Digital Sanskrit Buddhist Canon

३४ शतपत्र-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

34 śatapatra-jātakam

३४. शतपत्र-जातकम्



प्रोत्साह्यमानोऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासात्। तद्यथानुश्रूयते-

बोधिसत्त्वः किलान्यतमस्मिन् वनप्रदेशे नानाविधरागरुचिरचित्रपत्रः शतपत्रो बभूव। करुणापरिचयाच्च तदवस्थोऽपि न प्राणिहिंसाकलुषां शतपत्रवृत्तिमनुववर्त।



बालैः प्रवालैः स महीरुहाणां पुष्पाधिवासैर्मधुभिश्च ह्यद्यैः।

फलैश्च नानारसगन्धवर्णैः संतोषवृत्तिं विभरांचकार॥१॥



धर्मं परेभ्यः प्रवदन् यथार्हमार्तान् यथाशक्ति समुद्धरंश्च।

निवारयंश्चाविनयादनार्यानुद्भावयामास परार्थचर्याम्॥ २॥



इति परिपाल्यमानस्तेन महासत्त्वेन तस्मिन् वनप्रदेशे सत्त्वकायः साचार्यक इव बन्धुमानिव सविद्य इव राजन्वानिव सुखमभ्यवर्धत।



दयामहत्त्वात्परिपाल्यमानो वृद्धिं यथासौ गुणतो जगाम।

स सत्त्वकायोऽपि तथैव तेन संरक्ष्यमाणो गुणवृद्धिमाप॥३॥



अथ कदाचित्स महासत्त्वः सत्त्वानुकम्पया वनान्तराणि समनुविचरंस्तीव्रवेदनाभिभवाद्विचेष्टमानं दिग्धविद्धमिवान्यतमस्मिन् वनप्रदेशे रेणुसंपर्कव्याकुलमलिनके सरसटं सिहं ददर्श। समभिगम्य चैनं करुणया परिचोद्यमानः पप्रच्छ-किमिदं मृगराज ? बाढं खल्वकल्यशरीरं त्वां पश्यामी।



द्विपेषु दर्पातिरसानुवृत्त्या जवप्रसङ्गादथवा मृगेषु।

कृतं तवास्वास्थ्यमिदं श्रमेण व्याधेषुणा वा रुजया कयाचित्॥४॥



तद् ब्रूहि वाच्यं मयि चेदिदं ते यदेव वा कृत्यमिहोच्यतां तत्।

ममास्ति या मित्रगता च शक्तिस्तत्साध्यसौख्यस्य भवान् सुखी च॥५॥



सिंह उवाच-साधो पक्षिवर ! न मे श्रमजातमिदमस्वास्थ्यं रुजया व्याधेषुणा वा। इदं त्वस्थिशकलं गलान्तरे विलग्नं शल्यमिव मां भृशं दुनोति। न ह्येनच्छक्नोम्य भ्यवहर्तुमुद्गरितुं वा। तदेष कालः सुहृदाम्। यथेदानीं जानासि, तथा मां सुखिनं कुरुष्वेति।



अथ बोधिसत्त्वः पटुविज्ञानत्वाद्विचिन्त्य शल्योद्धरणोपायं तद्वचनविष्कम्भप्रमाणं काष्ठमादाय तं सिंहमुवाच-या ते शक्तिस्तया सम्यक् तावत्स्वमुखं निर्व्यादेहीति। स तथा चकार। अथ बोधिसत्त्वस्तदस्य काष्ठं दन्तपाल्योरन्तरे सम्यग्निवेश्य प्रविश्य चास्य गलमूलं तत्तिर्यगवस्थितिमस्थिशकलं वदनाग्रेणाभिहृत्यैकस्मिन् प्रदेशे समुत्पादितशैथिल्यमितरस्मिन् परिगृह्य पर्यन्ते विचकर्ष। निर्गच्छन्नेव तत्तस्य वदनविष्कम्भणकाष्ठं निपातयामास।



