Digital Sanskrit Buddhist Canon

२२ हंस-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

22 haṁsa-jātakam

२२. हंस-जातकम्



विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः, प्रागेव सुगतिस्थानाम्। तद्यथानुश्रूयते-



बोधिसत्त्वः किल मानसे महासरसि नैकशतसहस्रसंख्यस्य महतो हंसयूयस्याधिपतिर्धृतराष्ट्रो नाम हंसराजो बभूव। तस्य नयानयपरिज्ञाननिपुणमतिर्विप्रकृष्टगोचरस्मृतिप्रभावः श्लाघनीयकुलतिलकभूतो दाक्ष्यदाक्षिण्यविनयभूषणः स्थिरशुचिशीलवृत्तचारित्रशूरः खेदसहिष्णुरप्रमादी समरवीवधविशारदः स्वाम्यनुरागसुमुखः सुमुखो नाम सेनापतिर्बभूव[आर्यानन्दस्थविरस्तेन समयेन]। तौ परस्परप्रेमगुणाश्रयाज्ज्वलिततरप्रभावावार्यशिष्यमुख्याविव परिशेषं शिष्यगणं पितृज्येष्ठपुत्राविव च श्रेष्ठशेषं पुत्रगणं तद्धंसयूथमुभयलोकहितोदयेष्वर्थेषु सम्यग्निवेशयमानौ तत्प्रत्यक्षिणां देवनागयक्षविद्याधरतपस्विनां परं विस्मयमुपजह्रतुः।



तावासतुर्हंसगणस्य तस्य श्रेयःशरीरोद्वहनैककार्यौ।

नभोगतस्येव विहंगमस्य पक्षौ शरीरोद्वहनैककार्यौ॥१॥



एवं ताभ्यां तदनुगृह्यमाणं हंसयूथं जगदिवं धर्मार्थविस्तराभ्यां परां वृद्धिमवाप। तेन च तत्सरः परां शोभां बभार।



कलनूपुरनादेन हंसयूथेन तेन तत्।

पुण्डरीकवनेनेव रेजे संचारीणा सरः॥२॥



क्वचित्प्रविसृतैर्हंसैः क्वचिद्विषमसंहतैः।

छिन्नाभ्रलवचित्रस्य जहार नभसः श्रियम्॥३॥



अथ तस्य हंसाधिपतेः सर्वसत्त्वहितसुमुखस्य च सेनापतेर्गुणातिशयप्रभावविस्मितमनसः सिद्धर्षिविद्याधरदैवतगणास्तयोः कीर्त्याश्रयाभिः कथाभिस्तत्र तत्राभिरेमिरे।



उत्तप्तचामीकरसंनिकाशं श्रीमद्वपुर्व्यक्तपदाक्षरा वाक्।

धर्माभिजातो विनयो नयश्च कावप्यमू केवलहंसवेषौ॥४॥



गुणप्रकाशैरपमत्सरैः सा कीर्तिस्तयोर्दिक्षु वितन्यमाना।

श्रेद्धेयतामित्यगमन्नृपाणां सदस्सु यत्प्राभृतवच्चचार॥५॥



तेन च समयेन ब्रह्मदत्तो नामान्यतमो वाराणस्यां राजा बभूव। स तां हंसाधिपतेः ससेनाधिपतेर्गुणातिशयाश्रयां कथां प्रात्ययिकामात्यद्विजवृद्धैः सदसि संस्तूयमानामसकृदुपश्रुत्य तयोर्दर्शनं प्रत्यभिवृद्धकौतूहलो नैकशास्त्राभ्यासनिपुणमतीन् सचिवानुवाच-परिमृश्यतां तावद्भोः प्रसृतनिपुणमतयः कश्चिदुपायो येन नास्तौ हंसवर्यौ दर्शनपथमपि तावदुपगच्छेतामिति। अथ तेऽमात्याः स्वैः स्वैर्मतिप्रभावैरनुसृत्य नीतिपथं राजानमूचुः-



सुखाशा देव भूतानि विकर्षति ततस्ततः।

सुखहेतुगुणोत्कर्षश्रुतिस्तावानयेद्यतः॥६॥



तद्यादृशे सरभि तावभिरतरूपावनुश्रूयेते तदुत्कृष्टरगुणशोभमिह सरः कस्मिंश्चिदरण्यप्रदेशे कारयितुमर्हति देवः, प्रत्यहं च सर्वपक्षिणामभयप्रदानघोषणाम्। अपि नाम कौतूहलोत्पादिन्या सुखहेतुगुणातिशयश्रुत्या ताविहाकृष्येयाताम्। पश्यतु देवः,



