Digital Sanskrit Buddhist Canon

२० श्रेष्ठि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

20 śreṣṭhi-jātakam

२०. श्रेष्ठि-जातकम्



अभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम्। तद्यथानुश्रूयते-



बोधिसत्त्वः किल श्रुतकुलविनयमहानक्षुद्रनिपुणमतिरविषमव्यवहाररतिरनेकशास्त्राभ्यासादालक्षितवचनसौष्ठबः करुणानुवृत्त्या समन्ततो विस्यन्दमानधनसमृद्धिर्महाप्रदानैर्महाधनत्वाद् गृहपतिरत्नसंमतोऽन्यतमस्य राज्ञः श्रेष्ठी बभूव।



स प्रकृत्यैव धर्मात्मा श्रुतादिगुणभूषणः।

अभूत्प्रायेण लोकस्य बहुमानैकभाजनम्॥१॥



अथ कदाचित्तस्मिन्महासत्त्वे राजकुलमभिगते केनचिदेव करणीयेन तस्य श्वश्रूर्दुहितरमवलोकयितुं तद्गृहमभिजगाम। कृताभ्यागमनसत्कारा च संकथाप्रस्तावागतं स्वां दुहितरं बोधिसत्त्वभार्यां रहसि कुशलपरिप्रश्नपूर्वकं पर्यपृच्छत्कच्चित्त्वां तात भर्ता नावमन्यते। कच्चिद्वा वेत्ति परिचर्यागुणम्। न वा दुःखशीलतया प्रबाधत इति। सा व्रीडावनतवदना लज्जाऽप्रगल्भं शनकैरुवाच-यादृशोऽयं शीलगुणसमुदाचारेण, प्रव्रजितोऽपि दुर्लभः क इदानीं तादृशः। अथ सा तस्या माता जरोपहतश्रुतिस्मृतित्वाल्लज्जासंकुचिताक्षरं तनयया तद्वचनमभिधीयमानं न सम्यगुपधारयामात। प्रव्रजितसंकीर्तनात्तु प्रव्रजितो मे जामातेति निश्चयमुपजगाम। सा सस्वरमभिरुदिता स्वां दुहितरमनुशोचन्ती दुःखावेगवशात्परिदेवनपरा बभूव। कीदृशस्तस्य शीलगुणसमुदाचारो य एवमनुरक्तं स्वं जनमपहाय प्रव्रजितः ? किं वा तस्य प्रव्रज्यया ?



