Digital Sanskrit Buddhist Canon

२१ चुड्डबोधि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

21 cuḍḍabodhi-jātakam

२१. चुड्डबोधि-जातकम्



क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा। तद्यथानुश्रूयते-



बोधिसत्त्वः किल महासत्त्वः कस्मिंश्चिन्महति ब्राह्मणकुले गुणाभ्यासमाहात्म्यादतिवृद्धयशसि प्रतिनियतसमृद्धिगुणे राजसत्कृते दैवतसंमते लोकस्य जन्म प्रतिलेमे। कालानामत्ययेनाभिवृद्धः कृतसंस्कारकर्मा श्रुतगुणाभ्यासादचिरेणैव विद्वत्सदस्सु प्रकाशनामा बभूव।



कीतिर्विद्वत्सदस्स्वेव विदुषां प्रविजृम्भते।

रत्नज्ञेष्विव रत्नानां शूराणां समरेष्विव॥१॥



अथ स महात्मा प्रव्रज्याकृतपरिचयत्वात्पूर्वजन्मसु स्वभ्यस्तधर्मसंज्ञत्वात्प्रज्ञावदातमतित्वच्च न गेहे रतिमुपलेभे। स कामान् विग्रहविवादमदवैरस्यप्राचुर्याद्राजचौरोदकदहनविप्रियदायादसाधारणत्वादतृप्तिजनकत्वादनेकदोषायतनत्वाच्च सविषमिवान्नमात्मकामः परित्यज्य संहृतकेशश्मश्रुशोभः काषायविवर्णवासाः परित्यक्तगृहवेषविभ्रमः प्रव्रज्याविनयनियमश्रियमशिश्रियम्। तदनुरागवशगा चास्य पत्नी केशानवतार्याहार्यविभूषणोद्वहननिर्व्यापारशरीरा स्वरूपगुणशोभाविभूषिता काषायवस्त्रसंवीततनुरनुप्रवव्राज। अथ बोधिसत्त्वस्तपोवनानुगमनव्यवसायमस्य विद्त्वा तपोवनाध्यासनायोग्यतां च स्त्रीसौकुमार्यस्यावोचदेनां-भद्रे दर्शितस्त्वयायमस्मदनुरागस्वभावः। तदलमस्मदनुगमनं प्रत्यनेन व्यवसायेन ते। यत्रैव त्वन्याः प्रव्रजिताः प्रतिवसन्ति तत्र भवत्यास्ताभिरेव सार्ध प्रतिरूपं वस्तुं स्यात्। दुरभिसंभवानि ह्यरण्यायतनानि। पश्य-



शमशानशून्यालयपर्वतेषु वनेषु च व्यालमृगाकुलेषु।

निकेतहीना यतयो वसन्ति यत्रैव चास्तं रविरभ्युपैति॥२॥



ध्यानोद्यमादेकचराश्च नित्यं स्त्रिदर्शनादप्यपवृत्तभावाः।

निवर्तितुं तेन मतिं कुरुष्व कोऽर्थस्तबानेन परिभ्रमेण॥३॥



सा नियतमेनमनुगमनकृतनिश्चया बाष्पोपरुध्यमाननयना किंचिदीदृशं प्रत्युवाच-



यदि मे श्रमबुद्धिः स्यत्तवानुगमनोत्सवे।

किमित्येवं प्रपद्येय दुःख तव च विप्रियम्॥४॥



यत्तु नैव समर्थास्मि वर्तितुं रहिता त्वया।

इत्याज्ञातिक्रममिमं त्वं मम क्षन्तुमर्हसि॥५॥



इति सा द्वित्रिरप्युच्यमानायदा नेच्छति स्म निवर्तितुम्, ततो बोधिसत्त्व उपेक्षानिभृतमतिरस्यां बभूव।



