदेयुरकल्पस्मात् तस्मिं समये जयसिद्धि सिद्ध दत्त दिन्न गृह्ण श्रेयसः सफलकशक्रप्रभूत एवमादयो अन्ये वा शुभां शब्दां प्रव्याहरन्ति। घण्टानिःस्वनं वा भवेयुः नन्दीशब्दं वा। ततो विद्याधरेण ज्ञातव्यम्। बुद्धानां भगवतां महाबोधिसत्त्वानां चाधिष्ठानमेतत्। नान्यत्र अवन्ध्यसिद्धिरिति॥



अथ ते तस्मिं समये क्रूरं प्रव्याहरन्ते गृह्ण खाद खादापय नष्ट विनष्ट कष्ट दूर सुदूर नास्तीत्येवमादयः शब्दा निश्चरन्ति वानरमहिषक्रोष्टुकगर्दभमार्जारकुत्सिततिर्यग्द्विपदचतुःपदानां शब्दा निश्चरेयुः। ततो साधकेन ज्ञातव्यं नास्ति मे सिद्धिरिति। इह जन्मनि संहर्तव्यः। भूयो वा पूर्वसेवां कृत्वा प्रारब्धव्यम्। एवं यावत् सप्तवारान्। पञ्चानन्तर्यकरिणस्यापि सप्तमे कर्मप्रयोगे सिध्यतीति॥



ततः साधकेन तां कुमारीं कृतरक्षां कृत्वा कुशविण्डकोपविष्टकां कारयेत्। पूर्वाभिमुखामुत्तराभिमुखां वा संस्थाप्य आत्मनश्च हविष्याहारः तां च कन्यां हविष्याहारं भोजयेत्। पूर्वमेव परिकल्पितं कुशविण्डकं तेनैवं विधिना तं पिचुं कर्तापयेत्। तत् सूत्रं सुकर्तितं शुक्लं पूर्वशिक्षापितकन्यया संहृत्य, अष्ट पञ्च त्रीणि एकं प्रभृती यावत् षोडशमात्रा पलां वा कर्षां वा सुप्रशस्तगणमेतां कुर्यान्मध्यमे अष्टमां गाथा इतरे पञ्चैक वा क्षुद्रसाध्येषु कर्मसु यथाशक्तितः कुर्यात् सर्वकर्मिषु मन्त्रवित्॥



