Digital Sanskrit Buddhist Canon

३२ अयोगृह-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

32 ayogṛha-jātakam

३२. अयोगृह-जातकम्



राजलक्ष्मीरपि श्रेयोमार्गं नावृणोति संविग्नमानसानामिति संवेगपरिचयः कार्यः। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवान् व्याधिजरामरणप्रियविप्रयोगादिव्यसनशतोपनिपातं दुःखितमनाथमत्राणमपरिणायकं लोकमवेक्ष्य करुणया समुत्साह्यमानस्तत्परित्राणव्यवसितमतिरतिसाधुस्वभावस्तत्तत्संपादयमानो विमुखस्यासंस्तुतस्यापि च लोकस्य हितं सुखविशेष च कदाचिदन्यतमस्मिन् राजकुले प्रजानुरागसौमुख्यादस्खलिताभिवृद्ध्या च समृद्ध्या समानतदृप्तसामन्तया चाभिव्यज्यमानमहाभाग्ये विनयश्लाघिनि जन्म प्रतिलेभे। स जायमान एव तद्राजकुलं तत्समानसुखदुःखं च पुरवरं परयाभ्युदयश्रिया सम्योजयामास।



प्रतिग्रहव्याकुलतुष्टविप्रं मदोद्धताभ्युज्ज्वलवेषभृत्यम्।

अनेकतूर्यस्वनपूर्णकूजमानन्दनृत्तानयवृत्ताभावम्॥१॥



संसक्तगीतद्रवहासनादं परस्पराश्लेषविवृद्धहर्षम्।

नरैः प्रियाख्यानकदानतुष्टैराशास्यमानाभ्युदयं नृपस्य॥२॥



विघट्टितद्वारविमुक्तबन्धनं समुछ्रिताग्रध्वजचित्रचत्वरम्।

विचूर्णपुष्पासवसिक्तभूतलं बभार रम्यां पुरमुत्सवश्रियम्॥३॥



महागृहेभ्यः प्रविकीर्यमाणैर्हिरण्यवस्त्राभरणादिवर्षैः।

लोकं तदा व्याप्तुमिवोद्यता श्रीरुन्मत्तगङ्गाललितं चकार॥४॥



तेन च समयेन तस्य राज्ञो जाता जाताः कुमारा म्रियन्ते स्म। स तं विधिममानुषकृतमिति मन्यमानस्तस्य तनयस्य रक्षार्थं मणिकाञ्चनरजतभक्तिचित्रे श्रीमति सर्वायसे प्रसूतिभवने भूतविद्यापरिदृष्टेन वेदविहितेन च क्रमेण विहितरक्षोध्नप्रतीकारे समुचितैश्च कौतुकमङ्गलैः कृतस्वस्त्ययनपरिग्रहे जातकर्मादिसंस्कारविधिं संवर्धनं च कारयामास। तमपि च महासत्त्वं सत्त्वसंपत्तेः पुण्योपचयप्रभावात्सुसंविहितत्वाच्च रक्षाया नामानुषाः प्रसेहिरे। स कालक्रमादवाप्तसंस्कारकर्मा श्रुताभिजनाचारमहद्भ्यो लब्धविद्वद्यशःसंमाननेभ्यः प्रशमविनयमेधागुणावर्जितेभ्यो गुरुभ्यः समधिगतानेकविद्यः प्रत्यहमापूर्यमाणमूर्तिर्यौवनकान्त्या निसर्गसिद्धेन च विनयानुरागेण अप्रं प्रेमास्पदं स्वजनस्य जनस्य च बभूव।



असंस्तुतमसंबन्धं दुरस्थमपि सज्जनम्।

जनोऽन्वेति सुहृत्प्रीत्या गुणश्रीस्तत्र करणम्॥५॥



हासभूतेन नभसः शरद्विकचरश्मिना।

संबन्धसिद्धिर्लोकस्य का हि चन्द्रमसा सह॥६॥



अथ स महासत्त्वः पुण्यप्रभावसुखोपनतैर्दिव्यकल्पैरनल्पैरपि च विषयैरुपलाल्यमानः स्नेहबहुमानसुमुखेन च पित्रा विश्वासननिर्विशङ्कं दृश्यमानः कदाचित्स्वस्मिन् पुरवरे प्रविततरमणीयशोभां कलक्रमोपनतां कौमुदीविभूतिं दिदृक्षुः कृताभ्यनुज्ञः पित्रा काञ्चनमणिरजतभक्तिचित्रालंकारं समुच्छ्रितनानाविधरागप्रचलितोज्ज्वलपताकध्वजं हैमभाण्डाभ्यलंकृतविनीतचतुरतुरंगं दक्षदाक्षिण्यनिपुणशुचिविनीतधीरसारथिं चित्रोज्ज्वलवेषप्रहरणावरणानुयात्रं रथवरमधिरुह्य मनोज्ङतूर्यस्वनपुरःसरस्तत्पुरवरमनुविचरंस्तद्दर्शनाक्षिप्तहृदयस्य कौतूहललोलचक्षुषः स्तुतिसभाजनाञ्जलिप्रग्रहप्रणामाशीर्वचनप्रयोगसव्यापरस्योत्सवरम्यतरवेषरचनस्य पौरजानपदस्य समुदयशोभामालोक्य लब्धप्रहर्षावकाशेऽपि मनसि कृतसंवेगपरिचयत्वात्पूर्वजन्मसु स्मृतिं प्रतिलेभे।