स तयानुगम्यमानश्चक्रवाक इव चक्रवाक्या ग्रामनगरनिगमाननुविचरन् कदाचित्कृतभक्तकृत्यः कस्मिंश्चित्प्रविविक्ते श्रिमति नानातरुगहनोपशोभिते घनप्रच्छाये कृतोपकार इव क्वचित्क्वचिद्दिनकरकिरणचन्द्रकैर्नानुकुसुमरजोऽवकीर्णधरणितले शुचौ वनोद्देशे ध्यानविधिमनुष्ठाय सायान्हसमये व्युत्थाय समाधेः पांसुकूलानि सिव्यति स्म। सापि प्रव्रजिता तस्यैव नातीदूरे वृक्षमूलमुपशोभयमाना देवतेव स्वेन वपुषः प्रभावेण विराजमाना तदुपदिष्टेन मनस्कारविधिना ध्यायति स्म।



अथ तत्रत्यो राजा वसन्तकालजनिताभ्यधिककिसलयशोभानि भ्रमद्भ्रमरमधुकरीगणोपकूजितानि प्रमत्तकोकिलकुलकिलकिलानि प्रहसितकमलकुवलयालंकृताभिलषणियजलाशयानि विविधकुसुमसंमोदगन्धाधिवासितसुखपवनान्युपवनानि समनुविचरंस्तं देशमुपजगाम।



विचित्रपुष्पस्तबकोज्ज्वलानि कृतच्छदानीव वसन्तलक्ष्म्या।

वाचालपुंस्कोकिलबर्हिणानि सरोरुहाकीर्णजलाशयानि॥६॥



समुद्भवत्कोमलशाद्वलानि वनानि मत्तभ्रमरारुतानि।

आक्रीडभूतानि मनोभवस्य द्रष्टुं भवत्येव मनःप्रहर्षः॥७॥



अथ स राजा सविनयमभिगम्य बोधिसत्त्वं कृतप्रतिसंमोदनकथस्तत्रैकान्ते न्वषिदत। स तां प्रव्रजितामतिमनोहरदर्शनामभिवीक्ष्य तस्या रूपशोभया समाक्षिप्यमागहृदयो नूनमस्येयं सहधर्मचारिणीत्यवेत्य लोलस्वभवत्वात्तदपहरणोपायं विममर्श।



श्रुतप्रभावः स तपोधनानां शापार्चिषः क्रोषहुताशनस्य।

संक्षिप्तधैर्योऽपि मनोभवेन नास्मिन्नवज्ञारभसो बभूव॥८॥



तस्य बुद्धिरभवत्-तपःप्रभावमस्य ज्ञात्वा शक्यमत्र तद्युक्तं प्रवर्तितुं नान्यथा। यद्ययमस्यां संरागवक्तव्यमतिर्व्यक्तमस्मिन्न तपःप्रभावोऽस्ति। अथ वीतरागः स्यान्मन्दापेक्षो वा ततोऽस्मिन् संभाव्यं तपःप्रभवमाहात्म्यम्। इति विचिन्त्य स राजा तपह्प्रभावजिज्ञासया बोधिसत्त्वं हितैषिवदुवाच-भोः प्रव्रजित प्रचुरधूर्तसाहसिकपुरुषेऽस्मिंल्लोके न युक्तमत्रभवतो निराक्रन्देषु वनेष्वेवं प्रतिरूपयानया सहधर्मचारिण्या सह विचरितुम्। अस्यां हि ते कश्चिदपराध्यमानो नियतस्मानप्युपक्रोशभाजनीकुर्यात्। पश्य



एवं विविक्तेषु तपःकृशं त्वां धर्मेण सार्धं परिभूय कश्चित्।

इमां प्रसह्यापहरेद्यदा ते शोकात्परं किं बत तत्र कुर्याः॥९॥



रोषप्रसङ्गो हि मनःप्रयाथी धर्मोपमर्दाद्यशसश्च हन्ता।

वसत्वियं तेन जनान्त एव स्त्रीसंनिकर्षेण च किं यतीनाम्॥१०॥



बोधिसत्त्व उवाच-युक्तमाह महाराजः। अपि तु श्रूयतां यदेवंगतेऽर्थे प्रपद्येय-



स्यादत्र मे यः प्रतिकूलवर्ती दर्पोद्भवादप्रतिसंख्यया वा।

व्यक्तं न मुच्येत स जीवतो मे धाराधनस्येव धनस्य रेणुः॥११॥



अथ स राजा तीव्रापेक्षोऽयमस्यां तपःप्रभावहीन इत्यवज्ञाय तं महासत्त्वं तदपायनिराशङ्कः कामरागवशगः स्त्रीसंदर्शनाधिकृतान् पुरुषान् समादिदेश-गच्छतैतां प्रव्रजितामन्तःपुरं प्रवेशयतेति। तदुपश्रुत्य सा प्रव्रजिता व्यालमृगाभिद्रुतेव वनमृगी भयविषादविक्लवमुखी बाष्पोपरुध्यमाननयना गद्गदायमानकण्ठी तत्तदार्तिवशाद्विललाप-



