Digital Sanskrit Buddhist Canon

अथ द्वितीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Atha dvitīyaḥ parivartaḥ

अथ द्वितीयः परिवर्तः।



अथ खलु मञ्जुश्रीः कुमारभूतः सर्वावन्तं पर्षन्मण्डलमवलोक्य सर्वसत्त्वमयानुप्रवेशावलोकिनीं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य च मञ्जुश्रियः कुमारभूतस्य नाभिमण्डलप्रदेशाद् रश्मिर्निश्चरन्ति स्म। अनेकरश्मिकोटीनियुतशतसहस्रपरिवारिता समन्तात् सर्वसत्त्वधातुमवभास्य पुनरेव तं शुद्धावासभवनं अवभास्य स्थिताभूत्॥



अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। भाष भाष त्वं भो जिनपुत्र ! सर्वसत्त्वसमयानुप्रवेशनं नाम + + + + + + + + + + + ++ + + + + + + + + + समनुप्रविश्य त्वदीयं मन्त्रगणं सर्वलौकिकलोकोत्तरं च मन्त्रसिद्धिं समनुप्राप्नुवन्ति। एवमुक्त आगुह्यकाधिपतिना यक्षेन्द्रेण मञ्जुश्रीः कुमारभूतः परमगुह्यमण्डलतन्त्रं भाषते स्म। सर्वविद्यसञ्चोदनं नाम स + + विकुर्वणं विदन्तयति। दक्षिणं च पाणिमुद्यम्य अङ्गुल्याग्रेण पर्षन्मण्डलमाकारयति स्म। तस्मिन्नङ्गुल्यग्रे अनेकविद्याराजकोटीनयुतशतसहस्राणि निश्चेरुः। निश्चरित्वा स सर्वावन्तं शुद्धावासभवनं महतावभासेनावभाष्य व स्थिता अभूवम्॥



अथ मञ्जुश्रीः कुमारभूतः, यमान्तकस्य क्रोधराजस्य हृदयं सर्वकर्मिकं एकवीरं आवाहनविसर्जनशान्तिकपौष्टिक आभिचारुक अन्तर्धानाकाशगमनपातालप्रवेशपादप्रचारिकाकर्षणविद्वेषणवशीकरणसर्वगन्धमाल्यविलेपनप्रदीपस्वमन्त्रतन्त्रेषुप्रदानः संक्षेपतः यथा यथा प्रपद्यते, तथा तथा साध्यमानः अक्षरं नाम महावीर्यं सर्वार्थसाधनं महाक्रोधराजम्। कतमं च तत्। ॐ। आः। ह्रूँ। इदं तन्महाक्रोधस्य हृदयम्। सर्वकर्मिकं सर्वमण्डलेषु सर्वमन्त्रचर्यासु च निर्दिष्टं महासत्त्वेन मञ्जुघोषेण सर्वविघ्नविनाशनम्॥



अथ मञ्जुश्रीः कुमारभूतः दक्षिणं पाणिमुद्यम्य क्रोधस्य मूर्ध्नि स्थापयामास। एवश्चाह - “नमस्ते सर्वबुद्धानाम्।” समन्वाहरन्तु बुद्धा भगवन्तः। ये केचिद् दशदिग्लोकधातुव्यवस्थिता अनन्तापर्यान्ताश्च बोधिसत्त्वा महर्द्धिकाः समयमधितिष्ठन्त। इत्येवमुक्त्वा तं क्रोधराजानं भ्रामयित्वा क्षिपति स्म। समनन्तरनिक्षिप्ते महाक्रोधराजे सर्वावन्तं लोकधातुं सत्त्वा क्षणमात्रेण ये दुष्टाशयाः सत्त्वा महर्द्धिकाः तां निगृह्यानयति स्म। तं महापर्षन्मण्डलं शुद्धावासभवनं प्रवेशयति स्म। व्यवस्थायाश्च स्थापयित्वा समन्तज्वालामालाकुलो भूत्वा दुष्टसत्त्वेषु च मूर्ध्नि तिष्ठते स्म॥



अथ मञ्जुश्रीः कुमारभूतः पुनरपि तं पर्षन्मण्डलमवलोक्य – शृण्वन्तु भवन्तः सर्वसत्त्वाः यो ह्येनं मदीयं समयमतिक्रमेत् तस्यायं क्रोधराजा निग्रहमापादयिष्यति। यत् कारणमनतिक्रमणीया बुद्धानां भगवतां समयरहस्यमन्त्रार्थवचनपथाः बोधिसत्त्वानां च महर्द्धिकानां समासनिर्देशतः कथयिष्यामि। तं श्रुणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्येऽहम्। नमः समन्तबुद्धानाम्। ॐ र र स्मर अप्रतिहतशासनकुमाररूपधारिण हूँ हूँ फट् फट् स्वाहा। अयं समार्याः ! मदीयमूलमन्त्रः। आर्यमञ्जुश्रियं नाम मुद्रा पञ्चशिखा महामुद्रेति विख्याता तं प्रयोजये अस्मिन् मूलमन्त्रे सर्वकर्मिकं भवति हृदयम्। बुद्धो सर्वकर्मकरं शिवम्। ॐ धान्यद नमः। मुद्रा चात्र भवति त्रिशिखेति विख्याता सर्वभोगाभिवर्द्धनी। उपहृदयं चात्र भवति। बाह्ये हूँ। मुद्रा चात्र भवति त्रिशिखेति विख्याता सर्वसत्त्वाकर्षणी। परमहृदयं चात्र भवति। मुं। मुद्रा भवति चात्र मयूरासनेति विख्याता सर्वसत्त्ववशङ्करी। सर्वबुद्धानां हृदयम्। अपरमपि महावीरं नाम अष्टाक्षरं परमश्रेयसं महापवित्रं त्रिभववर्त्मीयच्छेदं सर्वदुर्गतिनिवारणं सर्वशान्तिकरं सर्वकर्मकरं क्षेमं निर्वाणप्रापणं बुद्धमिव संमुखदर्शनोपस्थितम्। स्वयमेव मञ्जुश्रीरयं बोधिसत्त्वः सर्वसत्त्वानामर्थाय परमहृदयं मन्त्ररूपेणोपस्थितः सर्वाशापारिपूरकं यत्र स्मरितमा त्रेण पञ्चानन्तर्याणि परिशोधयति। कः पुनर्वादो जायते। कतमं च तत्। ॐ आः धीर हूँ खचरः। एष सः मार्षाः युयमेवाहं अष्टाक्षरं महावीरं परमगुह्यहृदयं बुद्धत्वमिव प्रत्ययस्थितम्। सर्वकार्येषु संक्षेपतो महागु + + + + + + + + + + + न्तनिष्ठादक्षमिति। मुद्रा चात्र भवति महावीरेति विख्याता सर्वाशापारिपूरकी। आह्वाननमन्त्रा चात्र भवति। ॐ हे हे कुमाररूपिस्वरूपिणे सर्वबालभाषितप्रबोधने आयाहि भगवं आयाहि। कुमारक्रीडोत्पलधारिणे मण्डलमध्ये तिष्ठ तिष्ठ। समयमनुस्मर। अप्रतिहतशासन हूँ। मा विलम्ब। रु रु फट् स्वाहा। एष भगवं मञ्जुश्रियः आह्वाननमन्त्रा। सर्वसत्त्वानां सर्वबोधिसत्त्वानां सर्वप्रत्येकबुद्धार्यश्रावकदेवनागयक्षगन्धर्वगरुडकिन्नरमहोरगपिशाचराक्षससर्वभूतानां चेति सप्ताभिमन्त्रितं चन्दनोदकं कृत्वा चतुर्दिशमित्यूर्ध्वमधस्तिर्यक्सर्वतः क्षिपेत्। सर्वबुद्धबोधिसत्त्वाः मञ्जुश्रियः स्वयं तस्य परिवारः सर्वलौकिकलोकोत्तराश्च मन्त्राः सर्वे च भूतगणाः सर्वसत्त्वाश्च आगता भवेयुः। नमः सर्वबुद्धानामप्रतिहतशासनानाम्। ॐ धु धुर धुर धूपवासिनि धूपार्चिषि हूँ तिष्ठ समयमनुस्मर स्वाहा। धूपमन्त्रः। चन्दनं कर्पूरं कुङ्कुमं चैकीकृत्य धूपं दापयेत्ततः। आगतानां तथागतानां सर्वबोधिसत्त्वानां च धूपाप्यायितमनसः आकृष्टा भवन्ति। भवति चात्र मुद्रा यस्य मालेति विख्याता सर्वसत्त्वाकर्षणी शिवा। आह्वाननमन्त्रायाश्च अयमेव मुद्रा पद्ममाला शुभा। आगतानां च सर्वबुद्धबोधिसत्त्वानां सर्वसत्त्वानां चागतानां अर्घ्यो देयः। कर्पूरचन्दनकुङ्कुमैरुदकमालोड्य जातीकुसुमनवमालिकवार्षिकपुन्नागनागवकुलपिण्डितगराभ्यां एतेषामन्यतमेन पुष्पेण यथार्त्तुकेन वा सुगन्धपुष्पेण मिश्रीकृत्य अनेन मन्त्रेण अर्घ्यो देयः। नमः सर्वबुद्धानामप्रतिहतशासनानां तद्यथा - हे हे महाकारुणिक ! विश्वरूपधारिणि ! अर्घ्यं प्रतीच्छ प्रतीच्छापय समयमनुस्मर तिष्ठ तिष्ठ मण्डलमध्ये प्रवेशेय प्रविश सर्वभूतानुकम्पक ! गृह्ण गृह्ण हूँ। अम्बरविचारिणे स्वाहा। मुद्रा चात्र पूर्णेति विख्याता सर्वबुद्धानुवर्तिनी। ध्रुवा। गन्धमन्त्रा चात्र भवति। नमः सर्वबुद्धानां नमः समन्तगन्धावभासश्रियाय तथागताय। तद्यथा - गन्धे गन्धे गन्धाढ्ये गन्धमनोरमे प्रतीच्छ प्रतीच्छेयं गन्धं समतानुसारिणे स्वाहा। भवति चात्र मुद्रा पल्लवा नाम सर्वाशापारिपूरिका। पुष्पमन्त्रा चात्र भवति। नमः सर्वबुद्धानामप्रतिहतशासनानाम्। नमः सङ्कुसुमितराजस्य तथागतस्य। तद्यथा - कुसुमे कुसुमे कुसुमाढ्ये कुसुमपुरवासिनि कुसुमावति स्वाहा। तेनैव धूपमन्त्रेण पूर्वोक्तेनैव धूपेन धूपयेत्।



