Digital Sanskrit Buddhist Canon

३० हस्ति-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

30 hasti-jātakam

३०. हस्ति-जातकम्



परहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते। तद्यथानुश्रूयते-

बोधिसत्त्वः किल अन्यतमस्मिन् नागवने पुष्पफलपल्लवालक्षितशिखरैरलंकृत इव तत्र तरुवरतरुणैर्विविधवीरुत्तरुतृणपिहितभूमिभागे वनरामणीयकनिबद्धहृदयैरनुत्कण्ठितमध्यास्यमान इव पर्वतस्थलैराश्रयभूते वनचराणां गम्भीरविपुलसलिलाशयसनाथे महता निर्वृक्षक्षुपसलिलेन कान्तारेण समन्ततस्तिरस्कृतजनान्ते महाकाय एकचरो हस्ती बभूव।



स तत्र तरुपर्णेन बिसेन सलिलेन च।

अभिरेमे तपस्वीव संतोषेण शमेन च॥१॥



अथ कदाचित्स महासत्त्वस्तस्य वनस्य पर्यन्ते विचरन् यतस्तत्कान्तारं ततो जनशब्दमुपशुश्राव। तस्य चिन्ता प्रादुरभूत्-किं नु खल्विदम्? न तावदनेन प्रदेशेन कश्चिद्देशान्तरगामी मार्गोऽस्ति। एवं महत्कान्तारं च व्यतीत्य मृगयापि न युज्यते प्रागेव महासमारम्भपरिखेदमस्मत्सयूथ्यग्रहणम्।



व्यक्तं त्वेते परिभ्रष्टा मार्गाद्वा मूढदैशिका।

निर्वासिता वा क्रुद्धेन राज्ञा स्वेनानयेन वा॥२॥



तथा ह्यमनोजस्को नष्टहर्षोद्धवद्रवः।

केवलार्तिबलः शब्दः श्रूयते रुदतामिव॥३॥



तज्ज्ञास्यामि तावदेनमिति स महासत्त्वः करुणया समाकृष्यमाणो यतः स जननिर्घोषो बभूव ततः प्रससार। विष्पष्टतरविलापं च विषाददैन्यविरसं तमाक्रन्दितशब्दमुपशृण्वन् कारुण्यपर्युत्सुकमनाः स महात्मा द्रुततरं ततोऽभ्यगच्छत्। निर्गम्य च तस्माद्वनगहनान्निर्वृक्षक्षुपत्वात्तस्य देशस्य दूर एवावलोकयन् ददर्श सप्तमात्राणि पुरुषशतानि क्षुत्तर्षपरिश्रममन्दानि तद्वनमभिमुखानि प्रार्थयमानानि। तेऽपि च पुरुषास्तं महासत्त्वं ददृशुर्जङ्गममिव हिमगिरिशिखरं हीनारपुञ्जमिव शरद्वलाहकमिव पवनबलावर्जितमभिमुखमायान्तम्। दृष्ट्वा च विषाददैन्यपरीता हन्तेदानीं नष्टा वयमिति भयग्रस्तमनसोऽपि क्षुत्तर्षपरिश्रमविहतोत्साहा नापयानप्रयत्नपरा बभूवुः।



ते विषादपरीतत्वात्क्षुत्तर्षश्रमविह्वलाः।

नापयानसमुद्योगं भयेऽपि प्रतिपेदिरे॥४॥



अथ बोधिसत्त्वो भीतानवेत्यैतान्-मा भैष्ट, भैष्ट न वो भयमस्ति मत्त इति समुच्छ्रितेन स्निग्धाभिताम्रपृथुपुष्करेण करेण समाश्वासयन्नभिगम्य करुणायमाणः पप्रच्छ-केऽत्रभवन्तः ? केन चेमां दशामनुप्राप्ताः स्थ ?