तरुणस्य वपुष्मतः सतः सुकुमारस्य सुखोचितात्मनः।

क्षितिपाभिमतस्य तस्य वै वनवासे प्रणता मतिः कथम्॥२॥



स्वजनादनवाप्य विप्रियं जरया वोपहृतां विरूपताम्।

कथमेकपदे रुजं विना विभवोद्गारि गृहं स मुक्तवान्॥३॥



विनयाभरणेन धीमता प्रियधर्मेण परानुकम्पिना।

कथमभ्युपपन्नमीदृशं स्वजने निष्करुणत्वचापलम्॥४॥



श्रमणद्विजमित्रसंश्रितान्स्वजनं दीनजनं च मानयन्।

शुचिशीलधनः किमाप्नुयान्न स गेहेषु वने यदीप्सति॥५॥



अपराधविवर्जितां त्यजन्ननुकूलां सहधर्मचारिणीम्।

यतिधर्मपरः स नेक्षते किमिमं धर्मपथव्यतिक्रमम्॥६॥



धिगहो बत दैवदुर्नयाद्यदि भक्तं जनमेवमुज्झताम्।

न घृणापथमेति मानसं यदि वा धर्मलवोऽपि सिध्यति॥७॥



अथ सा बोधिसत्त्वस्य पत्नी तेन मातुः करुणेनाकृतकेन परिदेवितेन पतिप्रव्रज्याभिसंबन्धेन स्त्रीस्वभावाद् व्यथितहृदया ससंभ्रमा विषादविक्लवमुखी शोकदुःखाभिनिपातसंक्षोभाद्विस्मृतकथाप्रस्तावसंबन्धा प्रव्रजितो मे भर्तेति मद्‍व्यवस्थापनार्थमम्बा गृहमिदमभिगता विप्रियश्रवणादिति निश्चयमुपेत्य सपरिदेवितं सस्वरं रुदती मोहमुपजगाम बाला। तदुपश्रुत्य गृहजनः परिजनवर्गश्च शोकदुःखावेगादाक्रन्दनं चकार। तच्छ्रुत्वा प्रातिवेश्यमित्रस्वजनबन्धुवर्गः संश्रितजनो ब्राह्मणगृहपतयश्च तस्य गृहपतेरनुरागवशानुगाः प्रायशश्च पौरास्तद्गृहमभिजग्मुः।



प्रायेण लोकस्य बभूव यस्मात्तुल्यक्रमोऽसौ सुखदुःखयोगे।

अतोऽस्य लोकोऽप्यनुशिक्षयेव तुल्यक्रमोऽभूत्सुखदुःखयोगे॥८॥



अथ बोधिसत्त्वो राजकुलात् स्वभवनसमीपमुपगतः साक्रन्दशब्दं स्वभवनमवेत्य महतश्च जनकायस्य संनिपातं स्वं पुरुषमन्वादिदेश ज्ञायतां किमेतदिति। स तं वृत्तान्तमुपलभ्य समुपेत्यास्मै निवेदयामास-



उत्सृज्य भवनं स्फीतमार्यः प्रव्रजितः किल।

इति श्रुत्वा कुतोऽप्येष स्नेहादेवंगतो जनः॥९॥



अथ स महासत्त्वः प्रकृत्या शुद्धाशयः प्रत्यादिष्ट इव तेन वचसा समुपजातव्रीडसंवेगश्चिन्तामापेदे। भद्रा बत मयि जनस्य संभावना।



श्लाघनीयामवाप्यैतां गुणसंभावनां जनात्।

गृहाभिमुख एव स्यां यदि किं मम पौरुषम्॥१०॥



स्याद्दोषभक्तिः प्रथिता मयैवं गुणेष्ववज्ञाविरसा च वृत्तिः।

यायामतः साधुजने लघुत्वं कि जीवितं स्याच्च तथाविधस्य॥११॥



संभावनामस्य जनस्य तस्मात्क्रियागुणेन प्रतिपूजयामि।

असत्परिक्लेशमयं विमुञ्चंस्तपोवनप्रेमगुणेन गेहम्॥१२॥



इति विचिन्त्य स महात्मा तत एव प्रतिनिवृत्य राज्ञः प्रतिहारयामास-श्रेष्ठी पुनर्द्रष्टुमिच्छति देवमिति। कृताभ्यनुज्ञश्च प्रविश्य यथोपचारं राजसमीपमुपजगाम। किमिदमिति च राज्ञा पर्यनुयुक्तोऽब्रवीत्-इच्छामि प्रव्रजितुम्, तदभ्यनुज्ञातुमर्हति मां देव इति।



अथैनं स राजा ससंभ्रमावेगः स्नेहादित्युवाच-

मयि स्थिते बन्धुसुहृद्विशिष्टे त्वं केन दुःखेन वनं प्रयासि।

यन्नापहर्तुं प्रभुता मम स्याद्धनेन नीत्या बलसंपदा वा॥१३॥



अर्थो धनैर्यदि गृहाण धनानि मत्तः

पीडा कुतश्चिदथ तां प्रतिषेधयामि।

मां याचमानमिति बन्धुजनं च हित्वा

किं वा त्वमन्यदभिवीक्ष्य वनं प्रयासि॥१४॥



इति स महात्मा सस्नेहबहुमानमभिहितो राज्ञा सानुनयमेनमुवाच-

पीडा कुतस्त्वद्भुजसंश्रितानां धनोदयावेक्षणदीनता वा।

अतो न दुःखेन वनं प्रयामि यमर्थमुद्दिश्य तु तं निबोध॥१५॥



दीक्षामुपाश्रित इति प्रथितोऽस्मि देव

शोकाश्रुदुर्दिनमुखेन महाजनेन।

इच्छामि तेन विजनेषु वनेषु वस्तुं

श्रद्धेयतामुपगतोऽस्मि गुणाभिपत्तौ॥१६॥



राजोवाच-नार्हति भवाञ्जनप्रवादमात्रकेणास्मान् परित्यक्तुम्। न हि भवद्विधानां जनप्रवादसंपादनाभिराध्या गुणविभूतिस्तदसंपादनविराध्या वा।