सर्वबुद्धां नमस्कृत्य अचिन्त्याद्भुतरूपिणाम्।

बलिमन्त्रं प्रवक्ष्यामि सम्यक् सम्बुद्धभाषिताम्॥



नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानां तद्यथा - हे हे भगवं ! महासत्त्व ! बुद्धावलोकित! मा विलम्ब। इदं बलिं गृह्णापय गृह्ण हूँ हूँ सर्वविश्व र र ट ट फट् स्वाहा। निवेधं चानेन दापयेत्। बलिं च सर्वभौतिकम्। भवति चात्र मुद्रा शक्तिः सर्वदुष्टनिवारिणी। नमः सर्वबुद्धानामप्रतिहतशासनानां सर्वतमोऽन्धकारविध्वंसिनां नमः समन्तज्योतिगन्धावभासश्रियाय तथागताय। तद्यथा - हे हे भगवं ! ज्योतिरश्मिशतसहस्रप्रतिमण्डितशरीर ! विकुर्व विकुर्व महाबोधिसत्त्वसमन्तज्वालोद्योतितमूर्ति खुर्द खुर्द अवलोकय अवलोकय सर्वसत्त्वानां स्वाहा॥ प्रदीपमन्त्रा। प्रदीपं चानेन दापयेत्। मुद्रा विकासिनी नाम सर्वसत्त्वावलोकिनी। नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - ज्वल ज्वल ज्वालय ज्वालय। हुँ। विवोधक हरिकृष्णपिङ्गल स्वाहा। अग्नि कारिका मन्त्रा। भवति चात्र मुद्रा सम्पुटनाम लोकविश्रुता। सर्व सत्त्वप्रभोद्योतनी भाषिता मुनिवरैः पूर्वं बोधिसत्त्वस्य धीमतः॥



अथ खलु मञ्जुश्रीः कुमारभूतः वज्रपाणिं बोधिसत्त्वमामन्त्रयते स्म। इमानि गुह्यकाधिपते मन्त्रपदानि सरहस्यानि परमगुह्यकानि



त्वदीयं कुलविख्यातः सुतं घोरं सदारुणं।

य एव सर्वमन्त्राणां साध्यमानानां विचक्षणैः॥



मूर्धूटक इति विख्यात + + + जकुलयोरपि।

तस्य निर्नाशनार्थाय विद्येयं सम्प्रवक्ष्यते॥



नमः सर्वबुद्धबोधिसत्त्वानामप्रतिहतशासनानाम्। उं कर कर कुरु कुरु मम कार्यम्। भञ्ज भञ्ज सर्वविघ्नां। दह दह सर्ववज्रविनायकम्। मूर्धटकजीवितान्तकर महाविकृतरूपिणे पच पच सर्वदुष्टां। महागणपतिजीवितान्तकर बन्ध बन्ध सर्वग्रहां। षण्मुख ! षड्भुज ! षट्चरण ! रुद्रमानय। विष्णुमानय। ब्रह्माद्यां देवानानय। मा विलम्ब मा विलम्ब। झल् झल् मण्डलमध्ये प्रवेशय। समयमनुस्मर। हूँ हूँ हूँ हूँ हूँ हूँ फट् फट् स्वाहा। एष सः परमगुह्यकाधिपते परमगुह्यः महावीर्यः मञ्जुश्रीः षण्मुखो नाम महाक्रोधराजा सर्वविघ्नविनाशकः। अनेन पठितमात्रेण दशभूमिप्रतिष्ठापितबोधिसत्त्वा विद्रवन्ते। किं पुनर्दुष्टविघ्नाः। अनेन पठितमात्रेण महारक्षा कृता भवति। मुद्रा चात्र भवति महाशूलेति विख्याता सर्वविघ्नविनाशिका। अस्यैव क्रोधराजस्य हृदयम्। ॐ ह्रीःँ ज्ञीः विकृतानन हुम्। सर्वशत्रुं नाशय स्तम्भय फट् फट् स्वाहा। अनेन मन्त्रेण सर्वशत्रूं महाशूलरोगेण चतुर्थकेन वा गृह्णापयति। शततजपेन वा यावद् रोचते, मैत्रतां वा न प्रतिपद्यते। अथ करुणाचित्तं लभते। जापान्ते मुक्तिर्न स्यात्। मृयत इति रत्नत्रयापकरिणां कर्तव्यं नाशेषं सौम्यचित्तानां मुद्रां महाशूलैव प्रयोजनीया। उपहृदयं चात्र भवति। ॐ ह्रीःँ कालरूप हुं खं स्वाहा। मुद्रा महाशूलयैव प्रयोजनीया। सर्वदुष्टां यमिच्छति तं कारयति। परमहृदयम्। सर्वबुद्धाधिष्ठितं एकाक्षरं नाम। हूँ। एष सर्वकर्मकरः। मुद्रा महाशूलयैव प्रयोजनीया। सर्वानर्थनिवारणम्। सर्वभूतवशङ्करः संक्षेपतः। एष क्रोधराज सर्वकर्मेषु प्रयोक्तव्यः मण्डलमध्ये जापः सिद्धिकाले च विशिष्यते। विसर्जनमन्त्रा भवन्ति। नमः सर्वबुद्धानामप्रतिहतशासनानाम्। तद्यथा - जयं जय सुजय महाकारुणिक विश्वरूपिणे गच्छ गच्छ स्वभवनं सर्वबुद्धांश्च विसर्जय। सपरिवारां स्वभवनं चानुप्रवेशय। समयमनुस्मर। सर्वार्थाश्च मे सिद्ध्यन्तु मन्त्रपदाः मनोरथं च मे परिपूरय स्वाहा॥ अयं विसर्जनमन्त्रः सर्वकर्मेषु प्रयोक्तव्यः। मुद्रा भद्रपीठेति विख्याता। आसनं चानेन दापयेत्। मनसा सप्तजप्तेन विसर्जनं सर्वेभ्यः लौकिकलोकोत्तरेभ्यो मण्डलेभ्यः मन्त्रेभ्यश्चैव मन्त्रसिद्धिः। समयजपकालनियमेषु च प्रयोक्तव्येति॥



अथ खलु मञ्जुश्रीः कुमारभूतः पुनरपि तं शुद्धावासभवनमवलोक्य तं महापर्षन्मण्डलं स्वकं च विद्यागणमन्त्रपटलविसरं भाषते स्म। नमः सर्वबुद्धानाम् अप्रतिहतशासनानाम्। ॐ रिटि स्वाहा॥ मञ्जुश्रियस्येदम् अनुचरी केशिनी नाम विद्या सर्वकर्मिका। महामुद्राया पञ्चशिखायां योज्यसर्वविषकर्मसु। नमः समन्तबुद्धानामप्रतिहतशासनानाम्। ॐ निटि। उपकेशिनी नाम विद्येयं सर्वकर्मिका मुद्रया विकासिन्या च योजयेत्। सर्वग्रहकर्मेषु। नमः समन्तबुद्धानामप्रतिहतगतीनाम्। ॐ निः।



विद्येयं बलिनी नाम सर्वकमकरा शुभा।

मुद्रया भद्रपीठया संयुक्ता यक्षिणी आनयेद् ध्रुवम्॥

नामः समन्तबुद्धानां अचिन्त्याद्भुतरूपिणाम्।

मुद्रया शक्तिना युक्ता सर्वडाकिनीघातिनी॥



ॐ ज्ञैः स्वाहा।

विद्या कापतलिनी नाम मञ्जुघोषेण भाषिता।

समन्तासर्वबुद्धैश्च प्रशस्ता दिव्यरूपिणी॥

नमः समन्तबुद्धानाम् अप्रतिहतगतिप्रचारिणाम्।

तद्यथा - ॐ वरदे स्वाहा।

मुद्रा त्रिशिखेनैव प्रयोजयेत्। श्रेयसात्मकः।

बहुरूपधरा देवी क्षिप्रभोगपसाधिका॥

नमः समन्तबुद्धानां अचिन्त्याद्भुतरूपिणाम्।



ॐ भूरि स्वाहा।

मुद्रया शूलसंयुक्ता सर्वज्वरविनाशिनी।

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्॥



ॐ नु रे स्वाहा।

विद्या तारावती नाम प्रशस्ता सर्वकर्मसु।

मुद्रया शक्तियष्ट्या तु योजिता विघ्नघातिनी॥

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्।



तद्यथा - ॐ विलोकिनि स्वाहा।

विद्या लोकवती नाम सर्वकोशवशङ्करी।

योजिता वज्रमुद्रेण सर्वसौख्यप्रदायिका॥

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्।



तद्यथा- ॐ विश्वे विश्वसम्भवे विश्वरूपिणि कह कह आविशाविश। समयमनुस्मर। रुरु तिष्ठ स्वाहा।



एषा विद्या महावीर्या दर्शिता लोकनायकैः।

दंष्ट्रमुद्रासमेतास्त्रसर्वसत्त्वा + वेशिनी॥

शुभा वरदा सर्वभूतानां विश्वेति सम्प्रकाशिता।

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्॥



तद्यथा - ॐ श्वेतश्री वपुः स्वाहा।



मयूरासनेन मुद्रेण विन्यस्ता सर्वकर्मिका।

महाश्वेतिति विख्याता अचिन्त्याद्भुतरूपिणी॥

सौभाग्यकरणं लोके नरनारीवशङ्करी।

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्॥



तद्यथा - ॐ। खिखिरिखिरि भङ्गुरि सर्वशत्रुं स्तम्भय जम्भय मोहय वशमानय स्वाहा।



एषा विद्या महाविद्या योगिनीति प्रकथ्यते।

योजिता वक्क्रमुद्रेण दुष्टसत्त्वप्रसादिनी॥

नमः समन्तबुद्धानामप्रतिहतगतिप्रचारिणाम्।



तद्यथा - ॐ श्रीः।

एषा विद्या महालक्ष्मी लोकनाथैस्तु देशिता।

मुद्रा सम्पुटया युक्ता महाराज्यप्रदायिका॥

नमः समन्तबुद्धानां सर्वसत्त्वाभयप्रदायिनाम्।



तद्यथा - ॐ। अजिते ! कुमाररूपिणे !एहिआगच्छममकार्यंकुरुस्वाहा।

अजितेति विख्याता कुमारी अमृतोद्भवा।

मुद्रया पूर्णया युक्ता सर्वशत्रुनिवारणी॥

नमः समन्तबुद्धानामचिन्त्याद्भुतरूपिणाम्।



तद्यथा -ॐजयेस्वाहा।विजयेस्वाहा।अजितेस्वाहा।अपराजितेस्वाहा।

चतुर्भगिन्य इति विख्याता बोधिसत्त्वानुचारिका।

पर्यटन्ति महीं कृत्स्नां सत्त्वानुग्रहकारिकाः॥

भ्राता स्तुम्बुरुविख्याता एतासामनुचारकः।

नौयानसमारूढा अन्दुर्धेतुः निवासिनः॥

मुष्टिमुद्रेण विन्यस्ता सर्वाशापारिपूरिका।

नमः समन्तबुद्धानां लोकाग्राधिपतीनाम्॥



तद्यथा- ॐ। कुमार ! महाकुमार ! क्रीड क्रीड षण्मुखबोधिसत्त्वानुज्ञात ! मयूरासनसङ्घोद्यतपाणि रक्ताङ्ग ! रक्तगन्धानुलेपनप्रिय ! ख ख खाहि खाहि खाहि। हुं नृत्य नृत्य। रक्तापुष्पार्चितमूर्ति समयमनुस्मर। भ्रम भ्रम भ्रामय भ्रामय भ्रामय। लहु लहु माविलम्ब सर्वकार्याणि मे कुरु कुरु चित्ररूपधारिणे तिष्ठ तिष्ठ हुं हुं सर्वबुद्धानुज्ञात स्वाहा।



