Digital Sanskrit Buddhist Canon

२५ शरभ-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

25 śarabha-jātakam

२५. शरभ-जातकम्



जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्ते। तद्यथानुश्रूयते-

बोधिसत्त्वः किलान्यतमस्मिन्नरण्यवनप्रदेशे निर्मानुषसंपातनीरवे विविधमृगकुलाधिवासे तृणगहननिमग्नमूलवृक्षक्षुपबहुले पथिकयानवाहनचरणैरविन्यस्तमार्गसिमान्तलेखे सलिलमार्गवल्मीकश्वभ्रविषमभूभागे बलजववर्णसत्त्वसंपन्नः संहननवत्कायोपपन्नः शरभो मृगो बभूव। स कारुण्याभ्यासादनभिद्रुग्धचित्तः सत्त्वेषु तृणपर्णसलिलमात्रवृत्तिः संतोषगुणादरण्यवासनिरतमतिः प्रविवेककाम इव योगी तमरण्यप्रदेशमभ्यलंचकार।



मृगाकृतिर्मानुषधीरचेतास्तपस्विवत्प्राणिषु सानुकम्पः।

चचार तस्मिन् स वने विविक्ते योगीव संतुष्टमतिस्तृणाग्रैः॥१॥



अथ कदाचिदन्यतमो राजा तस्य विषयस्याधिपतिस्तुरगवराधिरूढः सज्यचापबाणव्यग्रपाणिर्मृगेष्वस्त्रकौशलमात्मनो जिज्ञासमानः संरागवशाज्जवेन मृगाननुपतन्नुत्तमजवेन वाजिना दूरादपसृतहस्त्यश्वरथपदातिकायस्तं प्रदेशमुपजगाम। दूरदेव चालोक्य तं महासत्त्वं हन्तुमुत्पतितनिश्चयः समुत्कृष्टनिशितसायको यतः स महात्मा तेन तुरगवरं संचोदयामास। अथ बोधिसत्त्वः समालोक्यैव तुरगवरगतं सायुधमभिपतन्तं तं राजानं शक्तिमानपि प्रत्यवस्थातुं निवृत्तसाहससंरम्भत्वात्परेण जवातिशयेन समुत्पपात। सोऽनुगम्यमानस्तेन तुरंगमेणानुमार्गागतं महच्छ्वभ्रं गोष्पदमिव जवेन लङ्घयित्वा प्रदुद्राव। अथ तुरगवरस्तेनैव मार्गेण तं शरभमनुपतन्नुत्तमेन जवप्रमाणेन तच्छ्वभ्रमासाद्य लङ्गयितुमनध्यवसितमतिः सहसा व्यतिष्ठत।



अथाश्वपृष्ठादुद्गीर्णः सायुधः स महीपतिः।

पपात महति स्वभ्रे दैत्ययोध इवोदधौ॥२॥



निबद्धचक्षुः शरभे स तस्मिन् संलक्षयामास न तं प्रपातम्।

विस्रम्भदोषाच्चलितासनोऽथ द्रुताश्ववेगोपरमात्पपात॥३॥



अथ बोधिसत्त्वस्तुरगखुरशब्दप्रशमात्किं नु खलु प्रतिनिवृत्तः स्यादयं राजेति समुत्पन्नवितर्कः पश्चादावर्जितावदनः समालोकयन् ददर्श तमश्वमनारोहकं तस्मिन् प्रपातोद्देशेऽवस्थितम्। तस्य बुद्धिरभवत्-नियतमत्र प्रपाते निपतितः स राजा। न ह्यत्र किंचिद्विश्रमहेतोः संश्रयणीयरूपं घनप्रच्छायं वृक्षमूलमस्ति नीलोत्पलदलनीलविमलसलिलमवगाहयोग्यं वा सरः। न चैव व्यालमृगानुविचरितमरण्यवनमवगाढेन यत्र क्वचिदुपसृज्य तुरगवरं विश्रम्यते मृगया वानुष्ठियते। न चात्र किंचित्तृणगहनमपि तद्विधं यत्र निलीनः स्यात्। तद्‍व्यक्तमात्र श्वभ्रे निपतितेन तेन राज्ञा भवितव्यमिति। ततः स महात्मा निश्चयमुपेत्य वधकेऽपि तस्मिन् परां करुणामुपजगाम।



