Digital Sanskrit Buddhist Canon

२९ ब्रह्म-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

29 brahma-jātakam

२९. ब्रह्म-जातकम्



मिथ्यादृष्टिपरमाण्यवद्यानीति विशेसानुकम्प्याः सतां दृष्टिव्यसनगताः। तद्यथानुश्रूयते-



बोधिसत्त्वः किलायं भगवान् ध्यानाभ्यासोपचितस्य कुशलस्य कर्मणो विपाकप्रभावाद् ब्रह्मलोके जन्म प्रतिलेभे। तस्य तन्महदपि ध्यानविशेषाधिगतं ब्राह्मं सुखं पूर्वजन्मसु कारुण्यपरिचयान्नैव परहितकरणव्यापारनिरुत्सुकं मनश्चकार।



विषयसुखेनापि परां प्रमादवक्तव्यतां व्रजति लोकः।

ध्यानसुखैरपि तु सतां न तिरस्क्रियते परहितेच्छा॥१॥



अथ कदाचित्स महात्मा करुणाश्रयभूतं विविधदूःखव्यसनशतोपसृष्टमुत्क्लिष्टव्यापादविहिंसाकामधातुं कामधातुं व्यलोकयन् ददर्श विदेहराजमङ्गदिन्नं नाम कुमित्रसंपर्कदोषादसन्मनस्कारपरिचयाच्च मिथ्यादृष्टिगहने परिभ्रमन्तम्। नास्ति परलोकः, कुतः शुभशुभानां कर्मणां विपाक इत्येवं स निश्चयमुपेत्य प्रशान्तधर्मक्रियौत्सुक्यः प्रदानशीलादिसुकृतप्रतिपत्तिविमुखः संरूढपरिभवबुद्धिर्धार्मिकेष्वश्रद्धारूक्षमतिर्धर्मशास्त्रेषु परिहासचित्तः पर्लोककथासु शिथिलविनयोपचारगौरवबहुमानः श्रमणब्राह्मणेषु कामसुखपरायणो बभूव।



शुभाशुभं कर्म सुखासुखोदयं ध्रुवं परत्रेति विरूढनिश्चयः।

अपास्य पाप यतते शुभाश्रयो यथेष्टमश्रद्धतया तु गम्यते॥२॥



अथ स महात्मा देवर्षिस्तस्य राज्ञस्तेन दृष्टिव्यसनोपनिपातेनापायिकेन लोकानर्थाकरभूतेन समावर्जितानुकम्पस्तस्य राज्ञो विषयसुखाकलितमतेः श्रीमति प्रविविक्ते विमानदेशेऽवतिष्ठमानस्याभिज्वलन् ब्रह्मलोकात्पुरस्तात्समवततार।



अथ स राजा तमग्निस्कन्धमिव ज्वलन्तं विद्युत्समूहमिव चावभासमानं दिनकरकीरणसंघातमिव च परया दीप्त्या विरोचमानमभिवीक्ष्य तत्तेजसाभिभूतमतिः ससंभ्रमः प्राञ्जलिरेन प्रत्युत्थाय सबहुमानमुदीक्षमाण इत्युवाच-



करोति ते भूरिव संपरिग्रहं नभोऽपि पद्मोपमपाद पादयोः।

विभासि सौरीमिव चोद्वहन् प्रभां विलोचनानन्दनरूप को भवान्॥३॥



बोधिसत्त्व उवाच-

जित्वा दृप्तौ शास्त्रवमुख्याविव संख्ये

रागद्वेषौ चित्तसमादानबलेन।

ब्राह्मं लोकं येऽभिगता भूमिप तेषां

देवर्षीणामन्यतमं मां त्वमवेहि॥४॥



इत्युक्ते स राजा स्वागतादिप्रियवचनपुरःसरं पाद्यार्घ्यसत्कारमस्मै समुपहृत्य सविस्मयमेनमभिवीक्षमाण उवाच-आश्चर्यरूपः खलु ते महर्षे ऋद्धिप्रभावः।