भाषिता बोधिसत्त्वेन मञ्जुघोषेण नायिना।

षड्विकारा मही कृत्स्ना प्रचचाल समन्ततः॥



हितार्थं सर्वसत्त्वानां दुष्टसत्त्वनिवारणम्।

महेश्वरस्य सुतो घोरो वैनेयार्थमिहागतः॥



स्कन्दमङ्गारकञ्चैव ग्रहचिह्नैः सुचिह्नितः।

मञ्जुभाषिणी ततो भाषे करुणाविष्टेन चेतसा॥



महात्मा बोधिसत्त्वोऽयं बालानां हितकारिणः।

सत्त्वचर्या यतः प्रोक्तो विचेरुः सर्वतो जगत्॥



मुद्राशक्तियष्ट्यानुसंयुक्तो स महात्मनः।

आवर्तयति ब्रह्माद्यां किं पुनर्मानुषं फलम्॥



कौमारभित्तमखिलं कल्यमस्य समासतः।

कार्त्तिकेयमञ्जुश्रीः मन्त्रोऽयं समुदाहृतः॥



सत्त्वानुग्रहकाम्यर्थं बोधिसत्त्व इहागतः।

त्र्यक्षरं नाम हृदयं मन्त्रस्यास्य उदाहृतम्॥



सर्वसत्त्वहितार्थाय भोगाकर्षणतप्तरः।



मुद्रया शक्तियष्ट्या तु विन्यस्तः सर्वकर्मिकः॥



ॐ हूँ जः।



एष मन्त्रः समासेन कुर्यान्मानुषकं फलम्।

नमः समन्तबुद्धानां समन्तोद्योतितमूर्तिनाम्॥



ॐ विकृतग्रह हुं फट् स्वाहा॥



उपहृदयं चास्य संयुक्तो मुद्राशक्तिना तथा।

आवर्तयति भूतानि सग्रहां मातरां तथा॥

सर्वमुद्रितमुद्रेषु विन्यस्ता सफला भवेत्।

वित्रासयति भूतानां दुष्टाविष्टविमोचनी।



एष मञ्जुश्रियस्य कुमारभूतस्य कार्त्तिकेयमञ्जुश्रीर्नाम कुमारः अनुचरः सर्वकर्मिकः जपमात्रेणैव सर्वकर्माणि करोति, सर्वभूतानि त्रासयति, आकर्षयति, वशमानयति, शोषयति, घातयति, यथेप्सितं वा विद्याधरस्य तत् सर्वं सम्पादयति। नमः समन्तबुद्धानामप्रतिहतशासनानाम्। तद्यथा - ॐ ब्रह्म सुब्रह्म ब्रह्मवर्चसे शान्तिं कुरु स्वाहा॥



एष मन्त्रो महाब्रह्मा बोधिसत्त्वेन भाषितः।

शान्तिं प्रजग्मुर्भूतानि तत्क्षणादेव शीतला॥

मुद्रा पञ्चशिखायुक्ता क्षिप्रं स्वस्त्ययनं भवेत्।

आभिचारुकेषु सर्वेषु अथवो चेदपठ्यते॥

एष संक्षेपत उक्तो कल्पमस्य समासतः।

नमः समन्तबुद्धानामप्रतिहतशासनानाम्॥



तद्यथा - ॐ गरुडवाहन ! चक्रपाणि ! चतुर्भुज ! हुँ हुँ समयमनुस्मर। बोधिसत्त्वो ज्ञापयति स्वाहा॥



आज्ञप्तो मञ्जुघोषेण क्षिप्रमर्थकरः शिवः।

विद्रापयति भूतानि विष्णुरूपेण देहिनाम्॥

मुद्रा त्रिशिखे युक्तः क्षिप्रमर्थकरः स्थिरः।

य एव वैष्णवे तन्त्रे कथिताः कल्पविस्तराः॥

उपायवैनेयसत्त्वानां मञ्जुघोषेण भाषिताः।

नमः समन्तबुद्धानामप्रतिहतशासनानाम्॥



तद्यथा - ॐ महामहेश्वर ! भूताधिपतिवृषध्वज ! प्रलम्बजटामकुटधारिणे सितभस्मधूसरितमूर्ति हुँ फट् फट्। बोधिसत्त्वो ज्ञापयति स्वाहा॥



एष मन्त्रो मया प्रोक्तः सत्त्वानां हितकाम्यया।

शूलमुद्रासमायुक्ताः सर्वभूतविनाशकः॥

यन्मया कथितं पूर्वं कल्पमस्य पुरातनम्।

सैवमिति वक्ष्यन्ते सत्त्वा भूतलवासिनः॥

विविधा गुणविस्ताराः शैवतन्त्रे मयोदिताः।

नमः समन्तबुद्धानामप्रतिहतशासनानाम्॥



तद्यथा - ॐ शकुन महाशकुन पद्मविततपक्ष सर्वपन्नगनाशक ख ख खाहि खाहि समयमनुस्मर। हुँ तिष्ठ। बोधिसत्त्वो ज्ञापयति स्वाहा॥



एष मन्त्रो महावीर्यः वैनतेयेति विश्रुतः।

दुर्दान्तदमको श्रेष्ठः भोगिनां विषनाशनम्॥

महामुद्रया समायुक्ताः हन्त्यनर्थ सुदारुणाम्।

विचिकित्सयति न सन्देहो विषं स्थावरजङ्गमम्॥

सत्त्वानुपायवैनेया बोधिसत्त्वसमाज्ञया।

विचेरुर्गरुडरूपेण पाक्षिराट् स महाद्युतिः॥

यावन्तः गारुडे तन्त्रे कथिताः कल्पविस्तराः।

ते मयैवोदिताः सर्वे सत्त्वानां हितकारणात्॥

गरुत्मा बोधिसत्त्वस्तु वैनतेयार्थमिहागतः।

भोगिनां विषनाशाय विचेरुः पक्षिरूपिणः॥

यावन्तो लौकिका मन्त्राः तेऽस्मि कल्प उदाहृताः।

वैनेयार्थं हि सत्त्वानां विचरामि तथा तथा॥

ये तु ताथागतीमन्त्राः कुलिशाङ्कुकुलयोरपि।

तेऽस्मिन् कल्पविस्तरे भाषिता पूर्वमेव तु॥

यथा हि धात्री बहुधा बालानां लालति यत्नतः।

तथा बालिशबुद्धीनां मन्त्ररूपी चराम्यहम्॥

दशबलै कथितं पूर्वे अधुना च मयोदितम्।

सकलं मन्त्रतन्त्रार्थं कुमारोऽप्याह महाद्युतिः॥

जिनवरैश्च ये गीता गीता दशबलात्मजैः।

मञ्जुस्वरेण ते गीता अचिन्त्याद्भुतरूपिणाम्॥



अथ खलु मञ्जुश्रीः कुमारभूत सर्वावन्तं शुद्धावासभवनं तं च महापर्षन्मण्डलवलोक्य सर्वसमयसञ्चोदनीं नाम समाधिं समापद्यते स्म। यत्र समाधेः प्रतिष्ठितस्य अशेषसत्त्वनिर्हारचर्यामनसः सर्वसत्त्वा प्रतिष्ठिताः भवेयुः, समनन्तरसमापन्नस्य मञ्जुश्रियः कुमारभूतस्य सर्वावन्तं शुद्धावासभवनं विचित्रमणिरत्नव्यूहालङ्कारमण्डलं अचिन्त्याद्भुतबोधिसत्त्वविकुर्वणं सर्वप्रत्येकबुद्धार्यश्रावकचर्याप्रविष्टैरपि बोधिसत्त्वैः दशभूमिप्रतिष्ठितेश्वरैरपि न शक्यते मण्डलं लिखितुं वा, कः पुनर्वादो पृथग्जनभूतैः सत्त्वै त दिव्यमार्यमण्डलसमयनिर्हारवस्थानावस्थितं मञ्जुश्रियं कुमारभूतं दृष्ट्वा सर्वे बुद्धा भगवन्तः सर्वप्रत्येकबुद्धाः, सर्वे आर्यश्रावकाः, सर्वे बोधिसत्त्वाः, दशभूमिप्रतिष्ठिताः, यौवराज्याभिषेकसमनुप्राप्ता आर्या प्रतिपन्नाश्च सर्वे सत्त्वा साश्रवा अनाश्रवाश्च मञ्जुश्रियः कुमारभूतस्याधिष्ठानेनाचिन्त्यं बुद्धबोधिसत्त्वाचर्यानिष्यन्दितं समाधिविशेषमानसोद्भवं मण्डलं प्रविष्टमात्मानं सञ्जानन्ते स्म। न शक्यते तत् पृथग्जनैः सत्त्वैः समनसाप्यालम्बयितुम्, कः पुनर्वादो लिखितुं लेखयितुं वा॥



अथ मञ्जुश्रीः कुमारभूतः, ता महापर्षन्मण्डलसमयमनुप्रविष्टः सत्त्वानामन्त्रयते स्म। शृण्वन्तु मार्षाः ! अनतिक्रमणीयमेतत् तथागतानां बोधिसत्त्वानां च समयः, कः पुनर्वादोऽन्येषां सत्त्वानाम् आर्यानार्याणाम्। अथ मञ्जुश्रीः कुमारभूतः वज्रपाणिं गुह्यकाधिपतिमामन्त्रयते स्म। निर्दिष्टं भो जिनपुत्रातिक्रान्तमानुध्यकं समयं मानसोद्भवं मानुष्यकं तु वक्ष्ये परिनिर्वृतानां च तथागतानाम्, यत्र सत्त्वा समनुप्रविश्य सर्वमहालौकिकलोकोत्तरा सिद्धिं गच्छेयुः॥



अथ खलु वज्रपाणिर्गुह्याधिपतिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म। भाष भाष त्वं भो जिनपुत्र ! यस्येदानीं कालं मन्यसे।



परिनिर्वृते लोकनाथे शाक्यसिंहे अनुतरे।

बुद्धत्व इव सत्त्वानां त्वदीयं मण्डलं भुवि॥

दृष्टिमात्रो हि लोकोऽस्मिन् मन्त्रा सिद्धिं प्रजग्मिरे।

अज्ञानविधिहीनं तु शयानविकृतेन वा॥

मन्त्रा सिद्धिं न गच्छेयुः ब्रह्मस्यापि महात्मनः।

अनभियुक्ता तन्त्रेऽस्मिन् अदृष्टसमयोदिते॥

मन्त्रा सिद्धिं न गच्छन्ति यत्नेनाप्यनेकदा।

समयप्रयोगहीनं शक्रस्यापि प्रयत्नतः॥

मन्त्राः सिद्धिं न गच्छन्ति किं पुनर्भुवि मानुषे।

समयशास्त्रतत्त्वज्ञे चर्याकर्मसु साधने।

पठितमात्रा हि सिध्यन्ते मात्रा आर्या च लौकिकाः॥

मण्डलं मञ्जुघोषस्य प्रविष्टः सर्वकर्मकृत्।

मन्त्रसिद्धिर्ध्रुवं तस्य कुमारस्यैव शासने॥



अथ खलु वज्रपाणिर्गुह्याधिपतिः तं महासत्त्व मध्ये भाषते स्म। संक्षेपतः भो भो महाबोधिसत्त्व ! सत्त्वानामर्थाय मण्डलविधानं भाषस्वेति॥