स्वेच्छाविकल्पग्रथिताश्च तास्ता निरङ्कुशा लोककथा भ्रमन्ति।

कुर्वीत यस्ता हृदयेऽपि तावत्स्यात्सोऽपहास्यः किमुत प्रपत्ता॥१७॥



बोधिसत्त्व उवाच-मा मैवं महाराज। न हि कल्याणो जनप्रवादो नानुविधेयः। पश्यतु देवः,



कल्याणधर्मेति यदा नरेन्द्र संभावनामेति मनुष्यधर्मा।

तस्या न हीयेत नरः सधर्मा ह्रियापि तावद्धुरमुद्वहेत्ताम्॥१८॥



संभावनायां गुणभावनायां संदृश्यमानो हि यथा तथा वा।

विशेषतो भाति यशःप्रसिद्ध्या स्यात्त्वन्यथा शुष्क इवोदपानः॥१९॥



गुणप्रवादैरयथार्थवृद्धैर्विमर्शपाताकुलितैः पतद्भिः।

विचूर्णिता कीर्तितनुर्नराणां दुःखेन शक्नोति पुनः प्रसर्तुम्॥२०॥



तद्वर्जनीयान्परिवर्जयन्तं परिग्रहान्विग्रहहेतुभूतान्।

क्रोधोच्छिरस्कानिव कृष्णसर्पान्युक्तोऽसि मां देव न संनिषेद्धुम्॥२१॥



स्नेहेन भक्तिज्ञतया च कामं युक्तो विधिर्भृत्यजने तवायम्।

वित्तेन तु प्रव्रजितस्य किं मे परिग्रहक्लेशपरिग्रहेण॥२२॥



इत्यनुनीय स महात्मा तं राजानं कृताभ्यनुज्ञस्तेन तत एव वनाय प्रतस्थे। अथैनं सुहृदो ज्ञातयः संश्रिताश्चाभिगम्य शोकाश्रुपरिप्लुतनयनाः पादयोः संपरिष्वज्य निवारयितुमीषुः। केचिदञ्जलिप्रग्रहपुरःसरं मार्गमस्यावृत्य समवातिष्ठन्त। सपरिष्वङ्गसंगतानुनयमपरे गृहाभिमुखमेनं नेतुमीषुः। यत्किञ्चनकारिताक्षेपकर्कशाक्षरमन्ये प्रणयादेनमूचुः। मित्रस्वजनापेक्षाकारुण्यप्रदर्शनमपरेऽस्य प्रचक्रुः। गृहाश्रम एव पुण्यतम इत्येवमन्ये श्रुतियुक्तिसंग्रथितं ग्राहयितुमीहां चक्रिरे। तपोवनवासदुःखतासंकीर्तनैः कार्यशेषपरिसमाप्त्या याच्ञया परलोकफलसंदेहकथाभिस्तैस्तैश्च वार्त्ताविशेषैर्निवर्तयितुमेनं व्यायच्छन्त। तस्य तान् प्रव्रज्याश्रयविमुखान् वनगमननिवारणधीरमुखान् नयनजलार्द्रमुखान् सुहृदोऽभिवीक्ष्य व्यक्तमिति चिन्ता बभूव-