सुदृष्टकर्मा निपुणोऽपि शल्यहृन्न तत्प्रयत्नादपि शल्यमुद्धरेत्।

यदुज्जहारानभियोगसिद्धया स मेधया जन्मशतानुबद्धया॥६॥



उद्‍धृत्य शल्येन सहैव तस्य दुःखं च तत्संजनितां शुचं च।

प्रीतः स शल्योद्धरणाद्यथासीत् प्रीतः सशल्योद्धरणात्तथासीत्॥ ७॥



धर्मता ह्येषा सज्जनस्य।

प्रसाध्य सौख्यं व्यसनं निवर्त्य वा सहापि दुःखेन परस्य सज्जनः।

उपैति तां प्रीतिविशेषसंपदं न यां स्वसौख्येषु सुखागतेष्वपि॥८॥



इति स महासत्त्वस्तस्य तद्‍दुःखमुपशमय्य प्रीतहृदयस्तमामन्त्र्य सिंहं प्रतिनन्दितस्तेन यथेष्टं जगाम।



अथ स कदाचित्प्रविततरुचिरचित्रपत्रः शतपत्रः परिभ्रमन् किंचित्क्वचित् तद्विधमाहारजातमनासाद्य क्षुदग्निपरिगततनुस्तमेव सिंहमचिरहस्तस्य हरिणतरुणस्य मांसमुपभुञ्जानं तद्रुधिरानुरञ्जितवदननखरकेसराग्रं संध्याप्रभासमालब्धं शरन्मेघविच्छेदमिव ददर्श।



कृतोपकारोऽपि तु न प्रसेहे वक्तुं स याच्ञाविरसाक्षरं तम्।

विशारदस्यापि हि तस्य लज्जा तत्कालमौनव्रतमादिदेश॥९॥



कार्यानुरोधात्तु तथापि तस्य चक्षुष्पथे ह्रीविधुरं चचार।

स चानुपश्यन्नपि तं दुरात्मा निमन्त्रणामप्यकरोन्न तस्य॥१०॥



शिलातले बीजमिव प्रकीर्णं हुतं च शान्तोष्मणि भस्मपुञ्जे।

समप्रकारं फलयोगकाले कृतं कृतघ्ने विदुले च पुष्पम्॥११॥



अथ बोधिसत्त्वो नूनमयं मां न प्रत्यभिजानीत इति निर्विशङ्कतरः समभिगम्यैनमर्थिवृत्त्या प्रयुक्तयुक्ताशीर्वादः संविभागमयाचत-



पथ्यमस्तु मृगेन्द्राय विक्रमार्जितवृत्तये।

अर्थिसंमानमिच्छामि त्वद्यशःपुण्यसाधनम्॥१२॥



इत्याशीर्वादमधुरमप्युच्यमानोऽथ सिंहः क्रौर्यमात्सर्यपरिचयादनुचितार्यवृत्तिः कोपाग्निदीप्तयातिपिङ्गलया दिधक्षन्निव विवर्तितया दृष्ट्या बोधिसत्त्वमीक्षमाण उवाच-मा तवद्भोः।



दयाक्लैब्यं न यो वेद खादन विस्फुरतो मृगान्।

प्रविश्य तस्य मे वक्त्रं यज्जीवसि न तद्बहु॥१३॥



मां पुनः परिभूयैवमासादयसि याच्ञया।

जीवितेन नु खिन्नोऽसि परं लोकं दिदृक्षसे॥१४॥



अथ बोधिसत्त्वस्तेन तस्य रूक्षाक्षरक्रमेण प्रत्याख्यानवचसा समुपजातव्रीडस्तत्रैव नभः समुत्पपात। पक्षिणो वयमित्यर्थतः पक्षविस्फारणशब्देनैनमुक्त्वा प्रचक्राम।



अथान्यतमा वनदेवता तस्य तमसत्कारमसहमाना धैर्यप्रयामजिज्ञासया वा समुत्पत्य तं महासत्त्वमुवाच-पक्षिवर, कस्मादिममसत्कारमस्य दुरात्मनः कृतोपकारः। सन् संविद्यमानायां शक्तावपि मर्षयसि ? कोऽर्थः कृतघ्नेनानेनैवमुपेक्षितेन ?