एवमुक्तस्तु गुह्यकाधिपतिना मञ्जुश्रीः कुमारभूतः सर्वसत्त्वानामर्थाय मण्डलविधानं भाषते स्म। आदौ तावत् प्रतिहारकपक्षे चैत्रवैशाखे च मासे सितपक्षे प्रशस्तदिवसे शुद्धग्रहनिरीक्षिते शुभनक्षत्रसंयुक्ते शुक्लप्रतिपदि पूर्णमास्यां वा अन्ये वा काले प्रावृण्मासविवर्जिते पूर्वाह्णे भूमिमधिष्ठातव्यं महानगरमासृत्य यत्र वा स्वयं तिष्ठेन्मण्डलाचार्यः समुद्रगामिनीं वा नदीमाश्रित्यः, समुद्रतटसमीपं वा महानगरस्य पूर्वोत्तरे दिग्भागे नातिदूरे नात्यासन्ने मण्डलाचार्येण सत्त्वाना सप्ताहं पक्षमात्रं वा एकान्ते उडयं कृत्त्वा प्रतिवस्तव्यम्। यः तस्मिन् स्थाने सुचौक्षं पृथिवीप्रदेशं समन्ताच्चतुरस्रं षोडशहस्तं द्वादशहस्तं वा अपगतपाषाणकठल्लभस्माङ्गारतुषकपालास्थिवर्जितं सुचौक्षं सुपसुपरिकर्मितं पृथिवीप्रदेशं निघ्रात्मकेनोदकेन पञ्चगव्यसन्मिश्रितेन चन्दनकर्पूरकुङ्कुमोदकेन वा यमान्तकेन क्रोधराजेनाष्टसहस्राभिमन्त्रितेन पञ्चशिखमहामुद्रासंयुक्तेन तं पृथिवीप्रदेशं अभ्युक्षयेच्चतुर्दिक्षु इत्यूर्ध्वमधस्तिर्यग् विदिक्षु च सर्वतः क्षिपेत्। ततो तं पृथिवीप्रदेशं समन्ताच्चतुरस्रं षोडशहस्तं द्वादशहस्तं वा अष्टहस्तं वा, तत्र षोडशहस्तं ज्येष्ठं मध्यं द्वादशहस्तं कन्यसं अष्टहस्तम्। एतत् त्रिविधं प्रोक्तं मण्डलं सर्वदर्शिभिः राज्यकामाय ततो ज्येष्ठं मध्यमं सम्भोगवर्धनं कन्यसं समयमात्रं तु सर्वकर्मकरं शिवम्। ततोऽन्यतमं मनसेप्सितं मण्डलमालिखेत्। तत्र तं पृथिवीप्रदेशं द्विहस्तमात्रं खनेत्। तत्र पाषाणाङ्गारभस्मास्थिकेशादयो विविधा वा प्राणकजातयः यदि दृश्यन्ते, अन्यं पृथिवीप्रदेशं खनेत्। निरुपहत्यं निरुपद्रवं भवेत्। न चेत् पर्वताग्रनदीपुलिनसमुद्रोत्सङ्गमहानदीपुलिनसिकतादिचयं महता प्रयत्नतः स प्रत्यवेक्षितं सुचौक्ष निःप्राणकं कृत्वा लिखेत्। तं पृथिवीप्रदेशं भूयो निःप्राणेनोदकेन पञ्चगव्यसन्मिश्रेण नदीकूलमृत्तिकया मेध्यया वल्मीकमृत्तिकया वा यत्र प्राणका न सन्ति, तया मृत्तिकया पूरयितव्यम्। पूरयित्वा च स्वाकोटितं समतलं समन्तात् त्रिविधं मण्डलं यथेप्सितं कारयेत्। चतुर्दिक्षु चत्वारः खदिरकीलकां निखनेत्। क्रोधराजेनैव सप्ताभिमन्त्रितं कृत्वा, पञ्चरङ्गिकेण सूत्रेण सप्ताभिमन्त्रितेन क्रोधहृदयेन कृत्वा समन्ता तन्मण्डलं चतुरस्राकारेण वेष्टयेत्। एवं मध्यमे स्थाने एवमभ्यन्तरे चतुरस्राकारं कारयेत्। मध्यस्थानस्थितेन मण्डलाचार्येण विद्या अष्टसहस्रं मूलमन्त्रा उच्चारयितव्या महामुद्रा पञ्चशिखां बध्वा मूंलमन्त्रेण ससखायरक्षा आत्मरक्षा च कार्या। जपतश्च निष्कसर्वहिमण्डलं प्रदक्षिणीकृत्य प्राङ्मुखः कुशविण्डकोपविष्टः सर्वबुद्धबोधिसत्त्वानां मनसि कुर्वाणः। समन्ताच्च तन्मण्डलं चतुरस्राकारेण वेष्टयेत्। बहिर्नाधः एकरात्रोषितां कृत्वा प्रवासयेत्॥





तत्र मण्डलाचार्येण कृतपुरश्चरणेन स्वतन्त्रमन्त्रकुशलेन उपायसत्त्वार्थमहायानाधिमुक्तेन एकरात्रोषितेन सुसखायसमेतेन विधिशास्त्रदृष्टेन कर्मणा पञ्चरङ्गिकेन चूर्णेन श्लक्ष्णोज्ज्वलेन सुपरिकर्मकृतेन षड्क्षराभिमन्त्रिते हृदयेनाभिमन्त्यं तं चूर्णं मण्डलमध्ये स्थापयेत्। बहिश्चोच्छ्रितध्वजपताकतोरणे चतुष्पथालङ्कृतं कदलीस्तस्भरोपितफलभरितपिण्डीभिः प्रलम्बमानमाहतभेरीमृदङ्गशङ्खतन्त्रीनिर्घोषनिनादितं पृथिवीप्रदेशं कुर्यात्। प्रशस्तशब्दधर्मश्रवणचतुप्पर्षानुकूलमहायानसूत्रां चतुर्दिक्षु पुस्तकां वाचयन्॥



तद्यथा - भगवती प्रज्ञापारमिता दक्षिणां दिशि वाचयेत्। आर्यचन्द्रप्रदीपसमाधिः पश्चिमायां दिशि। आर्यगण्डव्यूह उत्तरायां दिशि। आर्यसुवर्णप्रभासोत्तमसूत्रं पूर्वायां दिशि। एवमधीतचतुःसूत्रान्तिकं पुद्गलां धर्मभाणकं पुस्तकाभावाद्द्ध्येषयेत्। धर्मश्रवणाय ततो मण्डलाचार्येणोत्थाय चन्दनकर्पूरकुङ्कुमव्यामिश्रकेण श्वेतसुगन्धपुष्पैः मूलमन्त्रं जपता सर्वतस्तं मण्डलमभिकिरेत्। अभिकीर्य च बहिर्निर्गच्छेत्। सप्ताहाद्धविष्याहारोषितां द्वौ त्रयो वा उत्पादितबोधिचित्तं उपोषध उपवासोचितां चित्रकरा निपुणतरां प्रवेशयेत्। मूलमन्त्रेणैव शिखावन्धं कृत्वा, ततः सुवर्णरूप्यविविधरत्नपञ्चविचित्रोज्ज्वलचारुसूक्ष्मचूर्णताम्ब्रां प्रतिगृह्य, महाभोगैः सत्त्वैः महाराजानैश्च धार्मिकैः लिखापनीयम्। बोधिपरायणीयं बोधिपरायणं नियतं॥



मण्डलं दर्शनादेवं किं पुनर्मन्त्रसाधने।

सत्त्वानामल्पपुण्यानां निर्वृते शाक्यपुङ्गवे॥

कुत एवंविधा भोगा विधिरेषा तु कल्प्यते।

दरिद्रजनतां दृष्ट्वा मञ्जुघोषो महाद्युतिः॥

उदीरयेत् कल्पसंक्षेपं मण्डलं तु समासतः।

शालितण्डुलचूर्णैस्तु सूक्ष्मैः पञ्चरङ्गोज्ज्वलैः॥

शुक्लपीतरक्तकृष्णहरितवर्णैर्वर्णयेत्।



पूर्वस्थापितकं चूर्णं मण्डलाचार्येण स्वयं गृह्य, महामुद्रां पञ्चशिखां बध्वा मूलमन्त्रं जपता तं चूर्णं मुद्रयेत्। अपरेण तु साधकाचार्येण मण्डलबहिर्दक्षिणपूर्वायां दिशि विधिदृष्टेन कर्मणा अग्निकुण्डं कारयेत्। द्विहस्तप्रमाणं हस्तमात्रनिम्नं समन्तात् पद्मपुष्कराकारं बहिः पद्मपुष्कराकारा पलाशकाष्ठसमिद्भिः अग्निं प्रज्वाल्य श्रीफलकाष्ठसमिधानां वितस्तिमात्रप्रमाणानां साद्रां दधिमधुघृताक्ता मूलमन्त्रं षडक्षरहृदयेन वा मुद्रामुष्टिं बध्वा आह्वयेत्। आहूय च पूर्वोक्तैनैव एकाक्षरमूलमन्त्रहृदयेन भूयो अष्टशतं जुहुयात्॥



ततो मण्डलाचार्येण बद्धोष्णीषकृतपरिकरः आत्मना चित्रकरांश्च निपुणतरानात्मना कारयेत्। ततो मण्डलाचार्येण बुद्धबोधिसत्त्वां मनसि कुर्वता पूर्वोक्तेनैव धूपमन्त्रेण धूपं द‍इता अञ्जलिं कृत्वा सर्वबुद्धबोधिसत्त्वां प्रणम्य, मञ्जुश्रियं कुमारभूतं नमस्कृत्य चूर्णं गृहीत्वा, आकारयेत्। रूपं चित्रकरैश्च पूरयितव्यम्। एतेन विधिना प्रथमत एव बुद्धं भगवन्तं शाक्यमुनिं सर्वाकारवरोपेतं रत्नसिंहासनोपविष्टं शुद्धावासभवनस्थं धर्मं देशयमानमालिखेत्। लिखितश्च मण्डलाचार्यस्यानुसाधकेन आत्मरक्षाविधानं मूलमन्त्रेण कृत्वा सर्वभूतिका बलिर्देया चतुर्दिक्षुर्ध्वमधः बहिर्मण्डलस्य क्षिपेत्॥



