Digital Sanskrit Buddhist Canon

१९ बिस-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

19 bisa-jātakam

१९. बिस-जातकम्



प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति। तद्यथानुश्रूयते-



बोधिसत्त्वः किल कस्मिंश्चिन्महति गुणप्रकाशयशसि वाच्यदोषविरहिते ब्राह्मणकुले जन्मपरिग्रहं चकार। तस्य यत्र कनीयांसः षडपरे भ्रातरस्तदनुरूपगुणाः स्नेहबहुमानगुणान्नित्यानुगुणा बभूवुः, सप्तमी च भगिनी। स कृतश्रमः साङ्गेषु सोपवेदेषु वेदेषु समधिगतविद्यायशाः संमतो जगति दैवतवन्मातापितरौ परया भक्त्या परिचरन्नाचार्य इव पितेव तान्भ्रातॄन्विद्यासु विनयन्नयविनयकुशलो गृहमावसति स्म। स कालक्रमान्मातापित्रोः कालक्रियया संविग्नहृदयः कृत्वा तयोः प्रेतकृत्यानि व्यतीतेषु शोकमयेष्विव केषुचिदेव दिवसेषु तान्भ्रातॄन् संनिपात्योवाच-



एष लोकस्य नियतः शोकातिविरसः क्रमः।

सह स्थित्वापि सुचिरं मृत्युना यद्वियोज्यते॥१॥



तत्प्रव्रजितुमिच्छामि श्रेयःश्लाध्येन वर्त्मना।

पुरा मृत्युरिपुर्हन्ति गृहसंरक्तमेव माम्॥२॥



यतः सर्वानेव भवतः सम्बोधयामि। अस्त्यत्र ब्राह्मणकुले धर्मेण यथाधिगता विभवमात्रा। शक्यमनया वर्तितुम्। तत्सर्वैरेव भवद्भिः परस्परं स्नेहगौरवाभिमुखैः शीलसमुदाचारेष्वशिथिलादरैर्वेदाध्ययनपरैर्मित्रातिथिस्वजनप्रणयवत्सलैर्धमपरायणैर्भूत्व सम्यग्गृहमध्यावस्तव्यम्।





विनयश्लाघिभिर्नित्यं स्वाध्यायाध्ययनोद्यतैः।

प्रदानाभिरतैः सम्यक्परिपाल्यो गृहाश्रमः॥३॥



एवं हि वः स्याद्यशसः समृद्धिर्धर्मस्य चार्थस्य सुखास्पदस्य।

सुखावगाहश्च परोऽपि लोकस्तदप्रमत्ता गृहमावसेत॥४॥



अथास्य भ्रातरः प्रव्रज्यासङ्कीर्तनाद्वियोगाशङ्काव्यथितमनसः शोकाश्रुदुर्दिनमुखाः प्रणम्यैनमूचुः--नार्हत्यत्रभवान्पितृवियोगशोकशल्यव्रणमसंरूढमेव नो घट्टयितुमपरेण दुःखाभिनिपातक्षारेण।



अद्यापि तावत्पितृशोकशल्यक्षतानि रोहन्ति न नो मनांसि।

तत्साध्विमां संहर धीर बुद्धिं मा नः क्षते क्षारमिहोपहार्षीः॥५॥



अथाक्षमं वेत्सि गृहानुरागं श्रेयःपथं वा वनवाससौख्यम्।

अस्माननाथानपहाय गेहे कस्माद्वनं वाञ्छसि गन्तुमेकः॥६॥



तद्यात्रभवतो गतिः सास्माकम्। वयमपि प्रव्रजाम इति।



बोधिसत्त्व उवाच-

अनभ्यासाद्विवेकस्य कामरागानुवर्तिनः।

प्रपातमिव मन्यन्ते प्रव्रज्यां प्रायशो जनाः॥७॥



इति मया निगृह्य नाभिहिताः स्थ प्रव्रज्याश्रयं प्रति जानतापि गृहवनवासविशेषम्। तदेतच्चेदभिरुचितं भवतामेव प्रव्रजाम इति। ते सप्तापि भ्रातरो भगिन्यष्टमाः स्फीतं गृहविभवासारमश्रुमुखं च मित्रस्वजनबन्धुवर्गं विहाय तापसप्रव्रज्यया प्रव्रजिताः। तदनुरक्तहृदयश्चैनान्सहाय एको दासी दासश्चानुप्रव्रजिताः।



