Digital Sanskrit Buddhist Canon

२८ क्षान्ति-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

28 kṣānti-jātakam

२८. क्षान्ति-जातकम्



सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नाम किंचिदस्ति। तद्यथानुश्रूयते-



बोधिसत्त्वः किलानेकदोषव्यसनोपसृष्टमर्थकामप्रधानत्वादनौपशमिकं रागद्वेषमोहामर्षसंरम्भमदमानमात्सर्यादिदोषरजसामापातं पातनं ह्रीधर्मपरिग्रहस्यायतन लोभासद्ग्राहस्य कुकार्यसंबाधत्वात्कृशवकाशं धर्मस्यावेत्य गृहवासं परिग्रहविषयपरिवर्जनाच्च तद्दोषविवेकसुखां प्रव्रज्यामनुपश्यन् शीलश्रुतप्रशमविनयनियमानसस्तापसो बभूव। तमस्खलितसमादानं क्षान्तिवर्णवादिनं तदनुरूपधर्माख्यानक्रमं व्यतीत्य स्वे नामगोत्रे क्षान्तिवादिनमित्येव लोकः स्वबुद्धिपूर्वकं संजज्ञे।



एश्वर्यविद्यातपसां समृद्धिर्लब्धप्रयामश्च कलासु सङ्गः।

शरीरवाक्चेष्टितविक्रियाश्च नामापरं संजनयन्ति पुंसाम्॥१॥



जानन् स तु क्षान्तिगुणप्रभावं तेनात्मवल्लोकमलंकरिष्यन्।

चकार यत्क्षान्तिकथाः प्रसक्तं तत्क्षान्तिवादीति ततो विजज्ञे॥२॥



स्वभावभूता महती क्षमा च परापकारेष्वविकारधीरा।

तदर्थयुक्ताश्च कथाविशेषाः कीर्त्या मुनिं तं प्रथयांबभूवुः॥३॥



अथ स महात्मा प्रविविक्तरमणीयं समर्तुसुलभपुष्पफलं पद्मोत्पलालंकृतविमलसलिलाशयमुद्यानरम्यशोभं वनप्रदेशमध्यासनात्तपोवनमङ्गल्यतामानिनाय।



निवसन्ति हि यत्रैव सन्तः सद्गुणभूषणाः।

तन्मङ्गल्यं मनोज्ञं च तत्तीर्थं तत्तपोवनम्॥४॥



स तत्र बहुमन्यमानस्तदध्युषितैर्देवताविशेषैरभिगम्यमानश्च श्रेयोभिलाषिणागुणवत्सलेन जनेन क्षान्तिप्रतिसंयुक्ताभिः श्रुतिहृदयल्हादिनीभिर्धर्म्याभिः कथाभिसतस्य जनकायस्य परमनुग्रहं चकार।



अथ कदाचित्ततस्त्यो राजा ग्रीष्मकालप्रभावादभिलषणीयतरां सलिलक्रीडां प्रति समुत्सुकमतिरुद्यानगुणातिशयनिकेतभूतं तं वनप्रदेशं सान्तःपुरः समभिजगाम।