प्रासादभित्तिष्वविषज्यमानश्चंक्रम्यसे व्योम्नि यथैव भूमौ।

शतह्रदोन्मेषसमृद्धदीप्ते प्रचक्ष्व तत्केन तवेयमृद्धिः॥५॥



बोधिसत्त्व उवाच-

ध्यानस्य शीलस्य च निर्मलस्य वरस्य चैवेन्द्रियसंवरस्य।

सात्मीकृतस्यान्यभवेषु राजन्नेवंप्रकारा फलसिद्धिरेषा॥६॥



राजोवाच-किं सत्यमेवेदमस्ति परलोक इति ? ब्रह्मोवाच-आम। अस्ति महाराज परलोकः। राजोवाच-कथं पुनरिदं मार्ष शक्यमस्माभिरपि श्रद्धातुं स्यात् ? बोधिसत्त्व उवाच-स्थूलमेतन्महाराज प्रत्यक्षादिप्रमाणयुक्तिग्राह्यमाप्तजननिदर्शितक्रमं परीक्षाक्रमगम्यं च। पश्यतु भवान्।



चन्द्रार्कनक्षत्रविभूषणा द्यौस्तिर्यग्विकल्पाश्च बहुप्रकाराः।

प्रत्यक्षरूपः परलोक एष मा तेऽत्र संदेहजडा मतिर्भूत्॥७॥



जातिस्मराः सन्ति च तत्र तत्र ध्यानाभियोगात्स्मृतिपाटवाच्च।

अतोऽपि लोकः परतोऽनुमेयः साक्ष्यं च नन्वत्र कृतं मयैव॥८॥



यद्बुद्धिपूर्वैव च बुद्धिसिद्धिर्लोकः परोऽस्तीति ततोऽप्यवेहि।

आद्या हि या गर्भगतस्य बुद्धिः सानन्तरं पूर्वकजन्मबुद्धेः॥९॥



ज्ञेयावबोधं च वदन्ति बुद्धिं जन्मादिबुद्धेर्विषयोऽस्ति तस्मात्।

न चैहिकोऽसौ नयनाद्यभावात्सिद्धौ यदियस्तु परः स लोकः॥१०॥



पित्र्यं स्वभावं व्यतिरिच्य दृष्टः शीलादिभेदश्च यतः प्रजानाम्।

नाकस्मिकस्यास्ति च यत्प्रसिद्धिर्जात्यन्तराभ्यासमयः स तस्मात्॥११॥



पटुत्वहीनेऽपि मतिप्रभावे जडप्रकारेष्वपि चेन्द्रियेषु।

विनोपदेशात्प्रतिपद्यते यत्प्रसूतमात्रः स्तनपानयत्नम्॥१२॥



आहारयोग्यासु कृतश्रमत्वं तद्दर्शयत्यस्य भवान्तरेषु।

अभ्याससिद्धिर्हि पटुकरोति शिक्षागणं कर्मसु तेषु तेषु॥१३॥



तत्र चेत्परलोकसंप्रत्ययापरिचयात्स्यादियमाशङ्का भवतः-

यत्संकुचन्ति विकसन्ति च अप्ङ्कजाति

कामं तदन्यभवचेष्टिसिद्धिरेषा।

नो चेत्तदिष्टमथ किं स्तनपानयत्नं

जात्यन्तरीयकपरिश्रमजं करोषि॥१४॥



सा चाशङ्का नानुविधेया नियमानियमदर्शनात्प्रयत्नानुपपत्त्युपपत्तिभ्यां च।



दृष्टो हि कालनियमः कमलप्रबोधे

संमीलने च न पुनः स्तनपानयत्ने।

यत्नश्च नास्ति कमले स्तनपे तु दृष्टः

सूर्यप्रभाव इति पद्मविकासहेतुः॥१५॥



तदेवं महाराज सम्यगुपपरीक्षमाणेन शक्यमेतच्छ्रद्धातुम्-अस्ति परलोक इति। अथ स राजा मिथ्यादृष्टिपरिग्रहाभिनिविष्टबुद्धित्वादुपचितपापत्वाच्च तां परलोककथां श्रुत्वा असुखायमान उवाच-भो महर्षे,



लोकः परो यदि न बालविभीषिकैषा

ग्राह्यं मयैतदिति वा यदि मन्यसे त्वम्।

तेनेह नः प्रदिश निष्कशतानि पञ्च

तत्ते सहस्रमहमन्यभवे प्रदास्ये॥१६॥



अथ बोधिसत्त्वस्तदस्य प्रागल्भ्यपरिचयनिर्विशङ्कं मिथ्यादृष्टिविषोद्गारभूतमसमुदाचारवचनं युक्तेनेव क्रमेण प्रत्युवाच-