प्रायेण प्राप्तिविरसं सुखं देव न गण्यते।

परोक्षत्वात्तु हरति श्रुतिरम्यं सुखं मनः॥७॥



अथ स राजा अस्त्वेतदित्यल्पेन कालेन नातिसंनिकृष्टं नगरोपवनस्य मानससरसः प्रतिस्पर्धिगुणविभवं पद्मोत्पलकुमुदपुण्डरीकसौगन्धिकतामरसकल्हारसमूपगूढं विमलसलिलमतिमनोहरं महत्सरः कारयामास-



द्रुमैः कुसुमसंछनैश्चलत्किसलयोज्ज्वलैः।

तत्प्रेक्षार्थमिवोत्पत्रैः कृततीरपरिग्रहम्॥८॥



विहसद्भिरिवाम्भोजैस्तरंगोत्कम्पकम्पिभिः।

विलोभ्यमानाकुलितभ्रमद्भ्रमरसंकुलम्॥९॥



ज्योत्स्नासंवाहनोन्निर्दैर्विचित्रकुमुदैः क्वचित्।

तरुच्छायापरिच्छिन्नैश्चन्द्रिकाशकलैरिव॥१०॥



तरंगाङ्गलिसंक्षिप्तैः कमलोत्पलरेणुभिः।

अभ्यलंकृततीरान्तं हेमसूत्रैरिव क्वचित्॥११॥



चित्रैः पद्मोत्पलदलैस्तत्र तत्र सकेसरैः।

श्रियं प्रविततां बिभ्रदुपहारमयीमिव॥१२॥



प्रसन्नस्तिमिताम्बुत्वाद्व्यक्तचित्रवपुर्गुणैः।

व्योम्नीव परिधावद्भिर्मीनवृन्दैरलंकृतम्॥१३॥



विच्छिन्नमुक्ताहाराभिः क्वचिद् द्विरदशीकरैः।

उपलास्फालनोत्कीर्णमूर्मिचूर्णामिवोद्वहत्॥१४॥



विद्याधरवधूस्नानैर्मदसेकैश्च दन्तिनाम्।

रजोभिः कुसुमानां च सवासमिव कुत्रचित्॥१५॥



ताराणां चन्द्रदाराणां सामान्यमिव दर्पणम्।

मुदितद्विजसंकीर्ण तद्रुतप्रतिनादितम्॥१६॥



तदेवंविधं सरः कारयित्वा सर्वपक्षिगणस्य चानावृतसुखोपभोग्यमेतद्दत्त्वा प्रत्यहं सर्वपक्षिणा विश्वासनार्थमित्यभयदानघोषणां कारयामास-



एष पद्मोत्पलदलच्छन्नतोयमिदं सरः।

ददाति राजा पक्षिभ्यः प्रीत्या साभयदक्षिणम्॥१७॥



अथ कदाचित्संहृतमेघान्धकारयवनिकासु शरद्गुणोपहृदशोभास्वालोकनक्षमासु दिक्षु प्रबद्धकमलवनशोभेषु प्रसन्नसलिलमनोहरेषु सरस्सु परं कान्तियौवनमुपगते प्रचेयकिरण इव चन्द्रमसि विविधसस्यसंपद्विभूषणधरायां वसुंधरायां प्रवृत्ते हंसतरुणजनसंपाते मानसात्सरसः शरत्प्रसन्नानि दिगन्तराण्यनुविचरदनुपूर्वेणान्यतमं हंसमिथुनं तस्मादेव हंसयूथात्तस्य राज्ञो विषयमुपजगाम। तत्र च पक्षिगणकोलाहलोन्नादितमनिभृतमधुकरगणं तरंगमालाविचरणकृतव्यापारैः सुखशिशिरैर्मृदुभिरनिलैः समन्ततो विक्षिप्तमाणकमलकुवलयरेणुगन्धं ज्वलदिव विकचैः कमलैर्हसदिव विकसितैः कुमुदैस्तत्सरो ददर्श। तस्य मानससरःसमुचितस्यापि हंसमिथुनस्य तामतिमनोहरां सरसः श्रियमभिवीक्ष्य प्रादुरभूत्-अहो बत तदपि हंसयूथमिहागच्छेदिति।