तेऽन्यतरस्मिन्महत्यरण्यायतने ज्वलितमिव विकसितकमलवनशोभया विहसदिव च फुल्लकुमुदवनैरनिभृतमधुकरगणममलनीलसलिलं महत्सरः संनिश्रित्य प्रविविक्तमनोज्ञासु च्छयाद्रुमसमुपगूढास्वसंनिकृष्टविनिविष्टासु पृथक्पृथक्पर्णशालासु व्रतनियमपरा ध्यानानुयुक्तमनसो विजह्नः। पञ्चमे पञ्चमे दिवसे बोधिसत्त्वसमीपं धर्मश्रवणार्थमुपजग्मुः। स चैषां ध्यानोपदेशप्रवृत्तां कामादीनवदर्शनीं संवेजनीयां प्रविवेकसन्तोषवर्णबहुलां कुहनलपनकौसीद्यादिदोषविगर्हणीमुपशमप्रसादपद्धतिं तां तां धर्म्यां कथां चकार।



सा चैनान् दासी बहुमानानुरागवशा तथैब परिचचार। सा तस्मात्सरसो बिसान्युद्‍धृत्य महत्सु पद्मिनीपर्णेषु शुचौ तीरप्रदेशे समान्विन्यस्य च भागान्काष्ठसंघट्टनशब्देन कालं निवेद्यापक्रामति स्म। ततस्तेषामृषीणां कृतजपहोमविधीनां यथावृद्धमेकैकोऽभिगम्य ततो बिसभागमेकैकं यथाक्रममादाय स्वस्यां स्वस्यां पर्णशालायां विधिवत्परिभुज्य ध्यानाभियुक्तमतिर्विजहार। त एवं प्रवृत्ता नैव परस्परं ददृशुरन्यत्र धर्मश्रवणकालात्।



तेषामेवंविधेन निरवद्येन शीलवृत्तसमुदाचारेण प्रविवेकाभिरत्या ध्यानप्रवणमानसतया च सर्वत्र यशः समुपश्रुत्य शक्रो देवानामिन्द्रस्तत्परीक्षानिमित्तं तत्राभिजगाम। तच्चैषां ध्यानाभिमुखत्वं कुकार्येष्वप्रसङ्गमनुत्कण्ठां प्रशमाभिरामं चावस्थानमवेक्ष्य स्थिरतरगुणसम्भावनस्तत्परीक्षानिमित्तमवहितमना बभूव।



अनुत्सुको वनान्तेषु वसञ्छमपरायणः।

आरोपयति साधूनां गुणसम्भावनां हृदि॥८॥



अथ द्विपकलभदशनपाण्डुकोमलानि समुद्‍धृत्य प्रक्षाल्य च बिसानि मरकतहरितप्रभेषु पद्मिनीपत्रेषु कमलदलकेसरोपहारालंकृतान्विरचय्य समान्भागान्काष्ठसंघट्टनशब्देन निवेद्य कालं तेषामृषीणामपसृतायां तस्यां दास्यां बोधिसत्त्वपरीक्षार्थं शक्रो देवानामिन्द्रः प्रथममेव बिसभागमन्तर्धापयामास।



प्रवर्तने हि दुःखस्य तिरस्कारे सुखस्य च।

धैर्यप्रयामः साधूनां विस्फुरन्निव गृह्यते॥९॥



अथ बोधिसत्त्वोऽभिगतः प्रथमे बिसभागस्थाने बिसभागविरहितं पद्मिनीपत्रं परिव्याकुलीकृतोपहारमभिसमीक्ष्य गृहीतः केनापि मे बिसप्रत्यंश इत्यवधृतमतिरपेतचेतःसंक्षोभसंरम्भस्तत एव प्रतिनिवृत्य प्रविश्य पर्णशालायां यथोचितं ध्यानविधिमारेभे। वैमनस्यपरिहार्थं चेतरेषामृषीणां तमर्थं न निवेदयामास। इतरे त्वस्य भ्रातरो नूनमनेन गृहीतः प्रत्यंश इति मन्यमाना यथोचितानेव स्वान्स्वाननुक्रमेण बिसभागानादाय यथास्वं पर्णशालासु परिभुज्य ध्यायन्ति स्म। एवं द्वितीये तृतीये चतुर्थे पञ्चमे च दिवसे शक्रस्तस्य तं बिसप्रत्यंशमुपनिदधे। बोधिसत्त्वोऽपि च महासत्त्वस्तथैव निःसंक्षोभप्रशान्तचित्तो बभूव।



