Digital Sanskrit Buddhist Canon

२६ रुरु-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

26 ruru-jātakam

२६. रुरु-जातकम्



परदुःखमेव दुःखं साघूनाम्। तद्धि न सहन्ते नात्मदुःखम्। तद्यथानुश्रूयते-



बोधिसत्त्वः किल सालबकुलपियालहिन्तालतमालनक्तमालविदुलनिचुलक्षिपबहुले शिंशपातिनिशशमीपलाशशाककुशवंशशरवणगहने कदम्बसर्जार्जुनधवखदिरकुटजनिचिते विविधवल्लीप्रतानावगुण्ठितबहुतरुविटपे रुरुपृषतसृमरचमरगजगवय महिषहरिणन्यङ्कुवराहद्वीपितरक्षुव्याघ्रवृकसिंहर्क्षादिमृगविचरिते मनुष्यसंपातविरहिते महत्यरण्यवनप्रदेशे तत्पकाञ्चनोज्ज्वलवर्णः सुकुमाररोमा नानाविधपद्मरागेन्द्रनीलमरकतवैडूर्यरुचिरवर्णबिन्दुविद्योतितविचित्रगात्रः स्निग्धाभिनीलविमलविपुलनयनो मनीमयैरिवापरुषप्रभैर्विषाणक्षुरप्रदेशैः परमदर्शनीयरूपो रत्नाकर इव पादचारी रुरुमृगो बभूव। स जानानः स्वस्य वपुषोऽतिलोभनीयतां तनुकारुण्यतां च जनस्य निर्जनसंपातेषु वनगहनेष्वभिरेमे, पटुविज्ञानत्वाच्च तत्र तत्र व्याधजनविरचितानि यन्त्रकूटवागुरापाशावपातलेपकाष्ठनिवापभोजनानि सम्यक् परिहरन्ननुगामिनं च मृगसार्थमवबोधयन्नाचार्य इव पितेव च मृगाणामाधिपत्यं चकार।



रूपविज्ञानसंपत्तिः क्रियासौष्ठवसंस्कृता।

स्वहितान्वेषिणि जने कुत्र नाम न पूज्यते॥१॥



अथ स कदाचिन्महात्मा तस्मिन् वनगहने वासोपगतस्तत्समीपवाहिन्या नवाम्बुपुर्णया महवेगया नद्या ह्रियमाणस्य पुरुषस्याक्रन्दितशब्दं शुश्राव।



ह्रियमाणमनाथमप्लवं सरितोदीर्णजलौघवेगया।

अभिधावत दीनवत्सलाः कृपणं तारयितुं जवेन माम्॥२॥



न विलम्बितुमत्र शक्यते श्रमदोषविधेयबाहुना।

न च गाधमवाप्यते क्वचित्तदयं मां समयोऽभिधावितुम्॥३॥



अथ बोधिसत्त्वस्तेन तस्य करुणेनाक्रन्दितशब्देन हृदिव समभिहन्यमानो मा भैर्मा भैरिति जन्मशताभ्यस्तां भयविषाददैन्यश्रमापनोदिनीमाम्रेडिताभिनिष्पीडितस्पष्टपदामुच्चैर्मानुषीं वाचं विसृजंस्तस्माद्वनगहनाद्विनिष्पपात्। दूरत एव च तं पुरुषमिष्टमिवोपायनमानीयमानं सलिलौघेन ददर्श।



ततस्तदुत्तारणनिश्चितात्मा स्वं प्राणसंदेहमचिन्तयित्वा।

स तां नदीं भीमरयां जगाहेविमोक्षोभयन् वीर इवारिसेनाम्॥४॥



आवृत्य मार्ग वपुषाथ तस्य मामाश्रयस्वेति तमभ्युवाच।

त्रासातुरत्वाच्छ्रमविह्वलाङ्गः स पृष्ठमेवाधिरुरोह तस्य॥५॥



संसाद्यमानोऽपि नरेण तेन विवर्त्यमानोऽपि नदीरयेण।

सत्त्वोच्छ्रयादस्खलितोरुवीर्यः कूलं ययौ तस्य मनोनुकूलम्॥६॥



प्रापय्य तीरमथ तं पुरुषं परेण

प्रीत्युद्गमेन विनिवर्तितखेददुःखम्।

स्वेनोष्मणा समपनीय च शीतमस्य

गच्छेति तं स विससर्ज निवेद्य मार्गम्॥७॥



अथ स पुरुषः स्निग्धबान्धवसुहृज्जनदुर्लभेन तेन तस्याद्भुतेनाभ्युपपत्तिसौमुखेयन् समावर्जितहृदयस्तया चास्य रूपशोभया समुत्थाप्यमानविस्मयबहुमानः प्रणम्यैनं तत्तत्प्रियमुवाच-