रजःसूर्यांशुसंपर्काद्विवर्णाकृतयः कृशाः।

शोकक्लमार्ताः के यूयमिह चाभिगताः कुतः॥५॥



अथ ते पुरुषास्तस्य तेन मानुषेणाभिव्याहारेणाभयप्रदानाभिव्यञ्जकेन चाभ्युपपत्तिसौमुख्येन प्रत्यागतहृदयाः समभिप्रणम्यैनमूचुः-



कोपोत्पातानिलेनेह क्षिप्ताः क्षितिपतेर्वयम्।

पश्यतां शोकदीनानां बन्धूनां द्विरदाधिप॥६॥



अस्ति नो भाग्यशेषस्तु लक्ष्मीभिमुखी ध्रुवम्।

सुहृद्वन्धुविशिष्टेन यद् दृष्टा भवता वयम्॥७॥



निस्तीर्णामापदं चेमां विद्मस्त्वद्दर्शनोत्सवात्।

स्वप्नेऽपि त्वद्विधं दृष्ट्वा को हि नापदमुत्तरेत्॥८॥



अथैनान् स द्विरदवर उवाच-अथ कियन्तोऽत्रभवन्त इति ? मनुष्या ऊचुः-



सहस्रमेतद्वसुधाधिपेन त्यक्तं नृणामत्र मनोज्ञगात्र।

अदृष्टदुःखा बहवस्ततस्तु क्षुत्तर्षशोकाभिभवाद्विनष्टाः॥९॥



एतानि तु स्युर्द्विरदप्रधान सप्तावशेषाणि नृणां शतानि।

निमज्जतां मृत्युमुखे तु येषां मूर्तस्त्वमाश्वास इवाभ्युपेतः॥१०॥



तच्छ्रुत्वा तस्य महासत्त्वस्य कारुण्यपरिचयादश्रूणि प्रावर्तन्त। समनुशोचंश्चैनान्नियतमीदृशं किं चिदुवाच-कष्टं भोः।



घृणाविमुक्ता बत निर्व्यपत्रपा नृपस्य बुद्धिः परलोकनिर्व्यथा।

अहो तडिच्चञ्चलया नृपश्रिया हृतेन्द्रियाणां स्वहितानवेक्षिता॥११॥



अवैति मन्ये न स मृत्युमग्रतः शृणोति पापस्य न वा दुरन्तताम्।

अहो बतानाथतमा नराढिपा विमर्शमान्द्याद्वचनक्षमा न ये॥१२॥



देहस्यैकस्य नामर्थे रोगभूतस्य नाशिनः।

इदं सत्त्वेषु नैर्घृण्यं धिगहो बत मूढताम्॥१३॥



अथ तस्य द्विरदपतेस्तान् पुरुषान् करुणास्निग्धमवेक्षमाणस्य चिन्ता प्रादुरभूत् एवममी क्षुत्तर्षश्रमपीडिताः परिदुर्बलशरीरा निरुदकमप्रच्छायमनेकयोजनायानं कान्तारमपथ्यादनाः कथं व्यतियास्यन्ति ? नागवनेऽपि च किं तदस्ति येनैषामेकाहमपि तावदपरिक्लेशेन वार्ता स्यात् ? शक्येयुः पुनरेते मदीयानि मांसानि पाथेयतामुपनीय दृतिभिरिव च ममान्त्रैः सलिलमादाय कान्तारमेतन्निस्तरितुं नान्यथा।



करोमि तदिदं देहं बहुरोगशतालयम्।

एषां दुःखपरीतानामापदुत्तरणप्लवम्॥१४॥



स्वर्गमोक्षसुखप्राप्तिसमर्थं जन्म मानुषम्।

दुर्लभं च तदेतेषां मैवं विलयमागमत्॥१५॥



स्वगोचरस्तस्य ममाभ्युपेता धर्मेण चेमेऽतिथयो भवन्ति।

आपद्गता बन्धुविवर्जिताश्च मया विशेषेण यतोऽनुकम्प्याः॥१६॥



चिरस्य तावद्वहुरोगभाजनं सदातुरत्वाद्विविधश्रमाश्रयः।

शरीरसंज्ञोऽयमनर्थविस्तरः परार्थकृत्ये विनियोगमेष्यति॥१७॥



अथैनमन्ये क्षुत्तर्षश्रमधर्मदुःखातुरशरीराः कृताञ्जलयः साश्रुनयनाः समभिप्रणम्यार्ततया हस्तसंज्ञाभिः पानीयमयाचन्त।



