Digital Sanskrit Buddhist Canon

३१ सुतसोम-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 31 sutasoma-jātakam
३१. सुतसोम-जातकम्



श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति सज्जनापाश्रयेण श्रेयोऽर्थिना भवितव्यम्। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवान् यशःप्रकाशवंशे गुणपरिग्रहप्रसङ्गात्सात्मीभूतप्रजानुरागे प्रतापानतदृप्तसामन्ते श्रीमति कौरव्यराजकुले जन्म प्रतिलेभे तस्य। गुणशतकिरणमालिनः सोमप्रियदर्शनस्य सुतस्य सुतसोम इत्येवं पिता नाम चक्रे। स शुक्लपक्षचन्द्रमा इव प्रतिदिनमभिवर्धमानकान्तिलावण्यः कालक्रमादवाप्य साङ्गेषु सोपवेदेषु च वेदेषु वैचक्षण्यं दृष्टक्रमः सोत्तरकलानां कलानां लोक्यानां लोकप्रेमबहुमाननिकेतभूतः सम्यगभ्युपपत्तिसौमुख्यादभिवर्धमानादरात्परिपालननियमाच्च बन्धुरिव गुणानां बभूव।



शीलश्रुतत्यागदयादमानां तेजःक्षमाधीधृतिसंनतीनाम्।

अनुन्नतिह्रीमतिकान्तिकीर्तिदाक्षिण्यमेधाबलशुक्लतानाम्॥१॥



तेषां च तेषां स गुणोदयानामलंकृतानामिव यौवनेन।

विशुद्धतौदार्यमनोहराणां चन्द्रः कलानामिव संश्रयोऽभूत्॥२॥



अतश्चैनं स राजा लोकपरिपालनसामर्थ्यादक्षुद्रभद्रप्रकृतित्वाच्च यौवराज्यविभूत्या संयोजयामास।



विद्वत्तया त्वासुरतीव तस्य प्रियाणि धर्म्याणि सुभाषितानि।

आनर्च पूजातिशयैरतस्तं सुभाषितैरेनमुपागमद्यः॥३॥



अथ कदाचित्स महात्मा कुसुममासप्रभावविरचितकिसलयलक्ष्मीमाधुर्याणि प्रविकसत्कुसुममनोज्ञप्रहसितानि प्रविततनवशाद्वलकुथास्तरणसनाथधरणीतलानि कमलोत्पलदलास्तीर्णनिर्मलनीलसलिलानि भ्रमद्भ्रमरमधुकरीगणोपगीतान्यनिभृतपरभृतबर्हिगणानि मृदुसुरभिशिशिरसुखपवनानि मनःप्रसादोद्भावनानि नगरोपवनान्यनुविचरन् अन्यतममुद्यानवनं नातिमहता बलकायेन परिवृतः क्रीडार्थमुपनिर्जगाम।



स तत्र पुंस्कोकिलनादिते वने मनोहरोद्यानविमानभूषिते।

चचार पुष्पानतचित्रपादपे प्रियासहायः सुकृतीव नन्दने॥४॥



गीतस्वनैर्मधुरतूर्यरवानुविद्धै-

र्नृत्यैश्च हावचतुरैर्ललिताङ्गहारैः।

स्त्रीणां मदोपहृतया च विलासलक्ष्म्या

रेमे स तत्र वनचारुतया तया च॥५॥



तत्रस्थं चैनमन्यतमः सुभाषिताख्यायी ब्राह्मणः समभिजगाम। कृतोपचारसत्कारश्च तद्‍रूपशोभापहृतमनास्तत्रोपविवेश। इति स महासत्त्वो यौवनानुवृत्त्या पुण्यसमृद्धिप्रभावोपनतं क्रीडाविधिमनुभवंस्तदागमनादुत्पन्नबहुमान एव तस्मिन् ब्राह्मणे सुभाषितश्रवणादनवाप्तागमनफले सहसैवोत्पतितं गीतवादित्रस्वनोपरोधि क्रिडाप्रसङ्गजनितप्रहर्षोपहन्तृ प्रमदाजनभयविषादजननं कोलाहलमुपश्रुत्य ज्ञायतां किमेतम्दिति सादरमन्तः पुरावचरान् समादिदेश। अथास्य दौवारिका भयविषाददिनवदनाः ससंभ्रमं द्रुततरमुपेत्य न्यवेदयन्त-एष स देव पुरुषादः कल्माषवादः सौदासः साक्षादिवान्तको नरशतकदनकरणपरिचयाद्राक्षसाधिकक्रूरतरमतिरतिमानुषबलवीर्यदर्पो रक्षःप्रतिभयरौद्रमूर्तिमूर्तिमानिव जगत्संत्रास इति एवाभिवर्तते। विद्रुतं च नस्तत्संत्रासग्रस्तधैर्यमुद्भ्रान्तरथतुरगद्विरदव्याकुलयोधं बलम्। यतः प्रतियत्नो भवतु देवः, प्राप्तकालं वा संप्रधार्यतामिति।