प्रायेण खलु लोकस्य प्राप्य साधारणं सुखम्।

स्मृतिः स्नेहानुसारेण पूर्वमेति सुहृज्जनम्॥१८॥



अथ तत्र तद्धंसमिथुनं यथाकामं विहृत्य प्रवृत्ते जलदसमये विद्युद्विस्फुरितशस्त्रविक्षेपेषु नातिघनविच्छिन्नान्धकाररूपेषु समभिवर्तमानेषु दैत्यानीकेष्विव जलधरवृन्देषु परिपूर्णबर्हकलापशोभेषु प्रसक्तकेकानिनादोत्क्रुष्टैर्जलधरविजयमिव संराधयत्सु नृत्तप्रवृत्तेषु चित्रेषु बर्हिगणेषु वाचालतामुपगतेषु स्तोकशुकनिषु प्रविचरत्सु कदम्बसर्जार्जुनकेतकीपुष्पगन्धाधिवासितेषु सुखशिशिरेषु काननविनिश्चसितेष्विवानिलेषु मेघदशनपंक्तिष्विवालक्ष्यमाणरूपासु बलाकायुवतिषु गमनौत्सुक्यमृदुनिकूजितेषु प्रयाणव्याकुलेषु हंसयूथेषु तद्धंसमिथुनं मानसमेव सरः प्रत्याजगाम। समुपेत्य च हंसाधिपतिसमीपं प्रस्तुतासु दिग्देशकथासु तं तस्य सरसो गुणविशेषं वर्णयामास-अस्ति देव दक्षिणेन हिमवतो वाराणस्यां ब्रह्मदत्तो नाम नराधिपतिः। तेनात्यद्भूतरूपशोभमनिर्वर्ण्यगुणसौन्दर्यं महत्सरः पक्षिभ्यः स्वच्छन्दसुखोपभोग्यं दत्तम्। अभयं च प्रत्यहमवघुष्यते। रमन्ते चात्र पक्षिणः स्वगृह इव प्रहीनभयाशङ्का। तदर्हति देवो व्यतीतासु वर्षासु तत्र गन्तुमिति। तच्छ्रुत्वा सर्व एव ते हंसास्तत्संदर्शनसमुत्सुका बभूवुः।



अथ भोधिसत्त्वः सुमुखं सेनापतिं प्रशनव्यक्ताकारं प्रततं ददर्श, कथं पश्यसीति चावोचत्। अथ सुमुखः प्रणम्यैनमुवाच-न प्राप्तं तत्र देवस्य गमनमिति पश्यामि। कुतः ? अमूनि तावल्लोभनीयानि मनोहराण्यामिषभूतानि रूपाणि। न च नः किंचिदिह परिहीयते। कृतकमधुरोपचारवचनप्रच्छन्नतीक्ष्णदौरात्म्यानि च प्रायेण पेलवघृणानि शठानि मानुषहृदयानि। पश्यतु स्वामी,



वाशितार्थस्वहृदयः प्रायेण मृगपक्षिणः।

मनुष्याः पुनरेकीयास्तद्विपर्ययनैपुणाः॥१९॥



उच्यते नाम मधुरं स्वनुबन्धि निरत्ययम्।

वणिजोऽपि हि कुर्वन्ति लाभसिद्ध्याशया व्ययम्॥२०॥



यतो नैतावता देव विस्रम्भः क्षमते क्वचित्।

कार्यार्थमपि न श्रेयः सात्ययापनयः क्रमः॥२१॥



यदि त्ववश्यमेव तत्र गन्तव्यम्, गत्वानुभूय च तस्य सरसो गुणविभूतिरसं न नस्तत्र चिरं विचरितुं क्षमं निवासाय वा चित्तमभिनामयितुमिति पश्यामि। अथ बोधिसत्त्वः प्राप्तायां विमलचन्द्रक्षत्रताराविभूषणायां रजन्यां शरदि तेन हंसयूथेन वाराणसीसरःसंदर्शनं प्रत्यभिवृद्धकौतूहलेन तदभिगमनार्थं पुनः पुनर्विज्ञाप्यमानस्तेषां हंसानामनुवृत्त्या सुमुखप्रमुखेण महता हंसगणेन परिवृत्तश्चन्द्रमा इव शरदभृवृदेन तत्राभिजगाम।



दृष्ट्वैव लक्ष्मी सरसस्तु तस्य तेषां प्रहर्षाकुलविस्मयानाम्।

चित्रप्रकारा रुचिसंनिवेशास्तत्संश्रये तुल्यगुणा बभूवुः॥२२॥



यन्मानसादभ्यधिकं बभूव तैस्तैरवस्थातिशयैः सरस्तत्।

अतश्चिरं तद्गतमानसानां न मानसे मानसमास तेषाम्॥२३॥



तत्र ते तामभयघोषणामुपलभ्य स्वच्छन्दतां च पक्षिगणस्य तस्य च सरसो विभूत्सा प्रमुदितहृदयास्तत्रोद्यानयात्रामिवानुभवन्तः परां प्रीतिसंपदमुपजग्मुः।