ततः प्रभृति यत् किञ्चित् पापं कर्म पुराकृतम्।

नश्यते तत्क्षणादेव सूत्रार्थं च न चेतने॥

सङ्गृह्यमिदं सूत्रं शुचौ भाण्डे निवेशयेत्।

न हि तंतुगतो कृत्वा धूपयेत् कर्पूरधूपनैः॥

आप्राण्याङ्गसमुत्थं वा कुङ्कुमचन्दनादिभिः।

आर्चितं सुगन्धपुष्पैर्मल्लिकचम्पकादिभिः॥

शुचौ प्रदेशे संस्थाप्य कृतरक्षापिथानितम्।

मन्त्रवित् सर्वकर्मज्ञो कृतजापः सुसमाहितः॥

तन्तुवायं ततो गत्वा मूल्यं दत्वा यथेप्सितम्।

अव्यङ्गमकृशं चैव शुक्लधर्मसदारतम्॥

अव्याध्यर्तमवृद्धं च कासश्वासाविनिर्मुक्तम्।

कासश्वासविनिर्मुक्तं अषण्डं योनिसत्यजम्॥

अनवद्यमकुब्जं चैवापङ्गुपतिवर्जितम्।

समस्तलक्षणोपेतं प्रशस्तं चारुदर्शनम्॥

शुभबुद्धिसमाचारं लौकिकीं वृत्तिमाश्रितम्।

सिद्धिकामोऽत्र तं याचेदुत्तमे पटवायने॥

प्रशस्ता शुभवर्णे वा बुद्धिमन्तो सुशिक्षितः।

अतोत्कृष्टतमैः श्रेष्ठैः पटवायनश्रेयसैः॥

उत्तमे उत्तमं कुर्यान्मध्यमे मध्यसाधनम्।

इतरैः क्षुद्रकर्माणि निकृष्टान्येव सर्वतः॥

यथामूल्यं ततो दत्वा यथा वदति शिल्पिनः।

प्रथमे वाक्समुत्थाने शिल्पिनस्य स मन्त्रवित्॥

दद्यात् पुण्यं ततः क्षिप्रं वीरक्रयेति स उच्यते।

प्रार्थनादेव चैतस्य पुण्यभावेन जापिने॥

क्षिप्रसिद्धिकरो ह्येष पटश्रेष्ठो निरुत्तरः।

सर्वकर्मकरो पूज्यो दिव्यमानुष्यसौख्यदः॥

श्रेयसः सर्वभूतानां सम्यक् सम्बुद्धभाषितम्।

इति॥



ततो विद्याधरेण तन्तुवायस्य पोषधं दत्त्वा सशुभे नक्षत्रे प्रातिहारकपक्षे शुक्लेऽहनि शुभग्रहनिरीक्षितेऽन्ये वा शुक्लपक्षे सुकुसुमितसहकारमञ्जरीवरतरुपुष्पाढ्यवसन्तसमये ऋतुवरे तस्मिन् काले तस्मिन् समये पूर्वाह्नोदिते सवितरि पूर्वनिर्दिष्टं तन्तुवायं हविष्याहारं शुचिवस्त्रप्रावृतबद्धोष्णीषशिरस्कसुस्नातं सुविलिप्तं श्वेतचन्दनकुङ्कुमाभ्यामन्यतरेणानुलिप्ताङ्गं कर्पूरवासितवदनं हृष्टमनसं क्षुत्पिपासापगतं कृत्वा सर्वत्र भाण्डं रज्ज्वाद्युपकरणानि च मृद्गोमयाभ्यां प्रक्षाल्य प्रत्यग्राणि च भूयो भूयो पञ्चगव्येन प्रक्षालयेत्। ततो निःप्राणकेनोदकेन प्रक्षाल्य, श्वेतचन्दनकुङ्कुमाभ्यामभ्यषिञ्चेत्। शुचौ पृथिवीप्रदेशे अपगतकोलाहले विगतजनपदे विविक्तासने प्रसन्ने गुप्ते पुष्पार्चिते॥



ततः साधकेन संशोधनमन्त्रेणैवाष्टशताभिमन्त्रितं कृत्वा श्वेतसर्षपान् चतुर्दिक्षु इत्यूर्ध्वमधः विदिक्षु च क्षिपेत्। ततो तन्तुवायं सर्षपैः सन्ताड्य, महामुद्रां पञ्चशिखां बद्‍ध्वा, शिखाबन्धं कुर्वीत। महारक्षा कृता भवति। यदि ज्येष्ठं पटं भवति चतुर्हस्तविस्तीर्णमष्टहस्तसुदीर्घं एतत्प्रमाणं हि तन्तुवायोपचितं कुर्यात्। मध्यमं भवति द्रिहस्तविस्तीर्णं पञ्चहस्तदीर्घत्वम्। कन्यसं सुगतवितस्तिप्रमाण अङ्गुष्ठहस्तदीर्घत्वम्। तत्र भगवतो बुद्धस्य वितस्तिमध्यदेशपुरुषप्रमाणहस्तमेकं एषा सुगतस्य वितस्तिरिति कीर्त्यते। अनेन प्रमाणेन प्रामाण्यमाख्यातम्।