स तद्वनं नन्दनरम्यशोभमाकीर्णमन्तःपुरसुन्दरीभिः।

अलंचकारेव चरन् विलासी विभूतिमत्या ललितानुवृत्त्या॥५॥



विमानदेशेषु लतागृहेषु लतागृहेषु पुष्पप्रहासेषु महीरुहेषु।

तोयेषु चोन्मीलितपङ्कजेषु रेमे स्वभावातिशयैर्वधूनाम्॥६॥



माल्यासवस्नानविलेपनानां संमोदगन्धाकुलितैर्द्विरेफैः।

ददर्श कासांचिदुपोह्यमाना जातस्मितस्त्रासविलासशोभाः॥७॥



प्रत्यग्रशोभैरपि कर्णपूरैः पर्याप्तमाल्यैरपि मूर्धजैश्च।

तृप्तिर्यथासीत्कुसुमैर्न तासां तथैव नासां ललितैर्नृपस्य॥८॥



विमानदेशेषु विषज्यमाना विलम्बमानाः कमलाकरेषु।

ददर्श राजा भ्रमरायमाणाः पुष्पद्रुमेषु प्रमदाक्षिमालाः॥ ९॥



मदप्रगल्भान्यपि कोकिलानां रुतानि नृत्यानि च बर्हिणानाम्।

द्विरेफगीतानि च नाभिरेजुस्तत्राङ्गनाजल्पितनृत्तगीतैः॥१०॥



पयोदधीरस्तनितैर्मृदङ्गैरुदीर्णकेकास्ततबर्हचक्राः।

नता इव स्वेन कलगुणेन चक्रुर्मयूराः क्षितिपस्य सेवाम्॥११॥



स तत्र सान्तःपुर उद्यानवनविहारसुखं प्रकाममनुभूय क्रीडाप्रसङ्गपरिखेदान्मदपरिष्वङ्गाच्च श्रीमति विमानप्रदेशे महार्हशयनीयवरगतो निद्रावशमुपजगाम। अथ ता योषितः प्रस्तावान्तरगतमवेत्य राजानं वनशोभाभिराक्षिप्यमाणहृदयास्तद्दर्शनावितृप्ता यथाप्रीतिकृतसमवायाः समाकुलभूषणतिनादसंमिश्रकलप्रलापाः समन्ततः प्रसस्रुः।



ताश्च्छत्रवालव्यजनासनाद्यैः प्रेष्याधृतैः काञ्चनभक्तिचित्रैः।

एश्वर्यचिह्नैरनुगम्यमानाः स्त्रियः स्वभावानिभृतं विचेरुः॥१२॥



ताः प्राप्य रूपाणि महीरुहाणां पुष्पाणि चारूणि च पल्लवानि।

प्रेष्याप्रयत्नानतिपत्य लोभादालेभिरे स्वेन पराक्रमेण॥१३॥



मार्गोपलब्धान् कुसुमाभिरामान् गुल्मांश्चलत्पल्लविनश्च वृक्षान्।

पर्याप्तपुष्पाभरणस्रजोऽपि लोभादनालुप्य न ता व्यतीयुः॥१४॥



अथ ता वनरमणीयतयाक्षिप्यमाणहृदया राजयोषितस्तद्वनमनुविचरन्त्यः क्षान्तिवादिन आश्रमपदमुपजग्मुः। विदिततपःप्रभावमाहात्म्यास्तु तस्य मुनेः स्त्रीजनाधिकृता राज्ञो वाल्लभ्याद् दुरासदत्वाच्च तासां नैनास्ततो वारयितुं प्रसेहिरे। अभिसंस्काररमणीयतरया चाश्रमपदश्रिया समाकृष्यमाणा इव ता योषितः प्रविश्याश्रमपदं ददृशुस्तत्र तं मुनिवरं प्रशमसौम्यदर्शनमतिगाम्भीर्यातिशयाद् दुरासदमभिज्वलन्तमिव तपःश्रिया ध्यानाभियोगादुदारविषयसंनिकर्षेऽप्यक्षुभितेन्द्रियनैभृत्यशोभं साक्षाद्धर्ममिव मङ्गल्यं पुण्यदर्शनं वृक्षमूले बद्धासनमासीनम्।



अथ ता राजस्त्रियस्तस्य तपस्तेजसाक्रान्तसत्त्वाः संदर्शनादेव त्यक्तविभ्रमविलासौद्धत्या विनयनिभृतमभिगम्यैनं पर्युपासांचक्रिरे। स तासां स्वागतादिप्रियवचनपुरःसरमतिथिजनमनोहरमुपचारविधिं प्रवर्त्य तत्परिप्रश्नोपपादितप्रस्तावाभिः स्त्रीजनसुखग्रहणार्थाभिर्दृष्टान्तवतीभिः कथाभिर्धर्मातिथ्यमासां चकार।