आ बाल्यात्संभृतस्नेहः सुहृद्वान्धव एव वा।

नालं कर्तुमिदं कर्म मदर्थे यत्कृतं त्वया॥ ८॥

त्वदीयास्तदिमे प्राणास्त्वदर्थे यदि नाम मे।

स्वल्पेऽपि विनियुज्येरन् स मे स्यदत्यनुग्रहः॥९॥

तदाज्ञासंप्रदानेन कर्तुमर्हस्यनुग्रहम्।

विनियोगक्षमत्वं मे भवान् यत्रावगच्छति॥१०॥



अथैनं बोधिसत्त्वः संराधयान् प्रत्युवाच-

न चित्ररूपा सुजने कृतज्ञता निसर्गसिद्धैव हि तस्य सा स्थितिः।

जगत्तु दृष्ट्वा समुदीर्णविक्रियं कृतज्ञताप्यद्य गुणेषु गण्यते॥११॥



यतस्त्वां ब्रवीमि कृतमिदमनुस्मरता भवता नायमर्थः कस्मैचिन्निवेद्यः ईदृशेनास्मि सत्त्वविशेषेणोत्तारित इति। आमिषभूतमतिलोभनीयमिदं हि मे रूपम्। पश्य। तनुघृणानि बहुलौल्यादनिभृतानि च प्रायेण मानुषहृदयानि।



तदात्मनि गुणांश्चैव मां च रक्षितुमर्हसि।

न हि मित्रेष्वभिद्रोहः क्वचिद्भवति भूतये॥१२॥



मा चैवमुच्यमानो मन्युप्रणयविरसं हृदयं कार्षिः। मृगा हि वयमनभ्यस्तमानुसोपचारशाठ्याः। अपि च।



तत्कृतं वञ्चनादक्षैर्मिथ्याविनयपण्डितैः।

येन भावविनीतोऽपि जनः साशङ्कमीक्ष्यते॥१३॥



तदेतत्प्रियं भवता संपाद्यमानमिच्छामीति। स तथेति प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य च तं महासत्त्वं स्वगृहमभ्यजगाम।



तेन खलु समयेन तत्रान्यतमस्य राज्ञो देवी सत्यस्वप्ना बभूव। सा यं यमातिशयिकं स्वप्नं ददर्श, स तथैवाभवत्। सा कथाचिन्निद्रावशमुपगता प्रत्युषसमये स्वप्नं पश्यति स्म सर्वरत्नसमाहारमिव श्रिया ज्वलन्तं सिंहासनस्थं रुरुमृगं सराजिकया पर्षदा परिवृतं विस्पष्टाक्षरपदन्यसेन मानुषेण वचसा धर्मं देशयन्तम्। विस्मया क्षिप्तहृदया च भर्तुः प्रबोधपटहध्वनिना सह सा व्यबुध्यत। यथाप्रस्तावं च समुपेत्य राजानं लब्धप्रसरप्रणयसंमाना-



सा मिस्मयोत्फुल्लतरेक्षणश्रीः प्रीत्या समुत्कम्पिकपोलशोभा।

उपायनेनेव नृपं ददर्श तेनाद्भुतस्वप्ननिवेदनेन॥१४॥



निवेद्य च तं स्वप्नातिशयं राज्ञे सादरं पुनरुवाच-

तत्साधु तावत्किर्यतां मृगस्य तस्योपलम्भं प्रति देव यत्नः।

अन्तःपुरं रत्नमृगेण तेन तारामृगेणेव नभो विराजेत्॥१५॥



अथ स राजा दृष्टप्रत्ययस्तस्याः स्वप्नदर्शनस्य प्रतिगृह्य तद्वचनं तत्प्रियकाम्यया रत्नमृगाधिगमलोभाच्च तस्य मृगस्यान्वेषणार्थं सर्वं व्याधगणं समादिदेश। प्रत्यहं च पुरवरे गोषणामिति कारयामास-



