Digital Sanskrit Buddhist Canon

२७ महाकपि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

27 mahākapi-jātakam

२७. महाकपि-जातकम्



द्विषतामपि मानसान्यावर्जयन्ति सद्‍वृत्तानुवर्तिनः। तद्यथानुश्रूयते-

बोधिसत्त्वः किल श्रीमति हिमवत्कुक्षौ विविधरसविर्यविपाकगुणैर्बहुभिरोषधिविशेषैः परिगृहीतभूमिभागे नाणाविधपुष्पफलपल्लवपत्रविटपरपरचनैर्महीरुहशतैराकीर्णे स्फटिकदलामलसलिलप्रस्रवणे विविधपक्षिगणनादनादिते वानरयूथाधिपतिर्बभूव। तदवस्थमपि चैनं त्यागकारुण्याभ्यासात्प्रतिपक्षसेवाविरोधितानीवेर्ष्यामात्सर्यक्रौर्याणि नोपजग्मुः। स तत्र महान्तं न्यग्रोधपादपं पर्वतशिखरमिव व्योमोल्लिखन्तमधिपतिमिव तस्य वनस्य मेघसंघातमिव प्रत्यन्धकारविटपमाकीर्णपर्णतया तालफलाधिकतरप्रमाणैः परमस्वादुभिर्मनोज्ञवर्णगन्धैः फलविशेषैरानम्यमानशाखं निश्रित्य विजहार।



तिर्यग्गतानामपि भाग्यशेषं सतां भवत्येव सुखाश्रयाय।

कर्तव्यसंबन्धि सुहृज्जनानां विदेशगानामिव वित्तशेषम्॥१॥



तस्य तु वनस्पतेरेका शाखा तत्समीपगां निम्नगामभि प्रणताभवत्। अथ बोधिसत्त्वो दीर्घदर्शित्वात्तद्वानरयूथं समनुशशास - अस्यां न्योग्रोधशाखायामफलायामकृतायां न वः केन चिदन्यतः फलमुपभोक्तव्यमिति।



अथ कदाचित्तस्यां शाखायां पिपीलिकाभिः पर्णपुटावच्छादितं तरुणत्वान्नातिमहदेकं फलं न ते वानरा ददृशुः। तत्क्रमेणाभिवर्धमानं वर्णगन्धरसमार्दवोपपन्नं परिपाकवशाच्छिथिलबन्धनं तस्यां नद्यां निपपात। अनुपूर्वेण वाह्यमान नदीस्त्रोतसाऽन्यतमस्य राज्ञः सान्तःपुरस्य तस्यां नद्यां सलिलक्रीडामनुभवतो जालकरण्डकपार्श्वे व्यासज्यत।



तत्स्नानमाल्यासववासगन्ध संश्लेषसंपिण्डितमङ्गनानाम्।

विसर्पिणा स्वेन तिरश्चकार घ्राणाभिरामेण गुणोदयेन॥२॥



तद्गन्धमत्ताः क्षाणमङ्गनास्ता दीर्घीकृतोच्छ्वासविकुञ्चिताक्ष्यः।

भुत्वाथ कौतूहलचञ्चलानि विचिक्षिपुर्दिक्षु विलोचनानि॥३॥



कतुहलप्रसृतलोलतरनयनास्तु ता योषितस्तन्न्यग्रोधफलं परिपक्वतालफलाधिकतरप्रमाणं जालकरण्डकपार्श्वतो विलग्नमवेक्ष्य किमिदमिति तदावर्जितनयनाः समप्द्यन्त सह राज्ञा। अथ स राजा तत्फलमानाय्य प्रात्ययिकवैद्यजनपरिदृष्टं स्वयमास्वादयामास।



