Digital Sanskrit Buddhist Canon

२३ महाबोधि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

23 mahābodhi-jātakam

२३. महाबोधि-जातकम्



असत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात् क्षमासात्म्याच्च। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवान् महाबोधिर्नाम परिव्राजको बभूव। स गृहस्थभाव एव परिविदितक्रमव्यायामो लोकाभिमतानां विद्यास्थानानां कृतज्ञानकौतूहलश्चित्रासु च कलासु प्रव्रज्याश्रयाल्लोकहितोद्योगाच्च विशेषवत्तरं धर्मशास्त्रेष्ववहितमतिस्तेष्वाचार्यकं पदमवाप। स कृतपुण्यत्वाज्ज्ञानमाहात्म्याल्लोकज्ञतया प्रतिपत्तिगुणसौष्ठवाच्च यत्र यत्र गच्छति स्म तत्र तत्रैव विदुषां विद्वत्प्रियाणां च राज्ञां ब्राह्मणगृहपतीनामन्यतीर्थिकानां च प्रव्रजितानामभिगमनीयो भावनीयश्च बभूव।



गुणा हि पुण्याश्रयलब्धदीप्तयो गताः प्रियत्वं प्रतिपत्तिशोभया।

अपि द्विषद्भ्यः स्वयशोनुरक्षया भवन्ति सत्कारविशेषभागिनः॥१॥



अथ स महात्मा लोकानुग्रहार्थमनुविचरन् ग्रामनगरनिगमजनपदराष्ट्रराजधाणीरन्यतमस्य राज्ञो विषायान्तरमुपजागाम। श्रुतगुनविस्तरप्रभवस्तु स राजा तस्यागमनं दूरत एवोपलभ्य प्रीतमना रमणीये स्वस्मिन्नुद्यानवनप्रदेशे तस्यावसथं कारयामास। अभ्युद्गमनादिसत्कारपुरःसरं चैनं प्रवेश्य स्वविषयं शिष्य इवाचार्यं परिचरणपर्युपासनविधिना संमानयामास।



विभूतिगुणसंपन्नमुपेतः प्रणयाद् गृहम्।

गुनप्रियस्य गुनवानुत्सवातिशयोऽतिथिः॥२॥



बोधिसत्त्वोऽपि चैनं श्रुतिहृदयह्लादिनीभिर्धर्म्याभिः कथाभिः श्रेयोमार्गमनुप्रतिपादयमानः प्रत्यहमनुजग्राह।



अदृष्टभक्तिष्वपि धर्मवत्सला

हितं विवक्षन्ति परानुकम्पिनः।

क एव वादः शुचिभाजनोपमे

हितार्थिनि प्रेमगुणोत्सुके जने॥३॥



अथ तस्य राज्ञोऽमात्या लब्धविद्वत्संभावना लब्धसंमानाश्च सदस्याः प्रत्यहमभिवर्धमानसत्कारां बोधिसत्त्वस्य गुणसमृद्धिमीर्ष्योपहतबुद्धित्वान्न सेहिरे।



स्वगुणातिशयोदितैर्यशोभिर्जगदावर्जनदृष्टशक्तियोगः।

रचनागुनमत्रसत्कृतेषु ज्वलयत्येव परेष्वमर्षवह्निम्॥४॥



प्रसह्य चैनं शास्त्रकथास्वभिभवितुमशक्ता धर्मप्रसङ्गममृष्यमाणाश्च राज्ञस्तेन तेन क्रमेण राजानं बोधिसत्त्वं प्रति विग्राहयामासुः-नार्हति देवो बोधिपरिव्राजके विश्वासमुपगन्तुम्। व्यक्तमयं देवस्य गुणप्रियतां धर्माभिमुखतां चोपलभ्य व्यसनप्रतारणश्लक्ष्णठमधुरवचनः प्रवृत्तिसंचारणहेतुरभूतः कस्यापि प्रत्यर्थिनो राज्ञो निपुणः प्रणिधिप्रयोगः। तथा हि धर्मात्मको नाम भूत्वा देवमेकान्तेन कारुण्यप्रवृत्तौ ह्रीदैन्ये च समनुशास्ति, अर्थकामोपरोधिषु च क्षत्रधर्मबाह्येष्वासन्नापनयेषु धर्मसमादानेषु दयानुवृत्त्या च नाम ते कृत्यपक्षमाश्वासनविधिनोपगृणीते प्रियसंस्तवश्चान्यराजदूतैः। न चायमविदितवृत्तान्तो राजशास्त्राणाम्। अतः साशङ्कान्यत्र नो हृदयानीति। अथ तस्य राज्ञः पुनः पुनर्भेदोपसंहितं हितमिव बहुभिरुच्यमानस्य बोधिसत्त्वं प्रति परिशङ्कासंकोचितस्नेहगौरवप्रसरमन्यादृशं चित्तमभवत्।