हेमच्छविर्मणिशतैरिव चित्रगात्रः

ख्यातो मृगः श्रुतिषु दृष्टचरश्च कैश्चित्।

यस्तं प्रदर्शयति तस्य ददाति राजा

ग्रामोत्तमं परिदशा रुचिराः स्त्रियश्च॥१६॥



अथ स पुरुषस्तां घोषणां पुनः पुनरुपश्रुत्य-

दारिद्र्यदुःखगणनपरिखिन्नचेताः

स्मृत्वा च तं रुरुमृगस्य महोपकारम्।

लोभेन तेन च कृतेन विकृष्यमाणो

दोलायमानहृदयो विममर्श तत्तत्॥१७॥



किं नु खलु करोमि ? गुणं पश्याम्युत धनसमृद्धिम् ? कृतमनुपालयाम्युत कुटुम्बतन्त्रम्? परलोकमुद्भावयाम्यथेयमम् ? सद्‍वृत्तमनुगच्छाम्युताहो लोकवृत्तम् ? श्रियमनुगच्छाम्युताहोस्वित्साधुदयितां श्रियम् ? तदात्वं पश्याम्युतायतिमिति। अथास्य लोभाकुलितमतेरेवमभूत्-शक्यमधिगतविपुलधनसमृद्धिना स्वजनमित्रातिथिप्रणयिजनसंमाननपरेण सुखान्यनुभवता परोऽपि लोकः संपादयितुम्। इति निश्चितमतिर्विस्मृत्य तं रुरुमृगस्योपकारं समुपेत्य राजानमुवाच-अहं देव तं मृगवरमधिवासं चास्य जानामि। तदाज्ञापय कस्मै प्रदर्शयाम्येनमिति। तच्छ्रुत्वा स राजा प्रमुदितमनाः-ममैवैनं भद्र प्रदर्शयेत्युक्त्वा मृगयाप्रयाणानुरूपं वेषमास्थाय महता बलकायेन परिवृतः पुरवरान्निर्गम्य तेन पुरुषेणादेश्यमानमार्गस्तं नदीतीरमुपजगाम। परिक्षिप्य च तद्वनगहनं समग्रेण बलकायेन धन्वी हस्तावापि व्यवसिताप्तपुरुषपरिवृतः स राजा तेनैव पुरुषेणादेश्यमानमार्गस्तद्वनगहनमनुप्रविवेश। अथ स पुरुषस्तं रुरुमृगं विश्वस्तस्थितमालोक्य प्रदर्शयामास राज्ञे-अयमयं देव स मृगवरः। पश्यत्वेनं देवः, प्रयत्नश्च भवत्विति।



तस्योन्नामयतो बाहुं मृगसंदर्शनादरात्।

प्रकोष्ठान्न्यपतत्पाणिर्विनिकृत्त इवासिना॥१८॥



आसाद्य वस्तूनि हि तादृशानि क्रियाविशेषैरभिसंस्कृतानि।

लब्धप्रयामाणि विपक्षमान्द्यात्कर्माणि सद्यः फलतां व्रजन्ति॥१९॥



अथ स राजा तत्प्रदर्शितेन मार्गेण रुरुसंदर्शनकुतूहले नयने विचिक्षेप।



वनेऽथ तस्मिन्नवमेघनीले ज्वलत्तनुं रत्ननिधानलक्ष्म्या।

गुणैरुरुं तं स रुरुं ददर्श शातह्नदं वह्निमिवाभ्रमक्षे॥२०॥



तद्‍रूपशोभाहृतमानसोऽथ स भूमिपस्तद्ग्रहणातिलोभात्।

कृत्वा धनुर्बाणविदष्टमौर्वि बिभित्सया चैनमुपारुरोह॥२१॥



अथ बोधिसत्त्वः समन्ततो जनकोलाहलमुपश्रुत्य व्यक्तं समन्तात्परिवृत्तोऽस्मीति निश्चितमतिर्व्यद्‍धुकाममुपारूढं चावेत्य राजानं नायमपयानकाल इति विदित्वा विशदपदाक्षरेण मानुषेण वचसा राजानमाबभाषे-