उत्तिष्ठ सिद्धिर्ज्येष्ठा तु कथिता लोकपुङ्गवैः।

मध्यमे राज्यकामानामन्तर्धाने परे मुनौ॥

महाभोगार्थिनां पुंसां त्रिदेवासुरभोगिनाम्।

कन्यसे सिद्धिमाख्याता मध्यमे सिद्धिमध्यमा॥

क्षुद्रकर्माणि सिध्यन्ते कन्यसे तु पटे सदा।

सर्वकार्याणि सिध्यन्ते सर्वद्रव्याणि वै सदा॥

पटत्रयेऽपि निर्दिष्टा सिद्धिः श्रेयोर्थिनां नृणाम्।

विधिभ्रष्टा न सिध्येयुः शक्रस्यापि शचीपतेः॥

सिध्यन्ते क्षिप्रमेवं तु सर्वकर्मा न यत्नतः।

विधिना च समायुक्ता इतस्यापि तृजन्मिनः॥

एष मार्गः समाख्यातो जिनैः जिनवरात्मजैः।

श्रेयसः सर्वसत्त्वानां दरिद्रानाथदुःखिनाम्॥

बोधिमार्गो ह्यशेषस्तु दर्शितस्तत्त्वदर्शिभिः।

बोधिहेतुरयं वर्त्म मन्त्रमार्गेण दर्शितः॥

मन्त्राः सिध्यन्त्ययत्नेन सर्वलौकिकमण्डलाः।

लोकोत्तराश्चापि सिध्यन्ते मण्डला ये उदाहृताः॥

बोधिहेतुमतिर्येषां तेषां सिद्धिः सदा भवेत्।

नान्येषां कथ्यते सिद्धिः अहिता ये जगे सदा॥

बोधाय प्रस्थितां सत्त्वां सदा सिद्धिरुदाहृता।

मञ्जुश्रियस्य महात्मानो कुमारस्येह विशेषतः।

क्षिप्रकार्यानुसाध्यर्त्थं प्राप्नुयात् सकलादिह।

अनुपूर्वं ततो शिल्पी पटं वायेत यत्नतः॥

दिवसैः पञ्चरष्टाभिः षोडशाद्विचतुष्कयोः।

अहोरात्रेण वै क्षिप्रं समाप्तिः पटवायने॥

अहोरात्रेण वै श्रेयो उत्तमा सिद्धिलिप्सुनाम्।

शौचाचारसम्पन्नो शिल्पिनो नित्यधिष्ठितः॥

दूरादावस्तथा गत्वा कुटिप्रस्रावमुत्सृजेत्।

सचेलस्तु ततः स्नात्वा अन्यवासान्निवास्य च॥

शुक्लाम्बरधरः स्रग्मी उपस्पृश्य पुनः पुनः।

श्वेतचन्दनलिप्ताङ्गो हस्तौ उद्धृष्य शिल्पिनः॥

भूयो वयेत यत्नेन श्लक्ष्णं सन्घोतं सदा।

एवमाद्यैः प्रयोगैस्तु अन्यैर्वा जिनभाषितैः॥

विचारशीली यत्नेन पटस्याशेषवायना।

समाप्ते तु पटे प्रोक्ते पूर्वकर्मसु निर्मिते॥

प्रमाणस्थे अहीने च कुर्याद् भद्रेऽहनिः समम्।

अवतारयेत् ततो तन्त्रा शुक्लपक्षे सुशोभने॥

परिष्फुटं तु पटं गृह्य दशा बद्धानुशोभनम्।

वेणुयष्ट्यावनद्धं तु पटं गृह्य ततो व्रजेत्॥

शिल्पिनं स्वस्त्ययित्वा तु संविभागार्थविस्तरैः।

गत्वा यथेष्टतो मन्त्री सुसमाचारसुव्रती॥

सुगन्धपुष्पैरभ्यर्च्य शुचौ देशे तु तं न्यसेत्।

अनेनैव तु मन्त्रेण कृतरक्षापिथानितम्॥

येन तत् पिचुकं पूर्वं संशोध्य बहुधा पुनः।

तेनैव कारयेद् रक्षामात्मनश्च पटस्य वै॥

मञ्जुश्रियो महावीरः मन्त्ररूपेण भाषितः।

अतीतैर्बहुभिर्मन्त्रैर्मयाप्येतर्हि पुनः पुनः॥

स एव सर्वमन्त्राणां विचेरुः मन्त्ररूपिणः।

महावीर्यो महातेजः सर्वमन्त्रार्थसाधकः॥

करोति त्रिविधाकारां विचित्रा त्राणहेतवः।

जम्बुद्वीपगताः सत्त्वाः मूढाचारचेतनाः॥