अगर्हितां जातिमवाप्य मानूषीमनूनभावं पटुभिस्तथेन्द्रियैः।

अवश्यमृत्युर्न करोति यः शुभं प्रमादभाक्प्रत्यहमेष वञ्च्यते॥१५॥



कुलेन रूपेण वयोगुणेन वा बलप्रकर्षेण धनोदयेन वा।

परत्र नाप्नोति सुखानि कश्चन प्रदानशीलादिगुणैरसंस्कृतः॥१६॥



कुलादिहीनोऽपि हि पापनिःस्पृहः प्रदानशीलादिगुणाभिपत्तिमान्।

परत्र सौख्यैरभिसार्यते ध्रुवं घनागमे सिन्धुजलैरिवार्णवः॥१७॥



कुलस्य रूपस्य वयोगुणस्य वा बलप्रकर्षस्य धनोच्छ्रयस्य वा।

इहाप्यलंकारविधिर्गुणादरः समृद्धिसूचैव तु हेममालिका॥१८॥



अलंक्रियन्ते कुसुमैर्महीरुहास्तडिद्गुणैस्तोयविलम्बिनो घनाः।

सरांसि मत्तभ्रमरैः सरोरुहैर्गुणैर्विशेषाधिगतैस्तु देहिनः॥१९॥



अरोगतायुर्धनरूपजातिभिर्निकृष्टमध्योत्तमभेदचित्रता।

जनस्य चेयं न खलु स्वभावतः पराश्रयाद्वा त्रिविधा तु कर्मणः॥२०॥



अवेत्य चैवं नियतां जगत्स्थितिं चलं विनाशप्रवणं च जीवितम्।

जहीत पापानि शुभक्रमाशयादयं हि पन्था यशसे सुखाय च॥२१॥



मनःप्रदोषस्तु परात्मनोर्हितं विनिर्दहन्नग्निरिव प्रवर्तते।

अतः प्रयत्नेन स पापभीरुणा जनेन वर्ज्यः प्रतिपक्षशंश्रयात्॥२२॥



यथा समेत्य ज्वलितोऽपि पावकस्तटान्तसंसक्तजलां महानदीम्।

प्रशान्तिमायातिमनोज्वलस्तथा श्रितस्य लोकद्वितयक्षमां क्षमाम्॥२३॥



इति क्षान्त्या पापं परिहरति तद्धेत्वभिभवा-

दतश्चायं वैरं न जनयति मैत्र्याश्रयबलात्।

प्रियः पूज्यश्चास्माद्भवति सुखभागेव च ततः

प्रयात्यन्ते च द्यां स्वगृहमिव पुण्याश्रयगुणात्॥२४॥



अपि च भवत्यः क्षान्तिर्नामैषा-

शुभस्वभावातिशयः प्रसिद्धः पुण्येन कीर्त्या च परा विवृद्धिः।

अतोयसंपर्ककृता विशुद्धिस्तैस्तैर्गुणौघैश्च परा समृद्धिः॥२५॥



परोपरोधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा।

गुणाभिनिर्वार्तितचारुसंज्ञा क्षमेति लोकार्थकरी कृपाज्ञा॥२६॥



अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसपदग्र्या।

व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः॥२७॥



क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः।

प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति॥२८॥



हन्तीति या धर्मविपक्षमायां प्राहुः सुखं चिव विमोक्षमायाम्।

तस्मान्न कुर्यात्क इव क्षमायां प्रयत्नमेकान्तहितक्षमायाम्॥२९॥



इति स महात्मा तासां धर्मातिथ्यं चकार। अथ स राजा निद्राक्लमविनोदनात्प्रतिविबुद्धः सावशेषमदगुरुनयनो मदनानुवृत्त्या कुत्र देव्य इति शयनपालिकाः सभ्रूक्षेपं पर्यपृच्छत्। एता देव वनान्तराण्युपशोभयमानास्तद्विभूतिं पश्यन्तीति चोपलभ्य शयनपालिकाभ्यः स राजा देवीजनस्य विस्रम्भनिर्यन्त्रणहसितकथितद्रवविचेष्टितदर्शनोत्सुकमतिरुत्थाय शयनाद्युवतिधृतच्छत्रव्यजनोत्तरीयखङ्गः सकञ्चुकैर्वेत्रदण्डपाणिभिरन्तपुरावचरैः कृतानुयात्रस्तद्वनमनुविचचार। स तत्र युवतिजनानैभृत्यविरचितां विविधकुसुमस्तबकपल्लवनिकप्रपद्धतिं ताम्बूलरसरागविचित्रामनुसरंस्तदाश्रमपदमभिजगाम। दृष्टैव तु स राजा क्षान्तिवादिनं तमृषिवरं देविजनपरिवृतं पूर्ववैरानुशयदोषान्मदपरिभ्रमितस्मृतित्वादीर्ष्यापराभूतमतित्वाच्च परं कोपमुपजगाम। प्रतिसंख्यानबलवैकल्याच्च भ्रष्टविनयोपचारसौष्ठवः संरम्भपाप्माभिभवादापतितस्वेदवैवर्ण्यवेपथुर्भ्रूभङ्गजिह्मविवृत्तस्थिराभिताम्रनयनो विरक्तकान्तिलावण्यशोभः प्रचलत्कनकवलयौ परिमृद्नन् साङ्गलिविभूषणौ पाणी तमृषिवरमधिक्षिपंस्तत्तदुवाच। हंहो-