ततो स्नात्वा अग्निकुण्डसमीपं गत्वा शुचिवस्त्रप्रावृतेन शुचिना कृता रक्षाविधानेन घृताहुतीनां कुङ्कुममिश्राणामष्टसहस्रं जुहुयान्मूलमन्त्रेण। ततः कुशविण्डकोपविष्टेन जपं कुर्वतः तत्रैव स्थातव्यम्। श्वेतसर्षपाणामष्टाभिमन्त्रितं कृत्वा यमान्तकक्रोधराजेनाभिमन्त्र्य शरावसम्पुटे स्थापयेत्। अनेकाकारविकृतरूपघोरस्वरवातवर्षदुर्दिनमन्यतमान्यतमं वा विघ्नमागतं दृष्ट्वा हुतेन सर्षपाहुतयः सप्त होतव्याः। ततो विघ्नाः प्रणश्यन्ति। मनुष्यविघ्नैर्वा पञ्चाहुतयो होतव्या। स्तम्भिता भवन्ति अशक्तिवन्तः पुरुषा मृयन्ति वा। अमानुष्यैर्वा गृह्णन्ते तत्क्षणादेव न सन्देहोस्ति। कथञ्चन शक्रोऽपि म्रियते क्षिप्रम्। किं पुनर्दुष्टचेतसा मनुष्याः, इतरे वा विघ्ना यमान्तकक्रोधभया निर्नष्टा विद्रवन्ति इतो इत इति॥



ततोऽनुसाधकेन तत्रैव कुशविण्डकोपविष्टेन यमान्तकक्रोधराजानं जपं कुर्वाण स्थातव्यम्। ततो मण्डलाचार्येण भगवतः शाक्यमुनेः प्रतिमाया दक्षिणे पार्श्वे द्वौ प्रत्येकबुद्धौ पद्मासनोपविष्टौ पर्यङ्केनोपविष्टौ कार्यौ, तयोरधस्ताद् द्वौ महाश्रावकौ धर्मं शृण्वन्तः कार्यौ। तेषामपि दक्षिणतः भगवानार्यावलोकितेश्वरः सर्वालङ्कारविभूषितः शरत्काण्डगौरः पद्मासनोपविष्टः, वामहस्तेन पद्मं गृहीत्वा दक्षिणहस्तेन वरदः। तस्यापि दक्षिणतः भगवती पण्डरवासिनी पद्महस्ता दक्षिणेन हस्तेन भगवन्तं शाक्यमुनिं वन्दमाना पद्मासनोपनिषण्णा जटामकुटधारिणी श्वेतपट्टवस्त्रनिवस्ता पट्टांशुकोत्तरासङ्गिनी कृष्णभस्मतृमुण्डीकृता। एवं तारा, भ्रुकुटी स्वकस्वकासनेर्यायथे सुस्थिता कार्या। उपरिष्टाच्च भगवती तेषां प्रज्ञापारमिता, तथागतलोचना, उष्णीषराजा स्वकार्याः। एवं बोधिसत्त्वाः षोडश कार्याः। तद्यथा - समन्तभद्रः, क्षितिगर्भः, गगनगञ्जः सर्वनीवरणविष्कम्भी, अपायजह मैत्रेयः, चमरव्यग्रहस्तः, बुद्धं भगवन्तं निरीक्षमाणः, विमलगतिः, विमलकेतुः, सुधन, चन्द्रप्रभ, विमलकीर्ति, सर्वव्याधिचिकित्सकः सर्वधर्मीश्वरराजः, लोकगतिः, महामतिः, पतिधरश्चेति। एते षोडश महाबोधिसत्त्वाः प्रसन्नमूर्तयः सर्वालङ्कारभूषिता लेख्याः। प्रधानविद्याराजः, विद्याराज्ञी अब्जकूले रूपकमुद्रा। स च यथास्मरत्तः आगमतश्च यथास्थानेषु वा शेषा लेख्याः। अन्ते च स्थाने चतुरस्राकारं स्थानं स्थापये पद्मपुष्पसंस्कृतम्। येन स्मरिता विद्या देवता तेऽस्मिन् स्थाने तिष्ठन्त्विति॥



एवं दक्षिणे पार्श्वे भगवतः शाक्यमुनेः द्वौ प्रत्येकबुद्धौ गन्धमादनः, उपारिष्टश्चेति। एवं प्राङ्मुखं मण्डलं सर्वतः प्रवेशद्वारं कार्यम्। भगवतः शाक्यमुनेः पार्श्वे अपरौ द्वौ प्रत्येकबुद्धौ चन्दनसिद्धश्चेति आलेख्यौ। तेषामधस्ताद् द्वौ महाश्रावकौ महाकाश्यपमहाकात्यायनश्चालेख्यौ। तेषामपि वामतः आर्यवज्रपाणिकुवलयश्यामाभः प्रसन्नमूर्तिः सर्वालङ्कारभूषितः दक्षिणे चामरव्यग्रहस्तः वामेन क्रोधमूर्तिहस्तः वज्रमुष्टिः वज्राङ्कुशि वज्रशृङ्खला सुबाहु वज्रसेन यथावेषचिन्हस्थानासनसर्वविद्याराज्ञाराज्ञीसपरिवारः रूपमुद्रादिषु यथास्मरणा लेख्याः। तेषामपि वामतः चतुरस्राकारमुभयवज्रमुद्रां लिखेत्। लिख्य च वक्तव्यम्, येऽत्र स्थाने न स्मरिता विद्यागणाः, तेऽत्र स्थानेन स्मरिता विद्यागणाः, तेऽत्र स्थाने तिष्टन्त्विति॥



तेषामुपरिष्टात् वेद्यारमिताः भगवती मामकी आलेख्याः सर्वालङ्कारविभूषिताश्च ताः प्रसन्नमूर्तयः॥



तेषामप्युपरिष्टा अष्टौ उष्णीषराजानः समन्तज्वालमालाकुलाः। मुद्रा च स्वकस्वकानि महाराजचक्रवर्तीरूपाणि आलेख्यानि। कनकवर्णसुप्रसन्नेन्द्रियाणि सर्वालङ्कारविभूषितानि। ईषत् तथागतः प्रतिमदृष्टिजातानि। तद्यथा - चक्रवर्ती, उष्णीषः, अभ्युद्गतोष्णीष, सितातपत्र, जयोष्णीष, कमलोष्णीष, तेजोराशि, उन्नतोष्णीष इति॥



एते अतः उष्णीषराजानः प्रत्येकबुद्धानां वामतः आलेख्य, द्वारे बुद्धो बोधिसत्त्वो कार्यप्रवेशतदक्षिणतो लोकातिक्रान्तगामी नाम जटामकुटधारी सौम्यमूर्तिः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वामहस्तेन कमण्डलुं द्वाराभिमुखः ईषद्भ्रुकुटीवदनः वामतः प्रवेशे महाबोधिसत्त्व अजितञ्जयो नाम आलेख्यः। प्रसन्नमूर्तिः जटामकुटधारी दण्डकमण्डलुवामकरावसक्तः दक्षिणहस्तेन अक्षसूत्रं गृहीत्वा वरप्रदानकरः ईषद्भ्रुकुटिवदनः द्वाराभिमुख आलेख्यः॥



सिंहासनस्याधस्ताद् धर्मचक्रः समन्तज्वालमालाकुलः, तस्याप्यधस्तात् रत्नविमानः, तत्रस्थो भगवां महाबोधिसत्त्वः मञ्जुश्रीः कुमारभूतः कुमाररूपी कुङ्कुमगौराकारः प्रसन्नमूर्तिः चारुरूपी ईषित् प्रहसितवदनः वामहस्ते नीलोत्पलावसक्तः दक्षिणहस्तेन श्रीफलावसक्तवरदः सर्वबालालङ्कारभूषितपञ्चचीरकोपशोभितः मुक्तावलीयज्ञोपवीतः पट्टांशुकोत्तरीयः पट्टवस्त्रनिवस्तः समन्तप्रभः समन्तज्वालमालाकुलः पद्मासनोपनिषण्णः यमान्तकक्रोधराजतदृष्टिः मण्डलप्रवेशद्वाराभिमुखः चारुदर्शनो सर्वतः आलेख्यः॥



तस्य दक्षिणे पार्श्वे पद्मस्याधस्ताद् यमान्तकः क्रोधराजा आलेख्यः महाविकृतरूपी समन्तज्वालमालाकुलः आज्ञां प्रतीच्छमानः महाबोधिसत्त्वगतदृष्टिः सर्वत आलेख्यः। वामपार्श्वे पद्मस्याधस्ताच्छुद्धावासकायिकाः देवपुत्ररूपिणः बोधिसत्त्वाः पञ्च आलेख्याः। तद्यथा - सुनिर्मलः सुदान्तः, सुशान्तः, संशुद्धः तमोद्घातनः, समन्तावलोकश्चेति। सर्वे च ते शुद्धावासभवनोपनिषण्णः अनेकरत्नोज्वलशिलातलाकारः समन्तज्वालविचित्रपुष्पावकीर्णश्चारुरूपी आलेख्यः॥



बहिः समन्ताच्चतुरस्राकारं चतुस्तोरणाकारं चतुर्दिशं विचित्रपञ्चरङ्गोज्ज्वलं सुप्रगुणरेखावनद्धं अभ्यन्तरमण्डलं कार्यम्। पूर्वायां दिशि भगवतः शाक्यमुनेः उपरिष्टाद् रेखाभिः मध्ये सङ्कुसुमितराजेन्द्रः पद्मासनोपनिषण्णः तथागतविग्रहः स्वल्पमात्रः कार्यसमन्तज्वालमालाकुलः वरदप्रदानहस्तः पर्यङ्कोपनिषण्णः॥



तस्य दक्षिणतः उष्णीषचक्रवर्त्तिमुद्रा लेख्या। वामतस्तेजोराशिमुद्रा लेख्या। तथागतलोचनाया उपरिष्टात् प्रज्ञापारमितामुद्रा लेख्या। भगवतः आर्यावलोकितेश्वरस्योपरिष्टात् प्रज्ञापारमितामुद्राया दक्षिणतः भगवानमिताभः तथागतविग्रहः कार्यः वरप्रदानहस्तः पद्मासनोपनिषण्णः समन्तज्वालमालाकुलः॥



तस्यापि दक्षिणतः पात्रचीवरमुद्रे कार्यौ। एवमनुपूर्वतः प्रवेशस्थाने पद्ममुद्रा कार्याः। भगवता सङ्कुसुमितराजस्य तथागतस्य वा मतो उष्णीषतेजोराशिमुद्रा लेख्या समन्तज्वालमालाकुलाः॥



तस्यापि वामतः रत्नकेतुस्तथागतः कार्यः, रत्नपर्वतोपनिषण्णः धर्मं देशयमानः नीलवैडूर्यमरकतपद्मरागविचित्रज्वालार्चिषि निर्गतसमन्तात्समन्तप्रभ आलेख्यः॥