मनःसंक्षोभ एवेष्टो मृत्युर्नायुःक्षयः सताम्।

जीवितार्थेऽपि नायान्ति मनःक्षोभमतो बुधाः॥१०॥



अथापराह्णसमये धर्मश्रवणार्थमृषयस्ते यथोचित्तं बोधिसत्त्वस्य पर्णशालां समभिगता ददृश्वांसश्चैनं कृशतरशरीरं परिक्षामकपोलनयनं परिम्लानवदनशोभमसम्पूर्णस्वरगाम्भीर्यं परिक्षीणमप्यपरिक्षीणधैर्यप्रशमगुणमभिनवेन्दुप्रियदर्शनमुपेत्योपचारपुरःसरं ससम्भ्रमाः किमिदमिति कार्श्यनिमित्तमेनमपृच्छन्। तेभ्यो बोधिसत्त्वस्तमर्थं यथानुभूतं निवेदयामास। अथ ते तापसाः परस्परमीदृशमनाचारमसम्भावयन्तस्तत्पीडया च समुपजातसंवेगाः कष्टं कष्टमित्युक्त्वा व्रीडावनतवदनाः समतिष्ठन्त। शक्रप्रभावाच्च समावृतज्ञानगतिविषयाः कुत इदमिति न निश्चयमुपजग्मुः। अथ बोधिसत्त्वस्यानुजो भ्राता स्वमावेगमात्मविशुद्धिं च प्रदर्शयञ्छपथातिशयमिमं चकार-



समृद्धिचिह्नाभरणं स गेहं प्राप्नोतु भार्यां च मनोऽभिरामाम्।

समग्रतामेतु च पुत्रपौत्रैर्बिसानि ते ब्राह्मण यो ह्यहार्षीत्॥११॥



अपर उवाच-

मालाः स्रजश्चन्दनमंशुकानि बिभ्रद्विभूषाश्च सुताभिमृष्टाः।

कामेषु तीव्रां स करोत्वपेक्षां बिसान्यहार्षीद्‍द्विजमुख्य यस्ते॥१२॥



अपर उवाच-

कृष्याश्रयावाप्तधनः कुटुम्बी प्रमोदमानस्तनयप्रलापैः।

वयोऽप्यपश्यन्रमतां स गेहे बिसानि यस्ते सकृदप्यहार्षीत्॥१३॥



अपर उवाच-

नराधिपैर्भृत्यविनीतचेष्टैरभ्यर्च्यमानो नतलोलचूडैः।

कृत्स्नां महीं पातु स राजवृत्त्या लोभादहार्षीत्तव यो बिसानि॥१४॥



अपर उवाच-

पुरोहितः सोऽस्तु नराधिपस्य मन्त्रादिना स्वस्त्यययेन युक्तः।

सत्कारमाप्नोतु तथा च राज्ञस्तवापि यो नाम बिसान्यहार्षीत्॥१५॥



अपर उवाच-

अध्यापकं सम्यगधीतवेदं तपस्विसम्भावनया महत्या।

अर्चन्तु तं जानपदाः समेत्य बिसेषु लुब्धो न गुणेषु यस्ते॥१६॥



सहाय उवाच-

चतुःशतं ग्रामवरं समृद्धं लब्ध्वा नरेन्द्रादुपयातु भोक्तुम्।

अवीतरागो मरणं स चैतु लोभं बिसेष्वप्यजयन्न यस्ते॥१७॥



दास उवाच-

स ग्रामणीरस्तु सहायमध्ये स्त्रीनृत्तगीतैरुपलाप्यमानः।

मा राजतश्च व्यसनानि लब्ध बिसार्थमात्मार्थमशीशमद्यः॥१८॥



भगिन्युवाच-

विद्योतमानां बपुषा श्रिया च पत्नीत्वमानीय नराधिपस्ताम्।

योषित्सहस्राग्रसरीं करोतु यस्त्वद्विधस्यापि बिसान्यहार्षीत्॥१९॥



दास्युवाच-

एकाकिनी सा समतीत्य साधून्स्वादूपभोगे प्रणयं करोतु।

सत्कारलब्धां मुदमुद्वहन्ती बिसान्यपश्यत्तव या न धर्मम्॥२०॥



अथ तत्र धर्मश्रवणार्थं समागतास्तद्वनाध्युषिता यक्षद्विरदवानरास्तां कथामुपश्रुत्य परां व्रीडां संवेगं चोपजग्मुः। अथ यक्ष आत्मविशुद्धिप्रदर्शनार्थमिति शपथमेषां पुरतश्चकार-