सुहृत्प्रतिज्ञैः सुहृदि प्रमत्ते न्याय्यं हितं रूक्षमपि प्रयोक्तुम्।

रूढः सतामेष हि धर्ममार्गः प्रागेव रूच्यं च हितं च यत्स्यात्॥२३॥



वनाद् गृहं श्रेय इदं त्वमीषां स्वस्थेषु चित्तेषु कथं नु रुढम्।

यन्निर्विशङ्का वनसंश्रायान्मां पापप्रसङ्गादिव वारयन्ति॥२४॥



मृतो मरिष्यन्नपि वा मनुष्यश्च्युतश्च धर्मादिति रोदितव्यम्।

कया नु बुद्ध्या वनवासकामं मामेव जीवन्तममी रुदन्ति॥२५॥



मद्विप्रयोगस्त्वथ शोकहेतुर्मया समं किं न वने वसन्ति।

गेहानि चेत्कान्ततराणि मत्तः को न्वादरो बाष्पपरिव्ययेन॥२६॥



अथ त्विदानीं स्वजनानुरागः करोति नैषां तपसेऽभ्यनुज्ञाम्।

सामर्थ्यमासीत्कथमस्य नैव ब्यूढेष्वनीकेष्वपि तत्र तत्र॥२७॥



दृष्टावदानो व्यसनोदयेषु बाष्पोद्गमान्मूर्त इवोपलब्ध।

संरूढमूलोऽपि सुहृत्स्वभावः शाठ्यं प्रयात्यत्र विनानुवृत्त्या॥२८॥



निवारणार्थानि सगद्गदानि वाक्यानि साश्रूणि च लोचनानि।

प्रणामलोलानि शिरांसि चैषां मानं समानस्य यथा करोति॥२९॥



स्नेहस्तथैवार्हति कर्तुमेषां श्लाध्यामनुप्रव्रजनेऽपि बुद्धिम्।

मा भून्नटानामिव वृत्तमेतद् व्रीडाकरं सज्जनमानसानाम्॥३०॥



द्वित्राणि मित्राणि भवन्त्यवश्यमापद्गतस्यापि सुनिर्गुणस्य।

सहाय एकोऽप्यतिदुर्लभस्तु गुणोदितस्यापि वनप्रयाणे॥३१॥



ये मे हरन्ति स्म पुरःसरत्वं रणेषु मत्तद्विपसंकटेषु।

नानुव्रजन्त्यद्य वनाय ते मां किंस्वित्स एवास्मि त एव चेमे॥३२॥



स्मरामि नैषां विगुणं प्रयातुं स्नेहस्य यत्संक्षयकारणं स्यात्।

सुहृज्जनस्यैवमियं स्थितिर्मे कच्चिद्भवेत्स्वस्तिनिमित्ततोऽस्मात्॥३३॥



ममैव वा निर्गुंणभाव एष नानुव्रजन्त्यद्य वनाय यन्माम्।

गुणावबद्धानि हि मानसानि कस्यास्ति विश्लेषयितुं प्रभुत्वम्॥३४॥



ये वा प्रकाशानपि गेहदोषान्गुणान्न पश्यन्ति तपोवने वा।

निमीलितज्ञानविलोचनांस्तान्किमन्यथाहं परितर्कयामि॥३५॥



परत्र चैवेह च दुःखहेतून्कामान्विहातुं न समुत्सहन्ते।

तपोवनं तद्विपरीतमेते त्यजन्ति मां चाद्य धिगस्तु मोहम्॥३६॥



यैर्विप्रलब्धाः सुहृदो ममैते न यान्ति शान्तिं निखिलाश्च लोकाः।

तपोवनोपार्जितसत्प्रभावस्तानेव दोषान्प्रसभं निहन्मि॥३७॥



इति स परिगणय्य निश्चितात्मा प्रणयमयानि सुहृद्विचेष्टितानि।

अनुनयमधुराक्षरैर्वचोभिर्विशदमपास्य तपोवनं जगाम॥३८॥



तदेवमभूतगुणसंभावना प्रतोदसंचोदनेव भवति साधूनामिति गुणसंपादने प्रयतितव्यम्। यतो भिक्षुरित्युपासक इति गुणतः संभाव्यमानेन साधुना तद्भावसाधुभिर्गुणैरभ्यलंकर्तव्य एवात्मा। एवं दुर्लभा धर्मप्रतिपत्तिसहाया इत्येवमप्युन्नेयम्।



॥इति श्रेष्ठि-जातकं विंशतितमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project