तस्यापि वामतः जयोष्णीषमुद्रा समन्तज्वालमालाकुला आलेख्या। तस्यापि वामतः धर्मचक्रमुद्रा आलेख्या समन्तज्वालावती। तस्यापि वामतः खखरककमण्डलुमक्षसूत्रकमण्डलुं भद्रपीठमुद्रा आलेख्या। अनुपूर्वतः द्वारस्थाने वज्रसूच्योभयतः समन्तज्वाल आलेख्यः। भगवतो मञ्जुश्रियस्याधस्तान्महामुद्रा पञ्चशिखा नाम उत्पलमुद्रा वा लेख्या। समन्तज्वालिनौ एतौ अन्योऽन्यासक्तं समन्तमण्डलाकारमालेख्यम्। द्वारतः पश्चान्मुखप्रवेशतः प्राङ्मुखश्च कार्यः। सर्वेष्वपि बहिर्मण्डलं भवति पञ्चवर्णरङ्गोज्ज्वलं विचित्रचारुदर्शनं, चतुःकोणविभक्तं, चतुस्तोरणाकारं चतुर्दिशं द्विहस्तमात्राभ्यन्तरमण्डलतो बहिरालेख्यम्। पूर्वस्यां दिशि महाब्रह्मा चतुर्मुखः शुक्लवस्त्रनिवस्तः श्वेतस्त्रोत्तरासङ्गिनः श्वेतयज्ञोपवीतः कनकवर्णः जटामकुटधारी दण्डकमण्डलुं वामावसक्तपाणिः॥



तस्य दक्षिणतः आभास्वरो देवपुत्रः कार्यः कनकवर्णः ध्यानान्तरगतमूर्त्तिः पट्टवस्त्रनिवस्तः पट्टांशुकोत्तरीयः सुप्रसन्नवदनः जटामकुटधारी श्वेतयज्ञोपवीतः पर्यङ्कोपनिषण्णः दक्षिणहस्तेन वरदः॥



तस्य दक्षिणत अकनिष्ठो देवपुत्रः कार्यः सर्वालङ्कारभूषितः प्रसन्नमूर्त्तिः ध्यानगतचेतसः पट्टवस्त्रनिवसननिवस्तः पट्टांशुकोत्तरीयः॥



तस्य दक्षिणतः पर्यङ्कोपविष्टः दक्षिणहस्तेन वरदः श्वेतयज्ञोप वीतः॥



एवमनुपूर्वतः, सन्तुषितः सुनिर्मितः, परनिर्मितः, सुयामशक्रप्रभृतयो देवपुत्रा आलेख्या यथानुपूर्वतः यथावेषसंस्कृताः॥



शक्रस्याधस्ताच्चतुर्महाराजकायिकाः सदामत्ताः मालाधारिणो करोटपाणयः वीणाद्वितीयका लेख्याः। भौमाश्च देवपुत्रा यथानुपूर्वतः यथावेषेनालेख्याः॥



एवं दक्षिणायां दिशि अवृह अनय सुदृश सुदर्शनं परीत्ताभ पुण्यप्रसवप्रभृतयो देवपुत्रा आलेख्या यथावेषस्थानाः॥



एवं पश्चिमायां दिशि चोत्तरायां दिशि तेषामधस्ताद् द्विपङ्क्त्याश्रिता आलेख्याः। द्वितीयमण्डलाद् बहिस्तृतीयमण्डलं भवति। चतुर्दिशं चत्वारो महाराजानः अनुपूर्वत आलेख्याः॥



उत्तरायां दिशि प्रविशतो दक्षिणः धनदः, निधिसमीपस्थः सर्वालङ्कारभूषितः ईषद्भग्नकिरीट यक्षरूपी। तस्य दक्षिणतः मणिभद्रपूर्णभद्रौ यक्षसेनापती आलेख्यौ॥



एवमनुपूर्वतः हारीती महायक्षिणी आलेख्या। प्रियङ्करः कुमार उत्सङ्गोपविष्टो मण्डलं निरीक्षमाणः आलेख्याः। पञ्चिकः पिङ्गलः भीषणश्च आलेख्यः॥



तेषां च समीपे यक्षाणां मुद्रा आलेख्याः। एवमनुपूर्वतः वरुणो पाशहस्त पश्चिमायां दिशि आलेख्यः। नागौ नन्दोपनन्दौ तक्षकवासुकिप्रभृतयोऽष्टौ महानागराजानः आलेख्याः॥



एवं द्विपङ्क्त्याश्रिताः अनुपूर्वतः यक्षराक्षसकिन्नरमहोरगऋषयः सिद्धप्रेतपिशाचगरुडकिन्नरमनुष्या मनुष्याद्या ओषधयश्च मणिरत्नविशेषाः पर्वताः सरितः द्वीपाश्च अनुपूर्वतः सर्वे प्रधाना लेख्याः।



दक्षिणायां दिशि यम आलेख्यः सपरिवारः। मातराः सप्त पूर्वदक्षिणस्यां दिशि। अग्निः समन्तज्वालमालाकुलः दण्डकमण्डलुअक्षसूत्रव्यग्रपाणिः जटामकुटधारी श्वेतवस्त्रनिवस्तः पट्टांशुकोत्तरासङ्गिकः श्वेतयज्ञोपवीत कनकवर्णः भस्मत्रिपुण्डरीकृतः॥



एवं नानाकरणप्रहरणवेषसंस्थानवर्णतत्त्वद्विपङ्क्ति आश्रिता आलेख्याः। सर्वतः प्रविशतो बहिर्मण्डले उमापतिर्वृषवाहनास्त्रिशूलपाणिः, उमा च देवी कनकवर्णा सर्वालङ्कारभूषिता, कार्तिकेयश्च मयूरासनः शक्त्युद्यतहस्तः कुमाररूपी षण्मुखः रक्ताभासमूर्तिः पीतवस्त्रानिवस्तः। पीतवस्त्रोत्तरासङ्गः वामहस्तेन घण्टां गृहीत्वा रक्तपताकां च अनुपूर्वतः भृङ्गिरिटि अत्यन्तकृशाकारः महागणपतिनन्दिकेश्वरमहाकालौ मातराः सप्त यथाभरणप्रहरणवेषसंस्थानाभिलेख्याः। अष्टौ वसवः, सप्त ऋषयः, विष्णुश्चक्रपाणिश्चतुर्भुजो गदाशङ्खासिहस्तो गरुडासनः सर्वालङ्कारभूषितश्च। अष्टौ ग्रहाः, सप्तविंशतिनक्षत्राः, येषु चरन्ति भुवि मण्डले उपग्रहाश्चाष्टा देवा लेख्याः अनुपूर्वशः पञ्चदश तिथयः सितकृष्णा, द्वादश राशयो षट् ऋतवो, द्वादश मासाः संवत्सरश्च। चतुर्भगिन्यः नावाभिरूढाः भ्रातृपञ्चमाः सलिलवासिनश्चेति संक्षेपतो मुद्रासु व्यवस्थाप्या हि देवता अनुपूर्वतश्च द्विपङ्क्त्या श्रिताश्च कार्या संक्षेपतो मण्डलत्रये पितृमण्डलाश्रयः। अभिलेख्यः चतुरस्रश्च। त्रिमण्डलेष्वपि व्यवस्था सैषा भवति। संक्षेपतः बुद्धो भगवान् सर्वसत्त्वानामग्र अवश्यमभिलेख्यः। अब्जकुले आर्यावलोकितेश्वरो दक्षिणतः अवश्यमभिलेख्यः। वामत वज्रकुले वज्रपाणिरवश्यमभिलेख्यः। बोधिसत्त्वानामग्र आर्यसमन्तभद्रोऽवश्यमभिलेख्यः। मञ्जुश्रीः कुमारभूतोऽवश्यमभिलेख्यः। सैषा मुद्रासु यथाव्यवस्थायामभिलेख्याः। एतदभ्यन्तरमण्डलं मध्यमण्डलेऽपि ब्रह्मा सहाम्पतिः पूर्वायां दिश्यवश्यमभिलिखितव्यः। एवमाभास्वरो दक्षिणायां दिशि, अकनिष्ठ अरूपिनश्च देवा मण्डलाकारा अव्यक्ताः नैव संज्ञानासंज्ञायतना देवाः, उत्तरायां दिशि शक्रो देवराजा सयामः सन्तुषितः सुनिर्मितः परनिर्मितः परीत्ताभप्रभृतयो देवपुत्रा अवश्यमेकैकः देवराजोऽभिलिखितव्यः। सैषा मुद्रासु व्यवस्थाप्याः॥



एवं तृतीयमण्डलेऽपि उत्तरायां दिशि ईशानो भूताधिपतिः सहोमयावश्यमभिलिखितव्यः। द्वितीयद्वारसमीपे कार्त्तिकेयमञ्जुश्रीः मयूरासनः शक्तिपाणिः रक्तावभासमूर्त्तिः पीतवस्त्रनिवस्तोत्तरासङ्गिनः दक्षिणहस्ते घण्टापताकावसक्तः कुमाररूपी मण्डलं निरीक्षमाणः। पूर्वायां दिशि वैनतेयः पक्षिरूपी। ऋषिर्मार्कण्डः अवश्यमभिलिखितव्यः। सैषा मुद्रासु च व्यवस्थाप्याः॥



दक्षिणपूर्वतः चतुःकुमार्याः कुमारभ्रातृसहिता नौयानसंस्थिता महोदधेः परिभ्रमन्त्यः। अग्निश्च देवराट् अवश्यलिखितव्यः। एवं दक्षिणस्यां दिशि लङ्कापुरी विभीषणश्च राक्षसाधिपतिः, तत्रस्थितः पिचुमन्दवृक्षाश्रितः जम्भलजलेन्द्रनामा यक्षरूपी बोधिसत्त्वोऽवश्यमभिलिखितव्यः॥



एवमनुपूर्वतो यमो राजो प्रेतमहर्द्धिकोऽवश्यमभिलिखितव्यः। एवं पिशाचराजा विकरालो नामावश्यमभिलिखितव्यः। सैषा मुद्रासु व्यवस्थाप्या॥



एवं दक्षिणपश्चिमायां दिशि नन्दोपनन्दौ नागमुख्यौ अवश्यमभिलिखितव्यौ। ग्रहमुख्यश्चादित्यः पश्चिमायां दिशि कपिलमुनिर्नाम ऋषिवरो निर्ग्रन्धतीर्त्थकरऋषभः निर्ग्रन्धरूपी अनुपूर्वतः। सैषा मुद्रासु व्यवस्थाप्याः। उत्तरपश्चिमासु च दिशासु यक्षराड् धनदः, गन्धर्वराट् पश्चशिखः, किन्नरराजा द्रुमः, एतेऽवश्यमभिलिखितव्याः। सैषा मुद्रासु च अनुपूर्वतः यथास्थानं संस्थिता अभिलिखितव्या इति॥



चतुर्थमण्डलं बहिः पञ्च रेखाः चित्तं मुद्रमालाभिश्चोपशोभितं चतुरस्रं चतुस्तोरणाकारं चतुर्महाराजविभूषितं यथानुपूर्वस्थिता। तद्यथा - मुद्रा भवन्ति पुरःप्रदेशे नीलोत्पलमभिलेख्यम्। दक्षिणतो वामतः पद्मं वज्रं परशुखड्गशूलत्रिशूलगदाचक्रस्वस्तिककलशमीनशङ्खकुण्डलध्वजपताकं पाशघण्टाकद्वारकधनुर्नाराचमुद्गर एतैर्विविधाकारप्रहरणमुद्रैः समन्ताच्चतुरस्रमालाकुलं कुर्यादित्यतः बहिश्चतुर्दिशं चत्वारो महासमुद्राः स्थापनीयाः॥