त्वं नो बन्धुरबन्धूनां त्वं गतिः शरणं च नः।

यथा वेत्सि महाभाग तथा नस्त्रातुमर्हसि॥१८॥



इत्येनमन्ये सकरुणमूचुः। अपरे त्वेनं धीरतरमनसः सलिलप्रदेशं कान्तारदुर्गोत्तारणाय च मार्गं पप्रच्छुः-



जलाशयः शीतजला सरिद्वा यद्यत्र वा नैर्झरमस्ति तोयम्।

छायाद्रुमः शाद्वलमण्डलं वा तन्नोद् विपानामधिप प्रचक्ष्व॥१९॥



कान्तारं शक्यमेतच्च निस्तर्तुं मन्यसे यतः।

अनुकम्पां पुरस्कृत्य तां दिशं साधु निर्दिश॥२०॥



संबहुलानि हि दिनान्यत्र नः कान्तारे परिभ्रमताम्। तदर्हसि नः स्वामिन्निस्तारयितुमिति।



अथ स महात्मा तैः करुणैः प्रयाचितैस्तेषां भृशतरमाक्लेदितहृदयो यतस्तत्कान्तारं शक्यं निस्तर्तु बभूव, तत एसां पर्वतस्थलं संदर्शयन्नभ्युच्छ्रितेन भुजगवरभोगपीवरेण करेणोवाच-अस्य पर्वतस्थलस्याधस्तात्पद्मोत्पलालंकृतविमलसलिलमस्ति महत्सरः। तदनेन मार्गेण गच्छत। तत्न च व्यपनीतघर्मतर्षक्लमास्तस्यैव नातीदूरेऽस्मात्पर्वतस्थलात्पतितस्य हस्तिनः शरीरं द्रक्ष्यथ। तस्य मांसानि पाथेयतामानीय दृतिभिरिव तस्यान्त्रैः सलिलमुपगृह्यानयैव दिशा यातव्यम्। एवमल्पकृच्छ्रेण कान्तारमिदं व्यतियास्यथ। इति स महात्मा तान् पुरुषान् समाश्वासनपूर्वकं ततः प्रस्थाप्य ततो द्रुततरमन्येन मार्गेण तद्गिरिशिखरमारुह्य तस्य जनकायस्य निस्तारणापेक्षया स्वशरीरं ततो मुमुक्षुर्नियतमिति प्रणिधिमुपबृंहयामास-



नायं प्रयत्नः सुगतिं ममाप्तुं नैकातपत्रां मनुजेन्द्रलक्ष्मीम्।

सुखप्रकर्षैकरसां न च द्यां ब्राह्मीं श्रियं नैव न मोक्षसौख्यम्॥११॥



यत्वस्ति पुण्यं मम किंचिदेवं कान्तारमग्नं जनमुज्जिहीर्षोः।

संसारकान्तारगतस्य तेन लोकस्य निस्तारयिता भवेयम्॥२२॥



इति विनिश्चित्य स महात्मा प्रमोदादगणितप्रपातनिष्पेषमरणदुःखं स्वशरीरं तस्माद् गिरितटाद्यथोद्देशं मुमोच-