अथ सुतसोमो जानानोऽपि तानुवाच-भोः क एष सौदासो नाम ? ते तं प्रोचुः-किमेतद्देवस्य न विदितं यथा सुदासो नाम राजा बभूव। स मृगयानिर्गतोऽश्वेनापहृतो वनगहनमनुप्रविष्टः सिंह्या सार्धं योगमगमत्। आपन्नसत्त्वा च सा सिंही संवृत्ता। कालान्तरेण च कुमारं प्रसुषुवे। स वनचरैर्गृहीतः सुदासायोपनीतः। अपुत्रोऽहमिति च कृत्वा सुदासेन संवर्धितः। पितरि च सुरपुरमुपगते स्वं राज्यं प्रतिलेभे। स मातृदोषादामिषेष्वभिसक्तः। इदमिदं रसवरं मांसमिति स मानुषं मांसमास्वाद्य स्वपौरानेव च हत्वा हत्वा भक्षयितुमुपचक्रमे। अथ पौरास्तद्वधायोद्योगं चक्रुः। यतोऽसौ भीतः सौदासो नररुधिरपिशितबलिभुग्भ्यो भुतेभ्य उपशुश्राव- अस्मात्संकटान्मुक्तोऽहं राज्ञां कुमारशतेन भूतयज्ञं करिष्यामीति। सोऽयं तस्मात्संकटान्मुक्तः। प्रसह्य प्रसह्य चानेन राजकुमारापहरनं कृतम्। सोऽयं देवमप्यपहर्तुंमायातः। श्रुत्वा देवं प्रमाणमिति।



अथ स बोधिसत्त्वः पूर्वमेव विदितशीलदोषविभ्रमः सौदासस्य कारुण्यात्तच्चिकित्सावहितमतिराशंसमानश्चात्मनि तच्छीलविकृतप्रशमनसामर्थ्यं प्रियाख्यान इव च सौदासाभियाननिवेदने प्रीतिं प्रतिसंवेदयन्नियतमित्युवाच-



राज्याच्च्युतेऽस्मिन्नरमांसलोभादुन्मादवक्तव्य इवास्वतन्त्रे।

त्यक्तस्वधर्मे हतपुण्यकीर्तौ शोच्यां दशामित्यनुवर्तमाने॥६॥



को विक्रमस्यात्र ममावकाश एवंगताद्वा भयसंभ्रमस्य।

अयत्नसंरम्भपराक्रमेण पाप्मानमस्य प्रसभं निहन्मि॥७॥



गत्वापि यो नाम मयानुकम्प्यो मद्गोचरं स स्वयमब्युपेतः।

युक्तं मयातिथ्यमतोऽस्य कर्तुमेवं हि सन्तोऽतिथिषु प्रवृत्ताः॥८॥



तद्यथाधिकारमत्रावहिता भवन्ति भवन्तः। इति स तानन्तः पुरावचराननुशिष्य विषादविपुलतरपारिप्लवाक्षमागद्गदविलुलितकङ्ठं मार्गावरणसोद्यममाश्वासनपूर्वकं विनिवर्त्य युवतिजनं यतस्तत्कोलाहलं ततः प्रससार। दृष्ट्वैव च व्यायताबद्धमलिनवसनपरिकरं वल्कलपट्टविनियतं रेणुपरुषप्रलम्बव्याकुलशिरोरुहे प्ररुढश्मश्रुजालावनद्धान्धकारवदनं रोषसंरम्भव्यावृत्तरौद्रनयनमुद्यतासिमचर्माणं सौदासं विद्रवदनुपतन्तं राजबलं विगतभयसाध्वसः समाजुहाव-अयमहमरे सुतसोमः। इत एव निवर्तस्व। किमनेन कृपणजनकदनकरणप्रसङ्गेनेति। तत्समाह्वानशब्दाकलितदर्पस्तु सौदासः सिंह इव ततो न्यवर्तत। निरावरणप्रहरणमेकाकिनं प्रकृतिसौम्यदर्शनमभिवीक्ष्य च बोधिसत्त्वमहमपि त्वामेव मृगयामीत्युक्त्वा निविशङ्क सहसा संरम्भद्रुततरमभिसृत्यैनं स्कन्धमारोप्य प्रदुद्राव। बोधिसत्त्वोऽपि चैनं संरम्भदर्पोद्धतमानसं ससंभ्रमाकुलितमतिं राजबलविद्रावणादुपरूढप्रहर्षावलेपं साभिशङ्कमवेत्य नायमस्यानुशिष्टिकाल इत्युपेक्षांचक्रे। सौदासोऽप्यभिमतार्थप्रसिद्ध्या परमिव लाभभधिगम्य प्रमुदितमनाः स्वमावासदुर्गं प्रविवेश।



हतपुरुषकलेवराकुलं रुधिरसमुक्षितरौद्रभूतलम्।

पुरुषमिव रुषावभर्त्सयत्स्फुटदहनैरशिवैः शिवारुतैः॥९॥



गृध्रध्वाङ्क्षाध्यासनरूक्षारुणपर्णैः

कीर्णं वृक्षैर्नैकचिताधूमविवर्णैः।

रक्षःप्रेतानर्तनबिभत्समशान्तं

दूराद् दृष्टं त्रासजडैः सार्थिकनेत्रैः॥१०॥



समवतार्य च तत्र बोधिसत्त्वं तद्रूपसंपदा विनिबध्यमाननयनः प्रततं वीक्षमाणो विशश्राम। अथ बोधिसत्त्वस्य सुभाषितोपायनाभिगतं ब्राह्मणमकृतसत्कारं तदुद्यानविनिवर्तनप्रतीक्षिणमाशावबद्धहृदयमनुस्मृत्य चिन्ता प्रादुरभूत्-कष्टं भोः !