अश्राद्धविपरीतस्तु मिथ्याचारसलोलुपाः।

न शाधयन्ति मन्त्राणि सर्वद्रव्याणि वै पुनः॥

अत एव भ्रमन्ते ते संसारान्धारचारके।

यस्तु शुद्धमनसो नित्यं श्राद्धो कोतुकमङ्गले सदा॥

औत्सुको सर्वमन्त्रेषु नित्यं ग्रहणधारणे।

सिद्धिकामा महात्मानो महोत्साहा महोजसाः॥

तेषां सिद्ध्यन्त्ययन्तेन मन्त्रा ये जिनभाषिताः।

अश्राद्धानां तु जन्तूनां शुक्ल धर्मेण रोहते॥

बीजमूषरे क्षिप्तं अङ्कुरोऽफलो यथा।

श्रद्धामूलं सदा धर्मे उक्तं सर्वार्थदर्शिभिः॥

मन्त्रसिद्धिः सदा प्रोक्ता तेषां धर्मार्थशीलिनाम्॥

इति॥



ततो साधने शिल्पिनः, सुशिक्षितचित्रकरो वा आत्मनो वा कुशला लेख्याः। अश्लेशकैरङ्गैः सर्वोज्ज्वलं रङ्गोपेतं वर्णकं गृह्य पूर्वेणैव विधिना यथा तन्तुवाययायनेनैव लक्षणसमन्वागतेन चित्रकरेण पेयालं विस्तरेण कर्तव्य यथा पूर्वं तन्तुवायविधिः, तेनैव तत्पटं चित्रापयितव्यम् ; स्वयं वा चित्रितव्यम्। कर्पूरकुङ्कुमचन्दनादिभिरङ्गं वासयितव्यम्। धूपं दहता तेनैव मन्त्रेणाष्टशतवारं परिजप्य नागकेसरपुन्नागवकुलचम्पकवापीकधानुष्कारिकमालतीकुसुमादिभिः तं पटमभ्यवकीर्य पूर्वाभिमुखः कुशविण्डकोपविष्टः स्वस्थबुद्धिः सर्वबुद्धबोधिसत्त्वगतचित्तः सूक्ष्मवर्तिप्रतिगृहीतपाणिरनायासचित्तः तं पटमालिखेत्॥



आदौ तावच्छाक्यमुनिं तथागतमालिखेत्। सर्वाकारवरोपेतं द्वात्रिंशन्महापुरुषलक्षणलक्षित अशीत्यानुव्यञ्जनोपशोभितशरीरं रत्नपद्मोपरिनिषण्णं समन्तज्वालं समन्तव्यामोपशोभितं मूर्तिं धर्मं देशयमानं प्रसन्नमूर्त्तिं सर्वाकारवरोपेतं मध्यस्थं वैदूर्यनालपद्मं अधश्च महासारं द्वौ नागराजानौ तं पद्मनालं धारययानौ तथागतदृष्टयो दक्षिणहस्तेन नमस्यमानौ शुक्लौ सर्वालङ्कारभूषितौ मनुष्याकारर्द्धसर्पदेहनन्दोपनन्दौ लेखनीयौ। समन्ताच्च तत् पद्मशरं पद्मपत्रपुष्पकुड्मलविकसितज्लजप्राणिभिश्च शकुनमीनादिभिर्व्याप्तं अशेषविन्यस्तसुचिरसुशोभनाकारमभिलेख्यम्। यद् भगवतो मूलपद्मदण्डं विटपं, तत्रैव विनिसृतान्यनेकानि पद्मपुष्पानि अनुपूर्वोन्नतानि वामपाश्वेऽष्टौ पद्मपुष्पाणि। तेषु च पद्मेषु निषण्णानि अष्टौ महाबोधिसत्त्वविग्रहामभिलेख्याः। प्रथमं तावदार्यमञ्जुश्रीः, इषत्पद्मकिञ्जल्कगौरः कुङ्कुमकनकवर्णो वा कुमाराकाराबालदारकरूपी पञ्चचीरकशिरस्कः कुमारालङ्कारालङ्कृतः वामहस्तनीलोप्तलगृहीतः, दक्षिणहस्तेन तथागतं नमस्यमानः चारुमूर्तिस्तथागतगतदृष्टिः सौम्याकारः ईषत्प्रहसितवदनः समन्तज्वालावबुद्धमण्डलपर्येषः। अपरस्मिं पद्मे आर्यचन्द्रप्रभः कुमारभूतः तथैवमभिलेख्यः। तृतीये सुधनः, चतुर्थे सर्वनीवरणः, पञ्चमे गगनगञ्जः, षष्ठे क्षितिगर्भः, सप्तमेऽनघः, अष्टमे सुलोचनमिति॥