अस्मत्तेजः खलीकृत्य पश्यन्नन्तःपुराणि नः।

मुनिवेषप्रतिच्छन्नः कोऽयं वैतंसिकायते॥३०॥



तच्छ्रुत्वा वर्षवराः ससंभ्रमावेगा राजनमूचुः-देव मा मैवम्। चिरकालसंभृतव्रतनियमतपोभावितात्मा मुनिरयं क्षान्तिवादी नामेति। उपहताध्याशयत्वात्तु स राजा तत्तेषां वचनमप्रतिगृह्णन्नुवाच-कष्टं भोः !



चिरात्प्रभृति कोलोऽयमेवमेतेन वञ्च्यते।

कुहनाजिह्मभावेन तापसाकुम्भसात्मना॥३१॥



तदयमस्य तापसनेपथ्यावच्छादितं मायशाठ्यसंभृतं कुहकस्वभावं प्रकाषयामीत्युक्त्वा प्रतिहारीहस्तादसिमादाय हन्तुमुत्पतितनिश्चयस्तमृषिवरं सपत्नवचभिजगाम। अथ ता देव्यः परिजननिवेदिताभ्यगमनमालोक्य राजानं क्रोधसंक्षिप्तसौम्यभावं वितानीभूतहृदयाः ससंभ्रमावेगचञ्चलनयनाः समुत्थायाभिवाद्य च तमृषिवरं समुद्यताञ्जलिकुड्मलाः शरन्नलिन्य इव समुद्गतैकपङ्कजाननमुकुला राजानमभिजग्मुः।



तत्तासां समुदाचारलीलाविनयसौष्ठम्।

न तस्य शमयामास क्रोधाग्निज्वलितं मनः॥३२॥



लब्धतरप्राणप्रसरास्तु ता देव्यः ससंरम्भविकारसमुदाचाररूक्षक्रमं सायुधमभिपतन्तं तमुदीक्ष्य राजानं तमृषिवरं प्रति विवर्तिताभिनिविस्टदृष्टिं समावृण्वत्य ऊचुः-देव मा मा खलु साहसं कार्षीः। क्षान्तिवादी भगवानयमिति। प्रदुष्टभावात्तु स राजा समावर्जितभावा नूनमनेनेमा इति सुष्ठुतरं कोपमुपेत्य स्फुटरं भ्रूभङ्गैरसूयासमावेशतीक्ष्णैस्तिर्यगवेक्षितैस्तत्तासां प्रणयप्रागल्भ्यमवभर्त्स्य सरोषमवेक्षमाणः स्त्रीजनाधिकृताञ्छिरःकम्पादाकम्पमानकुण्डलमुकुटविटपस्ता योषितोऽभिवीक्षमाण उवाच-



वदत्येव क्षमामेष न त्वेनां प्रतिपद्यते।

तथा हि योषित्संपर्कतृष्णा न क्षान्तवानयम्॥३३॥



वागन्यथान्यैव शरीरेचेष्टा दुष्टाशयं मानसमन्यथैव।

तपोवने कोऽयमसंयतात्मा दम्भव्रताडम्बरधीरमास्ते॥३४॥



अथ ता देव्यस्तस्मिन् राजनि क्रोधसंरम्भकर्कशहृदये प्रत्याहतप्रणयाः प्रजानानाश्च तस्य राज्ञश्चण्डतां दुरनुनेयतां च वैमनस्यदैन्याक्रान्तमनसः स्त्रीजनाधिकृतैर्भयविषादव्याकुलितैर्हस्तसंज्ञाभिरपसार्यमाणा व्रीडावनतवदनास्तमृषिवर्यं समनुशोचन्त्यस्ततोऽपचक्रमुः।