उभाषितोपायनवानाशया दुरमागतः।

स मं हृतमुपश्रुत्य विप्रः किं नु करिष्यति॥११॥



आशाविघाताग्निपरीतचेता वैतान्यतीव्रेण परिश्रमेण।

विनिश्वसिष्यत्यनुशोच्य वा मां स्वभाग्यनिन्दां प्रतिपत्स्यते वा॥१२॥



इति विचिन्तयतस्तस्य महासत्त्वस्य तदीयदुःखाभितप्तमनसः कारुण्यपरिचयादश्रूणि प्रावर्तन्त। अथ सौदासः साश्रूनयनमभिवीक्ष्य बोधिसत्त्वं समभिप्रहसन्नुवाचमा तवद्भोः।



धीर इत्यसि विख्यातस्तैस्तैश्च बहुभिर्गुणैः।

अथ चास्मद्वशं प्राप्य त्वमप्यश्रूणि मुञ्चसि॥१३॥



सुष्ठु खल्विदमुच्यते-

आपत्सु विफलं धैर्यं शोके श्रुतमपार्थकम्।

न हि तद्विद्यते भूतमाहतं युन्न कम्पते॥१४॥ इति।



तत्सत्यं तावद् ब्रूहि-

प्राणान् प्रियानथ धनं सुखसाधनं वा

बन्धून्नराधिपतितामथवानुशोचन्।

पुत्रप्रियं पितरमश्रुमुखान् सुतान् वा

स्मृत्वेति साश्रूनयनत्वमुपागतोऽसि॥१५॥



बोधिसत्त्व उवाच-

न प्राणान् पितरौ न चैव तनयान् बन्धून्न दारान्न च

नैवैश्वर्यसुखानि संस्मृतवतो बाष्पोद्गमोऽयं मम।

आशावांस्तु सुभाषितैरभिगतः श्रुत्वा हृतं मां द्विजो

नैराश्येन स दह्यते ध्रुवमिति स्मृत्वास्मि सास्रेक्षणः॥१६॥



तस्माद्विसर्जयितुमर्हसि तस्य याव-

दाशाविघातमथितं हृदयं द्विजस्य।

संमाननाम्बुपरिषेकनविकरोमि

तस्मात्सुभाषितमधूनि च संबिभर्मि॥१७॥



प्राप्यैवमानृण्यमहं दिव्जस्य गन्तास्मि भूयोऽनृणतां तवापि।

इहागमात्प्रीतिकृतक्षणाभ्यां निरीक्ष्यमाणो भवदीक्षणाभ्याम्॥१८॥



मा चापयातव्यनयोऽयमस्येत्येवं विशङ्काकुलमानसो भूः।

अन्यो हि मार्गो नृप मद्विधानामन्यादृशस्त्वन्यजनाभिपन्नः॥१९॥



सौदास उवाच-

इदं त्वया ह्यादृतमुच्यमानं श्रद्धेयतां नैव कथंचिदेति।

को नाम मृत्योर्वदनाद्विमुक्तः स्वस्थः स्थितस्तत्पुनरभ्युपेयाम्॥२०॥



दुरुत्तरं मृत्युभयं व्यतीत्य सुखे स्थितः श्रीमति वेश्मनि स्वे।

किं नाम तत्कारणमस्ति येन त्वं मत्समीपं पुनरभ्युपेयाः॥२१॥



बोधिसत्त्व उवाच-कथमेवं महदपि ममागमनकारणमत्रभवान्नाबभुध्यते ? ननु मया प्रतिपन्नमागमिष्यामीति। तदलं मां खलजनसमतयैवं परिशङ्कितुम्। सुतसोमः खल्वहम्।



लोभेन मृत्योश्च भयेन सत्यं सत्यं यदेके तृणवत्त्यजन्ति।

सतां तु सत्यं वसु जीवितं च कृच्छ्रेऽप्यतस्तन्न परित्यजन्ति॥२२॥



न जीवितं यत्सुखमैहिकं वा सत्याच्च्युतं रक्षति दुर्गतिभ्यः।

सत्यं विजह्यादिति कस्तदर्थं यच्चाकरः स्तुतियशःसुखानाम्॥२३॥



संदृश्यमानव्यभिचारमार्गे त्वदृष्टकल्याणपराक्रमे वा।

श्रद्धेयतां नैति शुभं तथा च किं वीक्ष्य शङ्का तव मय्यपीति॥२४॥



त्वत्तो भयं यदि च नाम ममाभविष्यत्

सङ्गः सुखेषु करुणाविकलं मनो वा।

विख्यातरौद्रचरितं ननु वीरमानी

त्वामुद्यतप्रहरणावरणोऽभ्युपैष्यम्॥२५॥



त्वत्संस्तवस्त्वयमभीप्सित एव मे स्यात्

तस्य द्विजस्य सफलश्रमतां विधाय।

एष्याम्यहं पुनरपि स्वयमन्तिकं ते

नास्मद्विधा हि वितथां गिरमुद्गिरन्ति॥२६॥



अथ सौदासस्तद् बोधिसत्त्ववचनं विकल्पितमिवामृष्यमाणश्चिन्तामापेदे-सुष्ठु खल्वयं सत्यवादितया च धर्मिकतया च विकत्थते। तत्पश्यामि तावदस्य सत्यानुरागं धर्मप्रियतां च। किं च तावन्ममानेन नष्टेनापि स्यात् ? अस्ति हि मे स्वभुजवीर्यप्रतापाद्वशीकृतं शतमात्रं क्षत्रियकुमाराणाम्। तैर्यथोपयाचितं भूतयज्ञं करिष्यामीति विचिन्त्य बोधिसत्त्वमुवाच-तेन हि गच्छ। द्रक्ष्यामस्ते सत्यप्रतिज्ञतां धार्मिकतां च।