कृपणा बत लोकस्य चलत्वविरसा स्थितिः।

यदियं कौमुदीलक्ष्मीः स्मर्तव्यैव भविष्यति॥७॥



एवंविधायां च जगत्प्रवृत्तावहो यथा निर्भयता जनानाम्।

यन्मृत्युनाधिष्ठितसर्वमार्गा निःसंभ्रमा हर्षमनुभ्रमन्ति॥८॥



अवार्यवीर्येष्वरिषु स्थितेषु जिघांसया व्याधिजरान्तकेषु।

अवश्यगम्ये परलोकदुर्गे हर्षावकाशोऽत्र सचेतसः कः॥९॥



स्वनानुकृत्येव महार्णवानां संरम्भरौद्राणि जलानि कृत्वा।

मेघास्तडिद्भासुरहेममालाः संभूय भूयो विलयं व्रजन्ति॥१०॥



तटैः समं तद्विनिबद्धमूलान् हृत्वा तरूँल्लब्धजवैः पयोभिः।

भवन्ति भूयः सरितः क्रमेन शोकोपतापादिव दिनरूपाः॥११॥



हृत्वापि शृङ्गाणि महीधराणां वेगेन वृन्दानि च तोयदानाम्।

विघूर्ण्य चोद्वर्त्य च सागराम्भः प्रयाति नाश पवनप्रभावः॥१२॥



दिप्तोद्धतार्चिर्विकसत्स्फुलिङ्गः संक्षिप्य कक्षं क्षयमेति वह्निः।

क्रमेण शोभाश्च वनान्तराणामुद्यन्ति भूयश्च तिरोभवन्ति॥१३॥



कः संप्रयोगो न वियोगनिष्ठः काः संपदो या न विपत्परैति।

जगत्प्रवृत्ताविति चञ्चलायामप्रत्यवेक्ष्यैव जनस्य हर्षः॥१४॥



इति स परिगणयन् महात्मा संवेगाद्‍व्यावृत्तप्रमोदौद्धवेन मनसा रमणीयेष्वपि पुरवरविभूषार्थमभिप्रसारिषु लोकचित्रेष्वविषज्यमानबुद्धिः क्रमेण स्वभवनमनुप्राप्तमेवात्मानमपश्यत्। तदभिवृद्धसंवेगश्च विषयसुखेष्वनास्थो धर्म एकः शरणमिति तत्प्रतिपत्तिनिश्चितमतिर्यथाप्रस्तावमभिगम्य राजानं कृताञ्जलिस्तपोवनगमनायानुज्ञामयाचत-



प्रव्रज्यासंश्रयात्कर्तुमिच्छामि हितमात्मनः।

कृतां तत्राभ्यनुज्ञां च त्वयानुग्रहपद्धतिम्॥१५॥



तच्छ्रत्वा प्रियतनयः स तस्य राजा दिग्धेन द्विरद इवेषुणाभिविद्धः।

गम्भीरोऽप्युदधिरिवानिलावधूतस्तच्छोकव्यथितमनाः समाचकम्पे॥१६॥



निवारयिष्यन्नथ तं स राजा स्नेहात्पष्वज्य सबाष्पकण्ठः।

उवाच कस्मात्सहसैव तात संत्यक्तुमस्मान् मतिमित्यकार्षीः॥१७॥



त्वदप्रियेणात्मविनाशहेतुः केनायमित्याकलितः कृतान्तः।

शोकाश्रुपर्याकुललोचनानि भवन्तु कस्य स्वजनाननानि॥१८॥



अथापि किंचित्परिशङ्कितं वा मयि व्यलीकं समुपश्रुतं वा।

तद्ब्रूहि यावद्विरमामि तस्मात्पश्यामि न त्वात्मनि किंचिदीदृक्॥१९॥



बोधिसत्त्व उवाच-

इत्यभिस्नेहसुमुखे व्यलीकं नाम किं त्वयि।

विप्रियेण समर्थः स्यान्मामासादयितुं च कः॥२०॥



अथ किं तर्हि नः परित्युक्तुमिच्छसीति चाभिहितः साश्रुनयनेन राज्ञा स महासत्त्वस्तमुवाच-मृत्युभयात्। पश्यतु देवः,