एते सर्वे कुमारदारकाकारा आभिलेख्याः। कुमारालङ्कारभूषिताः दक्षिणपार्श्वे भगवत अष्टौ महाबोधिसत्त्वाः सर्वालङ्कारभूषिताः वर्जयित्वा तु मैत्रेयं भगवतः समीपे आर्यमैत्रेयः ब्रह्मचारिवेषधारी जटामकुटावबद्धशिरस्कः कनकवर्णः रक्तकषायधारी रक्तपटांशुकोत्तरीयः तृपुण्ड्रककृतचिन्हः कायरूपी दण्डकमण्डलुवामविन्यस्तपाणिः कृष्णसारचर्म वामस्कन्धावक्षिप्तदक्षिणहस्तगृहीताक्षसूत्रः तथागतं नमस्यमानः तद्नतदृष्टिः ध्यानालम्बनगतचित्तचरितः॥



द्वितीयस्मिं पद्मे समन्तभद्रः प्रियङ्गुवर्णश्यामः सर्वालङ्कारशरीरः वामहस्ते चिन्तामणिरत्नविन्यस्तः दक्षिणहस्ते श्रीफलविन्यस्तहस्तवरदः चारुरूपी तथैवमभिलिखितव्यम्॥



तृतीये आर्यावलोकितेश्वरः शरत्काण्डगौरः सर्वालङ्कारभूषितः जटामकुटधारी श्वेतयज्ञोपवीतः सर्वज्ञशिरसीकृत आर्यामिताभ दशबलजटान्तोपलग्नोपविष्टं चारुरूपं चामरहस्तारविन्दविन्यस्तं दक्षिणहस्तेन वरदं ध्यानलम्बनगतचित्तचरितं समन्तद्योतितशरीरम्॥



चतुर्थे आर्यवज्रपाणिः वामहस्तविन्यस्तवज्रं कनकवर्णं सर्वालङ्कारभूषितं दक्षिणहस्तोपरुद्धसफलं वरदं च चारुरूपिणं सौम्यदर्शनं हारार्द्धहारोपगुण्ठितदेहं मुक्ताहारयज्ञोपवीतं रत्नोज्ज्वलविच्छुरितमकुटं पट्टचलननिवस्तं श्वेतपट्टांशुकोत्तरीयं तथैवार्यावलोकितेश्वरं समन्तभद्रं तीर्थनिवासनोत्तरासङ्गदेहं आकारतश्च यथापूर्वनिर्दिष्टम्॥



पञ्चमस्मिं तथा पद्मे आर्यमहामतिः, षष्ठे शान्तमतिः, सप्तमे वैरोचनगर्भः, अष्टमे अपायजहश्चेति॥



इत्येते बोधिसत्त्वा अभिलेख्याः। फलपुस्तकविन्यस्तकपाणयः सर्वालङ्कारसुशोभनाः पट्टांशुकोत्तरीयाः सर्वालङ्कारभूषिताः पट्टचलनिकानिवस्ताः॥



तेषां चोपरिष्टा अष्टौ प्रत्येकबुद्धा अभिलेख्याः। भिक्षुवेषधारिणो महापुरुषलक्षणशरीराः रक्तकाषायवाससा पर्यङ्कोपविष्टाः रत्नोपलनिषण्णाः शान्तवेषात्मकाः समन्तज्वालमालाकुलाः सुगन्धपुष्पाणिः कीर्णाः। तद्यथा - मालतीवार्षिकाधानुष्कारिकापुन्नागनागकेसरादिभिः पुष्पैः समन्तात् पटमभ्यवकीर्यमाणं लिखितं भगवतः शाक्यमुनेः वामपार्श्वे आर्यमञ्जुश्रियस्योपरिष्टाः अनेकरत्नोपरचित्तं सुदीर्घाकारं विमानमण्डलं शैलराजोपशोभितं रत्नोपलसञ्छन्नपर्वताकारमभिलिखेत्॥