पैसुन्यवज्राशनिसंनिपाते भीमस्वने चाशनिसंनिपाते।

विस्रम्भवान्मानुषमात्रधैर्यः स्यान्निर्विकारो यदि नाम कश्चित्॥५॥



अथ स राजा विस्रम्भविरहन्मन्दीभुतप्रेमबहुमानस्तस्मिन् महासत्त्वे न यथापूर्वं सत्कारप्रयोगसुमुखो बभूव। बोधिसत्त्वोऽपि शुद्धस्वभावत्वात् बहुकार्यव्यासङ्गा राजान इति तन्मनसि चकार। तत्समीपवर्तिनां तु विनयोपचारशैथिल्यसंदर्शनाद्विरक्तहृदयमवेत्य राजानं समादाय त्रिदण्डादुण्डिकाद्यां परिव्राजकभाण्डिकां प्रक्रमणसव्यापारः समभवत्। तदुपश्रुत्य स राजा सावशेषस्नेहतया दाक्षिण्यविनयनुवृत्त्या चैनमभिगम्य प्रदर्शितसंभ्रमो विनिवर्तयितुकाम इव तमुवाच-



अस्मनकस्मादपहाय कस्माद्गन्तव्य एव प्रणता मतिस्ते।

व्यलीकशङ्काजनकं नु किंचिद् दृष्टं प्रमादस्खलितं त्वया नः॥६॥



अथैनं बोधिसत्त्व उवाच-

नाकस्मिकोऽयं गमनोद्यमो मे नासत्क्रियामात्रकरूक्षिकत्वात्।

अभजनत्वं तु गतोऽसि शाठ्याद्धर्मस्य तेनाहमितो व्रजामि॥७॥



अथास्य सरभसभषितमतिविवृतवदनमभिद्रवन्तं वल्लभं श्वानं तत्रागतमभिप्रदर्शयन् पुनरुवाच-अयं चात्र महाराज अमानुषः साक्षिनिर्देशो दृश्यताम्।



अयं हि पूर्वं पटुचाटुकर्मा भूत्वा मयि श्वा भवतोऽनुवृत्त्या।

आकारगुप्त्यज्ञतया त्विदानीं त्वद्भावसूचां भषितैः करोति॥८॥



त्वत्तः श्रुतं किंचिदनेन नूनं मदन्तरे भक्तिविपत्तिरुक्षम्।

अतोऽनुवृत्तं ध्रुवमित्यनेन त्वत्प्रीतिहेतोरनुजीविवृत्तम्॥९॥



अथ स राजा तत्प्रत्यदेशाद् व्रीडावनामितवदनस्तेन चास्य मतिनैपुण्येन समावर्जितमतिर्जातसंवेगो नेदानीं शाठ्यानुवृत्तिकाल इति बोधिसत्त्वमभिप्रणम्योवाच-



त्वदाश्रया कचिदभूत्कथैषा संप्रस्तुता नः सदसि प्रगल्भैः।

उपेक्षिता कार्यवशान्मया च तत्क्षम्यतां तिष्ठ च साधु मा गाः॥१०॥



बोधिसत्त्व उवाच-नैव खल्वहं महाराज असत्कारप्रकृतत्वादक्षमया वा प्रणुद्यमाणो गच्छामि। न त्वयं महाराज अवस्थानकाल इति न तिष्ठामि। पश्यतु भवान्।