रेजे ततः स निपतञ्छरदीव मेघः

पर्यस्तबिम्ब इव चास्तगिरेः शशाङ्कः।

तार्क्ष्यस्य पक्षपवनोग्रजवापविद्धं

शृण्गं गिरेरिव च तस्य हिमोत्तरीयम्॥२३॥



आकम्पयन्नथ धरां धरणीधरांश्च

मारस्य च प्रभुमदाध्युषितं च चेतः।

निर्घातपिण्डितरवं निपपात भूमा-

वावर्जयन् वनलता वनदेवताश्च॥२४॥



असंशयं तद्वनसंश्रयास्तदा मनस्सु विस्फारितविस्मयाः सुराः।

विचिक्षिपुर्व्योम्नि मुदोत्तनूरुहाः समुच्छ्रितैकाङ्गुलिपल्लवान् भुजान्॥२५॥



सुगन्धिभिश्चन्दनचूर्णरञ्जितैः प्रसक्तमन्ये कुसुमैरवाकिरन्।

अतान्तवैः काञ्चनभक्तिराजितैस्तमुत्तरीयैरपरे विभूषणैः॥२६॥



स्तवैः प्रसादग्रथितैस्तथापरे समुद्यतैश्चाञ्जलिपद्मकुड्मलैः।

शिरोभिरावर्जितचारुमौलिभिर्नमस्किर्याभिश्च तमभ्यपूजयन्॥२७॥



सुगन्धिना पुष्परजोविकर्षणात्तरंगमालारचनेन वायुना।

तमव्यजन् केचिदथाम्बरेऽपरे वितानमस्योपदधुर्घनैर्घनैः॥२८॥



तमर्चितुं भक्तिवशेन केचन व्यरासयन् द्यां सुरदुन्दुभिस्वनैः।

अकालजैः पुष्पफलैः सपल्लवैर्व्यभूषयंस्तत्र तरूनथापरे॥२९॥



दिशः सरत्कान्तिमयीं दधुः श्रियं रवेः कराः प्रांशुतरा इवाभवन्।

मुदाभिगन्तुं तमिवास चार्णवः कुतूहलोत्कम्पितवीचिविभ्रमः॥३०॥



अथ ते पुरुषाः क्रमेण तत्सरः समुपेत्य तस्मिन् विनीतधर्मतर्षक्लमा यथाकथितं तेन महात्मना तदविदूरे हस्तिशरीरं नचिरमृतं ददृशुः। तेषां बुद्धिरभवत्-अहो यथायं सदृशस्तस्य द्विरदपतेर्हस्ती।



भ्राता नु तस्यैष महाद्विपस्य स्याद् बान्धवो वान्यतमः सुतो वा।

तस्यैव खल्वस्य सिताद्रिशोभं संचूर्णितस्यापि विभाति रूपम्॥३१॥



कुमुदश्रीरिवैकस्य ज्योत्स्ना पुञ्जीकृतेव च।

छायेव खलु तस्येयमादर्शतलसंश्रिता॥३२॥



अथ तत्रैकेषां निपुणतरमनुपश्यतां बुद्धिरभवत्-यथा पश्यामः स एव खल्वयं दिग्वारेणेन्द्रप्रतिस्पर्धिरूपातिशयः कुञ्जरवर आपद्गतानामबन्धुसुहृदामस्माकं निस्तारणापेक्षया गिरितटादस्मान्निपतित इति।