आवासिकः सोऽस्तु महाविहारे कचङ्गलायां नवकर्मिकश्च।

आलोकसन्धिं दिवसैः करोतु यस्त्वय्यपि प्रस्खलितो बिसार्थम्॥२१॥



हस्त्युवाच-

षड्भिर्दृढैः पाशशतैः स बन्धं प्राप्नोतु रम्याच्च वनाज्जनान्तम्।

तीक्ष्णाङ्कशाकर्षणजा रुजश्च यस्ते मुनिश्रेष्ठ बिसान्यहार्षीत्॥२२॥



वानर उवाच--

स पुष्पमाली त्रपुघृष्टकण्ठो यष्टया हतः सर्पमुखं परैतु।

वैकक्ष्यबद्धश्च वसेद् गृहेषु लौल्यादहार्षीत्तव यो बिसानि॥२३॥



अथ बोधिसत्त्वस्तान्सर्वानेवानुनयविनीताक्षरं शान्तिगाम्भीर्यसूचकमित्युवाच-

यो नष्टमित्याह न चास्य नष्टमिष्टान्स कामानधिगम्य कामम्।

उपैतु गेहाश्रित एव मृत्युं भवत्सु यः शङ्कत ईदृशं वा॥२४॥



अथ शक्रो देवेन्द्रस्तेन तेषां कामोपभोगप्रातिकूल्यसूचकेन शपथातिशयेन समुत्पादितविस्मयबहुमानः स्वेनैव वपुषाभिज्वलता तानृषीनभिगम्य सामर्षवदुवाच-मा तावद्भोः।



यत्प्राप्तिपर्युत्सुकमानसानां सुखार्थिनां नैति मनांसि निद्रा।

यान्प्राप्तुमिच्छन्ति तपःश्रमैश्च तान्केन कामानिति कुत्सयध्वे॥२५॥



बोधिसत्त्व उवाच-अनन्तादीनवा मार्ष कामाः। संक्षेपतस्तु श्रूयतां यदभिसमीक्ष्य कामान्न प्रशंसन्ति मुनयः।



कामेषु बन्धमुपयाति वधं च लोकः

शोकं क्लमं भयमनेकविधं च दुःखम्।

कामार्थमेव च महीपतयः पतन्ति

धर्मोपमर्दरभसा नरकं परत्र॥२६॥



यत्सौहृदानि सहसा विरसीभवन्ति

यन्नीतिशाठ्यमलिनेन पथा प्रयान्ति।

कीर्त्या वियोगमसुखैः परतश्च योगं

यत्प्राप्नुवन्ति ननु कारणमत्र कामाः॥२७॥



इति हीनविमध्यमोत्तमानामिह चामुत्र च यद्वधाय कामाः।

कुपितान्भुजगानिवात्मकामा मुनयस्तानिति शक्र नाश्रयन्ते॥२८॥



अथ शक्रो देवानामिन्द्रस्तस्य तद्वचनं युक्तमित्यभिनन्द्य तेन चैतेषामृषीणां माहात्म्येनाभिप्रसादितमनास्तेभ्यः स्वमपराधमाविश्चकार।



गुणसम्भावनाव्यक्तिर्यत्परीक्ष्योपलभ्यते।

मया विनिहितान्यस्मात्परीक्षार्थं बिसानि वः॥२९॥



तत्सनाथं जगद्दिष्टया मुनिभिस्तथ्यकीर्तिभिः।

विशुद्धिः स्थिरचारित्रे तदेतानि बिसानि ते॥३०॥



इत्युक्त्वा तानि बिसानि बोधिसत्त्वस्य समुपजहार। अथ बोधिसत्त्वस्तदस्यासमुदाचारधाष्टर्यं तेजस्विनिभृतेन वचसा प्रत्यातिदेश--



न बान्धवा नैव वयं सहाया न ते नटा नापि विडम्बकाः स्मः।

कस्मिन्नवष्टभ्य नु देवराज क्रीडापथेनैवमृषीनुपैषि॥३१॥



इत्युक्ते शक्रो देवेन्द्रः ससम्भ्रमापास्तकुण्डलकिरीटविद्युद्भासुरवदनः सबहुमानमभिप्रणम्यैनं क्षमयामास--



उक्तप्रयोजनमिदं चापलं मम निर्मम।

पितेवाचार्य इव च क्षन्तुमर्हति तद्भवान्॥३२॥



निमीलितज्ञानबिलोचनानां स्वभाव एष स्खलितुं समेऽपि।

क्षमां च तत्रात्मवतां प्रपत्तुमतोऽप्यदश्चेतसि मा स्म कार्षीः॥३३॥



इति क्षमयित्वा शक्रस्तत्रैवान्तर्दधे।

तदेवं प्रविवेकसुखरसज्ञानां विडम्बनेव विहिंसेव च कामाः प्रतिकूला भवन्ति।

[तच्चेदं जातकं भगवान्व्याकार्षीत्-

अहं शारद्वतीपुत्रो मौद्गल्यायनकाश्यपौ।

पूर्णानिरुद्धावानन्द इत्यासुर्भ्रातरस्तदा॥३४॥



भगिन्युत्पलवर्णासीद्दासी कुब्जोत्तराभवत्।

चित्रो गृहपतिर्दासो यक्षः सातागिरिस्तदा॥३५॥



पारिलेयोऽभवन्नागो मधुदातैव वानरः।

कालोदायी च शक्रोऽभूद्धार्यतामिति जातकम्॥३६॥]



इति बिस-जातकमेकोनविंशतितमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project