अद्भूतेन रसेनाथ नृपस्तस्य विसिष्मिये।

अद्भूतेन रसेनेव प्रयोगगुणहारिणा॥४॥



अपूर्ववर्णगन्धाभ्यां तस्याकलितविस्मयः।

ययौ तद्रससंरागात्परां विस्मयविक्रियाम्॥५॥



अथ तस्य राज्ञः स्वादुरसभोजनसमुचितस्यापि तद्रससंरागवशगस्यैतद भवत्-



यो नाम नामूनि फलानि भुङ्क्ते स कानि राज्यस्य फलानि भुङ्क्ते।

यस्यान्नमेतत्तु च एव राजा विनैव राजत्वपरिश्रमेण॥६॥



स तत्प्रभवान्वेषणकृतमतिः स्वबुद्ध्या विममर्श-व्यक्तमयं तरुवर इतो नातिदूरे नदीतीरसंनिविष्टश्च यस्येदं फलम् ! तथा ह्यनुपहतवर्णगन्धरसमदीर्घकालसलिलसंपर्कादपरिक्षतमजर्जरं च यतः शक्यमस्य प्रभवोऽधिगन्तुमिति निश्चयमुपेत्य तद्रसतृष्णया आकृष्यमाणो विरम्य जलक्रीडायाः सम्यक् पुरवरे स्वे रक्षाविधानं संदिश्य यात्रासज्जेन महता बलकायेन परिवृतस्तां नदीमनुससार। क्रमेण चोत्सादयन् सश्वापदगणानि वनगहनानि समनुभवं श्चत्राणि रसान्तराणि पश्यन्नकृत्रिमरमणीयशोभानि वनान्तराणि संत्रासयन् पटहरसितैरवन्यगजमृगान् मानुषजनदुर्गमं तस्य वनस्पतेः समीपमुपजगाम।



तं मेघवृन्दमिव तोयभरावसन्नमासन्नशैलमपि शैलवदीक्ष्यमाणम्।

दूराद्ददर्श नृपतिः स वनस्पतीन्द्रमुल्लोक्यमानमधिराजमिवान्यवृक्षैः॥७॥



परिपक्वसहकारफलसुरभितरेण च निर्हारिणा अतिमनोज्ञेन गन्धेन प्रत्युद्गत इव तस्य पादपस्य अयं स वनस्पतिरिति निश्चयमुपजगाम। समुपेत्य चैनं ददर्श तत्फलोपभोगव्यापृतैरनेकवानरशतैराकीर्णविटपम्।



अथ स राजा समभिलषितार्थविप्रलोपिनस्तान् वानरान् प्रत्यभिक्रुद्धमतिः-हत हतैतान्। विध्वंसयत विनाशयत सर्वान् वानरजाल्मानिति सपरुषाक्षरं स्वान् पुरुषानादिदेश। अथ ते राजपुरुषाः सज्यचापबाणव्यग्रकराग्रा वानरावभर्त्सनमुखराः समुद्यतलोष्टदण्डशस्त्राश्चापरे परदुर्गमिवाभिरोद्‍धुकामास्तं वनस्पतिमभिसस्रुः। अथ बोधिसत्त्वस्तुमुलं तद्राजबलमनिलजवाकलितमिवार्णवजलमनिभृतकलकलारावमभिपतदालोक्याशनिवर्षेणेव समन्ततो विकीर्यमाणं तरुवरं शरलोष्टदण्डशस्त्रवर्षेण भयविरसविरावमात्रपरायणं च विकृतदीनमुखमुन्मुखं वानरगणमवेक्ष्य महत्या करुणया समाक्रम्यमाणचेतास्त्यक्तविषाददैन्यसंत्रासः समाश्वास्य तद्वानरयूथं तत्परित्राणव्यवसितमतिरभिरुह्य तस्य वनस्पतेः शिखरं तत्समासन्नं गिरितटं लङ्घयितुमियेष। अथानेकप्रस्कन्दनक्रमप्राप्यमपि तं गिरितटं स महासत्त्वः स्ववीर्यातिशयात्खग इवाधिरुरोह।



द्वाभ्यामपि लङ्घनक्रमाभ्यां गम्यं नैव तदन्यवानराणाम्।

वेगेन यदन्तरं तरस्वी प्रतताराल्पमिवैकविक्रमेण॥ ८॥



कृपयाभिविवर्धितः स तस्य व्यवसायः पटुतां जगाम शौर्यात्।

स च यत्नविशेषमस्य चक्रे मनसैवाथ जगाम यत्नतैक्ष्ण्यात्॥९॥



अधिरुह्य च गिरेरुच्चतरं तातप्रदेशं तदन्तरालाधिकप्रमाणया महत्या विरूढयाऽशिथिलमूलया दृढया वेत्रलतया गाढमाबध्य चरणौ पुनस्तं वनस्पतिं प्रचस्कन्दः। विप्रकृष्टत्वात्तु तस्यान्तरालस्य चरणबन्धनव्याकुलत्वाच्च स महासत्त्वः कथंचित्तस्य वनस्पतेरग्रशाखां कराभ्यां समाससाद।



ततः समालम्ब्य दृढं स शाखामातत्य तां वेत्रलतां च यत्नात्।

स्वसंज्ञया यूथमथादिदेश द्रुमादतः शिघ्रमभिर्पयायात्॥१०॥



अथ ते वानरा भयातुरत्वादपयानमार्गमासाद्य चपलतरगतयस्तदाक्रमणनिर्विशङ्कास्तया स्वस्त्यपचक्रमुः।



