Digital Sanskrit Buddhist Canon

१८ अपुत्र-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

18 aputra-jātakam

१८. अपुत्र-जातकम्



शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामा न रोचयन्ते। तद्यथानुश्रूयते-



बोधिसत्त्वः किल कस्मिंश्चिदिभ्यकुले श्लाघनीयवृत्तचारित्रसंपन्ने प्रार्थनीयसंबन्धे कुलोद्भवानां निपानभूते श्रमणब्राह्मणानां कोशकोष्ठागारनिर्विशेषे मित्रस्वजनानामभिगमनीये कृपणवनीपकानामुपजीव्ये शिल्पिजनस्यास्पदभूते लक्ष्म्या दत्तानुग्रहसत्कारे राज्ञो लोकाभिसंमते जन्म प्रतिलेभे। स कालानामत्ययेनाभिवृद्धः कृतश्रमो लोकाभिमतेषु विद्यास्थानेष्वपरोक्षबुद्धिर्विविधविकल्पाश्रयासु कलासु जननयनकान्तेन च वपुषा धर्माविरोधिन्या च लोकज्ञतया स्वजन इव लोकस्य हृदयेषु पर्यवर्तत।



न हि स्वजन इत्येव स्वजनो बहु मन्यते।

जनो वा जन इत्येव स्वजनाद् दृश्यतेऽन्यथा॥१॥



गुणदोषाभिमर्शात्तु बहुमानावमानयोः।

व्रजत्यास्पदतां लोकः स्वजनस्य जनस्य वा॥२॥



कृतप्रव्रज्यापरिचयत्वात्तु तस्य महासत्त्वस्य

पर्येष्टिदुःखानुगतां विदित्वा गृहस्थतां धर्मविरोधिनीं च।

सुखोदयत्वं च तपोवनानां न गेहसौख्येषु मनः ससञ्जे॥३॥



स मातापित्रोः कालक्रियया संविग्नहृदयस्तमनेकशतसहस्रसंख्यं गृहविभवसारं मित्रस्वजनकृपणश्रमणब्राह्मणेभ्यो यथार्हमतिसृज्य प्रवव्राज। सोऽनुपूर्वेण ग्रामनगरनिगमराष्ट्रराजधानीष्वनुविचरन्नन्यतमनगरमुपश्रित्य कस्मिंश्चिद्वनप्रस्थे निवसति स्म। स ध्यानगुणाभ्यासात् सात्मीभूतेनाकृतकेनेन्द्रियप्रसादेन श्रुतिहृदयाह्लादिना च विद्वत्तासूचकेनानुत्सिक्तेन विगतलाभाशाकार्पण्यदैन्येन विनयौजस्विना यथार्हमधुरोपचारसौष्ठवेन धर्माधर्मविभागनिपुणेन च वचसा प्रव्रजिताचारशीभरया (च) सज्जनेष्टया चेष्टया तत्राभिलक्षितो बभूव। कौतूहलिना च जनेन समुपलब्धकुलप्रव्रज्याक्रमः सुष्ठुतरं लोकसंमतस्तत्राभूत्।



आदेयतरतां यान्ति कुलरूपगुणाद् गुणाः।

आश्रयातिशयेनेव चन्द्रस्य किरणाङ्कराः॥४॥



अथास्य तत्राभिगमनमुपलभ्य पितृवयस्यः समभिगम्य चैनं गुणबहुमानात् कुशलपरिप्रश्नपूर्वकं चास्मै निवेद्यात्मानं पितृवयस्यतां च संकथाप्रस्तावागतमेनं स्नेहादुवाच-चापलमिव खल्विदमनुवर्तितं भदन्तेनानपेक्ष्य कुलवंशमस्मिन् वयसि प्रव्रजता।



आराध्यते सत्प्रतिपत्तिमद्भिर्धर्मो यदायं भवने वने वा।

श्रीमन्ति हित्वा भवनान्यतस्त्वं कस्मादरण्येषु मतिं करोषि॥५॥



परप्रसादार्जितभैक्षवृत्तिरगण्यमानः खलवज्जनेन।

कुचेलभृद्बन्धुसुहृद्विहीनो वनान्तभूमावपविद्धकायः॥६॥



मूर्तं दरिद्रत्वमिवोपगुह्य कथं नु शोकस्य वशं प्रयासि।

इमामवस्थां हि तवेक्षमाणा द्विषोऽपि बाष्पापिहितेक्षणाः स्युः॥७॥



तदेहि पित्र्यं भवनं तवेदं श्रुतार्थसारं भवतापि नूनम्।

संपादयेथा निवसंस्त्वमत्र धर्मं च सत्पुत्रमनोरथं च॥८॥



लोकप्रवादः खल्वपि चैषः-

परकर्मकरस्यापि स्वे निपानसुखा गृहाः।

किं पुनः सुखसंप्राप्ताः समृद्धिज्वलितश्रियः॥९॥



अथ बोधिसत्त्वः प्रविवेकसुखामृतरसपरिभावितमतिस्तत्प्रवणहृदयः समुपलब्धविशेषो गृहवनवासयोः कामोपभोगनिमन्त्रणायां तृप्त इव भोजनकथायामसुखायमान उवाच-