अथ तस्मिन् सरस्यधिकृताः पुरुषास्तेषां हंसानां तत्रागमनं राज्ञे प्रत्यवेदयन्त-यादृशगुणरूपौ देव तौ हंसवर्यावनुश्रूयेते तदृशावेव [हंसवर्यौ] कनकावदातरुचिरपत्रौ तपनीयोज्ज्वलतरवदनचरणशोभावधिकतरप्रमाणौ सुसंस्थितदेहौ नैकहंसशतसहस्रपरिवारौ देवस्य सरः शोभयितुमिवानुप्राप्ताविति। अथ स राजा शाकुनिककर्मणि प्रसिद्धप्रकाशनैपुणं शाकुनिकगणे समन्विप्य तद्ग्रहणार्थं सादरमन्वादिदेश। स तथेति प्रतिश्रुत्य तर्योर्हंसयोर्गोचरविहारप्रदेशं सम्यगुपलभ्य तत्र तत्र दृढान्निगूढान् पाशान् न्यदधात्। अथ तेषां हंसानां विश्वासादपायनिराशङ्कानां प्रमोदोद्धतमनसां विचरतां स हंसाधिपतिः पाशेन चरणे न्यबध्यत।



विस्मृतात्ययशङ्कानां सूक्ष्मैर्विश्वासनक्रमैः।

विकरोत्येव विश्रम्भः प्रमादापनयाकरः॥२४॥



अथ बोधिसत्त्वो मा भूदन्यस्यापि कस्यचित्तत्रैवंविधो व्यसनोपनिपात इति रुतविशेषेण सप्रतिभयतां सरसः प्रकाशयामास। अथ ते (हंसा) हंसाधिपतिबन्धाद्व्यथितहृदया भयविरसव्याकुलविरावाः परस्परनिरपेक्षा हतप्रवीरा इव सैनिका दिवं समुत्पेतुः। सुमुखस्तु हंससेनाधिपतिर्हंसाधिपतिसमीपानैव विचचाल।



स्नेहावबद्धानि हि मानसानि

प्राणत्ययं स्वं न विचिन्तयन्ति।

प्राणात्ययाद् दुःखतरं यदेषां

सुहृज्जनस्य व्यसनार्तिदैन्यम्॥२५॥



अथैनं बोधिसत्त्व उवाच-

गच्छ गच्छैव सुमुख क्षमं नेह विलम्बितुम्।

साहाय्यस्यावकाशो हि कस्तवेत्थंगते मयि॥२६॥



सुमुख उवाच-

नैकान्तिको मृत्युरिह स्थितस्य

न गच्छतः स्यादजरामरत्वम्।

सुखेषु च त्वां समुपास्य नित्य-

मापद्गतं मानद केन जह्याम्॥२७॥



स्वप्राणतन्तुमात्रार्थं त्यजतस्त्वां खगाधिप।

धिग्वादवृष्ट्यावरणं कतमन्मे भविष्यति॥२८॥



नैष धर्मो महाराज त्यजेयं त्वां यदापदि।

या गतिस्तव सा मह्यं रोचते विहगाधिप॥२९॥



बोधिसत्त्व उवाच-

का नु पाशेन बद्धस्य गतिरन्या महानसात्।

सा कथं स्वस्थचित्तस्य मुक्तस्याभिमता तव॥३०॥



पश्यस्येवं कमर्थं वा त्वं ममात्मन एव वा।

ज्ञातीनां वावशेषाणामुभयोर्जीवितक्षये॥३१॥



लक्ष्यते च न यत्रार्थस्तमसीव समासमम्।

तादृशे संत्यजन् प्राणान् कमर्थं द्योतयेद्भवान्॥३२॥



सुमुख उवाच-

कथं नु पततां श्रेष्ठ धर्मेऽर्थं न समीक्षसे।

धर्मो ह्युपचितः सम्यगावहत्यर्थमुत्तमम्॥३३॥



सोऽहं धर्मं च संपश्यन् धर्माच्चार्थं समुत्थितम्।

तव मानद भक्त्या च नाभिकाङ्क्षामि जीवितम्॥३४॥



बोधिसत्त्व उवाच-

अद्धा धर्मः सतामेष यत्सखा मित्रमापदि।

न त्यजेज्जीवितस्यापि हेतोर्धर्ममनुस्मरन्॥३५॥



तदर्चितस्त्वया धर्मो भक्तिर्मयि च दर्शिता।

याच्ञ्जामन्त्यां कुरुष्वेमां गच्छैवानुमतो मया॥३६॥



अपि चैवंगते कार्ये यदूनं सुहृदां मया।

तत्त्वया मतिसंपन्न भवेत्परमसंभृतम्॥३७॥



परस्पप्रेमगुणादिति संजल्पतोस्तयोः।

प्रत्यदृश्यत नैषादः साक्षान्मृत्युरिवापतन्॥३८॥



अथ तौ हंसवर्यौ निषादमापतन्तमालोक्य तूष्णीं बभूवतुः। स च तद्धंसयूथं विद्रुतमालोक्य नूनमत्र कश्चिद्वद्ध इति निश्चितमतिः पाशस्थानान्यनुविचरंस्तौ हंसवर्यौ ददर्श। स तद्‍रूपशोभया विस्मितमना बद्धाविति मन्यमानस्तत्समापन्नौ पाशावुद्घट्टयामास। अथैकं बद्धमबद्धेनेतरेण स्वस्थेनोपास्यमानमवेक्ष्य विस्मिततरहृदयः सुमुखमुपेत्योवाच-