लोकस्य नामार्तिपराजितस्य परायणं भूमिपतिः पितेव।

स एव यस्य त्वनयाबहुः स्यादाक्रन्दनं कस्य नु तेन कार्यम्॥१२॥



भ्रष्टाधिकारा बत लोकपाला न सन्ति वा मृत्युवशं गता वा।

न त्रातुमार्तानिति ये सयत्ना धर्मोऽपि मन्ये श्रुतिमात्रमेव॥१३॥



किं वा सुरैर्मे भगवान् यदेवं मद्भागधेयैर्धृतमौन एव।

परोऽपि तावन्नौ रक्षणीयः पापात्मभिर्विप्रतिकृष्यमाणः॥१४॥



नश्येति शापाशनिनाभिमृष्टः स्याद्यस्य शैलः स्मरनीयमूर्तिः।

इत्थंगतायामपि तस्य मौनं तथापि जीवामि च मन्दभाग्या॥१५॥



पापा कृपापाततरा न वाहमेवंबिधामापदमभ्युपेता।

आर्तेषु कारूण्यमयी प्रवृत्तिस्तपोधनानां किमयं न मार्गः॥१६॥



शङ्के तवाद्यापि तदेव चित्ते निवर्त्यमानास्मि न यन्निवृत्ता।

तवाप्रियेणापि मयेप्सितं यदात्मप्रियंहा तदिदं कथं मे॥१७॥



इति तां प्रव्रजिता करुनविलापाक्रन्दितरुदितमात्रपरायणां ते राजसमादिष्टाः पुरुषा यानमारोप्य पश्यत एव तस्य महसत्त्वस्यान्तःपुराय निन्युः। बोधिसत्त्वोऽपि प्रतिसंख्यानबलात्प्रतिनुद्य क्रोधबलं तथैब पांसुकूलानि निःसंक्षोभः प्रशान्तचेताः सीव्यति स्म। अथैनं स राजोवाच-



अमर्षरोषाभिनिपातिताक्षरं तदुच्चकैर्गर्जितमूर्जितं त्वया।

हृतां च पश्यन्नपि तां वराननामशक्तिदीनप्रशमोऽस्यवस्थितः॥१८॥



तद्दर्शय स्वां भुजयो रुषं वा तेजस्तपःसंश्रयसंभृतं वा।

आत्मप्रमाणग्रहणानभिज्ञो व्यर्थप्रतिज्ञो ह्यधिकं न भाति॥१९॥



बोधिसत्त्व उवाच-अव्यर्थप्रतिज्ञमेव मां विद्धि महाराज।

योऽभून्ममात्र प्रतिकूलवर्ती विस्पन्दमानोऽपि स मे न मुक्तः।

प्रसह्य नीतः प्रशमं मया तु तस्माद्यथार्थैव मम प्रतिज्ञा॥२०॥



अथ स राजा तेन बोधिसत्त्वस्य धैर्यातिशयव्यञ्जकेन प्रशमेन समुत्पादिततपस्विगुणसंभावनश्चिन्तामापेदे-अन्यदेवानेन ब्राह्मणेनाभिसंधाय भाषितम्, तदपरिज्ञायास्माभिश्चापलकृतमिदमिति जातप्रत्यवमर्शो बोधिसत्त्वमुवाच-



कोऽन्यस्तवाभूत्प्रतिकूलवर्ती यो विस्फुरन्नेव न ते विमुक्तः।

रेणुः समुद्यन्निव तोयदेन कश्चोपनीतः प्रशमं त्वयात्र॥२१॥



बोधिसत्त्व उवाच-श्रृणु महाराज!