इदं स्नेहोद्गतत्वात्ते काममल्पात्ययं वचः।

सुखसंज्ञां तु मा कार्षीः कदाचिद्गृहचारके॥१०॥



गार्हस्थ्यं महदस्वास्थ्यं सधनस्याधनस्य वा।

एकस्य रक्षणायासादितरस्यार्जनश्रमात्॥११॥



यत्र नाम सुखं नैव सधनस्याधनस्य वा।

तत्राभिरतिसंमोहः पापस्यैव फलोदयः॥१२॥



यदपि चेष्टं गृहस्थेनापि शक्यमयमाराधयितुं धर्म इति काममेवमेतत्। अतिदुष्करं तु मे प्रतिभाति धर्मप्रतिपक्षसंबाधत्वाच्छ्रमबाहुल्याच्च गृहस्य। पश्यतु भवान्।



गृहा नानीहमानस्य न चैवावदतो मृषा।

न चानिक्षिप्तदण्डस्य परेषामनिकुर्वतः॥१३॥



तदयं गृहसुखावबद्धहृदयस्तत्साधनोद्यतमतिर्जनः।

यदि धर्ममुपैति नास्ति गेहमथ गेहाभिमुखः कुतोऽस्य धर्मः।

प्रशमैकरसो हि धर्ममार्गो गृहसिद्धिश्च पराक्रमक्रमेण॥१४॥



इति धर्मविरोधदूषितत्वाद् गृहवासं क इवात्मवान् भजेत।

परिभूय सुखाशया हि धर्मं नियमो नास्ति सुखोदयप्रसिद्धौ॥१५॥



नियतं च यशःपराभवः स्यादनुतापो मनसश्च दुर्गतिश्च।

इति धर्मविरोधिनं भजन्ते न सुखोपायमपायवन्नयज्ञाः॥१६॥



अपि च, सुखो गृहवास इति श्रद्धागम्यमिदं मे प्रतिभाति।

नियतार्जनरक्षणादिदुःखे वधबन्धव्यसनैकलक्ष्यभूते।

नृपतेरपि यत्र नास्ति तृप्तिर्विभवैस्तोयनिधेरिवाम्बुवर्षैः॥१७॥



सुखमत्र कुतः कथं कदा वा परिकल्पप्रणयं न चेदुपैति।

विषयोपनिवेशनेऽपि मोहाद् व्रणकण्डूयनवत्सुखाभिमानः॥१८॥



बाहुल्येन च खलु ब्रवीमि-

प्रायः समृद्ध्या मदमेति गेहे मानं कुलेनापि बलेन दर्पम्।

दुःखेन रोषं व्यसनेन दैन्यं तस्मिन्कदा स्यात्प्रशमावकाशः॥१९॥



अतश्च खल्वहमत्रभवन्तमनुनयामि-



मदमानमोहभुजगोपलयं प्रशमाभिरामसुखविप्रलयम्।

क इवाश्रयेदभिमुखं विलयं बहुतीव्रदुःखनिलयं निलयम्॥२०॥



संतुष्टजनगेहे तु प्रविविक्तसुखे वने।

प्रसीदति यथा चेतस्त्रिदिवेऽपि तथा कुतः॥२१॥



परप्रसादार्जितवृत्तिरप्यतो रमे वनान्तेषु कुचेलसंवृतः।

अधर्ममिश्रं तु सुखं न कामये विषेण संपृक्तमिवान्नमात्मवान्॥२२॥



इत्यवगमितमतिः स तेन पितृवयस्यो हृदयग्राहकेण वचसा बहुमानमेव तस्मिन्महासत्त्वे सत्कारप्रयोगविशेषेण प्रवेदयामास।



तदेवं शीलप्रशमप्रतिपक्षसंबाधं गार्हस्थ्यमित्येवमात्मकामाः परित्यजन्तीति। लब्धास्वादाः प्रविवेके, न कामेष्वावर्तन्त इति प्रविवेकगुणकथायामप्युपनेयम्।



इत्यपुत्र-जातकमष्टादशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project