अयं पाशेन महता द्विजः संहृतविक्रमः।

व्योम नास्मत्प्रपद्येत मय्यप्यन्तिकमागते॥३९॥



अवद्धस्त्वं पुनः स्वस्थः सज्जपत्ररथी बली।

कस्मात्प्राप्तेऽपि मय्येवं वेगान्न भजसे नभः॥४०॥



तदुपश्रुत्य सुमुखः प्रव्यक्ताक्षरपदविन्यासेन स्वभाववर्णनाधैर्यगुणौजस्विना स्वरेण मानुषीं वाचमुवाच-



शक्तिस्थः सन्न गच्छामि यदिदं तत्र कारणम्।

अयं पाशपरिक्लेशं विहंगः प्राप्तवानिति॥४१॥



अयं पाशेन महता संयतश्चरणे त्वया।

गुणैरस्यतु बद्धोऽहमतो दृधतरैर्हृदि॥४२॥



अथ स नैषादः परमविस्मितमतिः संहृषिततनूरुहः सुमुखं पुनरुवाच-



त्यक्त्वैनं मद्भयदन्ये दिशो हंसाः समश्रिताः।

त्वं पुनर्न त्यजस्येनं को न्वयं भवतो द्विज॥४३॥



सुमुख उवाच-

राजा मम प्राणसमः सखा च

सुखस्य दाता विषमस्थितश्च।

नैवोत्सहे येन विहातुमेनं

स्वजीवितस्याप्यनुरक्षणार्थम्॥४४॥



अथ सुमुखः प्रसादविस्मयावर्जितमानसं तं नैषादमवेत्य पुनरुवाच-

अप्यस्माकमियं भद्र संभाषा स्यात्सुखोदया।

अप्यस्मान् विसृजन्नद्य धर्म्यां कीर्तिमवाप्नुयाः॥४५॥



नैषाद उवाच-

नैव ते दुःखमिच्छामि न च बद्धो भवान् मया।

स त्वं गच्छ यथाकामं पश्य बन्धूंश्च नन्दय॥४६॥



सुमुख उवाच-

नो चेदिच्छसि मे दुःखं तत्कुरुष्व ममार्थनाम्।

एकेन यदि तुष्टोऽसि तत्त्यजैनं गृहाणं माम्॥४७॥



तुल्यारोहपरीणाहौ समानौ वयसा च नौ।

विद्धि निष्क्रय इत्यस्य न तेऽहं लाभहानये॥४८॥



तदङ्ग समवेक्षस्व गृद्धिर्भवतु ते मयि।

मां बध्नातु भवान् पूर्वं पश्चान्मुञ्चेद द्विजाधिपम्॥४९॥



तावानेव च लाभस्ते कृता स्यान्मम चार्थना।

हंसयूथस्य च प्रीतिर्मैत्री तेन तथैव च॥५०॥



पश्यन्तु तावद्भवता विमुक्तं हंसाधिपं हंसगणाः प्रतीताः।

विरोचमानं नभसि प्रसन्ने दैत्येन्द्रनिर्मुक्तमिवोडुराजम्॥५१॥



अथ स नैषादः क्रूरताभ्यसकठिनहृदयोऽपि तेन तस्य जीवितनिरपेक्षेण स्वाम्यनुरागश्लाघिना कृतज्ञतागुनौजस्विना धैर्यमाधुर्यालंकृतवचसा समावर्जितहृदयो विस्मयगौरववशाट्समानीताञ्जलिः सुमुखमुवास-साधु साधु महाभाग !



