Digital Sanskrit Buddhist Canon

३३ महिष-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

33 mahiṣa-jātakam

३३. महिष-जातकम्



सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणामपि साधवो लाभमिव बहु मन्यन्ते। तद्यथानुश्रूयते-



बोधिसत्त्वः किलान्यतमस्मिन्नरण्यप्रदेशे पङ्कसंपर्कात्परुषवपुर्णीलमेघविच्छेद इव पादचारी वनमहिषवृषो बभूव। स तस्यां दुर्लभधर्मसंज्ञायां संमोहबहुलायामपि तिर्यग्गतौ वर्तमानः पटुविज्ञानत्वान्न धर्मचर्यानिरुद्योगमतिर्बभूव।



चिरानुवृत्त्येवः निबद्धभावा न तं कदाचित्करुणा मुमोच।

कोऽपि प्रभाव स तु कर्मणो वा तस्यैव वा यत्स तथा बभूव॥१॥



अतश्च नूनं भगवानवोचदचिन्त्यतां कर्मविपाकयुक्तेः।

कृपात्मकः सन्नपि यत्स भेजे तिर्यग्गतिं तत्र च धर्मसंज्ञाम्॥२॥



विना न कर्मास्ति गतिप्रबन्धः शुभं न चानिष्टविपाकमस्ति।

स धर्मसंज्ञीपि तु कर्मलेशांस्तांस्तान् समासाद्य तथा तथासीत्॥३॥



अथान्यतमो दुष्टवानरस्तस्य कालान्तराभिव्यक्तां प्रकृतिभद्रतां दयानुवृत्त्या च विगतक्रोधसंरम्भतामवेत्य नास्माद्भयमस्तीति तं महासत्त्वं तेन तेन विहिंसाक्रमेण भृशतरमबाधत।



दयामृदुषु दुर्जनः पटुतरावलेपोद्भवः

परां व्रजति विक्रियां न हि भयं ततः पश्यति।

यतस्तु भयशङ्कया सुकृशयापि संस्पृश्यते

विनीत इव नीचकैश्चरति तत्र शान्तोद्धवः॥४॥



स कदाचित्तस्य महासत्त्वस्य विस्रब्धप्रसुप्तस्य निद्रावशाद्वा प्रचलायतः सहसैवोपरि निपतति स्म। द्रुममिव कदाचिदेनमधिरुह्य भृशं संचालयामास। क्षुधितस्यापि कदाचिदस्य मार्गमावृत्य व्यतिष्ठत। काष्थेणाप्येनमेकदा श्रवणयोर्घट्टयामास। सलिलावगाहनसमुत्सुकस्याप्यस्य कदाचिच्छिरः समभिरुह्य पाणिभ्यां नयने समावव्रे। अप्येनमधिरुह्य समुद्यतदण्डः प्रसह्यैव वाहयन् यमस्य लीलामनुचकार। बोधिसत्त्वोऽपि महसत्त्वः सर्वं तदस्याविनयचेष्टितमुपकारमिव मन्यमानो निःसंक्षोभसंरम्भमन्युर्मर्षयामास।



स्वभाव एव पापानां विनयोन्मार्गसंश्रयः।

अभ्यासात्तत्र च सतामुपकार इव क्षमा॥ ५॥



अथ किलान्यतमो यक्षस्तमस्य परिभवममृष्यमानो भावं वा जिज्ञासमानस्तस्य महासत्त्वस्य तेन दुष्टकपिना वाह्यमानं तं महिषवृषभं मार्गे स्थित्वेदमुवाचमा तावद्भोः ! किं परिक्रीतोऽस्यनेन दुष्टकपिना ? अथ द्यूते पराजितः ? उताहो भयमस्मात्किंचिदाशङ्कसे ? उताहो बलमात्मगतं नावेषि यदेवमनेन परिभूय वाह्यसे ? ननु भोः !