यः स निर्घतवदभूत्कम्पयन्निव मेदिनीम्।

व्यक्तमस्यैव पततः स चास्माभिर्ध्वनिः श्रुतः॥३३॥



एतद्वपुः खलु तदेव मृणालगौरं

चन्द्रंशुशुक्लतनुजं तनुबिन्दुचित्रम्।

कूर्मोपमाः सितनखाश्चरणास्त एते

वंशः स एव च धनुर्मधुरानतोऽयम्॥३४॥



तदेव चेदं मदराजिराजितं सुगन्धिवाय्वायतपीणमाननम्।

समुन्नतं श्रिमदनर्पिताङ्कशं शिरस्तदेतच्च बृहच्छिरोधरम्॥३५॥



विषाणयुग्मं तदिदं मधुप्रभं सदर्पचिह्नं तटरेणुनारुणम्।

आदेशयन् मार्गमिमं च येनः स एष दीर्घाङ्गलिपुष्करः करः॥३६॥



आश्चर्यमत्यद्भुतरूपं बत खल्विदम्।

अदृष्टपूर्वान्वयशीलभक्तिषु क्षतेषु भाग्यैरपरिश्रुतेष्वपि।

सुहृत्त्वमस्मासु बतेदमीदृशं सुहृत्सु वा बन्धुषु वास्य कीदृशम्॥ ३७॥



सर्वथा नमोऽस्त्वस्मै महाभागाय।

आपत्परीतान् भयशोकदीनानस्मद्विधानभ्युपपद्यमानः।

कोऽप्येष मन्ये द्विरदावभासः सिषत्सतामुद्वहतीव वृत्तम्॥३८॥



क्व शिक्षितोऽसावतिभद्रतामिमामुपासितः को न्वमुना गुरुर्वने।

न रूपशोभा रमते विना गुणैर्जनो यदित्याह तदेतदीक्ष्यते॥३९॥



अहो स्वभावातिशयस्य संपदा विदर्शितानेन यथार्हभद्रता।

हिमाद्रिशोभेन मृतोऽपि खल्वयं कृतात्मतुष्टिर्हसतीव वर्ष्मणा॥४०॥



तत्क इदानीमस्य स्निग्धबान्धवसुहृत्प्रतिविशिष्टवात्सल्यस्यैवमभ्युपपत्तिसुमुखस्य स्वैः प्राणैरप्यस्मदर्थमुपकर्तुमभिप्रवृत्तस्याटिसाधुवृत्तस्य मांसमुपभोक्तुं शक्ष्यति ? युक्तं त्वस्माभिः पूजाविधिपूर्वकमग्निसत्कारेणास्यानृण्यमुपगन्तुमिति। अथ तान् बन्धुव्यसन् एव शोकानुवृत्तिप्रवणहृदयान् साश्रुनयनान् गद्गदायमानकण्ठानवेक्ष्य कार्यान्तरमवेक्षमाणा धीरतरमनस ऊचुरन्ये-न खल्वेवमस्माभिरयं द्विरदवरः संपूजितः सत्कृतो वा स्यात्। अभिप्रायसंपादनेन त्वयमस्माभिर्युक्तः पूजयितुमिति पश्यामः।



आस्मन्निस्तारणापेक्षी स ह्यसंस्तुतबान्धवः।

शरीरं त्यक्तवानेवमिष्टमिष्टतरातिथिः॥४१॥



अभिप्रायमतस्त्वस्य युक्तं समनुवर्तितुम्।

अन्यथा हि भवेद्‍व्यर्थो ननु तस्यायमुद्यमः॥४२॥



स्नेहादुद्यतमातिथ्यं सर्वस्वं तेन खल्विदम्।

अप्रतिग्रहणाद्‍व्यर्थां कुर्यात्को न्वस्य सत्क्रियाम्॥४३॥



गुरोरिव यतस्तय वचसः संप्रतिग्रहात्।

सत्क्रियां कर्तुमर्हामः क्षेममात्मन एव च॥४४॥



निस्तीर्य चेदं व्यसनं समग्रैः प्रत्येकशो वा पुनरस्य पूजा।

करिष्यते नागवरस्य सर्वं बन्धोरतीतस्य यथैव कृत्यम्॥४५॥



अथ ते पुरुषाः कान्तारनिस्तारणापेक्षया तस्य द्विरदपतेरभिप्रायमनुस्मरन्तस्तद्वचनमप्रतिक्षिप्य तस्य महासत्त्वस्य मांसान्यादाय दृतिभिरिव च तदन्त्रैः सलिलं तत्प्रदर्शितया दिशा स्वस्ति तस्मात्कान्ताराद्विनिर्ययुः।



तदेवं परिहितोदर्कं दुःखमपि साधवो लाभमिव बहु मन्यन्ते, इति साधु जनप्रशंसायां वाच्यम्। तथागतवर्णेऽपि, सत्कृत्य धर्मश्रवणे च भद्रप्रकृतिनिष्पादनवर्णेऽपि वाच्यम्-एवं भद्रा प्रकृतिरभ्यस्ता जन्मान्तरेष्वनुवर्तत इति। त्यागपरिचयगुणनिदर्शनेऽपि वाच्यम्-एवं द्रव्यत्यागपरिचयादात्मस्नेहपरित्यागमप्यकृच्छ्रेण करोतीति। यच्चोक्तं भगवत परिनिर्वाणसमये समुपस्थितेषु दिव्यकुसुमवादित्रादिषु-न खलु पुनरानन्द एतावता तथागतः सत्कृतो भवतीति, तच्चैवं निदर्शयितव्यम्। एवमभिप्रायसंपादनात्पूजा कृता भवति न गन्धमाल्याद्यभिहारेणेति।



॥इति हस्ति-जातकं त्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project