तिष्ठ तावन्महाराज मा मां व्यात्सीर्नरर्षभ।

कौतूहलमिदं तावद्विनोदयितुमर्हसि॥२२॥



अस्मिन्निर्जनसंपाते निरतं गहने वने।

असावत्र मृगोऽस्तीति को नु ते मां न्यवेदयत्॥२३॥



अथ स राजा तस्याद्भूतेन मानुषेणाभिव्याहारेण भृशतरमावर्जितहृदयस्तमस्मै पुरुषं शराग्रेण निर्दिदेश-अयमस्यात्यद्भुतस्य नो दर्शयितेति। अथ बोधिसत्त्वस्तं पुरुषं प्रत्यभिज्ञाय विगर्हमाण उवाच-कष्टं भोः।



सत्य एव प्रवादोऽयमुदकौघगतं किल।

दार्वेव वरमुद्धतु नाकृतज्ञमतिं जनम्॥२४॥



परिश्रमस्य तस्येयमोदृशी प्रत्युपक्रिया।

आत्मनोऽपि न दृष्टोऽयं हितस्यापनयः कथम्॥२५॥



अथ स राजा किं नु खल्वयमेवं विजुगुप्सत इति समुत्पन्नकौतूहलः सावेगस्तं रुरुमुवाच-



अनिर्भिन्नार्थगम्भीरमनारभ्यविगर्हितम्।

त्वदिदं समुपश्रुत्य साकम्पमिव मे मनः॥२६॥



मृगातिशय तद्ब्रूहि कमारभ्येति भाषसे।

मनुष्यममनुष्यं वा पक्षिणं मृगमेव वा॥२७॥



बोधिसत्त्व उवाच-

नायं विगर्हादर एव राजन् कुत्सार्हमेतत्त्ववगम्य कर्म।

नायं पुनः कर्तुमिति व्यवस्येत्तीक्ष्णाक्षरं तेन मयैवमुक्तम्॥२८॥



को हि क्षते क्षारमिवावसिञ्चेद् रूक्षाक्षरं विस्खलितेषु वाक्यम्।

प्रिये तु पुत्रेऽपि चिकित्सकस्य प्रवर्तते व्याधिवशाच्चिकित्सा॥२९॥



यमुह्यमानं सलिलेन हारिणा कृपवशदभ्युपपन्नवाहनम्।

ततो भयं मां नृवरेदमागतं न खल्वसत्संगतमस्ति भूतये॥३०॥



अथ स राजा तं पुरुषं तीक्ष्णया दृष्ट्या निर्भर्त्सनरूक्षमवेक्ष्योवाच-सत्यमरे रे पुरा त्वमनेनैवमापन्नोऽभ्युद्‍धृत इति ? अथ स पुरुषः समापतितभयविषादस्वेदवैवर्ण्यदैन्यो ह्रीमन्दं सत्यमित्यवोचत्। अथ स राजा धिक् त्वामित्येनमवभर्त्य्सयन् धनुषि शरं संधायाब्रवीत्-मा तावद्भोः !



एवंविधेनापि परिश्रमेण मृदूकृतं यस्य न नाम चेतः।

तुल्याकृतीनामयशोध्वजेन किं जीवतानेन नराधमेन॥३१॥



इत्युक्त्वा मुष्टिमाबध्य तद्वधार्थं धनुः प्रचकर्ष। अथ बोधिसत्त्वः करुणया महत्या समुपरुध्यमानहृदयस्तदन्तरा स्थित्वा राजानमुवाच-अलमलं महाराज हतं हत्वा।