तत्रस्थां बुद्धां भगवतां अष्टौ लिखेत्। तद्यथा - रत्नशिखिवैदूर्यप्रभारत्नविच्छुरितसमन्तव्यामप्रभं पद्मरागेन्द्रनीलमरकतादिभिः वैदूर्याश्मगर्भादिभिः महामणिरत्नविशेषैः समन्ततो प्रज्वाल्यमाणं, ईषदादित्योदयवर्णं तथागतविग्रहं पीतचीवरोत्तरासङ्गिनं पर्यङ्कोपविष्टं धर्मं देशयमानं पीतनिवासितोपरिवस्तं महापुरुषलक्षणकवचितदेहं, अशीत्यानुव्यञ्जनोपशोभितमूर्त्तिं प्रशान्तदर्शनं सर्वाकारवरोपेतं रत्नशिखिं तथागतमभिलिखेत्॥



द्वितीय सङ्कुसुमितराजेन्द्रं तथागतं कनकवर्णं अभिलिखेत् सुतरां नागकेसरवकुलादिपुष्पैरभ्यवकीरितमभिलिखे। आर्यमभिनिरीक्षमाणं समन्तप्रभं रत्नप्रभाविच्छुरितद्योतिपर्येषम्॥



तृतीयं शालेन्द्रराजं तथागतमभिलिखेत्। पद्मकिञ्जल्काभ धर्मं देशयमानम्॥



चतुर्थं सुनेत्रं तथागतमभिलिखेत्। यथेमं दुःप्रसहम्। षष्ठं वैरोचनम् जिनम्। सप्तमं भैषज्यवैदूर्यराजम्। अष्टमं सर्वदुःखप्रशमनं राजेन्द्रं तथागतमभिलिखेदिति॥



सर्व एव कनकवर्णाः तथागतविग्रहाः कार्याः अभयप्रदानकराः। उपरिष्टाच्च तथागतानां मेघान्तरालस्थाः पटकोणे उभयतः पुष्पवर्षमुत्सृजमानाः द्वौ शुद्धावासकायिकौ देवपुत्रौ मभिलेख्यौ। अन्तरीक्षस्थितौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकानां नमस्यमानौ अभिलेख्यौ॥



प्रत्येकबुद्धानां चोत्तरतः अष्टौ महाश्रावका अभिलेख्याः बोधिसत्त्वशिरःस्थानाववरजोपविष्टाः। तद्यथा- स्थविरशारिपुत्रः महामौद्गल्यायनः महाकाश्यपः सुभूतिः राहुलः नन्दः भद्रिकः कफिणश्चेति॥