विमध्यभावादपि हीनशोभे यायां न सत्कारविधौ स्वयं चेत्।

सङ्गादगत्या जडताबलाद्वा नन्वर्धचन्द्राभिनयोत्तरः स्याम्॥११॥



प्राप्तक्रमोऽयं विधिरत्र तेन यास्यामि नाप्रीत्यभितप्तचित्तः।

एकावमानाभिहता हि सत्सु पूर्वोपकारा न समीभवन्ति॥१२॥



अस्निग्धभावस्तु न पर्युपास्यस्तोयार्थिन शुष्क इवोदपानः।

प्रयत्नसाध्यापि ततोऽर्थसिद्धिर्यस्माद्भवेदाकलुषा कृशा च॥१३॥



प्रसन्न एव त्वभिगम्यरूपः शरद्विशुद्धाम्बुमहाह्रदाभः।

सुखार्थिनः क्लेशपराङ्मुखस्य लोकप्रसिद्धः स्फुट एष मार्गः॥१४॥



भक्त्युन्मुखाद्योऽपि पराङ्मुखः स्यात्पराङ्मुखे चाभिमुखत्वदीनः।

पूर्वोपकारस्मरणालसो वा नराकृतिश्चिन्त्यविनिश्चयः सः॥१५॥



असेवना चात्युपसेवना च याच्ञाभियोगाश्च दहन्ति मैत्रीम्।

रक्ष्यं यतः प्रीत्यवशेषमेतन्निवासदोषादिति यामि तावत्॥१६॥



राजोवाच-यद्यवश्यमेव गन्तव्यमिति निश्चितात्रभवतो मतिः, तत्पुनरपीदानीमिहागमनेनास्माननुग्रहीतुमर्हति भवान्। असेवनादपि हि प्रीतिरनुरक्षितव्यैव। बोधिसत्त्व उवाच-बह्वन्तरायो महाराज बहूपद्रवप्रत्यर्थिकत्वाल्लोकसंनिवेश इति न शक्यमेतदवधारणया प्रतिज्ञातुमागमिष्यामीति। सति त्वागमनकारणसाकल्येऽपि नाम पुनर्भवन्तं पश्येम। इत्यनुनीय स माहत्मा तं राजानं कृताभ्यनुज्ञासत्कारस्तेन राज्ञा तद्विषयात्प्रचक्राम। स तेन गृहिजनसंस्तवेनाकुलितहृदयोऽन्यतमदरण्यायतनमुपश्रित्य ध्यानाभियुक्तमतिस्तत्र विहरन्नचिरेणेव चत्वारि ध्यानानि पञ्चाभिज्ञाः प्रतिलेभे।



तस्य समस्वादितप्रशमसुखरसस्य स्मृतिरनुकम्पनुसारिणी तं राजानं प्रति प्रादुरभूत्-का नु खलु तस्य राज्ञोऽवस्थेति। अथैनं ददर्श तैरमात्यैर्यथाभिनिविष्टानि दृष्टिगतानि प्रैत् प्रतार्यमाणम्। कश्चिदेनममात्यो दुर्विभाव्यहेतुभिर्निदर्शनैरहेतुवादं प्रति प्रचकर्ष-



कः पद्मनालदलकेसरकर्णिकानां

संस्थानवर्णरचनामृदुतादिहेतुः।

पत्राणि चित्रयति कोऽत्र पतत्रिणां वा

स्वाभाविकं जगदिदं नियतं तथैव॥१७॥



अपर इश्वरकारणमस्मै स्वबुद्धिरुचितमुपवर्णयामास-

नाकस्मिकं भवितुमर्हति सर्वमेत-

दस्त्यत्र सर्वमधि कश्चिदनन्त एकः।

स्वेच्छाविशेषनियमाद्य इमं विचित्रं

लोकं करोति च पुनश्च समीकरोति॥१८॥



सर्वमिदं पूर्वकर्मकृतं सुखासुखम्। न प्रयत्नसामर्थ्यमस्तीत्येवमन्य एनं विग्राहयामास-