मानुषेष्वप्ययं धर्म आश्चर्यो दैवतेषु वा।

स्वाम्यर्थंत्यजता प्राणान् यस्त्वयात्र प्रदर्शितः॥५२॥



तदेष ते विमुचामि राजनमनुमानयन्।

को हि प्राणाप्रियतरे तवास्मिन् विप्रियं चरत्॥५३॥



इत्युक्त्वा स नैषादस्तस्य नृप्तेः संदेशमनादृत्य हंसराजं समनुमानयन् दयासुमुखं पाशान्मुमोच। अथ सुमुखः सेनापतिर्हंसराजविमोक्षात्परमानन्दितहृदयः प्रीत्यभिस्निग्धमुदीक्षमाणो नैषादमुवाच-



यथा सुहृन्नन्दन नन्दितोऽस्मि त्वयाद्य हंसाधिपतेर्विमोक्षात्।

एवं सुहृज्ज्ञातिगणेन भद्र शरत्सहस्त्राणि बहूनि नन्द॥५४॥



तन्मा तवायं विफलः श्रमो भूदादाय मां हंसगणाधिपं च।

स्वस्थावबद्धावधिरोप्य काचमन्तःपुरे दर्शय भूमिपाय॥५५॥



असंशयं प्रीतमनाः स राजा हंसाविपं सानुचरं समीक्ष्य।

दास्यत्यसंभावितविस्तराणि धानानि ते प्रीतिविवर्धनानि॥ ५६॥



अथ नैषादस्तस्य निर्बन्धात् पश्यतु तावदत्यद्भुतमिदं हंसयुतं स राजेति कृत्वा ते हंसमुख्यौ काचेनादय स्वस्थावबद्धौ राज्ञे दर्शयामास।



उपायनाश्चर्यमिदं द्रष्टुमर्हसि मानद।

ससेनापतिरानीतः सोऽयं हंसपतिर्मया॥५७॥



अथ स राजा प्रहर्षविस्मयापूर्णमतिर्दृष्ट्वा ती हंसप्रधानी काञ्चनपुञ्जाविवश्रियाभिज्वलन्मनोहररूपौ तं नैषादमुवाच-



स्वस्थावबद्धावमुकौ विहंगौ भूमिचारिणः।

तव हस्तमनुप्राप्तौ कथं कथय विस्तरम्॥५८॥



इत्युक्ते स नैषादः प्रणम्य राजानमुवाच-

निहिता बहवः पाशा मया दारुणदारुणाः।

विहगाक्रिडदेशेषु पल्वलेषु सरस्सु च॥५९॥



अथ विस्रम्भनिःशङ्को हंसवर्यश्चरन्नयम्।

परिच्छन्नेन पाशेन चरणे समबध्यत॥६०॥



अबद्धस्तमुपासीनो मामयं समयाचत।

आत्मानं तिष्क्रयं कृत्वा हंसराजस्य जीवितम्॥६१॥



विसृजन्मानुषीं वाचं विस्पष्टमधुराक्षराम्।

स्वजीवितपरित्यागाद्याच्ञामप्यूर्जितक्रमाम्॥६२॥



तेनास्य वाक्येन सुपेशलेन स्वाम्यर्थधीरेण च चेष्टितेन।

तथा प्रसन्नोऽस्मि यथास्य भर्ता मया समं क्रूरतयैव मुक्तः॥६३॥



अथ विहगपतेरयं विमोक्षान्मुदितमतिर्बहुधा वदन् प्रियाणि।

त्वदभिंगम इति न्ययोजयन्मां विफलगुरुः किल मा मम श्रमो भूत्॥६४॥



तदेवमतिधार्मिकः खगवराकृतिः कोऽप्यसौ

ममापि हृदि मार्दवं जनितवान् क्षणेनैव यः।

खगाधिपतिमोक्षणं कृतमनुस्मरन् मत्कृते

सहाधिपतिनागतः स्वयमयं च तेऽन्तःपुरम्॥६५॥



तदुपश्रुत्य स राजा सप्रमोदविस्मयेन मनसा विविधरत्नप्रभोद्भासुरसुरुचिरपादं परार्ध्यास्तरणरचनाभिरामं श्रिमत्सुखोपाश्रयसाटोपमुपहितपादपीठं राजाध्यासनयोग्यं काञ्चनमासनं हंसराजाय समादिदेशः, अमात्यमुख्याध्यासनयोग्यं च वेत्रासनं सुमुखाय। अथ बोधिसत्त्वः काल इदानीं प्रतिसंमोदितुमिति नूपुरारावमधुरेण स्वरेण राजानमाबभाषे-