शक्तस्त्वमस्य नयने वदनाभिघाताद्

विस्फूर्जितः प्रमथितुं बलशालिनोऽपि।

दंष्ट्रान्तरस्थमपि चामिषमस्य हर्तुं

तन्मृष्यते किमयमस्य बलावलेपः॥१५॥



अथ बोधिसत्त्वस्तथाप्यसत्कारविप्रकृतः प्रोत्साह्यमानोऽपि तया वनदेवतया स्वां प्रकृतिभद्रतां प्रदर्शयन्नुवाच-अलमलमनेन क्रमेण। नैष मार्गोऽस्मद्विधानाम्।



आर्ते प्रवृत्तिः साधूनां कृपया न तु लिप्सया।

तामवैतु परो मा वा तत्र कोपस्य को विधिः॥१६॥



वञ्चना सा च तस्यैव यन्न वेत्ति कृतं परः।

को हि प्रत्युपकारार्थी तस्य भूयः करिष्यति॥१७॥



उपकर्ता तु धर्मेण परतस्तत्फलेन च।

योगमायाति नियमादिहापि यशसः शिर्या॥१८॥



कृतश्चेद्धर्म इत्येव कस्तत्रानुशयः पुनः।

अथ प्रत्युपकारार्थमृणदानं न तत्कृतम्॥१९॥



उपकृतं किल वेत्ति न मे परस्तदपकारमिति प्रकरोति यः।

ननु विशोध्य गुणैः स यशस्तनुं द्विरदवृत्तिमभिप्रतिपद्यते॥२०॥



न वेत्ति चेदुपकृतमातुरः परो न योक्ष्यतेऽपि स गुणकान्तया श्रिया।

सचेतसः पुनरथ को भवेत्क्रमः समुच्छ्रितं प्रमथितुमात्मनो यशः॥२१॥



इदं त्वत्र मे युक्तरूपं प्रतिभाति-

यस्मिन् साधूपचीर्णेऽपि मित्रधर्मो न लक्ष्यते।

अनिष्ठुरमसंरब्धमपयायाच्छनैस्ततः॥२२॥



अथ सा देवता तत्सुभाषितप्रसादितमनाः साधु साध्विति पुनरुक्तमभिप्रशस्य तत्तत्प्रियमुवाच-



ऋते जटावल्कलधारणश्रमाद्भवानृषिस्त्वं विदितायतिर्यतिः।

न वेषमात्रं हि मुनित्वसिद्धये गुणैरुपेतस्त्विह तत्त्वतो मुनिः॥२३॥



इत्यभिलक्ष्य प्रतिपूज्यैनं तत्रैवान्तर्दधे।

तदेवं प्रोत्साह्यमानोऽपि साधुर्नालं पापे प्रवर्तितुमनभ्यासादिति सज्जनप्रशंसायां वाच्यम्। एवं क्षान्तिकथायामप्युपनेयम्-एवं क्षमापरिचयान्न वैरबहुलो भवति, नावद्यबहुलो बहुजनप्रियो मनोज्ङश्चेति। एवं प्रतिसंख्यानबहुलाः स्वां गुणशोभामनुरक्षन्ति पण्डिता इति प्रतिसंख्यानवर्णे वाच्यम्। तथागतमाहात्म्ये च भद्रप्रकृत्यभ्यासवर्णे च-एवं भद्रप्रकृतिरभ्यस्ता तिर्यग्गतानामपि न निवर्तत इति।



॥इति शतपत्र-जातकं चतुस्त्रिंशत्तमम्॥



॥ कृतिरियमार्यशूरपादानाम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project