एवं करिष्यति कथं नु समानकालं

भिन्नाश्रयान् बहुविधानमितांश्च भावान्।

सर्वं तु पूर्वकृतकर्मनिमित्तमेतत्

सौख्यप्रयत्ननिपुणोऽपि हि दुःखमेति॥१९॥



अपर उच्छेदवादकथाभिरेनं कामभोगप्रसङ्ग एव प्रतारयामास-

दारूणि नैकविधवर्णगुणाकृतीनि

कर्मात्मकानि न भवन्ति भवन्ति चैव।

नष्टानि नैव च यथा पुनरुद्भवन्ति

लोकस्तथायमिति सौख्यपरायणः स्यात्॥२०॥



अपर एनं क्षत्रविद्यापरिदृष्टेषु नीतिकौटिल्यप्रसङ्गेषु नैर्घृण्यमलिनेषु धर्मविरोधिष्वपि राजधर्मोऽयमिति समनुशशास-



छायाद्रुमेष्विव नरेषु कृताश्रयेषु

तावत्कृतज्ञचरितैः स्वयशः परीप्सेत्।

नार्थोऽति यावदुपभोगनयेन तेषां

कृत्ये तु यज्ञ इव ते पशवो नियोज्याः॥२१॥



इति तेऽमात्यास्तं राजानं तेन तेन दृष्टिकृतोन्मार्गेण नेतुमीषुः।

अथ बोधिसत्त्वः पापजनसंपर्कवशात्परप्रत्ययनेयबुद्धित्वाच्च दृष्टिकृतप्रपाताभिमुखमवेक्ष्य राजानं तदनुकम्पासमावर्जितहृदयस्तन्निवर्तनोपायं विममर्श।



गुणाभ्यासेन साधूनां कृतं तिष्ठति चेतसि।

भ्रश्यत्यपकृतं तस्माज्जलं पद्मदलादिव॥२२॥



अथ बोधिसत्त्वः इदमत्र प्राप्तकालमिति विनिश्चित्य स्वस्मिन्नाश्रमपदे महान्तं वानरमभिनिर्माय ऋद्धिप्रभावात्तस्य चर्मापनीय शेषमन्तर्धापयामास। स तन्निर्मितं महद्वानरचर्म बिभ्रत्तस्य नृपतेर्भवनद्वारे प्रादुरभूत्। निवेदिताभ्यागमनश्च दौवारिकैर्यथाक्रममायुधीयगुप्तपर्यन्ताममात्यद्विजयोधदूपपौरमुख्याभिकीर्णां विनीतधीरोदात्तवेषजनां सासियष्टिभिः प्रतिहारैरधिष्ठितप्रद्वारां सिंहासनावश्तितनराधिपामनाकुलां राजपर्षदमवजगाहे। प्रत्युद्गमनादिविधिना चातिथिजनोपचारेण प्रतिपूज्यमानः कृतप्रतिसंमोदनकथासत्कारासनाभिनिर्हारश्च तेन राज्ञा कौतूहलानुवृत्त्या वानरचर्मप्रतिलम्भं प्रत्यनुयुक्तः-केनेदमार्याय वानरचर्मोपनयता महतानुग्रहेणात्मा संयोजित इति।



बोधिसत्त्व उवाच-मयैवेदं महाराज स्वयमधिगतं नान्येन केनचिदुपहृतम्। कुशतृणमात्रास्तीर्णायां हि पृथिव्यां स्वभावकठिनायां निषण्णेन स्वपता वा प्रतप्यमानशरीरेण न सुखं धर्मविधिरनुष्ठियते। अयं च मयाश्रमपदे महान् वानरो दृष्टः। तस्य मे बुद्धिरभवत्-उपपन्नं बत मे धर्मसाधनमिदमस्य वानरस्य चर्म। शक्यमत्र निषण्णेन स्वपता वा परार्ध्यास्तरणास्तीर्णेभ्यो राजशयनेभ्योऽपि निवृत्तस्पृहेण स्वधर्मविधिरनुष्ठातुमिति मया तस्येदं चर्म प्रगृहीतम्। स च प्रशमित इति। तच्छ्रुत्वा स राजा दाक्षिण्यविनयानुवृत्त्या न बोधिसत्त्वं किंचित्प्रत्युवाच। सव्रीडहृदयस्तु किंचिदवाङ्मुखो बभूव।