गत्वा कृत्वा च तस्य त्वं द्विजस्य यदभीप्सितम्।

शीघ्रमायाहि यावत्ते चितां सज्जीकरोम्यहम्॥२७॥



अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य स्वभवनमभिगतः प्रतिनन्द्यमानः स्वेन जनेन तमाहूय ब्राह्मणं तस्माद् गाथाचतुष्टयं शुश्राव। तच्छ्रुत्वा सुभाषिताभिप्रसादितमनाः स महासत्त्वः संराधयन् प्रियवचनसत्कारपुरःसरं साहस्रिकीं गाथां कृत्वा समभिलषितेनार्थेन तं ब्राह्मणं प्रतिपूजयामास। अथैनं तस्य पिता अस्थानातिव्ययनिवारणोद्यतमतिः प्रस्तावक्रमागतं सानुनयमित्युवाच-तात सुभाषितप्रतिपूजने साधु मात्रां ज्ञातुमर्हसि। महाजनः खलु ते भर्तव्यः, कोशसंपदपेक्षिणी च राजश्रीः। अतश्च त्वां ब्रवीमि-



शतेन संपूजयितुं सुभाषितं परं प्रमाणं न ततः परं क्षमम्।

अतिप्रदातुर्हि कियच्चिरं भवेद्धनेश्वरस्यापि धनेश्वरद्युतिः॥२८॥



समर्थमर्थः परमं हि साधनं न तद्विरोधेन यतश्चरेत्प्रियम्।

नराधिपं श्रीर्न हि कोशसंपदा विवर्जितं वेशवधूरिवेक्षते॥२९॥



बोधिसत्त्व उवाच-

अर्घप्रमाणं यदि नामं कर्तुं शक्यं भवेद्देव सुभाषितानाम्।

व्यक्तं न ते वाच्यपथं व्रजेय तन्निष्क्रयं राज्यमपि प्रयच्छन्॥३०॥



श्रुत्वैव यन्नाम मनः प्रसादं श्रेयोऽनुरागः स्थिरतां च याति।

प्रज्ञा विवृद्ध्या वितमस्कतां च क्रय्यं ननु स्यादपि तत्स्वमांसैः॥३१॥



दीपः श्रुतं मोहतमःप्रमाथी चौराद्यहार्यं परमं धनं च।

संमोहशत्रुव्यथनाय शस्त्रं नयोपदेष्टा परमश्च मन्त्री॥३२॥



आपद्गतस्याप्यविकारि मित्रमपीडनीशोकरुजश्चिकित्सा।

बलं महद्दोषबलावमर्दि परं निधानं यशसः श्रियश्च॥३३॥



सत्संगमे प्राभृतशीभरस्य सभासु विद्वज्जनरञ्जनस्य।

परप्रवादद्युतिभास्करस्य स्पर्धावतां कीर्तिमदापहस्य॥३४॥



प्रसन्ननेत्राननवर्णरागैरसंस्कृतैरप्यतिहर्षलब्धैः।

संराद्ननव्यग्रकराग्रदेशैर्विख्याप्यमानातिशयक्रमस्य॥३५॥



विस्पष्टहेत्वर्थनिदर्शनस्य विचित्रशास्त्रागमपेशलस्य।

माधुर्यसंस्कारमनोहरत्वादक्लिष्टमाल्यप्रकरोपमस्य॥३६॥



विनीतदीप्तप्रतिभोज्ज्वलस्य प्रसह्य कीर्तिप्रतिबोधनस्य।

वाक्सौष्ठवस्यापि विशेषहेतुर्योगात्प्रसन्नार्थगतिः श्रुतश्रीः॥३७॥



श्रुत्वा च वैरोधिकदोषमुक्तं त्रिवगमार्गं समुपाश्रयन्ते।

श्रुतानुसारप्रतिपत्तिसारास्तरन्त्यकृच्छ्रेण च जन्मदुर्गम्॥३८॥



गुणैरनेकैरिति विश्रुतानि प्राप्तान्यहं प्राभृतवच्छ्रुतानि।

शक्तः कथं नाम न पूजयमाज्ञां कथं वा तव लङ्घयेयम्॥३८॥



यास्यामि सौदाससमीपमस्मादर्थो न मे राज्यपरिश्रमेण।

निवृत्तसंकेतगुणोपमर्दे लभ्यश्च यो दोषपथानुवृत्त्या॥४०॥



अथैनं पिता स्नेहात्समुत्पतितसंभ्रमः सादरमुवाच-तवैव खलु तात हितावेक्षिणा मयैवमभिहितम्। तदलमत्र ते मन्युवशमनुभवितुम्। द्विषन्तस्ते सौदासवर्शं गमिष्यन्ति। अथापि प्रतिज्ञातं त्वया तत्समीपोपगमनम्, अतः सत्यानुरक्षी तत्संपादयितुमिच्छसि, तदपि ते नाहमनुज्ञास्यामि। अपातकं हि स्वप्राणपरिरक्षानिमित्तं गुरुजनार्थं चानृतमार्गो वेदविहित इति। तत्परिहारश्रमेण तव कोऽर्थः ? अर्थकामाभ्यां च विरोधिदृष्टं धर्मसंश्रयमनयमिति व्यसनमिति