अस्मन्निमित्तमपराधविवर्जितेऽपि

दान्ते तपस्विनि गुणप्रतितेऽप्यमुष्मिन्।

को वेत्ति कामपि विवृत्य विकारलीलं

केनापि यास्यपि पथा क्षितिपस्य रोषः॥३५॥



क्षितीशवृत्तिं प्रतिलब्धकीर्तिं तनुं मुनेरस्य तपस्तनुं च।

अमून्यनागांसि च नो मनांसि तुल्यं हि हन्यादपि नाम राजा॥३६॥



इति तासु देवीष्वनुशोचितविनिःश्वसितमात्रपरायणास्वपयातासु स राजा तमृषीवरं संतर्जयन् रोषवशन्निष्कृष्य खङ्गं स्वयमेव च्छेत्तुमुपचक्रमे। निर्विकारधीरमसंभ्रान्तस्वस्थचेष्टितं च तं महासत्त्वमासाद्यमानमप्यवेक्ष्य संरम्भितरमेनमुवाच-



दाण्डाजिनिकतानेन प्रकर्षं गमिता यथा।

उद्वहन् कपटाटोपं मुनिवन्मामपीक्षते॥३७॥



अथ बोधिसत्त्वः क्षान्तिपरिचयादविचलितधृतिस्तेनासत्कारप्रयोगेण तं राजानं रोषसंरम्भविरूपचेष्टितं भ्रष्टविनयोपचारश्रियं विस्मृतात्महिताहितपथमागतविस्मयः क्षणमभिवीक्ष्य करूणायमानः समुनेष्यन्नियतमीदृशं किंचिदुवाच-