भयातुरैस्तस्य तु वानरैस्तैराक्रम्यमाणं चरणैः प्रसक्तम्।

गात्रं ययौ स्वैः पिशितैर्वियोगं न त्वेव धैर्यातिशयेन चेतः॥११॥



तद्‍दृष्ट्वा स राजा ते च राजपुरुषाः परां विस्मयवक्तव्यतामुपजग्मुः।

एवंविधा विक्रमबुद्धिसम्पदात्मानपेक्षा च दया परेषु।

आश्चर्यबुद्धिं जनयेच्छ्रुतापि प्रत्यक्षतः किं पुनरीक्ष्यमाणा॥१२॥



अथ स राजा तान् पुरुषान् समादिदेश-भयोद्भ्रान्तवानरगणचरणक्षोभितक्षतशरीरश्चिरमेकक्रमावस्थानाच्च दृढं परिश्रान्तो व्यक्तमयं वानराधिपतिः न चाय मतः शक्ष्यति स्वयमात्मानं संहर्तुम्, तच्छ्रीघ्रमस्याधः पटवितानं वितत्य वित्रलतेयं च न्यग्रोधशाखा शाराभ्यां युगपत्प्रच्छिद्येतामिति। ते तथा चक्रुः। अथैनं स राजा शनकैर्वितानादवतार्य मुर्छया व्रणवेदनाक्लमोपजातया समाक्रम्यमाणचेतसं मृदुनि शयनीये संवेशयामास। सद्यःक्षतप्रशमनयोग्यैश्च सर्पिरादिभिरस्य व्रणान्यभ्यज्य मन्दीभूतपरिश्रमं समाश्वस्तमेनमभ्युपगम्य स राजा सकौतूहलविस्मयबहुमानः कुशलपरिप्रश्नपूर्वकमुवाच-



गत्वा स्वयं संक्रमताममीषां स्वजीविते त्यक्तदयेन भुत्वा।

समुद्‍धृता ये कपयस्त्वयेमे को नु त्वमेषां तव वा क एते॥१३॥



श्रोतुं वयं चेदिदमर्हरूपास्तत्तावदाचक्ष्व कपिप्रधान।

न ह्यल्पसौहार्दनिबन्धनानामेवं मनांसि प्रतरन्ति कर्तुम्॥१४॥



अथ बोधिसत्त्वस्तस्य राज्ञस्तदभ्युपपत्तिसौमुख्यं प्रतिपूजयन्नात्मनिवेदनमनुगुणेन क्रमेण चकार-



एभिर्मदाज्ञाप्रतिपत्तिदक्षैरारोपितो मय्यधिपत्वभारः।

पुत्रेष्विवैतेस्ष्ववबद्धहार्दस्तं वोढुमेवाहमभिप्रपन्नः॥१५॥



इयं महाराज समं ममैभिः संबन्धजातिश्चिरकालरूढा।

समानजातित्वमयी च मैत्री ज्ञातेयजाता सहवासयोगात्॥१६॥



तच्छ्रुत्वा स राजा परं विस्मयमुपेत्य पुनरेनमुवाच-

अधिपार्थममात्यादि न तदर्थं महीपतिः।

इति कस्मात्स्वभृत्यार्थमात्मानं त्यक्तवान् भवान्॥१७॥



बोधिसत्त्व उवाच-काममेवं प्रवृत्ता, महाराज, राजनीतिः। दुरनुवर्त्या तु मां प्रतिभाति।