इहापि तावद्धनसंपदर्थिनः प्रयुञ्जते नैव धनं दुरात्मनि।

न घस्मरे नानिपुणे न चालसे गतं हि यत्तत्र तदन्तमेति तत्॥१७॥



यमेव पश्यन्ति तु सव्यपत्रपं शमाभिजातं व्यवहारनैपुणम्।

ऋणं प्रयच्छन्ति रहोऽपि तद्विधे तदर्पणं ह्यभ्युदयावहं धनम्॥१८॥



क्रमश्च तावद्विध एव गम्यतामृणप्रयोगे नृप पारलौकिके।

त्वयि त्वसद्दर्शनदुष्टचेष्टिते धनप्रयोगस्य गतिर्न विद्यते॥१९॥



कुदृष्टिदोषप्रभवैर्हि दारुणैर्निपातितं त्वां नरके स्वकर्मभिः।

विचेतसं निष्कसहस्रकारणाद्रुजातुरं कः प्रतिचोदयेत्ततः॥२०॥



न तत्र चन्द्रार्ककरैर्दिगङ्गना विभान्ति संक्षिप्ततमोऽवगुण्ठनाः।

न चैव तारागणभूषणं नभः सरः प्रबुद्धैः कुमुदैरिवेक्ष्यते॥२१॥



परत्र यस्मिन्निवसन्ति नास्तिका घनं तमस्तत्र हिमश्च मारुतः।

करोति योऽस्तीन्यपि दारयन् रुजं तमात्मवान् कः प्रविशेद्धनेप्सया॥२२॥



धनान्धकारे पटुधूमदुर्दिने भ्रमन्ति केचिन्नरकोदरे चिरम्।

स्ववध्रचीरप्रविकर्षणातुराः परस्परप्रस्खलनार्तनादिनः॥२३॥



विशीर्यमाणैश्चर्णैर्मुहुर्महुर्ज्वलत्कुकूले नरके तथापरे।

दिशः प्रधावन्ति तदुन्मुमुक्षया न चान्तमायान्त्यशुभस्य नायुषः॥२४॥



आतक्ष्य तक्षाण इवापरेषां गात्रानि रौद्रा विनियम्य याम्याः।

निस्तक्ष्णुवन्त्येव शिताग्रशस्त्राः सार्द्रेषु दारुष्विव लब्धहर्षाः॥२५॥



समुत्कृत्तसर्वत्वचो वेदनार्ता विमांसीकृताः केचिदप्यस्थिशेषाः।

न चायान्ति नाशंधृता दुष्कृतैः स्वैस्तथा चापरे खण्डशश्छिद्यमानाः॥२६॥



ज्वलितपृथुखलीनपूर्णवक्त्राः स्थिरदहनासु महीष्वयोमयीषु।

ज्वलनकपिलयोक्त्रतोत्रवश्याश्चिरमपरे वलतो रथान् वहन्ति॥२७॥



संघातपर्वतसमागमपिष्टदेहाः।

केचित्तदाक्रमणचूर्णितमूर्तयोऽपि।

दुःखे महत्यविकलेऽपि च नो म्रियन्ते

यावत्परिक्षयमुपैति न कर्म पापम्॥२८॥



द्रोणिषु केचिज्ज्वलनोज्ज्वलासु लौहैर्महद्भिर्मुसलैर्ज्वलद्भिः।

समानि पञ्चापि समाशतानि संचूर्ण्यमाना विसृजन्ति नासून्॥२९॥



तीक्ष्णायसज्वलितकण्टककर्कशेषु तप्तेषु विद्रुमनिभेष्वपरे द्रुमेषु।

पाट्यन्त ऊर्ध्वमध एव च कृष्यमाणाः क्रूरै रवैरपुरुषैः पुरुषैर्यमस्य॥३०॥



ज्वलितेषु तप्ततपनीयनिभेष्वङ्गारराशिषु महत्स्वपरे।

उपभुञ्जते स्वचरितस्य फलं विस्पन्दितारसितमत्रबलाः॥३१॥



केचित्तीक्ष्णैः शङ्कशतैराततजिह्वा

ज्वालामालादीप्ततरायां वसुधायाम्।

रारट्यन्ते तीव्ररुजाविष्टशरीराः

प्रत्याय्यन्ते ते च तदानीं परलोकम्॥३२॥



आवेष्ट्यन्ते लोहपट्टैर्ज्वलद्भिर्निष्काथ्यन्ते लोहकुम्भीष्वथान्ये।