भाग्यापराधजनितोऽप्यपमानयोगः

संदृश्यते जगति तेन न मेऽत्र चिन्ता।

दूःखं तु मे यदुचिताभिगतेसु वृत्ति-

र्वाचापि न त्वयि मया क्रियते यथार्हम्॥३८॥



अपि च महाराज,



असत्प्रवृत्तान् पथि संनियोक्ष्यता भवद्विधानां जगदर्थकारिणाम्।

न युक्तरूपं सहसा प्रवर्तितुं विमर्शमार्गोऽप्यनुगम्यतां यतः॥३९॥



अयुक्तवत्साध्वपि किंचिदीक्ष्यते प्रकाशतेऽसाध्वपि किंचिदन्यथा।

न कार्यतत्त्वं सहसैव लक्ष्यते विमर्शमप्राप्य विशेषहेतुभिः॥४०॥



विमृश्य कार्यं त्ववगम्य तत्त्वतः प्रपद्य धर्मेण च नीतिवर्त्मना।

महान्ति धर्मार्थसुखानि साधयजनस्य तैरेव न हीयते नृपः॥४१॥



विनीय तस्मादतिचापलान्मति यशस्यमेवार्हसि कर्म सेवितुम्।

अभिप्रथन्ते ह्यभिलक्षितात्मनामदृष्टपूर्वाश्चरितेष्वतिक्रमाः॥४२॥



तपोवने त्वद्भुजवीर्यरक्षिते परेण यन्नाम कृतं न मर्षयेः।

हितक्रमोन्माथि यदार्यगर्हितं स्वयं महीनाथ कथं व्यवस्यसि॥४३॥



स्त्रियोऽभियाता यदि ते ममाश्रमं यदृच्छयान्तःपुररैक्षिभिः सह।

व्यतिक्रमस्तत्र च नो भवेत्कियान् रुषायदेवं गमितोऽसि विक्रियाम्॥४४॥



अथाप्ययं स्यादपराध एव मे क्षमा तु शोभेत तथापि ते नृप।

क्षमा हि शक्तस्य परं विभूषणं गुणानुरक्षानिपूनत्वसूचनात्॥४५॥



कपोललोलद्युतिनीलकुण्डले न मौलिरत्नद्युतयः पृथग्विधाः।

तथाभ्यलंकर्तुमलं नृपान्यथा क्षमेति नैनामवमन्तुमर्हसि॥४६॥



त्यजाक्षमां नित्यमसंश्रयक्षमां क्षमामिवारक्षितुमर्हसि क्षमाम्।

तपोधनेष्वभ्युदिता हि वृत्तयः क्षितीश्वराणां बहुमानपेशलाः॥४७॥



इत्यनुनीयमानोऽपि स राजा तेन मुनिवरेणानार्जवोपहतमतिस्तमन्यथैवाभिशङ्कमानः पुनरुवाच-



न तापसच्छद्म बिभर्ति चेद्भवान्

स्थितोऽसि वा स्वे नियमव्रते यदि।

क्षमोपदेशव्यपदेशसंगतं

किमर्थमस्मादभयं प्रयाचसे॥४८॥



बोधिसत्त्व उवाच-श्रूयतां महाराज यदर्थोऽयं मम प्रयत्नः।



अनागसं प्रव्रजितमवधीद् ब्राह्मणं नृपः।

इति ते मत्कृते मा भूद्यशो वाच्यविजर्जरम्॥४९॥



मर्तव्यमिति भूतानामयं नैयमिको विधिः।

इति मे न भयं तस्मात्स्वं वृत्तं चनुपश्यतः॥५०॥



सुखोदर्कस्य धर्मस्य पीडा मा भुत्तथैव तु।

क्षमामित्यवदं तुभ्यं श्रेयोभिगमनक्षमाम्॥५१॥



गुणानामाकरत्वाच्च दोषाणां च निवारणात्।

प्राभृतातिशयप्रीत्या कथयामि क्षमामहम्॥५२॥



अथ स राजा सूनृतान्यपि तान्यनादृत्य तस्य मुनेर्वचनकुसुमानि सासूयं तमृषिवरमुवाच-द्रक्ष्याम इदानीं ते क्षान्त्यनुरागमित्युक्त्वा निवारणार्थमिषदभिप्रसारितमभ्युच्छ्रितप्रतनुदीर्घाङ्गलिं तस्य मुनेर्दक्षिणं पाणिं निशितेनासिना कमलमिव नालदेशाद् व्ययोजयत्।



छिन्नेऽग्रहस्तेऽपि तु तस्य नासीद्-

दुःखं तथा क्षान्तिदृढव्रतस्य।

सुखोचितस्याप्रतिकारघोरं

छेत्तुर्यथागामि समीक्ष्य दुःखम्॥५३॥



अथ बोधिसत्त्वः कष्टमतिक्रान्तोऽयं स्वहितमर्यादामपात्रीभूतोऽनुनयस्येति वैद्य प्रत्याख्यातमानुरमिवैनं समनुशोचंस्तूष्णींबभूव। अथैनं स राजा संतर्जयन् पुनरुवाच-



एवं चाच्छिद्यमानस्य नाशमेष्यति ते तनुः।

मुञ्च दम्भव्रतं चेदं खलबुद्धिप्रलम्भनम्॥५४॥



बोधिसत्त्वस्त्वनुनयाक्षममेनं विदित्वायं च नामास्य निर्बन्ध इति नैनं किंचिदुवाच। अथ स राजा तस्य महात्मनो द्वितीयं पाणिभूमौ बाहु कर्णनासं चरणौ तथैव निचकर्त।