प्रत्येकबुद्धापि तद्यथा - गन्धमादनः चन्दनः उपरिष्टश्वेतसितकेतुनेमिसुनेमिश्चेति। सर्व एव सुशोभनाः शान्तवेषं आत्मनो सुदान्ताकाराः। महाश्रावका अपि कृताञ्जलयो बुद्धं भगवन्तं शाक्यमुनिं निरीक्षमाणाः। उपरिष्टाच्च शुद्धावासादेव सन्निकृष्टौ अपरौ द्वौ देवपुत्रौ समन्तात्पट्टवितानदीर्घापायशसोभनागृहीतौ सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणामुपरिष्टाद्धारयमाणौ दिव्यमाल्याम्बरधरौ देवपुत्रौ अभिलेख्यौ। भगवतः शाक्यमुनेः उपरिष्टान्मूर्धनि मुक्ताहाररत्नपद्मरागेन्द्रनीलादिभिः ग्रथितं रत्नसूत्रकलापं तस्मिंश्च पट्टवितानसुविन्यस्तं समन्ताच्च मुक्ताहारप्रलम्बोपशोभितमभिलिखेत्। अधश्च बुद्धस्य भगवतः पद्मासनात् आर्यमञ्जुश्रियस्य पादमूलसमीपे नागराजोपनन्दपार्श्वे महारत्नं पर्वतं पद्मशरादभ्युन्नतं रत्नाङ्कुरगुहाकन्दरप्रवाललतापरिवेष्टितं रत्नतरुं महर्षयसिद्धसेवितं तस्य पर्वतस्योत्तुङ्गे यमान्तकं क्रोधराजानं महाघोररूपिणं पाशहस्तं वामहस्तगृहीतदण्डं भृकुटिवदनमाज्ञां प्रतीच्छमानः आर्यमञ्जुश्रियगतदृष्टिं वृकोदरं ऊर्ध्वंकेशं भिन्नाञ्जनकृष्णमेघसङ्काशं कपिलश्मुश्रुदीर्घकरालं दीर्घनखं रक्तलोचनकं सर्पमण्डितकण्ठोद्देशं व्याघ्रचर्मनिवसनं सर्वविघ्नघातकः महादारुणतरं महाक्रोधराजानं समन्तज्वालं यमान्तकं क्रोधराजा अभिलिखेत्॥



तस्य पर्वतस्याधस्ताच्छिलातलोपनिषण्णं पृथिव्यामवनतजानुदेहं धूपकटच्छुकव्यग्रहस्तं यथावेषसंस्थानगृहीतलिङ्गं यथानुवृत्तचरितमार्यमञ्जुश्रियगतदृष्टिं साधकमभिलिखे। नन्दनागेन्द्रराजसमीपं भगवतः शाक्यमुनेरधस्तात्, दक्षिणपार्श्वे पद्मसराभ्युद्गतं महारत्नशैलेन्द्रराजं कथितं तथागतमभिलिखेत्। यमान्तकक्रोधराजरहितं दिव्यपुष्पावकीर्णमभिलिखेत्। आर्यावलोकितेश्वरः स्यात् तं पर्वतमभिलिखेत्। तदुच्चतुङ्गपर्वतपद्मरागोपलं तमेकाङ्कुरवैदूर्यमयशृङ्गाकारमभिलिखेत्।



तत्रापाश्रितां देवीमार्यावलोकितेश्वरकरुणां आर्यतारां सर्वालङ्कारविभूषितां रत्नपट्टांशुकोत्तरीयां विचित्रपट्टनिवसनां स्त्र्यलङ्कारसर्वाङ्गविभूषितां वामहस्तनीलोत्पलविन्यस्तां कनकवर्णां कृशोदरीं नातिकृशां नातिबालां नातिवृद्धां ध्यानगतचेतनां आज्ञां प्रतीच्छयन्ती दक्षिणहस्तेन वरदादीषिदवनतकायां पर्यङ्कोपनिषण्णां आर्यावलोकितेश्वर ईषदपगतदृष्टिः समन्तज्वालामालपर्येषितां तत्रैव वैदूर्यरत्नशृङ्गे पुन्नागवृक्षपरिवेष्टितं सर्वतः शाखासु समन्तपुष्पोपरचितविकसितसुपुष्पितं भगवतीं तारामभिच्छादयमानां तेनैव चापगतशाखासुचित्रं प्रवालाङ्कु रावनद्धं विचित्ररूपरङ्गोज्ज्वलं तारादेवीमुखावलोकनमभिलेख्या॥