अथ तेऽमात्याः पूर्वमपि तस्मिन् महासत्त्वे सामर्षहृदया लब्धवचनावकाशत्वात्प्रविकसितवदना राजानमूदीक्ष्य बोधिसत्त्वमुपदर्शयन्त ऊचुः-अहो भगवतो धर्मनुरागैकरसा मतिः। अहो धैर्यम्। अहो व्यवसायसाधुसामर्थ्यम्। आश्रमपदमभिगत एव महान्नाम वानर एकाकिना तपःक्षामशरीरेण प्रशमित इत्याश्चर्यम्। सर्वथा तपःसिद्धिरस्तु। अथैनानसंरब्ध एव बोधिसत्त्वः प्रत्युवाच-नार्हन्त्यत्रभवन्तः स्ववादशोभानिरपेक्षमित्यस्मान् विगर्हितुम्। न ह्ययं क्रमो विद्वद्यशः समुद्भाबयितुम्। पह्स्यन्त्वत्रभवन्तः-



स्ववादघ्नेन वचसा यः परान् विजुगुप्सते।

स खल्वात्मवधेनेव परस्याकिर्तीमिच्छति॥२३॥



इति स महात्मा तानमात्यान् सामान्येनोपालभ्य प्रत्येकशः पुनरुपालब्धुकामस्तमहेतुवादिनमामन्त्र्योवाच-



स्वाभाविकं जगदिति प्रविकथसे त्वं

तत्त्वं च तद्यदि विकुत्सयसि किमस्मान्।

शाखामृगे निधनमापतिते स्वभावात्

पापं कृतो मम यतः सुहतो मयायम्॥२४॥



अथ पापमस्ति मम तस्य वधान्ननु हेतुतस्तदिति सिद्धमिदम्।

तदहेतुवादमिदमुत्सृज वा वद वात्र यत्तव न युक्तमिव॥२५॥



यदि पद्मनालरचनादि च यत्तदहेतुकं ननु सदैव भवेत्।

सलिलादीबीजकृतमेव तु तत् सति तत्र संभवति न ह्यसति॥२६॥



अपि चायुष्मन्, सम्यगुपधारय तावत्,

न हेतुरस्तीति वदन् सहेतुकं ननु प्रतिज्ञा स्वयमेव हापयेत्।

अथापि हेतुप्रणयालसो भवेत् प्रतिज्ञया केवलयास्य किं भवेत्॥२७॥



एकत्र क्वचिदनवेक्ष्य यश्च हेतुं तेनैव प्रवदति सर्वहेत्वभावम्।

प्र्त्यक्षं ननु तदवेत्य हेतुसारं तद्‍द्वेषी भवति विरोधदुष्टवाक्यः॥२८॥



न लक्ष्यते यदि कुहचिच्च कारणं कथं नु तद् दृढमसदेव भाषसे।

न दृश्यते सदपि हि कारणान्तराद्दिनात्यये विमलविवार्कमण्डलम्॥२९॥



ननु च भोः

सुखार्थमिष्टान् विषयान् प्रपद्यसे निषेवितुं नेच्छसि तद्विरोधिनः।

नृपस्य सेवां च करोषि तत्कृते न हेतुरस्तीति च नाम भाषसे॥३०॥



तदेवमपि चेद्भावाननुपश्यस्यहेतुकान्।

अहेतोर्वानरवधे सिद्धे किं मां विगर्हसे॥३१॥



इति स महात्मा तमहेतुवादिनं विशदैर्हेतुभिर्निष्प्रतिभं कृत्वा तमीश्वकारणिकममन्त्रयोवाच-आयुष्मानप्यस्मान् नार्हत्येव विगर्हितुम्। ईश्वरः सर्वस्य हि ते कारणमभिमतः। पश्य-



