Digital Sanskrit Buddhist Canon

२४ महाकपि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

24 mahākapi-jātakam

२४. महाकपि-जातकम्



नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या। तद्यथानुश्रूयते-



बोधिसत्त्वः किल श्रीमति हिमवत्पार्श्वे विविधधातुरुचिरचित्राङ्गरागे नीलकौशेयप्रावारकृतोत्तरासङ्ग इव वनगहनलक्ष्म्या प्रयत्नरचितैरिवानेकवर्णसंस्थानविकल्पैर्वैषम्यभक्तिचित्रैर्विभूषिततटान्तदेशे प्रविसृतनैकप्रस्रवणजले गम्भीरकन्दरान्तरप्रपातसंकुले पटुतरमधुकरनिनादे मनोज्ञमारुतोपवीज्यमानविचित्रपुष्पफलपादपे विद्याधराक्रीडभुते महाकायः कपिरेकचरो बभुव। तदवस्थमपि चैनमपरिलुप्तधर्मसंज्ञं कृतज्ञमक्षुद्रस्वभावं धृत्या महत्या समन्वितमनुरागवशादिव करुणा नैव मुमोच।



सकानना साद्रिवरा ससागरा गता विनाशं शतशो वसुंधरा।

युगान्तकाले सलिलानलानिलैर्न बोधिसत्त्वस्य महाकृपालुता॥१॥



अथ स महात्मा तापस इव वनरुपर्णफलमात्रवृत्तिरनुकम्पमानस्तेन तेन विधिना गोचरपतितान् प्राणिनस्तमरण्यप्रदेशमध्यवसति स्म।



अथान्यतमः पुरुषो गां प्रनष्टामन्वेषितुं कृतोद्योगः समन्ततोऽनुविचरन् मार्गाप्रनष्टो दिग्भागसंमूढमतिः परिभ्रमंस्तं देशमुपजगाम। स क्षुत्पिपासाधर्मश्रमपरिम्लानतनुर्दौर्मनस्यवह्निना चान्तःप्रदीप्यमानो विषादातिभारादिवान्यतमस्मिन् वृक्षमूले निषण्णो ददर्श परिपाकवशाद्विच्युतानि परिपिञ्जराणि कतिचित्तिन्दुकीफलानि। स तान्यास्वाद्य क्षुत्परिक्षामतया परमस्वादूनि मन्यमानस्तत्प्रभवान्वेषणं प्रत्यभिवृद्धोत्साहः समन्ततोऽनुविलोकयन् ददर्श प्रपाततटान्तविरूढं परिपक्कफलानमितपिञ्जराग्रशाखं तिन्दुकीवृक्षम्। स तत्फलतृष्णयाकृष्यमाणस्तं गिरितटमधिरुह्य तस्य तिन्दुकीवृक्षस्य फलिनिं शाखां प्रपाताभिनतामध्यारुरोह फललोभेन चास्याः प्रान्तमुपजगाम।



शाखाथ सा तस्य महीरुहस्य भारातियोगान्नमिता कृशत्वात्।

परश्वधेनेव निकृत्तमूला सशब्दभङ्गं सहसा पपात॥२॥



स तया सार्धं महति गिरिदुर्गे समन्ततः शैलभित्तिपरिक्षिप्ते कूप इव न्यपतत्। पर्णसंचयगुणात्त्वस्य गाम्भीर्याच्च सलिलस्य न किंचिदङ्गमभज्यत। स तस्मादुत्तीर्य सलिलात्समन्ततः परिसर्पन्न कुतश्चिदुत्तरणमार्गं ददर्श। स निस्प्रतीकारं मर्तव्यमिह मया नचिरादिति विस्रस्यमानजीविताशः शोकाश्रुपरिषिक्तदीनवदनस्त्रीव्रेण दौर्मनस्यशल्येन प्रतुद्यमानः कातरहृदयस्तत्तदार्तिवशाद् विललाप्।



कान्तारे दुर्गेऽस्मिजनसंपातरहिते निपतितं माम्।

यत्नादपि परिमृगयन् मृत्योरन्यः क इव पश्येत्॥३॥



बन्धुजनमित्रवर्जितमेकनिपानीकृतं मशकसंघैः।

अवपाताननमग्नं मृगमिव कोऽभ्युद्धरिष्यति माम्॥४॥



उद्यानकाननविमानसरिद्विचित्रं

ताराविकीर्णमणिरत्नविराजिताभ्रम्।

तामिस्रपक्षरजनीव घनान्धकारा

कष्टं जगन्मम तिरस्कुरुतेऽन्तरात्रिः॥५॥



इति स पुरुषस्तत्तद्विलपंस्तेन सलिलेन तैश्च सहनिपतितैस्तिन्दुकफलैर्वर्तयमानः कतिचिद्दिनानि तत्रावसत्।