च राज्ञां प्रचक्षते नीतिकुशलाः। तदलमनेनास्मन्मनस्तापिना स्वार्थनिरपेक्षेण ते निर्बन्धेन। अथाप्ययशस्यं मार्ष धर्मविरोधि चेति प्रतिज्ञाविसंवादनमनुचितत्वान्न व्यवस्यति ते मतिः, एवमपीदं त्वद्विमोक्षणार्थं समुद्यक्तं सज्जमेव नो हस्त्यश्वरथपत्तिकायं संपन्नमनुरक्तं कृतास्त्रशूरपुरुषमनेकसमरनीराजितं महन्महौघभीमं बलम्। तदनेन परिवृतः समभिगम्यैनं वशमानय, अन्तकवशं वा प्रापय। एवमव्यर्थप्रतिज्ञता संपादिता स्यादात्मरक्षा चेति।



बोधिसत्त्व उवाच-नोत्सहे देव अन्यथा प्रतिज्ञातुमन्यथा कर्तुं शोच्येषु वा व्यसनपङ्कनिमग्नेषु नरकाभिमुखेषु सुहृत्सु स्वजनपर्तियक्तेष्वनाथेषु च तद्विधेषु प्रहर्तुम्।



अपि च,

दुक्षरं पुरुषादोऽसावुदारं चाकरोन्मयि।

मद्वचःप्रत्ययाद्यो मां व्यसृजद्वशमागतम्॥४१॥



लब्धं तत्कारणाच्चेदं मया तात सुभाषितम्।

उपकारी विशेषेण सोऽनुकम्प्यो मया यतः॥४२॥



अलं चात्र देवस्य मदत्ययाशङ्कया। का हि तस्य शक्तिरस्ति मामेवमभिगतं विहिंसितुमिति। एवमनुनीय च महत्मा पितरं विनिवारणसोद्यमं च विनिवर्त्य प्रणय्यिजनमनुरक्तं च बलकायमेकाकी विगतभयदैनयः सत्यानुरक्षी लोकहितार्थं सौदासमभिविनेष्यंस्तन्निकेतमभिजगाम।



दूरादेवावलोक्य सौदासस्तं महासत्त्वमतिविस्मयादभिवृद्धबहुमानप्रसादश्चिराभ्यासविरूढक्रुरतामलिनमतिरपि व्यक्तमिति चिन्तामापेदे-अहहहह !



आश्चर्याणां बताश्चर्यमद्भुतानां तथाद्भतम्।

सत्यौदार्यं नृपस्येदमतिमानुषदैवतम्॥४३॥



मृत्युरौद्रस्वभावं मां विनीतभयसंभ्रमः।

इति स्वयमुपेतोऽयं ही धैर्यं साधु सत्यता॥४४॥



स्थाने खल्वस्य विख्यातं सत्यवादितया यशः।

इति प्राणान् स्वराज्यं च सत्यार्थं योऽयमत्यजत्॥४५॥



अथ बोधिसत्त्वः समभिगम्यैनं विस्मयबहुमानावर्जितमानसमुवाच-



प्राप्तं सुभाषितधनं प्रतिपूजितोऽर्थी

प्रीतिं मनश्च गमितं भवतः प्रभावात्।

प्राप्तस्तदस्म्ययमशान यथेप्सितं मां

यज्ञाय वा मम पशुव्रतमादिश त्वम्॥४६॥



सौदास उवाच-

नात्येति कालो मम खादितुं त्वां धूमाकुला तावदियं चितापि।

विधूमपक्वं विशितं च हृद्यं शृण्मस्तदेतानि सुभाषितानि॥४७॥



बोधिसत्त्व उवाच कस्तवार्थ इत्थंगतस्य सुभाषितश्रवनेन ?

इमामवस्थामुदरस्य हेतोः प्राप्तोऽसि संत्यक्तघृणः प्रजासु।

इमाश्च धर्मं प्रवदन्ति गाथाः समेत्यधर्मेण यतो न धर्मः॥४८॥



रक्षोविकृतवृत्तस्य संत्यक्तार्यपथस्य ते।

नाष्ति सत्यं कुतो धर्मः किं श्रुतेन करिष्यसि॥४९॥



अथ सौदासस्तामवसादनाममृष्यमाणः प्रत्युवाच-मा तावद्भोः !



कोऽसौ नृपः कथय यो न समुद्यतास्त्रः

क्रीडावने वनमृगीदयितान्निहन्ति।

त्द्वन्निहन्मि मनुजान् यदि वृत्तिहेतो-

राधर्मिकः किल ततोऽस्मि न ते मृगघ्नाः॥५०॥



बोधिसत्त्व उवाच-

धर्मे स्थिता न खलु तेऽपि नमन्ति येषां

भीतद्रुतेष्वपि मृगेषु शरासनानि।

तेभ्योऽपि निन्द्यतम एव नराशनस्तु

जात्युच्छ्रिता हि पुरुषा न च भक्षणीयाः॥५१॥



अथ सौदासः परिकर्कशाक्षरमप्यभिधीयमानो बोधिसत्त्वेन तन्मैत्रीगुणप्रभावादभिभूतरौद्रस्वभावः सुखायमान एव तद्वचनमभिप्रहसन्नुवाच-भोः सुतसोम !