उत्तरायां दिशि चतुरस्राकारं मण्डलकं कृत्वा उभयवज्रं त्रिसूच्याकारं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा स्थापयेत्॥



दक्षिणायां दिशि धन्वाकारं मण्डलकं कृत्वा पात्रं समन्तज्वालं स्थापयेत्। पश्चिमायां दिशि समन्तप्रभाकारं मण्डलकं कृत्वा नीलोत्पलं सनालपत्रोपेतं समन्तज्वालं विदिक्षु च चत्वारो मुद्रा भवन्ति। उत्तरपश्चिमायां दिशि पाशं वर्त्तुलाकारं मण्डलं कृत्वा समन्तज्वालं दक्षिणपश्चिमायां दिशि दीर्घाकारमण्डलकं कृत्वा दण्डं समन्तज्वालं दक्षिणपश्चिमायां दिशि परशुं समन्तज्वालं त्रिकोणाकारं मण्डलकं कृत्वा पूर्वोत्तरायां दिशि खड्गं समन्तज्वालं स्थापयेत्॥



आलिख्य सर्वत इत्यूर्ध्वमधस्तिर्यक् त्रीणि मुद्राद्वारसमये बहिर्मण्डलस्यालेख्याः चूर्णैरेव। तद्यथा - वज्रव्यजनोपानहौ च समन्तज्वालिनस्त्वेते अभिलेख्या इति॥



एतन्मण्डलविधानं कथितं त्विह समासतः।

सत्त्वानां हितकाम्यार्थं मञ्जुघोषेण धीमता॥



ततो मण्डलाचार्येण शिष्याः पूर्वमेवानुगृहीतव्याः अविकलेन्द्रियाः सर्वाङ्गशोभनाः ब्राह्मणक्षत्रियविट्शूद्राः उत्पादितबोधिचित्ताः महायानयायिनः इतरयानास्पृहणशीला महासत्त्वाः श्रद्धा कल्याणधर्मिणः महाराज्याभिकांक्षिणः अल्पभोगजुगुप्सनाः महाभोगाभिरुचितवन्तः भद्रा विनीताः शीलवन्तः भिक्षुभिक्षुण्युपासकोपासिका नियमस्था उपोषधोपवाससंवरस्थाः महावोधिसत्त्वाद्वेषिणो महायक्षःकुलीनाः प्रकृत्यैव धर्मचारिणः अहोरात्रोषिता शुचिवस्त्रप्रावृताः सुगन्धकेशाः त्रिःस्नायिनः मौनिनश्च। तदहो कर्पूरकुङ्कुमलवङ्गसुगन्धमुखगन्धिनः नित्यं चोपस्पृशितवन्तः कुशपिण्डकोपविष्टाः कृतरक्षाविधानाः ब्रह्मचारिणः सत्यवन्तः + + + + + + न्मण्डल + + + + + + नात्यासन्ने स्थापनीयाः। शुचिनः सुचौक्षाः अष्टानां प्रभृति यावदेकं नान्येषाम्। ते च परस्परासंसक्तिनः क्षत्रिया मूर्द्धाभिषिक्ताश्च महाराजानः। तेषां च सुताः कुमारकुमारिकाश्च अविदितग्राम्यधर्माणः कारणं भगवान् कुमाररूपी महाबोधिसत्त्वो मञ्जुश्रीः बालजनप्रबोधकः कुमारक्रीडनपरश्च। अतः प्रथमतर एव कुमारः प्रवेशयितव्यः। महाराज्ञाभिवर्द्धन आयुरारोज्यैश्वर्यकामः भोगाभिवर्द्धनं च विशेषतः बालानां मन्त्रसिद्धिः ध्रुवं स्थिता इति॥



एतां पूर्वस्थापितां कृत्वा सुसखायोपेता अप्रमत्ताः ततो मण्डलाचार्येण कर्पूरधूपं दहता पृष्ठतो बहिर्निगन्तव्यम्। निर्गत्य च यथामुखर्त्तुकोदकेनाष्टशताभिमन्त्रितेन मूलमन्त्रेण महामुद्रा पञ्चशिखमुद्रितेनोदकेन स्नात्वा उपस्पृश्य च शुचिर्वस्त्रप्रावृतेन शुचिना अग्निकुण्डं गत्वा कुशविण्डकोपविष्टः उत्तरपूर्वाभिमुखः आहुतीनां कर्पूरकुङ्कुमचन्दनमिश्राणामष्टसहस्रं जुहुयात्॥



पूर्वोक्तेन विधिना आहूय विसृज्य च भूयो मण्डलं प्रवेष्टव्यम्। प्रविश्य चाष्टौ पूर्णकलशाः शुचिवस्त्रोपेताः सहकारपल्लवविभूषिताः सुवर्णरजतरत्नधान्यव्रीहिप्रक्षिप्तगर्भः एकं भगवतः शाक्यमुनेः प्रतिपादयेत्। द्वितीयः सर्वबुद्धानाम्। तृतीयः सर्वप्रत्येकबुद्धार्यश्रावकसङ्घस्य। चतुर्थः सर्वमहाबोधिसत्त्वानाम्। पञ्चमो महाबोधिसत्त्वस्य आर्यमञ्जुश्रियस्य। षष्ठः सर्वदेवानाम्। सप्तमाष्टमौ द्वितीयमण्डले द्वारकोष्ठके स्थापयितव्यौ। शुचिवस्त्रोपेताः। एकः सर्वभूतानाम्। द्वितीयः सर्वसत्त्वपरिणामितः साधारणभूतं स्थापयितव्येति॥



ततः पूर्वोक्तेनैव विधिना धूपं दहता महामुद्रापञ्चशिखां बद्ध्वा भूयश्चावाहनं कुर्यात्। सर्वबुद्धानां, सर्वप्रत्येकबुद्धानां, आर्यश्रावकमहाबोधिसत्त्वानां, सर्वभूतानां, सर्वसत्त्वांश्च मञ्जुश्रियं कुमारभूतं च पूर्वोक्तेन विधिना आह्वानयेत्॥



एवं पुष्पधूपगन्धप्रदीपैः निवेद्यांश्च पूर्वनिर्दिष्टेनैव कर्मणा निवेद्यः। सर्वेषां सर्वतः अनुपूर्वेणैव कुर्यात्। प्रदीपग्रहणेनैव धृतदीपं दद्यात्। सर्वेभ्यः आर्यानार्येभ्यः निवेद्यग्रहणेन शाल्योदनं दध्नोपेतं मधुपायसविशेषविशेष्योपरचितघृतपक्कापूपान् अशोकवर्त्तीखण्डखाद्यकाद्यां सर्वं तथागतेभ्यो निर्यातयेत्। हवि पूर्ण श्रीवेष्टमधुशिरपयोपक्कभक्षाद्यां सर्वप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वानार्यदेवतानां च निर्यातयेत्। एवं लड्डुकागर्भोक्तारकविशेषान् पूपोपकारणान् सर्वदेवभूतगणान् सर्वसत्त्वांश्च मन्त्रोपेतान् विधिना निर्यातयेत्। एवं सुगन्धपुष्पान् जातीतगरनागपुष्पपुन्नागप्रभृतिं पूर्वनिर्दिष्टान् सर्वबुद्धप्रत्येकबुद्धार्यश्रावकमहाबोधिसत्त्वेभ्य आर्यानार्येभ्यो निर्यातयेत्। विशेषतः तथागतकुले जातीकुसुमं पद्मं पद्मकुले तथा कुवलयं कुलिशपाणे अन्यमन्त्रेभ्यो इतरमिति कर्पूरधूपं तथागतकुले चन्दनं पद्मकुले तथा गुग्गुलुं गुह्यकेन्द्रस्य वज्रिणस्यैव शस्यते। अन्यमन्त्रेभ्यः सर्वेभ्यः धूपं दद्यात् इतरघृतप्रदीपानार्येभ्यः सर्वेभ्यश्चैव दापयेत्। अनार्येभ्य मन्त्रेभ्यः सुगन्धतैलन्तु दापयेत्।



अनुपूर्वेण विधिना पूर्वदृष्टेन हेतुना।

गन्ध + + त्तथैवोक्तं सर्वमन्त्रेभ्यो नित्यश॥

अवलोकितेन यत् प्रोक्तं यत् प्रोक्तं कुलिशपाणिना।

स्वकस्वकेषु तन्त्रेषु मन्त्रचर्यार्थसाधने॥



तेप्येह कल्पे द्रष्टव्याः अनुवर्त्त्याश्च सर्वदा।

इति॥



ततो मण्डलाचार्येण पूर्वदृष्टेन विधिना आवाहनपूजनधूपनादिनिवेद्यप्रदानानुवर्तनक्रियां कृत्वा, ततोऽनुसाधकेन कुशलेन त्वरमाणेन सार्वभौतिकं बलिं निरामिषां सर्वतश्च पटहशङ्खध्वनिनन्दीशब्दघोषनिनादितेन धूपपुष्पदीपमालभिरचितः चतुर्दिक्षु विदिक्षु च इत्यूर्ध्वमधस्तिर्यक् सर्वतो बहिर्मण्डलं प्रदक्षिणी + + + + + र्व भौतिकां क्षि + + + + + + + र्यो दधिमधुधृताक्तानां शालितन्दुलाहूतीनामष्टसहस्रं जुहुयात्। षडक्षरमूलमन्त्रहृदयेन जुह्वतः पूर्वस्थापितकां मण्डलानुप्रवेशमहासत्त्वां कृतरक्षाविधानानां मण्डलाचार्यशिष्यत्वाभ्युपगतानामुत्पादितबोधिचित्तानामुपोषधिकानां सर्वबुद्धबोधिसत्त्वात्मानिर्यातितमूर्त्तीनां सिद्ध्यर्थसत्त्वोपभोगसाधारणभूतानामनुत्तरबोधिमण्डाक्रमणकुशलानां सर्वज्ञज्ञानबुद्धलिप्सकामानां मण्डलदर्शनादेव मुच्यते सर्वकिल्बिषात्। आनन्तर्यहारिणोऽपि ये मुच्यन्ते तत्क्षणाज्जनाः इति॥



ततो मण्डलाचार्येण अनाहतेन वस्त्रेण तन्त्रोद्धृतेनापगतकेशेन मूलमन्त्रसप्ताभिमन्त्रितेन सुगन्धचन्दनकुङ्कुमाभ्यक्तेन पटेन मण्डलं प्रवेष्टुकानां मुखं वेष्टयित्वा प्रथमतः बालषोडशप्रभृति यावत्त्रीणि वर्षजन्मिकं पञ्चचीरकोपशोभितं एकचीरकोपशोभितं शिखोपशोभितं अशिरस्कं वा राजपुत्रं मूर्धाभिषिक्तं क्षत्रियपुत्रं वा, अन्यं वा महोत्साहमहाराज्यकामं वा प्रवेशयेत्॥