अथ स महाकपिराहारहेतोस्तद्वनमनुविचरन्नाहूयमान् इव मारुताकम्पिताभिस्तस्य तिन्दुकीवृक्षस्याग्रशाखाभिस्तं प्रदेशमभिजगाम। अभिरुह्य चैनं तत्प्रपातमवलोकयन् ददर्श तं पुरुषं क्षुत्परिक्षामनयनवदनं परिपाण्डुकृशदीनगात्रं पर्युत्सुकं तत्र विचेष्टमानम्। स तस्य परिद्यूनतया समावजितानुकम्पो महाकपिर्निक्षिप्ताहारव्यापारस्तं पुरुषं प्रततं बिक्षमाणो मानुषीं वाचमुवाच-



मानुषाणामगम्येऽस्मिन् प्रपाते परिवर्तसे।

वक्तुमहंसि तत्साधु को भवाहिन वा कुतः॥६॥



अथ स पुरुषस्तं महाकपिमार्ततया समभिप्रणम्योद्वीक्षमाणः साञ्जलिरुवाच-

मानुषोऽस्मि महाभाग प्रनष्टो विचरन् वने।

फलार्थी पादपादस्मादिमामापदमागमम्॥७॥



तत्सुहृद्वन्धुहीनस्य प्राप्तस्य व्यसनं महत्।

नाथ वानरयूथानां ममापि शरणं भव॥८॥



तच्छ्रत्त्वा स महासत्त्वः परां करुणामुपजगाम।

आपद्गतो बन्धुसुहृद्विहीनः कृताञ्जलिर्दीनमुदीक्षमाणः।

करोति शत्रूनपि सानुकम्पानाकम्पयत्येव तु सानुकम्पान्॥९॥



अथैनं बोधिसत्त्वः करुणायमाणस्तत्कालदुर्लभेन स्निग्धेन वचसा समाश्वासयामास-



प्रपातसंक्षिप्तपराक्रमोऽहमबान्धवो वेति कृथाः शुचं मा।

यद्वन्धुकृत्यं तव किंचिदत्र कर्तास्मि तत्सर्वमलं भयेन॥१०॥



इति स महासत्त्वस्तं पुरुषमाश्वास्य ततश्चास्मै तिन्दुकान्यपराणि च फलानि समुपहृत्य तदुद्धरणयोग्यया पुरुषभारगुर्व्या शिलयान्यत्र योग्यां चकार। ततश्चात्मनो बलप्रमाणमवगम्य शक्तोऽहमेनमेतस्मात्प्रपातादुर्द्धर्तुमिति निश्चितमतिरवतीर्य प्रपातं करुणया परिचोद्यमानस्तं पुरुषमुवाच-



एहि पृष्ठं ममारुह्य सुलग्नोऽस्तु भवान् मयि।

यावदभ्युद्धरामि त्वां स्वदेहात्सारमेव च॥११॥



असारस्य शरीरस्य सारो ह्येष मतः सताम्।

यत्परेषां हितार्थेषु साधनीक्रियते बुधैः॥१२॥



स तथेति प्रतिश्रुत्याभिप्रणस्य चैनमध्यारुरोह।

अथाभिरूढः स नरेण तेन भरातियोगेन विहन्यमानः।

सत्त्वप्रकर्षादविप्रन्नधैर्यः परेण दुःखेन तमुज्जहार॥१३॥



उद्‍धृत्य चैनं परमप्रतीतः खेदात्परिव्याकुलखेलगामी।

शिलातलं तोयधराभिनीलं विश्रामहेतोः शयनीचकार॥१४॥



अथ बोधिसत्त्वः शुद्धस्वभावतया कृतोपकारत्वाच्च तस्मात्पुरुषादपायनिराशङ्को विस्रम्भादेनमुवाच-



अव्याहतव्यालमृगप्रवेशे वनप्रदेशेऽत्र समन्तमार्गे।

खेदप्रसुप्तं सहसा निहन्ति कश्चित्पुरा मां स्वहितोदयं च॥१५॥



यतो भवान् दिक्षुं विकीर्णचक्षुः करोतु रक्षां मम चात्मनश्च।

दृढं श्रमेणास्मि परीतमूर्तिस्तत्स्वप्तुमिच्छामि मुहूर्तमात्रम्॥१६॥



अथ स मिथ्याविनयप्रगल्भः-स्वपितु भवान् यथाकामं सुखप्रबोधाय, स्थितोऽहं त्वत्संरक्षणायेत्यस्मै प्रतिशुश्राव। अथ स पुरुषस्तस्मिन् महासत्त्वे श्रमबलान्निद्रावशमुपगते चिन्तामशिवामापेदे-