मुक्तो मया नाम समेत्य गेहं समन्ततो राज्यविभूतिरम्यम्।

यन्मत्समीपं पुनरागतस्त्वं न नीतिमार्गे कुशलोऽसि तस्मात्॥५२॥



बोधिसत्त्व उवाच-नैतदस्ति। अहमेव तु कुशलो नीतिमार्गे यदेनं न प्रतिपत्तुमिच्छामि।



यं नाम प्रतिपन्नस्य धर्मादैकान्तिकी च्युतिः।

न तु प्रसिद्धिः सौख्यस्य तत्र किं नाम कौशलम्॥५३॥



किं च भूयः,

ये नीतिमार्गप्रतिपत्तिधीराः प्रायेण ते प्रेत्य पतन्त्यपायान्।

अपास्य जिह्मानिति नीतिमार्गान् सत्यानुरक्षी पुनरागतोऽस्मि॥५४॥



अतश्च नीतौ कुशलोऽहमेव त्यक्त्वानृतं योऽभिरतोऽस्मि सत्ये।

न तत्सुनीतं हि वदन्ति रज्ज्ञा यन्नानुबध्नन्ति यशःसुखार्थाः॥५५॥



सौदास उवाच-

प्राणान् प्रियान् स्वजनमश्रुमुखं च हित्वा

राज्याश्रयाणि च सुखानि महोहराणि।

कामर्थसिद्धिमनुपश्यसि सत्यवाक्ये

तद्रक्षणार्थमपि मां यदुपागतोऽसि॥५६॥



बोधिसत्त्व उवाच-बहवः सत्यवचनाश्रया गुणातिशयाः। संक्षेपस्तु श्रूयताम्-

मल्यश्रियं हृद्यतयातिशेते सर्वान् रसान् स्वादुतया च सत्यम्।

श्रमादृते पुण्यगुणप्रसिद्ध्या तपांसि तीर्थाभिगमश्रमांश्च॥५७॥



कीर्तेर्जगद्‍व्याप्तिकृतक्षणाया मार्गस्त्रिलोकाक्रमणाय सत्यम्।

द्वारं प्रवेशाय सुरालयस्य संसारदुर्गोत्तरणाय सेतुः॥५८॥



अथ सौदासः साधु युक्तमित्यभिप्रणम्यैनं सविस्मयमभिवीक्षमाणः पुनरुवाच-

अन्ये न रा मद्वशगा भवन्ति दैन्यार्पणात्त्रासविलुप्तधैर्यः।

संत्यज्यसे त्वं तु न धैर्यलक्ष्म्या मन्ये न ते मृत्युभयं नरेन्द्र॥५९॥



बोधिसत्त्व उवाच-

महतापि प्रयत्नेन यच्छक्त्यं नातिवर्तितुम्।

प्रतीकारासमर्थेन भयक्लैब्येन तत्र किम्॥६०॥



इति परिगणितलोकस्थितयोऽपि तु कापुरुषाः

पापप्रसङ्गादनुतप्यमानाः शुभेषु कर्मस्वकृतश्रमश्च।

आशङ्कमानाः परलोकदुःखं मर्तव्यसंत्रासजडा भवन्ति॥६१॥



तदेव कर्तुं न तु संस्मरामि भवेद्यतो मे मनसोऽनुतापः।

सात्मीकृतं कर्म च शुक्लमस्माद्धर्मस्थितः को मरणाद्विभीयात्॥६२॥



न च स्मराम्यर्थिजनोपयानं यन्न प्रहर्षाय ममार्थिनां वा।

इति प्रदानैः समवाप्ततुष्टिर्धर्मे स्थितः को मरणाद्बिभीयात्॥६३॥



चिरं विचिन्त्यापि च नैव पापे मनःपदन्यासमपि स्मरामि।

विशोधितस्वर्गपथोऽहमेवं मृत्योः किमर्थं भयमभ्युपेयाम्॥६४॥



विप्रेषु बन्धुषु सुहृत्सु समाष्रितेषु

दीने जने यदिषु चाश्रमभूषणेषु।

न्यस्तं मया बहु धनं ददता यथार्हं

कृत्यं च यस्य यदभूत्तदकारि तस्य॥६५॥



श्रीमन्ति कीर्तनशतानि निवेशितानि।

सत्राजिराश्रमपदानि सभाः प्रपाश्च।

मृत्योर्न मे भयमतस्तदवाप्ततुष्टे-

र्यज्ञाय तत्समुपक्ल्पय भौङ्क्ष्व वा माम्॥६६॥



तदुपश्रुत्य सौदासः प्रसादाश्रुव्याप्तनयनः समुद्भियमानरोमाञ्चपिटको विस्मृतपापस्वभावतामिस्रः सबहुमानमवेक्ष्य बोधिसत्त्वमुवाच-शान्तं पापम्।



अद्याद्विषं स खलु हाहहलं प्रजान-

न्नाशीविषं प्रकुपितं ज्वलदायसं वा।

मूर्धापि तस्य शतधा हृदयं च यायाद्

यस्त्वद्विधस्य नृपपुंगव पापमिच्छेत्॥६७॥



तदर्हति भवांस्तान्यपि मे सुभाषितानि वक्तुम्। अनेन हि ते वचनकुसुमवर्षेणाभिप्रसादितमनसः सुष्टुतरमभिवृद्धं च तेषु मे कौतूहलम्। अपि च भोः।