वेगाविद्धं त्वद्विषाणाग्रवज्रं वज्रं भिन्द्याद्वज्रवद्वा नगेन्द्रान्।

पादाश्चेमे रोषसंरम्भमुक्ता मज्जेयुस्ते पङ्कवच्छैलपृष्ठे॥६॥



इदं च शैलोपमसंहतस्थिरं समग्रशोभं बलसंपदा वपुः।

स्वभावसौजस्कनिरीक्षितोर्जितं दुरासदं केसरिणोऽपि ते भवेत्॥७॥



मथान धृत्वा तदिमं क्षुरेण वा विषाणकोट्या मदमस्य वोद्धर।

किमस्य जालमस्य कपेरशक्तवत्प्रबाधनादुःखमिदं तितिक्षसे॥८॥



असज्जनः कुत्र यथा चिकित्स्यते गुणानुवृत्त्या सुखशीलसौम्यया।

कटुष्णरूक्षाक्षि हि यत्र सिद्धये कफात्मको रोग इव प्रसर्पति॥९॥



अथ बोधिसत्त्वस्तं यक्षमवेक्षमाणः क्षमापक्षपतितमरूक्षाक्षरमित्युवाच-



अवैम्येनं चलं नूनं सदा चाविनये रतम्।

अत एव मया त्वस्य युक्तं मर्षयितुं ननु॥१०॥



प्रतिकर्तुमशक्तस्य क्षमा का हि बलीयसि।

विनयाचारशीरेषु क्षन्तव्यं किं च साधुषु॥११॥



शक्त एव तितिक्षते दुर्बलस्खलितं यतः।

वरं परिभवस्तस्मान्न गुणानां पराभवः॥१२॥



असत्क्रिया हीनबलाश्च्च नाम निर्देशकालः परमो गुणानाम्।

गुणप्रियस्तत्र किमित्यपेक्ष्य स्वधैर्यभेदाय पराक्रमेत॥१३॥



नित्यं क्षमायाश्च ननु क्षमायाः कालः परायत्तया दुरापः।

परेण तस्मिन्नुपपादिते च तत्रैव कोपप्रण कोपप्रणक्रमः कः॥१४॥



स्वां धर्मपीडामविचिन्त्य योऽयं मत्पापशुद्ध्यर्थिमिव प्रवृत्तः।

न चेत्क्षमामप्यहमत्र कुर्यामन्य कृतघ्नो बत कीदृशः स्यात्॥१५॥



यक्ष उवाच-तेन हि न त्वमस्याः कचाचित्प्रबाधनाया मोक्ष्यसे-



गुणेष्वबहुमानस्य दुर्जनस्याविनीतताम्।

क्षमानैर्भृत्यमत्यक्त्वा कः संकोचयितुं प्रभुः॥१६॥



बोधिसत्त्व उवाच-

परस्य पीडाप्रणयेन यत्सुखं निवारणं स्यादसुखोदयस्य वा।

सुखार्थिनस्तन्न निषेवितुं क्षमं न तद्विपाको हि सुखप्रसिद्धये॥१७॥



क्शमाश्रयादेवमसौ मयर्थतः प्रबोध्यमानो यदि नावगच्छति।

निवारयिष्यन्ति त एनमुत्पथादमर्षिणो यानयमभ्युपैष्यति॥१८॥



असत्क्रियां प्राप्य च तद्विधाज्जनान्न मादृशेऽप्येवमसौ करिष्यति।

न लब्धदोषो हि पुनस्तथाचरेदतश्च मुक्तिर्मम सा भविषय्ति॥१९॥



अथ यक्षस्तं महासत्त्वं प्रसादविस्मयबहुमानावर्जितमतिः साधु साध्विति सशिरःप्रकम्पाङ्गलिविक्षेपमभिसंराध्य तत्तत्प्रियमुवाच-



कुतस्तिरश्चामियमीदृशी स्थितिर्गुणेष्वसौ चादरविस्तरः कुतः।

कयापि बुद्ध्या त्विदमास्थितो वपुस्तपोवने कोऽपि भवांस्तपस्यति॥२०॥



इत्येनमभिप्रशस्य तं चास्य दुष्टवानरं पृष्ठादवधूय समादिश्य चास्य रक्षाविधानं तत्रैवान्तर्दधे।



तदेवं सति क्षन्तव्ये क्षमा स्यान्नासतीत्यपकारिणमपि साधवो लाभमिव बहु मन्यन्ते इति क्षान्तिकथायां वाच्यम्। एवं तिर्यग्गतानां बोधिसत्त्वानां प्रतिसंख्यानसौष्ठवं दृष्टम्। को नाम मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा तद्विकलः शोभेत ? इत्येवमपि वाच्यम्। तथगतवर्णे सत्कृत्य धर्मश्रवणे चेति।



॥इति महिषजातकं त्रयस्त्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project