पतति तु निशितेऽप्यसौ शरीरे न मुनिवरः स शुशोच नो चुकोप।

परिविदितशरीरयन्त्रनिष्ठः परिचितया च जने क्षमानुवृत्त्या॥५५॥



गात्रच्छेदेऽप्यक्षतक्षान्तिधीरं चित्तं तस्य प्रेक्षमाणस्य साधोः।

नासीद् दुःखं प्रीतियोगान्नृपं तु भ्रष्टं धर्माद्विक्ष्य संतापमाप॥५६॥



प्रतिसंख्यानमहतां न तथा करुणात्मनाम्।

बाधते दुःखमुत्पन्नं परानेव यथाश्रितम्॥५७॥



घोरं तु तत्कर्मः नृपः स कृत्वा सद्यो ज्वरेणानुगतोऽग्निनेव।

विनिर्गतश्चोपवनान्तदेशाद् गां चावदीर्णां सहसा विवेश॥५८॥



निमग्ने तु तस्मिन् राजनि भीमशब्दमवदीर्णायां वह्निज्वालाकुलायां समुद्भूते महति कोलाहले समन्ततः प्रक्षुभिते व्याकुले राजकुले तस्य राज्ञोऽमात्या जानानास्तस्य मुनेस्तपःप्रभावमाहात्म्यं तत्कृतं च राज्ञो धरणीतलनिमज्जनं मन्यमानाः पुरायमृषिवरस्तस्य राज्ञो दोषात्सर्वमिदं जनपदं निर्दहतीति जातभयाशङ्काः समभिगम्य तमृषिवरमभिप्रणम्य क्षमयमाणाः कृताञ्जलयो विज्ञापयामासुः-



इमामवस्थां गमितोऽसि येन नृपेणे मोहादतिचापलेन।

शापानलस्येन्धनतां स एव प्रयातु ते मा पुरमस्य क्षाक्षीः॥५९॥



स्त्रीबालवृद्धातुरविप्रदीनाननागसो नार्हसि दग्धुमत्र।

तत्साधु देशं क्षितिपस्य तस्य स्वं चैव धर्मं गुणपक्ष रक्ष॥६०॥



अथैतान् बोधिसत्त्वः समाश्वासयन्नुवाच-मा भैष्ट आयुष्मन्तः।



सपाणिपादमसिना कर्णनासमनागसः।

छिन्नवान् योऽपि तावन्मे वने निवसत सतः॥६१॥



कथं तस्यापि दुःखाय चिन्तयेदपि मद्विधः।

चिरं जीवत्वसौ राजा मा चैनं पापमागमत्॥६२॥



मरणव्याधिदुःखार्ते लोभद्वेषवशीकृते।

दग्धे दुश्चरितैः शोच्ये कः कोपं कर्तुमर्हति॥६३॥



स्याल्लभ्यरूपस्तु यदि क्रमोऽयं मय्येव पच्येत तदस्य पापम्।

दुःखानुबन्धो हि सुखोचितानां भवत्यदीर्घोऽप्यविषह्यतीक्ष्णः॥६४॥



त्रातुं न शक्यस्तु मया यदेवं विनिर्दहन्नात्महितं स राजा।

उत्सृज्य तामात्मगतामशक्तिं राज्ञे करिष्यामि किमित्यसूयाम्॥६५॥



ऋतेऽपि राज्ञो मरणादिदुःखं जातेन सर्वेण निषेवितव्यम्।

जन्मैव तेनात्र न मर्षणीयं तन्नास्ति चेत्किं च कुतश्च दुःखम्॥६६॥



कल्पाननल्पान् बहुधा विनष्टं शरीरकं जन्मपरंपरासु।

जह्यां कथं तत्प्रलये तितिक्षां तृणस्य हेतोरिव रत्नजाटम्॥६७॥



वने वसन् प्रव्रजितप्रतिज्ञः क्षमाभिधायी नचिरान्मरिष्यन्।

किमक्षमायां प्रणयं करिष्ये तद्भैष्ट मा स्वस्ति च वोऽस्तु यात्॥६८॥



इति स मुनिवरोऽनुशिष्य तान् सममुपनीय च साधुशिष्यताम्।

अविचलितधृतिः क्षमाश्रयात्समधिरुरोह दिवं क्षमाश्रयात्॥६९॥



तदेवं सात्मीभूतक्षमाणां प्रतिसंख्यानमहतां नाविषह्यं नामास्तीति क्षान्तिगुणसंवर्णने मुनिमुपनीय वाच्यम्। चापलाक्षान्तिदोषनिदर्शने राजानमुपनीय कामादिनवकथायामपि वाच्यम्-एवं कामहेतोर्दुश्चरितमासेव्य विनिपातभागिनो भवन्तीति। संपदामनित्यतासंदर्शने चेति।



॥इति क्षान्ति-जातकमष्टाविंशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project