दृष्ट्वा मे चरितच्छायावैरूप्यं धर्मदर्पणे।

अपि नामागतावेगं स्यन्मे धर्मोत्सुकं मनः॥६८॥



अथैनं बोधिसत्त्वः पत्रीकृताशयं धर्मश्रवणप्रवणमानसमवेत्योवाच-तेन हि धर्मार्थिना तदनुरूपसमुदाचारसौष्ठवेन धर्मः श्रोतुं युक्तम्। पश्य।



नीचैस्तरासनस्थानद्विबोध्य विनयश्रियम्।

प्रीत्यर्पिताभ्यां चक्षुर्भ्यां वाङ्मध्वास्वादयन्निवि॥६९॥



गौरवावर्जितैकाग्रप्रसन्नामलमानसः।

सत्कृत्य धर्मं शृणुयाद्भिषग्वाक्यमिवातुरः॥७०॥



अथ सौदासः स्वेनोत्तरीयेण समास्तीर्योच्चैस्तरं शिलातलं तत्र चाधिरोप्य बोधिसत्त्वं स्वयमनास्तरितायमुपविश्य भूमौ बोधिसत्त्वस्य पुरस्तादाननोद्वीक्षणव्यापृतनिरीक्षणरतं महासत्त्वमुवाच-ब्रूहीदानीं मार्षेति। अथ बोधिसत्त्वो नवाम्भोधरनिनदमधुरेण गम्भीरेणापूरयन्निव तद्वनं व्यापिना स्वरेणोवाच।



यदृच्छयाप्युपानीतं सकृत्सज्जनसंगतम्।

भवत्यचलमत्यन्तं नाभ्यासक्रममीक्षते॥७१॥



तदुपश्रुत्य सौदासः साधु साध्विति स्वशिरः प्रकम्प्याङ्गलीवीक्षेपं बोधिसत्त्वमुवाच-ततस्ततः?



अथ बोधिसत्त्वो द्वितीयां गाथामुदाजहार-

न सज्जनाद् दुरचरः क्वचिद्भवेद्भजेत साधून् विनयक्रमानुगः।

स्पृशन्त्ययत्नेन हि तत्समीपगं विसर्पिणस्तद्गुणपुष्परेणवः॥७२॥



सौदास उवाच-

सुभाषितान्यर्चयता साधो सर्वात्मना त्वया।

स्थाने खलु नियुक्तोऽर्थः स्थाने नावेक्षितः श्रमः॥७३॥



ततस्ततः ? बोधिसत्त्व उवाच-

रथा नृपाणां मणिहेमभूषणा व्रजन्ति देहाश्च जराविरूपताम्।

सतां तु धर्मं न जराभिवर्तते स्थिरानुरागा हि गुणेषु साधवः॥७४॥



अमृतवर्षं खल्विदम्। अहो संतर्पिताः स्मः। ततस्ततः ? बोधिसत्त्व उवाच-



नभश्च दुरे वसुधातलाच्च पारादवारं च महार्णवस्य।

अस्ताचलेन्द्रादुदयस्ततोऽपि धर्मः सतां दूरतरेऽसतां च॥७५॥



अथ सौदासः प्रसादविस्मयाभ्यामावर्जितप्रेमबहुमानो बोधिसत्त्वमुवाच-

चित्राभिधानातिशयोज्ज्वलार्था गाथास्त्वदेता मधुरा निशम्य।

आनन्दितस्तत्प्रतिपूजनार्थं वरानहं ते चतुरो ददामि॥७६॥



तद् वृणीष्व यद्यन्मत्तोऽभिकाङ्क्षसीति। अथैनं बोधिसत्त्वः सविस्मयबहुमान उवाच कस्त्वं वरप्रदानस्य ?



यस्यास्ति नात्मनयपि ते प्रभुत्वमकार्यसंरागपराजितस्य।

स त्वं वरं दास्यसि कं परस्मै शुभप्रवृतेरपवृत्तभावः॥७७॥



अहं च देहीति वरं वदेयं मनश्च दित्साथिशिलं तव स्यात्।

तमत्ययं कः सघृणोऽभ्युपेयादेतावदेवालमलं यतो नः॥७८॥



अथ सौदासः किंचिद् व्रीडावनतवदनो बोधिसत्त्वमुवाच-अलमत्रभवतो मामेवं विशङ्कितुम्।



प्राणानपि परित्यज्य दास्याम्येतानहं वरान्।

विस्रब्धं तद् वृणीष्व त्वं यद्यादिच्छसि भूमिप॥७९॥



बोधिसत्त्व उवाच-तेन हि

सत्यवरतो भव विसर्जय सत्त्वहिंसां बन्दीकृतं जनमशेषमिमं विमुञ्च।

अद्या न चैव नरवीर मनुष्यमांसमेतान् वराननवरांश्चतुरः प्रयच्छ॥८०॥



सौदास उवाच-

ददामि पूर्वान् भवते वरांस्त्रीनन्यं चतुर्थं तु वरं वृणीष्व।

अवैषि किं न त्वमिदं यथाहमीशो विरन्तुं न मनुष्यमांसात्॥८१॥



बोधिसत्त्व उवाच-हन्त तवैतत्संवृत्तम्। ननूक्तं मया कस्त्वं वरप्रदानस्येति ? अपि च भोः ?