अद्यैव चित्रध्वजभूषणेन विभ्राजमानावरणायुधेन।

रथाश्वपत्तिद्विरदाकुलेन वादित्रचित्रध्वनिना बलेन॥४॥



कृतानुयात्रो रुचिरातपत्रः परिस्फुरच्चामरहारशोभः।

देवेन्द्रवत्प्राञ्जलिभिर्जनौघैरभ्यर्चितो राजसुखान्यवाप्य॥५॥



अद्यैव मग्नो महति प्रपाते निपातवेगादभिरुग्णगात्रः।

मुर्छान्वितः शोकपरायणो वा कष्टं बत क्लेशमयं प्रपन्नः॥६॥



किणाङ्कितानीव मनांसि दुःखैर्न हीनवर्गस्य तथा व्यथन्ते।

अदृष्टदुःखान्यतिसौकुमार्याद्यथोत्तमानां व्यसनागमेषु॥७॥



न चायमतः शक्ष्यते स्वयमुत्तर्तुम्। यद्यपि सावशेषप्राणस्तन्नायमुपेक्षितुं युक्तमिति वितर्कयन् स महात्मा करुणया समाकृष्यमाणहृदयस्तं प्रपाततटान्तमुपजगाम। ददर्श चैनं तत्र रेणुसंसर्गान्मृदितवारबाणशोभं व्याकुलितोष्णीषवसनसंनाहं प्रपातपतननिघातसंजानीताभिर्वेदनाभिरापीड्यमानहृदयमापतितवैतान्यं विचेष्टमानम्।



दृष्ट्वाय तं तत्र विचेष्टमानं नराधिपं बाष्पपरीतनेत्रः।

कृपावशाद्विस्मृतशत्रुसंज्ञस्तद्‍दुःखसामान्यमुपाजगाम॥८॥



उवाच चैनं विनयाभिजातमुद्भावयन् साधुजनस्वभावम्।

आश्वासयन् स्पष्टपदेन साम्ना शिष्टोपचारेण मनोहरेण॥९॥



कच्चिन्महाराज न पीडितोऽसि प्रपातपातालमिदं प्रपन्नः।

कच्चिन्न ते विक्षतमत्र गात्रं कच्चिद्रुजस्ते तनुतां गच्छन्ति॥१०॥



नामानुषश्चास्मि मनुष्यवर्य मृगोऽप्यहं त्वद्विषयान्तवासी।

वृद्धमस्त्वदीयेन तृणोदकेन विस्रम्भमित्यर्हसि मय्युपेतुम्॥११॥



प्रपातपातादधृतिं च मा गाः शक्तोऽहमुद्धर्तुमितो भवन्तम्।

विस्रम्भितव्यं मयि मन्यसे चेत्तत्किप्रमाज्ञापय यावदैमि॥१२॥



अथ स राजा तेन तस्याद्भतेनाभिव्याहारेण विस्मयावर्जितहृदयः संजायमानव्रीडो नियतमिति चिन्तामापेदे-



दृष्टावदाने द्विषति का नामास्य दया मयि।

मम विप्रतिपत्तिश्च केयमस्मिन्ननागसि॥१३॥



अहो मधुरतीक्ष्णेन प्रत्यादिष्टोऽस्मि कर्मणा।

अहमेव मृगो गौर्वा कोऽप्ययं शरभाकृतिः॥१४॥



तदर्हत्ययं प्रणयप्रतिग्रहसंपूजनमिति विनिश्चित्यैनमुवाच-

वारबाणावृतमिदं गात्रं मे नातिविक्षतम्।

प्रपातनिष्पेषकृताः सह्या एव च मे रुजः॥१५॥



प्रपातपनक्लेशान्न त्वहं पीडितस्तथा।

इति कल्याणहृदये त्वयि प्रस्खलनाद्यथा॥१६॥



आकृतिप्रत्ययाद्यच्च दृष्टोऽसि मृगवन्मया।

अविज्ञाय स्वभावं ते तच्च मा हृदये कृथाः॥१७॥



अथ शरभस्तस्य राज्ञः प्रीतिसूचकेन तेनाभिव्याहारेणानुमतमुद्धरणमवेत्य पुरुषभारगुर्व्या शीलया तदुद्धरणयोग्यां कृत्वा विदितात्मबलप्रमाणस्तं नृपतिमुद्धर्तुं व्यवसितमतिरवतीर्य तं प्रपातं सविनयमभिगम्योवाच-