मूलैः प्रयत्नातिशयाधिगम्यैर्वन्यैर्यदृच्छाधिगतैः फलैर्वा।

एवं परिक्षीणतनोः कथं स्याद्यात्रापि तावत्कुत एव पुष्टिः॥१७॥



इदं च कान्तारमसुप्रतारं कथं तरिष्यामि बलेन हीनः।

पर्याप्तरूपं त्विदमस्य मांसं कान्तारदुर्गोत्तरणाय मे स्यात्॥१८॥



कृतोपकारोऽपि च भक्ष्य एव निसर्गयोगः स हि तादृशोऽस्य।

आपत्प्रसिद्धश्च किलैष धर्मः पाथेयतामित्युपनेय एषः॥१९॥



यावच्च विस्रम्भसुखप्रसुप्तस्तावन्मया शक्यमयं निहन्तुम्।

इमं हि युद्धाभिमुखं समेत्य सिंहोऽपि संभाव्यपराजयः स्यात्॥२०॥



तन्नायं विलम्बितुं मे काल इति विनिश्चित्य स दुरात्मा लोभदोषव्यामोहितमतिरकृतज्ञो विपन्नधर्मसंज्ञः प्रनष्टकारुण्यसौम्यस्वभावः परिदुर्बलोऽप्यकार्यातिरागान्महतीं शिलामुद्यम्य तस्य महाकपेः शिरसि मुमोच।



शिलाथ सा दुर्बलविह्वलेन कार्यातिरागात्त्वरितेन तेन।

अत्यन्तनिद्रोपगमाय मुक्ता निद्राप्रवासाय कपेर्बभूव॥२१॥



सर्वात्मना सा न समाससाद मूर्धानमस्मान्न विनिस्पिपेष।

कोट्येकदेशेन तु तं रुजन्ती शीला तले साशनिवत्पपात॥२२॥



शीलाभिघातादवभिन्नमूर्धा वेगादवप्लुत्य च बोधिसत्त्वः।

केनाहतोऽस्मीति ददर्श नान्यं तमेव तु ह्रीतमुखं ददर्श॥२३॥



वैलक्ष्यपीतप्रभमप्रगल्भं विषाददैन्यात्परिभिन्नवर्णम्।

त्रासोदयादागतकङ्ठशोषं स्वेदार्द्रमुद्वीक्षितुमप्यशक्तम्॥२४॥



अथ स महाकपिरस्यैव तत्कर्मेति निस्चितमतिः स्वमभिघातदुःखमचिन्तयित्वा तेन तस्यात्महितनिरपेक्षेणातिकष्टेन कर्मणा समुपजातसंवेगकारुण्यः परित्यत्तक्रोधसंरम्भदोषः सबास्पयनयनस्तं पुरुषमवेक्ष्य समनुशोचन्नुवाच-