सर्वविघ्नघातकी देवी उत्तमा भयनाशिनी।

साधकस्य तु रक्षार्थं लिखेद् वरदां शुभाम्॥



स्त्रीरूपधारिणी देवी करुणादशबलात्मजा।

श्रेयसः सर्वभूतानां लिखेत वरदायिकाम्॥



कुमारस्येह माता देवी मञ्जुघोषस्य महाद्युतेः।

सर्वविघ्नविनाशार्थं साधकस्य तु समन्ताद्॥



रक्षार्थं मनुजेशानां श्रेयसार्थं पटे न्यसेत्।

योऽसौ क्रोधराजेन्द्रः पर्वताग्रे समवस्थितः॥



सर्वविघ्नविनाशाय कथितं जिनवरात्मजैः।

महाघोरो महावन्द्यो महाचण्डो महाद्युतिः॥



शासने द्विष्टसत्त्वानां निग्रहायैव प्रकल्पते।

साधकस्य तु रक्षार्थं सर्वविघ्नविनाशकः॥



दारुणो रोषशीलश्च आकृष्टा मन्त्रदेवता।

सुघोरो घोररूपी च निषेद्धा सर्वनिर्घृणाम्॥



अवशानां च वशमानेता पापरौद्रप्रचारिणाम्।

खचरे भूचरे वापि पाताले चापि समन्ततः॥



नाशयति सर्वदुष्टानां विरुद्धा ये शासने मुने।

चतुरश्रं समन्ताद्वै चतुःकोणं पटं लिखेत्॥



अधश्चैव पटान्ते तु विस्तीर्णसरितालयम्।

कुर्यान्नागभोगाङ्गमौकैकं च समन्ततं॥



शुक्लेन शुभाङ्गेन मनुजाकारदेहजा।

उत्तराशिरसं स्थाप्य कृताञ्जलिपुटः सदाः॥



सप्तस्फुटो महावीर्यो महेशाख्यो अनन्तो नाम नामतः।

तथागतं निरीक्षन्तो मणिरत्नोपशोभितः॥



सुशोभनो चारुरूपी च रत्नाभरणभूषितः।

आलिखेज्ज्वालमालिनं महानागेन्द्रविश्रुतम्॥



सर्वलोकहितोद्युक्तं प्रवृत्तो शासने मुने।

सर्वविघ्नविनाशाय आलिखेत् सरिताशृतम्॥



एतत् पटविधानं तु उत्तमं जिनभाषितम्।

संक्षिप्तविस्तराख्यातं पूर्वमुक्तं तथागतैः॥



आलिखे यो हि विद्वां वै तस्य पुण्यमनन्तकम्।

यत् कृतं कल्पकोटीभिः पापं कर्म सुदारुणम्॥



नश्यते तत्क्षणादेव पटं दृष्ट्वा तु भूतले।

पञ्चानन्तर्यकारिणं दुःशीलां जुगुप्सिताम्॥



सर्वपापप्रवृत्तानां संसारान्धारचारिणाम्।

गतियोनिनिकृष्टानां पटं तेषां न वारयेत्॥



दर्शनं सफलं तेषां पटं मौनीन्द्रभाषितम्।

दृष्टमात्रं प्रमुच्यन्ते तस्मात् पापात्तु तत्क्षणात्॥



किं पुनः शुद्धवृत्तित्वात् सुशुद्धवृत्तोरूपिणः।

मन्त्रसिद्धौ सदोद्युक्तोः सिद्धिं लप्सेयुर्मानवः॥



यत् पुण्यं सर्वसत्त्वानां पूजयित्वा कल्पकोटि ये।

तत् पुण्यं प्राप्नुयान्मन्त्री पटमालिखनाद् भुवि॥



सिकता यानि गङ्गायाः प्रमाणे यानि कीर्तिता।

तत्प्रमाणा भवेद् बुद्धाः प्रत्येकजिनवरात्मजाः॥



खड्गिनः साधका लोके जित्वा बहुधा पुनः।

तत् फलं प्राप्नुयान्मर्त्ये पटलिखनदर्शना॥



वाचनादेव कायेस्य पूजना वाप्यनुमोदना।

मन्त्रसिद्धिर्ध्रुवा तस्य सर्वकर्मे प्रकल्पिताः।



यावन्ति लौकिका मन्त्राः भाषिता ये जिनपुङ्गवैः।

तच्छिष्यखड्गिभिर्दिव्यैः बोधिसत्त्वैर्महात्मभिः॥

सिद्ध्यन्ते सर्वमन्त्रा वै पटस्याग्र तु मग्रतमिति॥



बोधिसत्त्वपिटकावतंसकान्महायानसूत्रान्मञ्जुश्रीमूलकल्पाच्चतुर्थः।



प्रथमपटविधानविसरः परिसमाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project