मद्गात्रसंस्पर्शमिमं मुहूर्तं कार्यानुरोधात्त्वमनुक्षमस्व।

यावत्करोमि स्वहिताभिपत्त्या प्रीतिप्रसादाभिमुखं मुखं ते॥१८॥



तदारोहतु मत्पुष्ठं महाराजः सुलग्नश्च मयि भवत्विति। स तथेति प्रतिश्रुत्यैनमश्ववदारुरोह।



ततः समभ्युन्नतपूर्वकायस्तेनाधिरूढः स नराधिपेन।

समुत्पतन्नुत्तमसत्त्ववेगः खे तोरणव्यालकवद् बभासे॥१९॥



उद्‍धृत्य दुर्गादथ तं नरेन्द्रं प्रीतः समानीय तुरंगमेण।

निवेद्य चास्मै स्वपुराय मार्गं वनप्रयाणाभिमुखो बभूव॥२०॥



अथ स राजा कृतज्ञत्वात्तेन तस्य विनयमधुरेणोपचारेण समावर्तितहृदयः संपरिष्वज्य शरभमुवाच-



प्राणा अमी मे शरभ त्वदीयाः प्रागेव यत्रास्ति मम प्रभुत्वम्।

तदर्हसि द्रष्टुमिदं पुरं मे सत्यां रुचौ तत्र च तेऽस्तु वासः॥२१॥



व्याधाभिकीर्णे सभये वनेऽस्मिन् शीतोष्णवर्साद्युपसर्गदुःखे।

हित्वा भवन्तं मम नन्वयुक्तमेकस्य गेहाभिमुखस्य गन्तुम्॥२२॥



तदेहि गच्छाव इति। अथैनं बोधिसत्त्वः सविनयमधुरोपचारं संराधयन् प्रत्युवाच-



भवद्विधेष्वेव मनुष्यवर्य युक्तः क्रमोऽयं गुणवत्सलेषु।

अभ्यासयोगेन हि सज्जनस्य स्वभावतामेव गुणा व्रजन्ति॥२३॥



अनुग्रहीतव्यमवैषि यत्तु वनोचितं मां भवनाश्रयेण।

तेनालमन्यद्धि सुखं नराणामन्यादृशं जात्युचितं मृगाणाम्॥२४



चिकीर्षिते ते यदि मत्प्रियं तु व्याधव्रतं वीर विमुञ्च तस्मात्।

तिर्यक्त्वभवाज्जडचेतनेषु कृपैव शोच्येषु मृगेषु युक्ता॥२५॥



सुखाश्रये दुःखविनोदने च समानचित्तानवगच्छ सत्त्वान्।

इत्यात्मनः स्यादनभीप्सितं यन्न तत्परेष्वाचरितुं क्षमं ते॥२६॥



कीर्तिक्षयं साधुजनाद्विगर्हां दुःखं च पापप्रभवं विदित्वा।

पापं द्विषत्पक्षमिवोद्धरस्व नोपेक्षितुं व्याधिरिव क्षमं ते॥२७॥



लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तोऽसि लोकाभिमतं नृपत्वम्।

तान्येव पुण्यानि विवर्धयेथा न कर्शनीयो ह्युपकारिपक्षः॥२८॥



कालोपचारसुभगैर्विपुलैः प्रदानैः

शीलेन साधुजनसंगतनिश्चयेन।

भूतेषु चात्मनि यथा हितबुद्धिसिद्ध्या

पुण्यानि संचिनु यशः सुखसाधनानि॥२९॥



इति स महात्मा तं राजानं दृढं सांपरायिकेष्वर्थेष्वनुगृह्य संप्रतिगृहीतवचनस्तेन राज्ञा सबहुमानमभिवीक्ष्यमाणस्तमेव वनान्तं प्रविवेश।



तदेवं जिघांसुमप्यापद्गतमनुकम्पन्त एव महाकारूणिका नोपेक्षन्त इति करुणावर्णेऽपि वाच्यम्। तथागतमहात्म्ये सत्कृत्य धर्मश्रवणे। अवैरेण वैरप्रशमननिदर्शने च क्षान्तिकथायामप्युपनेयम्। एवं तिर्यग्गतानामपि महात्मनां वधकेष्वपि सानुक्रोधा प्रवृत्तिर्दृष्टा। को मनुष्यभूतः प्रव्रजितप्रतिज्ञो वा सत्त्वेष्वनुक्रोशविकलं शोभेतेति प्राणिषु सानुक्रोशेनार्येण भवितव्यम्।



इति शरभ-जातकं पञ्चविंशतितमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project