यामेव रात्रिं प्रथमामुपैति गर्भे निवासं नरवीर लोकः।

ततः प्रभृत्यस्खलितप्रयाणः स प्रत्यहं मृत्युसमीपमेति॥२१॥



नीतौ सुयुक्तोऽपि बले स्थितोऽपि नात्येति कश्चिन्मरणं जरां वा।

उपद्रुतं सर्वमितीदमाभ्यां धर्मार्थमस्माद्वनमाश्रयिष्ये॥२२॥



व्यूढान्युदीर्णनरवाजिरथद्विपानि सैन्यानि दर्परभसाः क्षितिपा जयन्ति।

जेतुं कृता तरिपुमेकमपि त्वशक्तास्तन्मे मतिर्भवति धर्ममभिप्रपत्तुम्॥२३॥



हृष्टाश्वकुञ्जरपदातिरथैरनीकैर्गुप्ता विमोक्षमुपयानि नृपा द्विषद्भ्यः।

सार्धं बलैरतिबलस्य तु मृत्युशत्रोर्मन्वादयोऽपि विवशा वशमभ्युपेताः॥२४॥



संचूर्ण्य दन्तमुसलैः पुरगोपुराणि

मत्ता द्विपा युधि रथांश्च नरान् द्वीपांश्च।

नैवान्तकं प्रतिमुखाभिगतं नुदन्ति

वप्रान्तलब्धविजयैरपि तैर्विषाणैः॥२५॥



दृढचित्रवर्मकवचावरणान् युधि दारयन्त्यपि विदूरचरान्।

इषुभिस्तदस्त्रकुशला द्विषतश्चिरवैरिणं न तु कृतान्तमरिम्॥२६॥



सिंहा विकर्तनकरैर्नखरैर्द्विपानां कुम्भाग्रमग्नशिखरैः प्रशमय्य तेजः।

भित्त्वैव च श्रुतमनांसि रवैः परेषां मृत्युं समेत्य हतदर्पबलाः स्वपन्ति॥२७॥



दोषानुरूपं प्रणयन्ति दण्डं कृतापराधेषु नृपाः परेषु।

महापराधे यदि मृत्युशत्रौ न दण्डनीतिप्रवणा भवन्ति॥२८॥



नृपाश्च सामादिभिरप्युपायैः कृतपराधं वशमानयन्ति।

रौद्रश्चिराभ्यासदृढावलेपो मृत्युः पुनर्नानुनयादिसाध्यः॥२९॥



क्रोधानलज्वलितघोरविषाग्निगर्भै-

र्दंष्ट्राङ्करैरभिदशन्ति नरान् भुजंगाः।

दंष्टव्ययत्नविधुरास्तु भवन्ति मृत्यौ

वध्येऽपि नित्यमपकारविधानदक्षे॥३०॥



दष्टस्य कोपरभसैरपि पन्नगैश्च

मन्त्रैर्विषं प्रशमयन्त्यगदैश्च वैद्याः।

आशीविषस्त्वतिवीषोऽयमरिष्टदंष्ट्रो

मन्त्रगदादिभिरसाध्यबलः कृतान्तः॥३१॥



पक्षानिलैर्ललितमीनकुलं व्युदस्य

मेघौघभीमरसितं जलमर्णवेभ्यः।

सर्पान् हरन्ति विततग्रहणाः सुपर्णा

मृत्युं पुनः प्रमथितुं न तथोत्सहन्ते॥३२॥



भीतद्रुतानपि जवातिशयेन जित्वा

संसाद्य चैकभुजवज्रविलासवृत्त्या।

व्याघ्राः पिबन्ति रुधिराणि वने मृगाणां

नैवंप्रवृत्तिपटवस्तु भवन्ति मृत्यौ॥३३॥



दष्ट्राकरालमपि नाम मृगः समेत्य

वैयाघ्रमाननमुपैति पुनर्विमोक्षम्।

मृत्योर्मुखं तु पृथुरोगजरार्तिदंष्ट्रं

प्राप्तस्य कस्य च पुनः शिवतातिरस्ति॥३४॥



पिबन्ति नॄणां विकृतोग्रविग्रहा

शौजसायूंषि दृढग्रहा ग्रहाः।

भवन्ति तु प्रस्तुतमृत्युविग्रहा

विपन्नदर्पोत्कटतापरिग्रहाः॥३५॥



पूजारतद्रोहकृतेऽभ्युपेतान् ग्रहान्नियच्छन्ति स सिद्धविद्याः।

तपोबलस्वस्त्ययनौषधैश्च मृत्युग्रहस्त्वप्रतिवार्यं एव॥३६॥



मायाविधिज्ञाश्च महासमाजे जनस्य चक्षुंषि विमोहयन्ति।