द्युतिकान्तिनिकेतने शरीरे कुशलं ते कुशलार्ह कच्चिदस्मिन्।

अपि धर्मशरीरमव्रणं ते विपुलैरुच्छ्वसितीव वाक्प्रदानैः॥६६॥



अपि रक्षणदीक्षितः प्रजानां समयानुग्रहविग्रहप्रवृत्त्या।

अभिवर्धयसे स्वकीर्तिशोभमनुरागं जगतो हितोदयं च॥६७॥



अपि शुद्धतयोपधास्वसक्तैरनुरक्तैर्निपुणक्रियैरमात्यैः।

समवेक्षयसे हितं प्रजानां न च तत्रासि परोक्षबुद्धिरेव॥६८॥



नयविक्रमसंहृतप्रतापैरपि सामन्तनृपैः प्रयाच्यमानः।

उपयासि दयानुवृत्तिशोभां न च विश्वासमयीं प्रमादनिद्राम्॥६९॥



अपि धर्मसुखार्थनिर्विरोधास्तव चेष्टा नरविर सज्जनेष्टाः।

वितता इव दिक्षु कीर्तिसिद्ध्या रिपुभिर्निश्वसितैरसत्क्रियन्ते॥७०॥



अथैनं स नृपतिः प्रमोदादभिव्यज्यमानेन्द्रियप्रसादः प्रत्युवाच-

अद्य मे कुशलं हंस सर्वत्र च भविष्यति।

चिराभिलषितः प्राप्तो यदयं सत्समागमः॥७१॥



त्वयि पाशवशं प्राप्ते प्रहर्षद्धतचापलः।

कचिन्नायमकारिषीत्ते दण्डेनाभिरुजन् रुजम्॥७२॥



एवं ह्यमीषां जाल्मानां पक्षिणां व्यसनोदये।

प्रहर्षाकुलिता बुद्धिरापतत्येव कल्मषम्॥७३॥



बोधिसत्त्व उवाच-

क्षेममासीन्महाराज सत्यामप्येवमापदि।

न चायं किंचिदस्मासु शत्रुवत्प्रत्यपद्यत॥७४॥



अबद्धं बद्धवदयं मत्स्नेहात्सुमुखं स्थितम्।

दृष्ट्वाभाषत साम्नैव सकौतूहलविस्मयः॥७५॥



सूनृतैरस्य वचनैरथावर्जितमानसः।

मामयं व्यमुचत्पाशाद्विनयदनुमानयन्॥७६॥



अतश्च सुमुखेनेदं हितमस्य समीहितम्।

इहागमनमस्मकं स्यदस्यापि सुखोदयम्॥७७॥



नृपतिरुवाच-

आकाङ्क्षिताभिगमयोः स्वागतं भवतोरिह।

अतीव प्रीणितश्चास्मि युष्मत्संदर्शनोत्सवात्॥७८॥



अयं च महतार्थेन नैषादोऽद्य समेष्यति।

उभयेषां प्रियं कृत्वा महदर्हत्ययं प्रियम्॥७९॥



इत्युक्त्वा स राजा तं नैषादं महता धनविस्तरप्रदानेन समान्य पुनर्हंसराजमुवाच-



इमं स्वमावासमुपागतौ युवां विसृज्यतां तन्मयि यन्त्रणाव्रतम्।

प्रयोजनं येन यथा तदुच्यतां भवत्सहाया हि विभूतयो मम॥८०॥



अशङ्कितोक्तैः प्रणयाक्षरैः सुहृत् करोति तुष्टिं विभवस्थितस्य याम्।

न तद्विधां लम्भयते स तां धनैर्महोपकारः प्रणयः सुहृत्स्वतः॥८१॥



अथ स राजा सुमुखसंभाषणकुतूहलहृदयः सविस्मयभिवीक्ष्य सुमुखमुवाच-

अलब्धगाधा नवसंस्तवे जने न यान्ति कामं प्रणयप्रगल्भताम्।

वचस्तु दाक्षिण्यसमाहिताक्षरं न ते न जल्पन्त्युपचारशीभरम्॥८२॥



संभाषणेनापि यतः कर्तुमर्हति नो भवान्।

साफल्यं प्रणयाशायाः प्रीतेश्चोपचयं हृदि॥८३॥



इत्युक्ते सुमुखो हंससेनापतिर्विनयादभिप्रणम्यैनमुवाच-

महेन्द्रकल्पेन सह त्वया संभाषणोत्सवः।

इति दर्शितसौहार्दे कस्य नातिमनोरथः॥८४॥



संभाषमाणे तु नराधिपे च सौहार्दरम्यं विहगाधिपे च।

तत्संकथामध्यमुपेत्य धार्ष्ट्यान्नन्वक्रमः प्रेष्यजनस्य वक्तुम्॥८५॥



न हेय्ष मार्गो विनयभिजातस्तं चैव जानन् कथमभ्युपेयाम्।

तूष्णीं महाराज यतः स्थितोऽहं तन्मर्षणीयं यदि मर्षणीयम्॥८६॥



इत्युक्ते स राजा सप्रहर्षविस्मयवदनः संराधयन् सुमुखमुवाच-

स्थाने भवद्गुणकथा रमयन्ति लोकं

स्थानेऽसि हंसपतिना गमितः सखित्वम्।

एवंविधं हि विनयं नयसौष्ठवं च

नैवाकृतात्महृदयानि समुद्वहन्ति॥८७॥



तदियं प्रस्तुता प्रीतिर्विच्छिद्येत यथा न नः।

तथैव मयि विस्रम्भ अजर्यं ह्यार्यसंगतम्॥८८॥



अथ बोधिसत्त्वस्तस्य राज्ञः परां प्रीतिकामतामवेत्य स्नेहप्रवृत्तिसुमुखतां च संराधयन्नवोचदेनम्-