सत्यव्रतत्वं च कथं स्यदहिंसकता च ते।

अपरित्यजतो राजन् मनुष्यपैशिताशिताम्॥८२॥



आह-

ननूक्तं भवता पूर्वं दास्याम्येतानहं वरान्।

प्राणानपि परित्यज्य तदिदं जायतेऽन्यथा॥८३॥



अहिंसकत्वं च कुतो मांसार्थं ते घ्नतो नरान्।

सत्येवं कतमे दत्ता भवता स्युर्वरास्त्रयः॥८४॥



सौदास उवाच-

त्यक्त्वा राज्यं वने क्लेशो यस्य हेतुर्ताधृतो मया।

हतो धर्मः क्षता कीर्तिस्त्यक्ष्यामि तदहं कथम्॥८५॥



बोधिसत्त्व उवाच-अत एव तद्भवांस्त्यक्तुमर्हति।



धर्मादर्थात्सुखात्कीर्तेभ्रष्टो यस्य कृते भवान्।

अनर्थायतनं तादृक्कथं न त्यक्तुमर्हसि॥८६॥



दत्तानुशयिता चेयमनौदार्यहते जने।

नीचत सा कथं नाम त्वामप्यभिभवेदिति॥८७॥



तदलं ते पाप्मानमेवानुभ्रामितुम्। अवबोद्‍धुमर्हस्यात्मानम्। सौदासः खल्वत्रभवान्।



वैद्येक्षितानि कुशलैरुपकल्पितानि

ग्राम्याण्यनूपजलजान्यथ जाङ्गलानि।

मांसानि सन्ति कुरु तैर्हृदयस्य तुष्टिं

निन्दावहाद्विरम साधु मनुष्यमांसात्॥८८॥



तूर्यस्वनान सजलतोयदनादधीरान्

गीतस्वनं च निशि राज्यसुखं च तत्तत्।

बन्धून् सुतान् परिजनं च मनोनुकूलं

हित्वा कथं नु रमसेऽत्र वने विविक्ते॥८९॥



चित्तस्य नार्हसि नरेन्द्र वशेन गन्तुं

धर्मार्थयोरनुपरोधपथं भजस्व।

एंको नृपान् युधि विजित्य समस्तसैन्यान्

मा चित्तविग्रहविधौ परिकातरो भूः॥८०॥



लोकः परोऽपि मनुजाधिप नन्ववेक्ष्य-

स्तस्मात्प्रियं यदहितं च न तन्निषेव्यम्।

यत्स्यात्तु कीर्त्यनुपरोधि मनोज्ञमार्गं

तद्विप्रियं सदपि भेषजवद्भजस्व॥९१॥



अथ सौदासः प्रसादाश्रुव्याप्तनयनो गद्गदायमानकङ्ठः समभिसृत्यैव बोधिसत्त्वं पादयोः संपरिष्वज्योवाच-



गुणकुसुमरजोभिः पुण्यगन्धिः समन्ता-

ज्जगदिदमवकीर्णं कारणे त्वद्यशोभिः।

इति विचरति पापे मृत्युदूतोग्रवृत्तौ

त्वमिव हि क इवान्यः सानुकम्पो मयि स्यात्॥९२॥



शस्ता गुरुश्च मम दैवतमेव च त्वं

मूर्ध्ना वचांस्यहममूनि तवार्चयामि।

भोक्ष्ये न चैव सुतसोम मनुष्यमांसं

यन्मां यथा वदसि तच्च तथा करिष्ये॥९३॥



नृपात्मजा यज्ङनिमित्तमाहृता मया च ये बन्धनखेदपीडिताः।

हतत्विषः शोकपरीतमानसास्तदेहि मुञ्चाव सहैव तानपि॥९४॥



अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेनावरुद्धास्तत्रैवाभिजगाम। दृष्टै व च ते नृपसुताः सुतसोमं हन्त मुक्ता वयमिति परं हर्षमुपजग्मुः।



विरेजिरे ते सुतसोमदर्शनान्नरेन्द्रपुत्राः स्फुटहासकान्तयः।

शरन्मुखे चन्द्रकरोपबृहिता विजृम्भमाणाः कुमुदाकरा इव॥९५॥



अथैनानभिगम्य बोधिसत्त्वः समाश्वासयन् प्रियवचनपुरःसरं च प्रतिसंमोद्य सौदासस्याद्रोहाय शपथं कारयित्वा बन्धनाद्विमुच्य सार्धं सौदासेन तैश्च नृपतिपुत्रैरनुगम्यमानः स्वं राज्यमुपेत्य यथार्हकृतसंस्कारांस्तान् राजपुत्रान् सौदासं च स्वेषु स्वेषु राज्येषु प्रतिष्ठापयामास।



तदेवं श्रेयः समाधत्ते यथातथाप्युपनतः सत्संगम इति श्रेयोऽर्थिना सज्जनसमाश्रयेण भवितव्यम्। एवमसंस्तुतहृत्पूर्वजन्मस्वप्युपकारपरत्वाद् बुद्धो भगवानिति तथागतवर्णेऽपि वाच्यम्। एवं सद्धर्मश्रवणं दोषापचयाय गुणसमाधानाय च भवतीति सद्धर्मश्रवणेऽपि वाच्यम्। श्रुतप्रशंसायामपि वाच्यम्-एवमनेकानुशंसं श्रुतमिति। सत्यकथायामपि वाच्यम्-एवं सज्जनेष्टं पुण्यकीर्त्याकरं सत्यवचनमित्येवं स्वप्राणसुखेश्वर्यनिरपेक्षाः सत्यमनुरक्षन्ति सत्पुरुषा इति। सत्यप्रशंसायामप्युपनेयं करुणावर्णेऽपि चेति।



॥इतिसुतसोम-जातकमेकत्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project