कुरुते यदि सर्वमीश्वरो ननु तेनैव हतः स वानरः।

तव केयममैत्रचित्तता परदोषान् मयि यन्निषिञ्चसि॥३२॥



अथ वानरवीरवैशसं न कृतं तेन दयानुरोधिना।

बृहदित्यवघुष्यते कथं जगतः कारणमीश्वरस्त्वया॥३३॥



अपि च भद्र सर्वमीश्वरकृतमिति पश्यतः-

ईश्वरे प्रसादाशा का स्तुतिप्रणामाद्यैः।

स स्वयं स्वयंभूस्ते यत्करोति तत्कर्म॥३४॥



त्वत्कृताथ यदीज्या न त्वसौ तदकर्ता।

आत्मनो हि विभूत्या यः करोति स कर्जा॥३५॥



ईश्वरः कुरुते चेत्पापकान्यखिलानि।

तत्र् अभक्तिनिवेशः कं गुणं नु समीक्ष्य॥३६॥



तान्यधर्मभयाद्वा यद्ययं न करोति।

तेन वक्तुमयुक्तं सर्वमीश्वरसृष्टम्॥३७॥



तस्य चेश्वरता स्याद्धर्मतः परतो वा।

धर्मतो यदि न प्रागीश्वरः स ततोऽभूत्॥३८॥



दासतैव च सा स्याद्या क्रियेत परेण।

स्यादथापि न हेतोः कस्यनेश्वरता स्यत्॥३९॥



एवमपि तु गते भक्तिरागादविगणितयुक्तायुक्तस्य-

यदि कारणमीश्वर एव विभुर्जगतो निखिलस्य तवाभिमतः।

ननु नार्हसि मय्यधिरोपयितुं विहितं विभुना कपिराजवधम्॥४०॥



इति स महात्मा तमीश्वकारणिकं सुश्लिष्टैर्हेतुभिर्मूकतामिवोपनीय तं पूर्वकर्मकृतवादिनमामन्त्रणासौष्ठवेनाभिमुखीकृत्योवाच-भवानप्यस्मान्न शोभते विकुत्सयमानः। सर्वं हि ते पूर्वकर्मकृतमित्यभिमानः। तेन च त्वां ब्रवीमि-



स्यात्सर्वमेव यदि पूर्वकृतप्रभावा-

च्छाखामृगः सुहत एव मयैष तस्मात्।

दग्धे हि पूर्वकृतकर्मदवाग्निनास्मिन्

पापं किमत्र मम येन विगर्हसे माम्॥४१॥



अथास्ति पापं मम वानरं घ्नतः कृतं मया तर्हि न पूर्वकर्मणा।

यदिष्यते कर्म च कर्महेतुकं न कश्चिदेवं सति मोक्षमेष्यति॥४२॥



भवेच्च सौख्यं यदि दुःखहेतुषु स्थितस्य दुःखं सुखसाधनेषु वा।

अतोऽनुमीयेत सुखासुखं ध्रुवं प्रवर्तते पूर्वकृतैकहेतुकम्॥४३॥



न दृष्टमेवं च यतः सुखासुखं न पूर्वकर्मैकमतोऽस्य कारणम्।

भवेदभावश्च नवस्य कर्मणस्तदप्रसिद्धौ च पुरातनं कुतः॥४४॥



पूर्वकर्मकृतं सर्वमथैवमपि मन्यसे।

वानरस्य वधः कस्मान्मत्कृतः परिकल्प्यते॥४५॥



इति स महात्मा निरनुयोज्यैर्हेतुभिस्तस्य मौनव्रतमिवोपदिश्य तमुच्छेदवादिनं स्मितपूर्वकमुवाच-आयुष्मतः कोऽयमत्यादरोऽस्मद्विगर्हायां यदि तत्त्वमुच्छेदवादं मन्यसे?



लोकः परो यदि न कश्चन किं विवर्ज्यं

पापं शुभं प्रति च किं बहुमानमोहः।

स्वच्छन्दरम्यचरितोऽत्र विचक्षणः स्या-

देवं गते सुहत एव च वानरोऽयम्॥४६॥



जनवादभयादथाशुभं परिवर्ज्यं शुभमार्गसंश्रयात्।

स्ववचःप्रतिलोमचेष्टितैर्जनवादानपि नातियात्ययम्॥४७॥



स्वकृतान्तपथागतं सुखं न समाप्नोति च लोकशङ्कया।

इति निष्फलवादविभ्रमः परमोऽयं ननु बालिशाधमः॥४८॥



यदपि च भवानाह-

दारूणि नैकविधवर्णगुणाकृतीनि

कर्मात्मकानि न भवन्ति भवन्ति चैव।

नष्टानि नैव च यथा पुनरुद्भवन्ति

लोकस्तथायमिति कोऽत्र च नाम हेतुः॥४९॥



उच्छेदवादवात्सल्यं स्यादेवमपि ते यदि।

विगर्हणीयः किं हन्ता वानरस्य नरस्य वा॥५०॥



इति स महासत्त्वस्तमुच्छेदवादिनं विस्पष्टशोभेनोत्तरक्रमेण तूष्णींभावपरायणं कृत्वा तं क्षत्रविद्याविदग्धममात्यमुवाच-भवानप्यस्मान् कस्मादिति विकुत्सयते यदि न्याय्यमर्थशास्त्रपरिदृष्टं विधिं मन्यसे?