यत्कृत्यं परमे मित्रे कृतमस्मासु तत्त्वया।

संस्तवे हि नवेऽप्यस्मिन् स्वमाहात्म्यानुवर्तिना॥८९॥



कश्च नाम महाराज नावलम्ब्येत चेतसि।

संमानविधिनानेन यस्त्वयास्मासु दर्शितः॥९०॥



प्रयोजनं नाम कियत्किमेव वा मदाश्रयं मानद यत्त्वमीक्षसे।

प्रियातिथित्व गुणवत्सलस्य ते प्रवृत्तमभ्यासगुणादिति ध्रुवम्॥९१॥



न चित्रमेतत्त्वयि वा जितात्मनि प्रजाहितार्थं धृतपार्थिवव्रते।

तपःसमाधानपरे मुनाविव स्वभाववृत्त्या हि गुणास्त्वयि स्थिताः॥९२॥



इति प्रशंसासुभगाः सुखा गुणा न दोषदुर्गेषु वसन्ति भूतयः।

इमां विदित्वा गुणदोषधर्मतां सचेतनः कः स्वहितोत्पथं भचेत्॥९३॥



न देशमाप्नोति पराक्रमेण तं न कोशवीर्येण न नितीसंपदा।

श्रमव्ययाभ्यां नृपतिर्विनैव यं गुणाभिजातेन पथधिगच्छति॥९४॥



सुराधिपश्रीरपि वीक्षते गुणान् गुणोदितानेव परैति संनति।

गुणेभ्य एव प्रभवन्ति कीर्तयः प्रभावमाहात्म्यमिति श्रितं गुणान्॥९५॥



अमर्षदर्पोद्भवकर्कशान्यपि प्ररूढवैरस्थिरमत्सराण्यपि।

प्रसादयन्त्येव मनांसि विद्विषां शशिप्रकाशाधिककान्तयो गुणाः॥९६॥



तदेवमेव क्षितिपाल पालयन् महीं प्रतापानतदृप्तपार्थिवाम्।

अमन्दशोभैर्विनयदिभिर्गुणैर्गुणानुरागं जगतं प्रबोधय॥९७॥



प्रजाहितं कृत्यतमं महीपतेस्तदन्य पन्था ह्युभयत्र भूतये।

भवेच्च तद्राजनि धर्मवत्सले नृपस्य वृत्तं हि जनोऽनुवर्तते॥९८॥



प्रशाधि धर्मेण वसुंधरामतः करोतु रक्षां त्रिदशाधिपश्च ते।

त्वदन्तिकात्संश्रितभावनादपि स्वयूथ्यदुःखं तु विकर्षतीव माम्॥९९॥



अथ स राजा समभिनन्द्य तत्तस्य वचनं सपर्षत्कः संमानप्रियवचनप्रयोगपुरःसरं तौ हंसमुख्यौ विससर्ज। अथ बोधिसत्त्वः समुत्पत्य विमलखड्गाभिनीलं शरत्प्रसन्नशोभं गगनतलं प्रतिबिम्बेनेवानुगम्यमानः सुमुखेन हंससेनापतिना समुपेत्य हंसयूथं संदर्शनादेव परेण प्रहर्षेण संयोजयामास।



कालेन चोपेत्य नृपं स हंसः परानुकम्पव्यसनी सहंसः।

जगाद धर्मं क्षितिपेन तेन प्रत्यर्च्यमानो विनयानतेन॥१००॥



तदेवं विनिपातगतानामपि सतां वृत्तं नालमनुगन्तुमसत्पुरुषाः प्रागेव सुगतिष्ठानामिति। एवं कल्याणी वागुभयहितावहा भवतीति कल्याणवचनप्रशंसायामप्युपनेयम्। कल्याणमित्रवर्णेऽपि वाच्यम्, एवं कल्याणमित्रवतां कृच्छ्रेऽप्यर्थाः संसिध्यन्तीति। स्थविरार्यानन्दपूर्वसभागप्रदर्शने च, एवमयं स्थविरः सहचरितचरणो बोधिसत्त्वेन चिरकालाभ्यस्तप्रेमबहुमानो भवतीति।



॥इति हंस-जातकं द्वाविशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project