द्वितीयमण्डलस्थितं मुखं वेष्टयित्वा, उत्पलमुद्रां बद्‍ध्वा, मञ्जुश्रियः कुमारभूतस्य मूलमन्त्रं सकृज्जप्त्वा, कारापयित्वा सुगन्धपुष्पं दत्त्वा, चन्दनकुङ्कुमाभ्यां मिश्रं सचौक्षाभ्यां हस्ताभ्यां पुष्पाणि क्षिपापयितव्याः। यत्रास्य पुष्पमधितिष्ठति तमस्य मन्त्रं दद्यात्। स्वमन्त्रेति कीर्त्यते। सैवास्यानुबद्धा जन्मपरम्परासु सैवास्य कल्याणमित्रो बोधिमण्डक्रमणमहाबोधिसत्त्वज्ञज्ञानपरिपूरणार्थमभिनिर्हरति। सैवास्य साधनीयम्। महाभोगमहाराज्यमहेशाख्यपुद्गलसमवधानता चास्यमभिनिर्हरति। इहैव जन्मनि अविचारतः साधनीयं सिध्यते सर्वकर्मेषु च। एवमनुपूर्वतः एकं प्रति तावद् यावदष्टानां नान्येषामिति सिद्धिकामैः। अन्येषां यथेप्सतः पापक्षपणार्थं समयमात्रं स्यादिति अभिषेकं ददता मण्डलाचार्येण आदौ तावन्मण्डले बहिर्नातिदूरे नात्यासन्ने पूर्वोत्तरे दिग्भागे भूप्रदेशे अधिष्ठाय मन्त्रपूतं कृत्वा मूलमन्त्रेण ततः राज्याभिषेकमिव मन्यमानमात्मानं एकान्तबुद्धधर्मसङ्घाभिप्रसन्नं श्राद्धं महोत्साहिनं अविरहितबोधिचित्तं महायानयायिनं रत्नत्रयोपकारिणं अविकलेन्द्रियं अकुत्सितमिहैव जन्मनि मन्त्रां साधयितुकामः। भद्राशयं मन्त्रचर्योद्युक्तमानसं कौतुकजातीयं जिज्ञासनहेतोपरि अविकल्पितमन्त्रार्थतद्गतमानसं एकं प्रभृति यावत्यथे अभिषेच्या सेव्यावर्ज्या इति। प्राज्ञा अमूढचरिता इति। शेषतो अभिषेच्याः। नान्येषामपि। ततः सर्वराज्याभिषेकमिवोपकरणं सम्भृत्य आचार्यो वा येन तुष्येत। ततः विततवितानोच्छ्रितध्वजपताकश्वेतच्छत्रमूर्घनि धार्यमाणः सितचामरे निवीज्यमानः महता सत्कारेण नन्दीशब्दनिर्घोषशङ्खभेरीमृदङ्गजयशब्दैः मङ्गलगाथाभिः प्रशस्तस्वस्तिकगाथाभिश्च जिनभाषितैरभिस्तूयमानः प्रदक्षिणीकृत्य च तन्मण्डलं सर्वबुद्धबोधिसत्त्वां प्रणम्य आचार्यं शिरसा प्रणम्य, एवं च वक्तव्यम् उ + + ष्याचार्यसर्वबुद्धबोधिसत्त्वमन्त्रचर्यानिर्हारं समनुप्रवेष्टुं सर्वलौकिकातिक्रान्तरहस्यविमोक्षमण्डलं समनुप्रवेष्टुं सर्वधर्मराज्यसमनुप्रवेशबुद्धत्वमधिगन्तुं संक्षेपतो वक्तव्यं बुद्धो भूयामिति॥



ततः कुशविण्डकोपविष्टः पूर्वाभिमुखः मं + + + + + + + + + + + ++ + पञ्चशिखां बद्धापयितव्यः। ततो स्वेस्थितं मन्त्रं यो यस्य रोचते भूर्जपत्रे गोरोचनया लिखितव्यम्। लिखित्वा चन्दनकुङ्कुमाभ्यां हस्तौ म्रक्षयित्वा शरावसम्पुटं च ततस्तं भूर्जपत्रं शरावसम्पुटाभ्यन्तरस्थं + + + + + + बोधिसत्त्वस्य पादमूले स्थापनीयम्॥



ततस्तत्रोपविष्टेन विद्यामूलमन्त्रा अष्टशतवारानुच्चारयितव्यः। पूर्वमेव तु ततः तं कुशविण्डकोपविष्टमभिषेचनीयम्। बहिर्मण्डले यः सर्वसत्त्वसाधारणभूतं पूर्णकलशं पूर्वस्थापितकं द्वारसमीपे तं गृहीत्वा आचार्येण मूलमन्त्रं पठता मूर्धनि अभिषेक्तव्यः। शेषा यथेष्टमुद केनेति॥



ततस्तं शरावसम्पुटं तस्यैव दातव्यम्। प्रदीपेन च पाथयितव्यः। यदि सा एव भवति मन्त्रा क्रमात् सिध्यति यत्नतः। अथ अन्यो मन्त्रपठनादेव सिद्ध्यति। अथ मन्त्राक्षरहीनातिरिक्ता वा दत्ता भवति, प्रथमसाधन एव सिध्यतीत्यविकल्पतः। सा एष पूर्वलिखिता आचार्येण त्रिभिः साधनैः कुर्वं सिद्ध्यतीत्ययत्नतः॥



एवं प्रथमतः विद्याभिषेकं दद्यात्। द्वितीयमण्डलाभिषेक द्वितीयमण्डले सर्वदेवानां यत् प्रतिपादितकं पूर्णकलशं, तेनाभ्यषिञ्चेत्। मूर्धनि यथैव वा पूर्वकं तेनैव विधिना मुच्यते सर्वकिल्विषात्। अनुज्ञातश्च भवति सर्वबुद्धैः सर्वलौकिकलोकोत्तरसमयमण्डलं सर्वमन्त्रमुद्रासाधनेषु च अव्यष्टो भवति। सर्वबोधिसत्त्वैरिति आचार्याभिषेकं दद्यात्॥



तृतीयमण्डले सर्वश्रावकप्रत्येकबुद्धेभ्यः पूर्णकलशं निर्यातितकं तेनैव विधिना मूर्धन्यभिपेचयेत्। वक्तव्यं अनुज्ञातस्त्वं सर्वबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः सर्वलौकिकलोकोत्तराणां मन्त्राणां लिखनपठनमण्डलोपदेशमन्त्रतन्त्रमुद्राचर्यानिर्देश स्वयं चरितुं निर्देष्टुं वा। इहैव जन्मनि परम्परासु च यावत्पश्चिमकं नियतं बुद्धत्वं प्राप्तव्यमिति॥



एवं जयविजयाभिषेकेऽपि पूर्वनिर्दिष्टेन विधिना भगवतो बुद्धनिर्यातितकपूर्णकलशेन बोधिसत्त्वनिर्याति। तेन च पूर्णकलशेन तथैवाभ्यषिच्यत्। एवं च वक्तव्यमनुज्ञातस्त्वं सर्वबुद्धैर्भगवद्भिर्महाबोधिसत्त्वैश्च श्रावकैः,



अधृष्यः सर्वभूतानामजितः सर्वदेहिनाम्।

विजयत्वं सर्वमन्त्राणां साधयस्त्वं यथेप्सतः॥

ततो मण्डलाचार्येण एकैकस्य यथेप्सतः।

पञ्चाभिषेका दातव्या सर्वेभ्यो पञ्च एव तु।



ततस्तामनुपूर्वेण मण्डलं प्रवेश्य सर्वबुद्धबोधिसत्त्वानां निर्यातयित्वा मण्डलं त्रिः प्रदक्षिणीकृत्य विसर्जयितव्यः। तदहो परेण अनुपूर्वेण शिक्षयितव्याः मन्त्रचर्यासु नियोक्तव्या। तत्क्षणादेव भगवतो मञ्जुश्रियस्य महाबोधिसत्त्वस्य यः पूर्वनिर्यातितकं पूर्णकलशं गृहीत्वा तेषां मण्डलप्रविष्टानामुदकचुलुकत्रयं पूर्वाभिमुखं कृत्वा पाययेत्। वक्तव्याश्च - ‘इयं भो ! महाबोधिसत्त्वस्य मञ्जुश्रियः कुमारभूतस्य समयरहस्यं मातिक्रमिष्यते' ति 'मा बहु अपुण्यं प्रसविष्यथे' ति। सर्व मन्त्राश्च न प्रतिक्षेप्तव्याः। सर्वबुद्धबोधिसत्त्वाश्च न विसंवादनीयाः। गुरुराराधनीयश्चेति। अन्यथा समयातिक्रमः स्यात्। मन्त्राश्च सिद्धिं न गच्छेयुः। बहुपुण्यं स्यादिति। एवं विसर्जयितव्याः॥



ततो मण्डलाचार्येण भूयो दधिमधुधृताभ्यक्ताः शालितण्डुलाहुतयोऽष्टाक्षरहृदयेन होतव्याः। ततोत्थाय मण्डलमध्यं प्रविश्य पूर्वनिर्दिष्टै पुष्पैः पूर्वोक्तेन विधिना अर्ध्यं देयः सर्वेभ्यः मनसा चिन्तयेत्। पूर्वोक्तेनैव धूपेन सर्वबुद्धबोधिसत्त्वां प्रत्येकबुद्धार्यश्रावकां सर्वदेवनागयक्षगन्धर्वकिन्नरमहोरगयक्षराक्षसपिशाचभूतयोगिनसिद्धऋषयः सर्वसत्त्वां सन्धूप्य पुष्पैरवकीर्य चन्दनकुङ्कुमोदकेनाभ्यषिञ्चेत्। पूर्वोक्तेनैव विधिना विसर्जयेत्। मनसा मोक्षः सर्वेभ्य इति॥



ततो मण्डलाचार्येण निवेद्यं बलिं चूर्णं सर्वे नद्यां प्लावयितव्याः। दुःखितेभ्यो वा प्राणिभ्यो दातव्यम्। सुपरामृष्टं सुकेलायितं सुशोभितं पृथिवीप्रदेशं कृत्वा गोमयेन लेप्तव्यः। उदकेन वा प्लावयितव्यम्। सुचौक्षमृत्तिकया वाभ्यलिम्प्य सिकताया वा अस्यैव कार्यं यथेष्टतो गन्तव्यम्। तैर्मण्डलप्रविष्टैरात्मनः क्षीरोदनाहारेण हविष्याहारेण वा भवितव्यमिति॥



बोधिसत्त्वपिटकावतंसकान्महाकल्पराजेन्द्रान्मञ्जुश्रीकुमारभूतविकुर्वणात्

बोधिसत्त्वपटलविसराद् द्वितीयः मण्डलविधिनिर्देश -

परिवर्तः समाप्त इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project