अनुष्ठेयं हि तत्रेष्टमर्थार्थं साध्वसाधु वा।

अथोद्‍धृत्य किलात्मानमर्थैर्धर्मं करिष्यते॥५१॥



अतस्त्वां ब्रवीमि-

प्रयोजनं प्राप्य न चेदवेक्ष्यं स्निग्धेषु बन्धुष्वपि साधुवृत्तम्।

हते मया चर्मणि वानरेऽस्मिन् का शास्त्रदृष्टेऽपि नये विगर्हा॥५२॥



दयावियोगादथ गर्हणीयं कर्मेदृशं दूःखफलं च दृष्टम्।

यत्राभ्यनुज्ञातमिदं न तन्त्रे प्रपद्यसे केन मुखेन तत्त्वम्॥५३॥



इयं विभूतिश्च नयस्य यत्र तत्रानयः किदृशविभ्रमः स्यात्।

अहो प्रगल्भैः परिभूय लोकमुन्नीयते शास्त्रपथैरधर्मः॥५४॥



अदृष्टमेवाथ तवैतदिष्टं शास्त्रे किल स्पष्टपथोपदिष्टम्।

शास्त्रप्रसिद्धेन नयेन गच्छन् न गर्हणीयोऽस्मि कपेर्वधेन॥५५॥



इति स महात्मा जितपर्षत्कान् परिचितप्रागल्भ्यानपि च तानमात्यान् प्रसह्याभिभूय समावर्जितहृदयां च सराजिकां पर्षदमवेत्य तेषां वानरवधहृल्लेखविनयनार्थं राजानमाबभाषे-नैव च खल्वहं महाराज प्राणिनं वानरं हतवान्। निर्माणविधिरयम्। निर्मितस्य हि वानरस्येदं चर्म मया गृहीतमस्यैव कथाक्रमस्य प्रस्तावार्थम्। तदलं मामन्यथा प्रतिग्रहीतुम्। इत्युक्त्वा तमृद्ध्याभिसंस्कारं प्रतिसंहृत्य परया च मात्रयाभिप्रसादितमानसं राजानं सपर्षत्कमवेत्योवाच-