केचित्तीक्ष्णैः शस्त्रवर्षैः क्षताङ्गा निस्त्वङ्मांसा व्यालसंघैः क्रियन्ते॥३३॥



केचित्क्लान्ता वह्निसंस्पर्शतीक्ष्णं क्षारं तोयं वैतरण्यां विशन्ति।

संशीर्यन्ते यत्र मांसानि तेषां नो तु प्राणा दुष्कृतैर्धार्यमाणा॥३५॥



अशुचिकुणपमभ्युपेयिवांसो ह्रदमिव दाहपरिश्रमार्तचित्ताः।

अतुलमनुभवन्ति तत्र दुःखं क्रिमिशतजर्जरितास्थिभिः शरीरैः॥३६॥



पाट्यन्ते क्रकचैर्ज्वलद्भिरपरे केचिन्निशातैः क्षुरैः

केचिन्मुद्गरवेगपिष्टशिरसः कूजन्ति शोकातुराः।

पच्यन्ते पृथुशूलभिन्नवपुषः केचिद्विधूमेऽनले

पाय्यन्ते ज्वलिताग्निवर्णमपरे लौहं रसन्तो रसम्॥३७॥



अपरे श्वभिर्भृशबलैः शबलैरभिपत्य तीक्ष्णदशनैर्दशनैः।

परिलुप्तमांसतनवस्तनवः प्रपतन्ति दीनविरुता विरुताः॥३८॥



एवंप्रकारमसुखं निरयेषु घोरं

प्राप्तो भविष्यति (भवान्) स्वकृतप्रणुन्नः।

शोकातुरं श्रमविषादपरीतचित्तं

याचेदृणं क इव नाम तदा भवन्तम्॥३९॥



लौहीषु दुर्जनकलेवरसंकुलासु

कुम्भीष्वभिज्वलितवह्निदुरासदासु।

प्रक्वाथवेगवशगं विवशं भ्रमन्तं

याचेदृणं क इव नाम तदा भवन्तम्॥४०॥



यच्चायसज्वलितकिलनिबद्धदेहं

निर्धूमवह्निकपिले वसुधातले वा।

निर्दह्यमानवपुषं करुणं रुदन्तं

याचेदृणं क इव नाम तदा भवन्तम्॥४१॥



प्राप्तं पराभवं तं दुःखानि महान्ति कस्तदानुभवन्तम्।

याचेदृणं भवन्तं प्रतिवचनमपि प्रदातुमप्रभवन्तम्॥४२॥



विशस्यमानं हिममारुतेन वा निकूजितव्येऽपि विपन्नविक्रमम्।

विदार्यमाण भृशमार्तिनादिनं परत्र कस्त्वार्हति याचितुं धनम्॥४३॥



विहिंस्यमान पुरुषैर्यमस्य वा विचेष्टमानं ज्वलितेऽथवानले।

श्ववायसैर्व्याहृतमांसशोणितं परत्र कस्त्वा धनयाच्ञया तुदेत्॥४४॥



वधविकर्तनताडनपाटनैर्दहनतक्षणपेषाणभेदनैः।

विशसनैर्विविधैश्च सदातुरः कथमृणं प्रतिदास्यसि मे तदा॥४५॥



अथ स राजा, तां निरयकथामतिभीषणां समुपश्रुत्य जातसंवेगस्त्यक्तमिथ्यादृष्ट्यनुरागो लब्धसंप्रत्ययः परलोके, तमृषिवरं प्रणम्योवाच-



निशम्य तावन्नरेषु यातनां भयादिदं विद्रवतीव मे मनः।

कथं भविष्यामि न तां समेयिवान् वितक्रवह्निर्दहतीव मां पुनः॥४६॥



मया ह्यसद्दर्शननष्टचेतसा कुवर्मना यातमदीर्घदर्शिना।

तदत्र मे साधुगतिर्गतिर्भवान् परायणं त्वं शरणं च मे मुने॥४७॥



यथैव मे दृष्टितमस्त्वयोद्‍धृतं दिवाकरेणेव समुद्यता तमः।

तथैव मार्गं त्वमृषे प्रचक्ष्व मे भजेय येनाहमितो न दुर्गतिम्॥४८॥



अथैनं बोधिसत्त्वः संविग्नमानसमृजूभूतदृष्टिं धर्मप्रतिपत्तिपात्रभूतमवेक्ष्य पितेव पुत्रमाचार्य इव च शिष्यमनुकम्पमान इति समनुशशास-