मानुषेण सता भद्र त्वयेदं कृतमीदृशम्।

कथं नाम व्यवसितं प्रारब्धं कथमेव वा॥२५॥



मदभिद्रोहसंरब्धं त्वं नामापतितं परम्।

विनिवारणशौटीरविक्रमो रोद्‍धुमर्हसि॥२६॥



दुष्करं कृतवानस्मीत्यभून्मानोन्नतिर्मम।

त्वयापविद्धा सा दुरमतिदुष्करकारिणा॥२७॥



परलोकादिवानीतो मृत्योर्वक्त्रान्तरादिव।

प्रपातादुद्‍धृतोऽन्यस्मादन्यत्र पतितो ह्यसि॥२८॥



धिगहो बत दुर्वृत्तमज्ञानमतिदारुणम्।

यत्पातयति दुःखेषु सुखाशाकृपणं जगत्॥२९॥



पातितो दुर्गतावात्मा क्षिप्तः शोकानलो मयि।

निमीलिता यशोलक्ष्मीर्गुणमैत्री विरोधिता॥३०॥



गत्वा धिग्वादलक्षत्वं हता विश्वसनीयता।

का नु खल्वर्थनिस्पत्तिरेवमाकाङ्क्षिता त्वया॥३१॥



दुनोति मां नैव तथा त्वियं रुजा

यथैतदेवात्र मनः क्षिणोति माम्।

गतोऽस्मि पापे तव यन्निमित्ततां

न चाहमेनस्तदपोहितुं प्रभुः॥३२॥



संदृश्यमानवपुरेव तु पार्श्वतो मां

तत्साध्वनुव्रज दृढं ह्यसि शङ्कनीयः।

यावद्बहुप्रतिभयाद्गहनादितस्त्वां

ग्रामान्तपद्धतिमनुप्रतिपादयामि॥३३॥



एकाकिनं क्षामशरीरकं त्वां मार्गनभिज्ञं हि वने भ्रमन्तम्।

कश्चित्समासाद्य पुरा करोति त्वत्पीडणाद्‍व्यर्थपरिश्रमं माम्॥३४॥



इति स महात्मा तं पुरुषमनुशोचञ्जनान्तमानीय प्रतिपाद्य चैनं तन्मार्गं पुनरुवाच-



प्राप्तो जनान्तमसि कान्त वनान्तमेतत्

कान्तारदुर्गभयमुत्सृज गच्छ साधु।

पापं च कर्म परिवर्जयितुं यतेथा

दुःखो हि तस्य नियमेन विपाककालः॥३५॥



इति स महाकपिस्तं पुरुषमनुकम्पया शिष्यमिवानुशिष्य तमेव वनप्रदेशं प्रतिजगाम।



अथ स पुरुषस्तदतिकस्टं पापं कृत्वा पश्चात्तापवह्निना संप्रदीप्यमानचेतामहता कुष्ठव्याधिना रूपान्तरमुपनीतः किलासचित्रच्छविः प्रभिद्यमानव्रणविस्रवार्द्रगात्रः परमदुर्गन्धशरीरः सद्यः समपद्यत। स यं यं देशमभिजगाम ततस्तत एवैनमतिबीभत्सविकृततरदर्शनं मानुष इत्यश्रद्धेयरूपं भिन्नदीनस्वरमभिवीक्ष्य पुरुषाः साक्षदयं पाष्मेति मन्यमानाः समुद्यतलोष्टदण्डा निर्भर्त्सनपरुषवचसः प्रवासयामासुः। अथैनमन्यतमो राजा मृगयामनुविचरन् प्रेतमिवारण्ये परिभ्रमन्तं प्रक्षीणमलिनवसनं नातिप्रच्छन्नकौपीनमतिदुर्दशनमभिवीक्ष्य ससाध्वसकौतूहलः पप्रच्छ-



विरूपिततनुः कुष्ठैः किलासशबलच्छविः।

पाण्डुः कृशतनुर्दीनो रजोरूक्षशिरोरुहः॥३६॥



कस्त्वं प्रेतः पिशाचो वा मूर्तः पाष्माथ पूतनः।

अनेकरोगसंघातः कतमो वासि यक्ष्मणाम्॥३७॥



स तं दीनेन कण्ठेन समभिप्रणमन्नुवाच-मानुसोऽस्मि महाराज, नामानुष इति। तत्कथमिमामवस्थामनुप्राप्तोऽसीति च पर्यनुयुक्तो राज्ञा तदस्मै स्वं दुश्चरितमाविष्कृत्योवाच-



मित्रद्रोहस्य तस्येदं पुष्पं तावदुपस्थितम्।

अतः कष्ठतरं व्यक्तं फलमन्यद्भविष्यति॥३८॥



तस्मान्मित्रेष्वभिद्रोहं शत्रुवद् द्रष्टुमर्हसि।

भावस्निग्धमवेक्षस्व भावस्निग्धं सुहृज्जनम्॥३९॥



मित्रेष्वमित्रचरितं परिगृह्य वृत्त-

मेवंबिधां समुपयान्ति दशामिहैव।

लोभादिदोषमलिनीकृतमानसानां

मित्रद्रुहां गतिरतः परतोऽनुमेया॥४०॥



वात्सल्यसौम्यहृदयस्तु सुहृत्सु कीर्तिं

विश्वासभावमुपकारसुखं च तेभ्यः।

प्राप्नोति संनतिगुणं मनसः प्रहर्षं

दुर्धर्षतां च पिरुभिस्त्रिदशालयं च॥४१॥



इमं विदित्वा नृप मित्रपक्षे प्रभावसिद्धी सदसत्प्रवृत्त्योः।

भजस्व मार्ग सुजनाभिपन्नं तेन प्रयातमनुयाति भूतिः॥४२॥



तदेवं नात्मदुःखेन तथा सन्तः संतप्यन्ते यथापकारिणां कुशलपक्षहान्या। इति तथागतमाहात्म्ये वाच्यम्। सत्कृत्य धर्मश्रवणे क्षान्तिकथायां मित्रानभिद्रोहे पापकर्मादिनवप्रदर्शने चेति।



इति महाकपि-जातकं चतुविंशतितमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project