जाते न दृश्यते यस्मिन्नजाते साधु दृश्यते।

अभून्मे स न मुक्तश्च क्रोधः स्वाश्रयबाधनः॥२२॥



येन जातेन नन्दन्ति नराणामहितैषिणः।

सोऽभून्मे न विमुक्तश्च क्रोधः शात्रवनन्दनः॥२३॥



उत्पद्यमाने यस्मिंश्च सदर्थं न प्रपद्यते।

तमन्धीकरणं राजन्नहं क्रोधमशीशमम्॥२४॥



येनाभिभूतः कुशलं जहाति प्राप्तादपि भ्रश्यत एव चार्थात्।

तं रोषमुग्रग्रहवैकृताभं स्फुरन्तमेवानयमन्तमन्तः॥२५॥



काष्ठाद्यथाग्निः परिमथ्यमानादुदेति तस्यैव पराभवाय।

मिथ्याविकल्पैः समुदीर्यमाणस्तथा नरस्यात्मवधाय रोषः॥२६॥



दहनमिव विजृम्भमाणरौद्रं शमयति यो हृदयज्वरं न रोषम्।

लघुरयमिति हीयतेऽस्य कीर्तिः कुमुदसखीव शशिप्रभा प्रभाते॥२७॥



परजनदुरितान्यचिन्तयित्वा रिपुमिव पश्यति यस्तु रोषमेव।

विकसति नियमेन तस्य कीर्तिः शशिन इवाभिनवस्य मण्डलश्रीः॥२८॥



इयमपरा च रोषस्य महादोषता-

न भात्यलंकारगुणान्वितोऽपि क्रोधाग्निना संहृतवर्णशोभः।

सरोषशल्ये हृदये च दुःखं महार्हशय्याङ्कगतोऽपि शेते॥२९॥



विस्मृत्य चात्मक्षमसिद्धिपक्षं रोषात्प्रयात्येव तदुत्पथेन।

निहीयते येन यशोऽर्थसिद्ध्या तामिस्रपक्षेन्दुरिवात्मलक्ष्म्या॥३०॥



रोषेण गच्छत्यनयप्रपातं निवार्यमाणोऽपि सुहृज्जनेन।

प्रायेण वैरस्य जडत्वमेति हिताहितावेक्षणमन्दबुद्धिः॥३१॥



क्रोधाच्च सात्मीकृतपापकर्मा शोचत्यपायेषु समाशतानि।

अतः परं किं रिपवश्च कुर्युस्तीव्रापकारोद्धतमन्यवोऽपि॥३२॥



अन्तःसपत्नः कोपोऽयं तदेवं विदितं मम।

तस्यावलेपप्रसरं कः पुमान् मर्षयिष्यति॥३३॥



अतो न मुक्तः कोपो मे विस्फुरन्नपि चेतसि।

इत्यनर्थकरं शत्रुं को ह्युपेक्षितुमर्हति॥३४॥



अथ स राजा तेन तस्याद्भुतेन प्रशमगुणेन हृदयग्राहकेण च वचसाभिप्रसादितमतिरुवाच--



अनुरूपः शमस्यास्य तवायं वचनक्रमः।

बहुना तु किमुक्तेन वञ्चितास्त्वददर्शिनः॥३५॥



इत्यभिप्रशस्यैनमभिसृत्यैवास्य पादयोन्र्यपतत् अत्ययदेशनां च चक्रे। तां च प्रव्रजितां क्षमयित्वा व्यवसर्जयत्, परिचारक चात्मानं बोधिसत्त्वस्य निर्यातयामास।



तदेवं क्रोधविनयाच्छत्रूनुपशमयति, वर्धयत्येव त्वन्यथा, इति क्रोधविनये यत्नः कार्यः। एवमवैरेण वैराणि शाम्यन्ति, संयमतश्च वैरं न चीयते। एवं चोभयोरर्थं चरत्यक्रोधन इत्येवमादिषु क्षमानुशंसाप्रतिसंयुक्तेषु सूत्रेषु वाच्यम्। क्रोधादीनवकथायां तथागतमाहात्म्ये चेति।



॥इति चड्डुबोधि-जातकमेकविंशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project