यदेव लोभद्विषतः प्रतारणां विगर्हितामप्ययमभ्युपेयिवान्।

हतस्तदेवेह यशःपरिक्षयाद् ध्रुवं परत्रापि च धर्मसंक्षयात्॥३२॥



असह्यदुःखोदयपीतमानसाः पतन्ति चैवं व्यसनेषु मानुषाः।

प्रलोभ्यमानाः फलसम्पदाशया पतंगमूर्खा इव दीपशोभया॥३३॥



अतः कृपामत्र कुरूष्व मा रुषं यदीप्सितं चैवमनेन किंचन।

किरुष्व तेनैनमवन्ध्यसाहसं स्थितं त्वदाज्ञाप्रवणं हि मे शिरः॥३४॥



अथ स राजा तेन तस्यापकारिण्यपि सदयत्वेनाकृतकेन च तत्प्रत्युपकारादरेण परमविस्मितमतिर्जातप्रसादः सबहुमानमुदीक्षमाणस्तं रुरुवरमुवाच-साधु साधु महाभाग !



प्रत्यक्षोग्रापकारेऽपि दया यस्येयमीदृशी।

गुणतो मानुषस्त्वं हि वयमाकृतिमानुषाः॥३५॥



येनानुकम्प्यस्तु तवैष जाल्मो हेतुश्च नः सज्जनदर्शनस्य।

ददामि तेनेप्सितमर्थमस्मै राज्ये तवास्मिंश्च यथेष्टचारम्॥३६॥



रुरुरुवाच-प्रतिगृहीतोऽयं मयावन्ध्यो महाराजप्रसादः। तदाज्ञापय यावदिह संगमनप्रयोजनेन तवोपयोगं गच्छाम इति। अथ स राजा तं रुरुं गुरुमिव रथवरमारोप्य महता सत्कारेण पुरवरं प्रवेश्य कृतातिथिसत्कारं महति सिंहासने निवेश्य समुत्साहयमानः सान्तःपुरोऽमात्यगणपरिवृतः प्रीतिबहुमानसौम्यमुदीक्षमाणो धर्मं पप्रच्छ-



धर्मं प्रति मनुष्याणां बहुधा बुद्धयो गताः।

निश्चयस्तव धर्मे तु यथा तं वक्तुमर्हसि॥३७॥



अथ बोधिसत्त्वस्तस्य राज्ञः सपर्षत्कस्य स्फुटमधुरचित्राक्षरेण वचसा धर्मं देशयामास-



दयां सत्त्वेषु मन्येऽहं धर्मं संक्षेपतो नृप।

हिंसास्तेयनिवृत्त्यादिप्रभेदं विविधक्रियम्॥३८॥



पश्य महाराज,

आत्मनीव दया स्याच्चेत्स्वजने वा यथा जने।

कस्य नाम भवेच्चित्तमधर्मप्रणयाशिवम्॥३९॥



दयावियोगात्तु जनः परमामेति विक्रियाम्।

मनोवाक्कायविस्पन्दैः स्वजनेऽपि जने यथा॥४०॥



धर्मार्थी न त्यजेदस्माद् दयामिष्टफलोदयाम्।

सुवृष्टिरिव सस्यानि गुणान् सा हि प्रसूयते॥४१॥



दयाक्रान्तं चित्तं न भवति परद्रोहरभसं

शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः।

विवृद्धा तस्यैवं परहितरुचिः प्रीत्यनुसृतान्

प्रदानक्षान्त्यादीञ्जनयति गुणान् कीर्त्यनुगुणान्॥४२॥



दयालुर्नोद्वेगं जनयति परेषामुपशमाद्

दयावान् विश्वास्यो भवति जगतां बान्धव इव।

न संरम्भक्षोभः प्रभवति दयाधीरहृदये

न कोपाग्निश्चित्ते ज्वलति हि दयातोयशिशिरे॥४३॥



संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुद्धाः

को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम्।

तस्मात्पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने

सद्‍वृत्तेन हरन्मनांसि जगतां राजत्वमुद्भावय॥४४॥



अथ स राजा समभिनन्द्य तत्तस्य वचनं सयौरजानपदो धर्मपरायणो बभूव। अभयं च सर्वमृगपक्षिणां दत्त्वान्।



तदेवं परदुःखमेव दुःखं साधूनाम्। तद्धि न सहन्ते नात्मदुःखमिति। करुणावर्णेऽपि वाच्यम्। सज्जनमाहात्म्ये खलजनकुत्सायामप्युपनेयमिति।



॥ इति रुरु-जातकं षडिंवशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project