सुशिष्यवृत्त्या श्रमणद्विजेषु पूर्वे गुणप्रेम यथा विचक्रुः।

नृपाः स्ववृत्त्या च दयां प्रजासु कीर्तिक्षमः स त्रिदिवस्य पन्थाः॥४९॥



अधर्ममस्माद् भृशदुर्जयं जयन् कदर्यभावं च दुरुतरं तरन्।

उपैहि रत्नातिशयोज्ज्वलं ज्वलन् दिवस्पतेः काञ्चनगोपुरं पुरम्॥५०॥



मनस्यसद्दर्शनसंस्तुतेऽस्तु ते रुचिस्थिरं सज्जनसंमतं मतम्।

जहीहि तं बालिशरञ्जनैजनैः प्रवेदितोऽधर्मविनिश्चयश्च यः॥५१॥



त्वया हि सद्दर्शनसाधुनाधुना नरेन्द्र वृत्तेन यियासता सता।

यदैव चित्ते गुणरूक्षता क्षता तदैव ते मार्गकृतास्पदं पदम्॥५२॥



कुरुष्व तस्माद् गुणसाधनं धनं शिवां च लोके स्वहितोदयां दयाम्।

स्थिरं च शीलेन्द्रियसंवरं वरं परत्र हि स्यादशिवं न तेन ते॥५३॥



स्वपुण्यलक्ष्म्या नृप दीप्तयाप्तया सुकृत्सु शुक्लत्वमनोज्ञयाज्ञया।

चरात्मनोऽर्थप्रतिसंहितं हितं जगद्‍व्यथां कीर्तिमनोहरं हरन्॥५४॥



त्वमत्र सन्मानससारथी रथी स्व एव देहो गुणसूरथो रथः।

अरूक्षताक्षो दमदानचक्रवान् समन्वितः पुण्यमनीषयेषया॥५५॥



यतेन्द्रियाश्वः स्मृतिरश्मिसंपदा मतिप्रतोदः श्रुतिविस्तरायुधः।

ह्रयुपस्करः संनतिचारुकूबरः क्षमायुगो दाक्षगतिर्धृतिस्थिरः॥५६॥



असद्वचःसंयमनादकूजनो मनोज्ञवाङ् मन्दगभीरनिस्वनः।

अमुक्तसंधिर्नियमाविखण्डनादसत्क्रियाजिह्मविवर्जनार्जवः॥५७॥



अनेन यानेन यशःपताकिना दयानुयात्रेण शमोच्चकेतुना।

चरन् परात्मार्थममोहभास्वता न जातु राजन्निरयं गमिष्यसि॥५८॥



इति स महात्मा तस्य राज्ञस्तदसद्दर्शनान्धकारं भास्वरैर्वचनकिरणैर्व्यवधूय प्रकाश्य चास्मै सुगतिमार्गं तत्रैवान्तर्दधे। अथ स राजा समुपलब्धपरलोकवृत्तान्ततत्त्वः प्रतिलब्धसम्यग्दर्शनचेताः सामात्यपौरजानपदो दानदमसंयमपरायणो बभूव।



तदेवं मिथ्यादृष्टिपरमाण्यवद्यानीति विशेषेणानुकम्प्याः सतां दृष्टिव्यसनगताः। एवं सद्धर्मश्रवणं परिपूर्णां श्रद्धां परिपूरयतीत्येवमप्युपनेयम्। एवं परतो धर्मश्रवणं सम्यग्दृष्ट्युत्पादप्रत्ययो भवतीत्येवमप्युपनेयम्। एवमासादनामपि सन्तस्तद्धितोपदेशेन प्रतिनुदन्ति क्षमापरिचयान्न पारुष्येणेति सत्प्रशंसायां क्षामावर्णेऽपि वाच्यम्। संवेगादेवमाशु श्रेयोभिमुखता भवतीति संवेगकथायामपि वाच्यमिति।



॥ इति ब्रह्म-जातकमेकोनत्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project