संपश्यन् हेतुतः सिद्धिं स्वतन्त्रः परलोकवित्।

साधुप्रतिज्ञः सघृणः प्राणिनं को हनिष्यति॥५६॥



पश्य महाराज,

अहेतुवादी परतन्त्रदृष्टिरनास्तिकः क्षत्रनयानुगो वा।

कुर्यान्न यन्नाम यशोलवार्थं तन्न्यायवादी कथमभ्युपेयात्॥५७॥



दृष्टिर्नरश्रेष्ठ शुभाशुभा वा सभागकर्मप्रतिपत्तिहेतुः।

दृष्ट्यन्वयं हि प्रविकल्प्य तत्तद्वाग्भिः क्रियाभिश्च विदर्शयन्ति॥५८॥



सद्‍दृष्टिरस्माच्च निषेवितव्या त्याज्या त्वसद्‍दृष्टिरनर्थवृष्टिः।

लभ्यश्च सत्संश्रयिणा क्रमोऽयमसज्जनाद्‍दूरचरेण भुत्वा॥५९॥



असंयताः संयतवेषधारिणश्चरन्ति कामं भुवि भिक्षुराक्षसाः।

विनिर्दहन्तः खलु बालिशं जनं कुदृष्टिभिर्दृष्टिविषा इवोरगाः॥६०॥



अहेतुवादादिविरूक्षवाशितं शृगालवत्तत्र विशेषलक्षणम्।

अतो न तानर्हति सेवितुं बुधश्चरेत्तदर्थं तु पराक्रमे सति॥६१॥



लोके विरूढयशसापि तु नैव कार्या कार्यार्थमप्यसदृशेन जनेन मैत्री।

हेमन्तदुर्दिनसमागमदूषितो हि सौभाग्यहानिमुपयाति निशाकरोऽपि॥६२॥



तद्वर्जनाद् गुणविवर्जयितुर्जनस्य संसेवनाच्च गुणसेवनपण्डितस्य।

स्वां किर्तिमुज्ज्वलय संजनयन् प्रजानां दोषानुरागविलयं गुणसौहृदं च॥६३॥



त्वयि च चरति धर्म भूयसायं नृलोकः

सुचरितसुमुखः स्यात्स्वर्गमार्गप्रतिष्ठः।

जगदिदमनुपाल्यं चैवमभ्युद्यमस्ते

विनयरुचिरमार्गं धर्ममस्माद्भजस्व॥६४॥



शीलं विशोधय समर्जय दातृकीर्तिं

मैत्रं मनः कुरु जने स्वजने यथैव।

धर्मेण पालय महीं चिरमप्रमादा-

देवं समेष्यसि सुखं त्रिदिवं यशश्च॥६५॥



कृषिप्रधानान् पशुपालनोद्यतान्

महीरुहान् पुष्पफलान्वितानिव।

अपालयञ्जानपदान् बलिप्रदान्

नृपो हि सर्वौषधिभिर्विरुध्यते॥६६॥



विचित्रपण्यक्रयविक्रयाश्रयं

वणिग्जनं पौरजनं तथा नृपः।

न पाति यः शुल्कपथोपकारिणं

विरोधमायाति स कोशसंपदा॥६७॥



अदृष्टदोषं युधि दृष्टविक्रमं

तथा बलं यः प्रथितास्रकौशलम्।

विमानयेद् भूपतिरध्युपेक्षया

ध्रुवं विरुद्धः स रणे जयश्रिया॥६८॥



तथैव शीलश्रुतयोगसाधुषु प्रकाशमाहात्म्यगुणेषु साधुषु।

चरन्नवज्ञामलिनेन वर्त्मना नराधिपः स्वर्गसुखेर्विरुध्यते॥६९॥



द्रुमद्यथामं प्रचिनोति यः फलं स हन्ति बीजं न रसं च विन्दति।

अधर्म्यमेवं बलिमुद्धरन्नृपः क्षिणोति देशं न च तेन नन्दति॥७०॥



यथा तु संपूर्णगुणो महोरुहः फलोदयं पाकवशात्प्रयच्छति।

तथैव देशः क्षितिपाभिरक्षितो युनक्ति धर्मार्थसुखैर्नराधिपम्॥७१॥



हितानमात्यान्निपुणार्थदर्शिनः शुचीनि मित्राणि जनं स्वमेव च।

बधान चेतस्सु तदिष्टया गिरा धनैश्च संमाननयोपपादितैः॥७२॥



तस्माद्धर्मं त्वं पुरस्कृत्य नित्यं श्रेयःप्राप्तौ युक्तचेताः प्रजानाम्।

रागद्वेषोन्मुक्तया दण्डनीत्या रक्षँल्लोकानात्मनो रक्ष लोकान्॥७३॥



इति स महात्मा तं राजानं दृष्टिकृतकापथाद्विवेच्य समवतार्य च सन्मार्गं सपर्षत्कं तत एव गगनतलं समुत्पत्य प्राञ्जलिना तेन जनेन सबहुमानप्रणतेन प्रत्यर्च्यमानस्तदेवारण्यायतनं प्रतिजगाम।



तदेवमसत्कृतानामपि सत्पुरुषाणां पूर्वोपकारिष्वनुकम्पा न शिथिलीभवति कृतज्ञत्वात्क्षमासात्म्याच्च। इति नासत्कारमात्रकेण पूर्वकृतं विस्मर्तव्यम्। एवं स भगवाननभिसंबुद्धोऽपि परवादानभिभूय सत्त्वविनयं कृतवानिति बुद्धवर्णेऽपि वाच्यम्। एवं मिथ्यादृष्टिरननुयोगक्षमानुपाश्रयत्वादसेव्या चेति मिथ्यादृष्टिविगर्हायामप्युपनेयम्। विपर्ययेण सम्यग्दृष्टिप्रशंसायामिति।



॥ इति महाबोधि-जातकं त्रयोविंशतितमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project