असंस्तुतस्याप्यविषह्यतीव्रमुपेक्षितुं दुःखमतीव दुःखम्।

प्रागेव भक्त्युन्मुखमानसम्य गतस्य बन्धुप्रियतां जनस्य॥१८॥



इदं च दृष्ट्वा व्यसनार्तिदैन्यं शाखामृगान् प्रत्यभिवर्धमानम्।

स्वकार्यचिन्तावसरोपरोधि प्रादुद्रुवन्मां सहसैव दुःखम्॥१९॥



आनम्यमानानि धनूंसि दृष्ट्वा विनिष्पतद्दीप्तशिलीमुखानि।

भीमस्वनज्यान्यविचिन्त्य वेगादस्मात्तरोः शैलमिमं गतोऽस्मि॥२०॥



वैशेषिकत्रासपरीतचित्तैराकृष्यमाणोऽहमथ स्वयूथ्यैः।

आलक्षितायामगुणां सुमूलां स्वपादयोर्वेत्रलतां निबध्य॥२१॥



प्रास्कन्दमस्मात्पुनरेव शैलादिमं द्रुमं तारयितुं स्वयूथ्यान्।

ततः कराभ्यां समवापमस्य प्रसारितं प्रसारितं पाणिमिवाग्रशाखाम्॥२२॥



समातताङ्गं लतया तया च शाक्षाग्रहस्तेन च पादपस्य।

अमी मदध्याक्रमणे विशङ्का निश्रित्य मां स्वस्ति गताः स्वयूथ्याः॥२३॥



अथ स राजा प्रमोद्यजातं तस्यामप्यवस्थायां तं महासत्त्वमवेक्ष्य परं विस्मयमुद्वहन् पुनरेनमुवाच-



परिभूयात्मनः सौख्यं परव्यसनमापतत्।

इत्यात्मनि समारोप्य प्राप्तः को भवता गुणः॥२४॥



बोधिसत्त्व उवाच-

कामं शरीरं क्षितिप क्षतं मे मनः परस्वास्थ्यमुपागतं तु।

अकारि येषां चिरमाधिपत्यं तेषां मयार्तिर्विनिवर्तितेति॥२५॥



जित्वाहवे विद्विषतः सदर्पान् गात्रेष्वलंकारवदुद्वहन्ति।

वीरा यथा विक्रमचिह्नशोभां प्रीत्या तथेमां रुजमुद्वहामि॥२६॥



प्रणामसत्कारपुरःसरस्य भक्तिप्रयुक्तस्य समानजात्यैः।

एश्वर्यलब्धस्य सुखक्रमस्य संप्राप्तामानृण्यमिदं मयाद्य॥२७॥



तन्मां तपत्येष न दुःखयोगः सुहृद्वियोगः सुखविप्लवो वा।

क्रमेण चानेन अमभ्युपेतो महोत्सवाभ्यागम एष मृत्युः॥२८॥



पूर्वोपकारानृणतात्मतुष्टिः संतापशान्तिर्विमलं यशश्च।

पूजा नृपान्निर्भयता च मृत्योः कृतज्ञभावाद् ग्रहणं च सत्सु॥२९॥



एते गुणाः सद्गुणवासवृक्ष प्राप्ता मयैतद् व्यसनं प्रपद्य।

एषां विपक्षांस्तु समभ्युपैति दयाविहीनो नृपतिः श्रितेषु॥३०॥



गुणैर्विहीनस्य विपन्नकीर्तेर्दोषोदयैरावसथीकृतस्य।

गतिर्भवेत्तस्य च नम कान्या ज्वालाकुलेभ्यो नरकानलेभ्यः॥३१॥



तद्दर्शितोऽयं गुणदोषयोस्ते मया प्रभावः प्रथितप्रभाव।

धर्मेण तस्मादनुशाधि राज्यं स्त्रीचञ्चलप्रेमगुणा हि लक्ष्मीः॥३२॥



युग्यं बलं जानपदानमात्यान् पौराननाथाञ्छ्रमणान् द्विजातीन्।

सर्वान् सुखेन प्रयतेत योक्तुं हितानुकूलेन पितेव राजा॥३३॥



एवं हि धर्मार्थयशःसमृद्धिः स्यात्ते सुखायेह परत्र चैव।

प्रजानुकम्पार्जितया त्वमस्माद्राजर्षिलक्ष्म्या नरराज राज॥३४॥



इति नृपमनुशिष्य शिस्यवद् बहुमतवाक्प्रयतेन तेन सः।

रुगभिभवनसंहृतक्रियां तनुमपहाय ययौ त्रिविष्टपम्॥३५॥



तेदेवं द्विषतामपि मनांस्यावर्जयन्ति सद्‍वृत्तानुवर्तिनः, इति लोकं समावर्जयितुकामेन सद्‍वृत्तानुवर्तिना भवितव्यम्। न समर्थास्तथा स्वार्थमपि प्रतिपत्तुं सत्त्वा यथा परार्थं प्रतिपन्नवान् स भगवानिति तथागतवर्णेऽपि वाच्यम्। सत्कृत्य धर्मश्रवणे करुणावर्णे राजाववादे च। एवं राज्ञा प्रजासु दयापन्नेन भवितव्यम्। कृतज्ञकथायामप्युपनेयम्। एवं कृतज्ञाः सन्तो भवन्तीति।



॥इति महाकपि-जातकं सप्तविंशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project