कोऽपि प्रभावस्त्वयमन्तकस्ययद्भ्राम्यते तैरपि नास्य चक्षुः॥३७॥



हत्वा विषाणि च तपोबलसिद्धमन्त्रा

व्याधीन्नृणामुपशमय्य च वैद्यवर्याः।

धन्वन्तरिप्रभृतयोऽपि गता विनाशं

धर्माय मे नमति तेन मतिर्वनान्ते॥३८॥



आविर्भवन्ति च पुनश्च तिरोभवन्ति

गच्छन्ति वानिलपथेन महीं विशन्ति।

विद्याधरा विविधमन्त्रबलप्रभावा

मृत्युं समेत्य तु भवन्ति हतप्रभावाः॥३९॥



दृप्तानपि प्रतिनुदन्त्यसुरान् सुरेन्द्रा दृप्तानपि प्रतिनुदन्त्यसुराः सुरांश्च।

मानाधिरूढमतिभिः सुमुदीर्णसैन्यैस्तैः संहतैरपि तु मृत्युरजय्य एव॥४०॥



इमामवेत्याप्रतिवार्यरौद्रतां कृतान्तशत्रोर्भवने न मे मतिः।

न मन्युना स्नेहपरिक्षयेण वा प्रयामि धर्माय तु निश्चितो वनम्॥४१॥



राजोवाच-अथ वने तव क आश्वासः एवमप्रतिक्रिये मृत्युभये सति धर्मपरिग्रहे च।



किं त्वा वने न समुपैष्यति मृत्युशत्रु-

र्धर्मे स्थिताः किमृषयो न वने विनष्टाः।

सर्वत्र नाम नियतः क्रम एष तत्र

कोऽर्थो विहाय भवनं वनसंश्रयेण॥४२॥



बोधिसत्त्व उवाच-

कामं स्थितेषु भवने च वने च मृत्यु-

र्धर्मात्मकेसु विगुणेषु च तुल्यवृत्तिः।

धर्मात्मनां भवति न त्वनुतापहेतु-

धर्मश्च नाम वन एव सुख प्रपत्तुम्॥४३॥



पश्यतु देवः,

प्रमादमदकन्दर्पलोभद्वेषास्पदे गृहे।

तद्विरुद्धस्य धर्मस्य कोऽवकाशपरिग्रहः॥४४॥



विकृष्यमाणो बहुभिः कुकर्मभिः परिग्रहोपार्जनरक्षणाकुलः।

अशान्तचेता व्यसनोदयागमैः कदा गृहस्थः शममार्गमेष्यति॥४५॥



वने तु संत्यक्तकुकार्यविस्तरः परिग्रहक्लेशविवर्जितः सुखी।

शमैककार्यः परितुष्टमानसः सुखं च धर्मं च यशांसि चार्च्छति॥४६॥



धर्मश्च रक्षति नरं न धनं बलं वा

धर्मः सुखाय महते न विभुतिसिद्धिः।

धर्मात्मनश्च मुदमेव करोति मृत्यु-

र्न ह्यस्ति दुर्गतिभयं निरतस्य धर्मे॥४७॥



क्रियाविशेषश्च यथा व्यवस्थितः शुभस्य पापस्य च भिन्नलक्षणः।

तथा विपाकोऽप्यशुभस्य दुर्गतिश्चित्रस्य धर्मस्य सुखाश्रया गतिः॥४८॥



इत्यनुनीय स महात्मा पितरं कृताभ्यनुज्ञः पित्रा तृणवदपास्य राज्यलक्ष्मीं तपोवनाश्रयं चकार। तत्र च ध्यानान्यप्रमाणानि चोत्पाद्य तेषु च प्रतिष्ठाप्य लोकं ब्रह्मलोकमधिरोह।



तदेवं संविग्नमनसां राजलक्ष्मीरपि श्रेयोमार्गं नावृणोतीति संवेगपरिचयः कार्यः। मरणसंज्ञावर्णेऽपि वाच्यम्-एवमाशुमरणसंज्ञा संवेगाय भवतीति। तथा मरणानुस्मृतिवर्णेऽनित्यताकथायामप्युपनेयम्-एवमनित्याः सर्वसंस्कारा इति। तथा सर्वलोकेऽनभिरतिसंज्ञायाम्-एवमनाश्वासिकं संस्कृतमिति। एवमत्राणोऽयमसहायश्च लोक इत्येवमपि वाच्यम्। एवं वने धर्मः सुखं प्रतिपत्तुं न गेह इत्येवमप्युन्नेयम्।



॥ इति अयोगृह - जातकं द्वात्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project