Digital Sanskrit Buddhist Canon

१७ कुम्भ-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

17 kumbha-jātakam

१७. कुम्भ-जातकम्



अनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमप्यस्माद्वारयन्ति प्रागेवात्मानमिति। तद्यथानुश्रूयते-



बोधिसत्त्वः किल करुणातिशयपरिभावितमतिः परहितसुखोपपादनपरः पुण्यां प्रतिपदमुद्भावयन्दानदमसंयमादिभिः कदाचिच्छक्रा देवानामिन्द्रो बभूव। स प्रकर्षिणामपि दिव्यानां विषयसुखानां निकामलाभी सन्नपि करुणावशगत्वान्नैव लोकार्थचर्यासमुद्योगशिथिलं मनश्चकार।



प्रायेण लक्ष्मीमदिरोपयोगाज्जागर्ति नैवात्महितेऽपि लोकः।

सुरेन्द्रलक्ष्म्यापि तु निर्मदोऽसावभूत्परार्थेष्वपि जागरूकः॥१॥



अनेकतीव्रव्यसनातुरेषु सत्त्वेषु बन्धुष्विव जातहार्दः।

धैर्यात्स्वभावज्ञतयाश्रितश्च नासौ विसस्मार परार्थचर्याम्॥२॥



अथ कदाचित्स महात्मा मनुष्यलोकमवलोकयन्ननुकम्पासमावर्जितेन मैत्रस्निग्धेन स्वभावमहता चक्षुषा ददर्श सर्वमित्रं नाम राजानमकल्याणमित्रसंपर्कदोषात् सपौरजानपदं मद्यपानप्रसङ्गाभिमुखम्। तत्र चास्यादोषदर्शितामवेक्ष्य महादोषतां च मद्यपानस्य स महात्मा महत्या करुणया समापीड्यमानहृदयश्चिन्तामापेदे। कष्टा बतेयमापदापतिता लोकस्य।



प्रमुखस्वादु पानं हि दोषदर्शनविक्लवान्।

श्रेयसोऽपहरत्येव रमणीयमिवापथम्॥३॥



तत्किमत्र प्राप्तकालं स्यात् ? भवतु दृष्टम्।



प्रधानभूतस्य विचेष्टितानि जनोऽनुकर्तुं नियतस्वभावः।

इत्यत्र राजैव चिकित्सनीयः शुभाशुभं तत्प्रभवं हि लोके॥४॥



इति विनिश्चित्य स महासत्त्वस्तप्तकाञ्चनवर्णमापरुषोद्ग्रथितजटाविटपधरं वल्कलाजिनसंवीतमोजस्वि ब्राह्मं वपुरभिनिर्माय सुरापूर्णं च वामपार्श्वस्थं नातिबृहन्तं कुम्भं सर्वमित्रस्य राज्ञः परिषदि संनिषण्णस्य प्रस्तावोपनतासु प्रवृत्तासु सुरासवशीधुमैरेयमधुकथासु पुरतोऽन्तरिक्षे प्रादुरभूत्। विस्मयबहुमानावर्जितेन च प्राञ्जलिना तेन जनेनाभ्युत्थाय प्रत्यर्च्यमानः सजल इव जलधरो गम्भीरमभि दन्नुच्चैरुवाच-



पुष्पमालाहसत्कण्ठमिमं भरितमाकण्ठम्।

अवतंसकृताकुम्भं क्रेतुमिच्छति कः कुम्भम्॥५॥



सवलयमिव पुष्पमालया प्रविततयानिलकम्पलीलया।

किसलयरचनासमुत्कटं घटमिममिच्छति कः क्रयेण वः॥६॥



अथैनं स राजा विस्मयावर्जितकौतूहलः सबहुमानमीक्षमाणः कृताञ्जलिरुवाच-



दीप्त्या नवार्क इव चारुतया शशीव

संलक्ष्यसे च वपुषान्यतमो मुनीनाम्।

तद्वक्तुमर्हसि यथा विदितोऽसि लोके

संभावना हि गुणतस्त्वयि नो विचित्रा॥७॥



शक्र उवाच-

पश्चादपि ज्ञास्यसि योऽहमस्मि घटं त्विदं क्रेतुमितो घटस्व।

न चेद् भयं ते परलोकदुःखादिहैव तीव्रव्यसनागमाद्वा॥८॥



राजोवाच-अपूर्वः खल्वयमत्रभवतः पश्य विक्रयारम्भः।

गुणसंवर्णनं नाम दोषाणां च निगूहनम्।

प्रसिद्ध इति लोकस्य पण्यानां विक्रयक्रमः॥९॥



युक्तो वानृतभीरूणां त्वद्विधानामयं विधिः।

न हि कृच्छ्रेऽपि संत्यक्तुं सत्यमिच्छन्ति साधवः॥१०॥



तदाचक्ष्व महाभाग पूर्णः कस्य घटो न्वयम्।

किं वा विनिमये प्राप्यमस्मत्तस्त्वादृशैरपि॥११॥



शक्र उवाच-श्रूयतां महाराज !



नायं तोयदविच्युतस्य पयसः पूर्णो न तीर्थाम्भसः

कैञ्जल्कस्य सुगन्धिनो न मधुनः सर्पिर्विशेषस्य वा।

न क्षीरस्य विजृम्भमाणकुमुदव्यभ्रेन्दुपादच्छवेः

पूर्णः पापमयस्य यस्य तु घटस्तस्य प्रभावं शृणु॥१२॥



यत्पीत्वा मददोषविह्वलतया स्वतन्त्रश्चरन्

देशेष्वप्रपतेष्वपि प्रपतितो मन्दप्रभावस्मृतिः।

भक्ष्याभक्ष्यविचारणाविरहितस्तत्तत्समास्वादयेत्

तत्संपूर्णमिमं गतं क्रयपथं क्रीणीत कुम्भाधमम्॥१३॥



अनीशः स्वे चित्ते विचरति यया संहृतमति-

र्द्विषां हासायामं समुपजनयन्गौरिव जडः।

सदोमध्ये नृत्येत्स्वमुखपटहेनापि च यया

क्रयार्हा सेयं वः शुभविरहिता कुम्भनिहिता॥१४॥



पीत्वोचितामपि जहाति ययात्मलज्जां

निर्ग्रन्थवद्वसनसंयमखेदमुक्तः।

धीरं चरेत्पथिषु पौरजनाकुलेषु

सा पश्यतामुपगता निहितात्र कुम्भे॥१५॥



यत्पीत्वा वमथुसमुद्गतान्नलिप्ता

निःशङ्कैः श्वभिरवलिह्यमानवक्त्राः।

निःसंज्ञा नृपतिपथिष्वपि स्वपन्ति

प्रक्षिप्तं क्रयसुभगं तदत्र कुम्भे॥१६॥



उपयुज्य यन्मदबलादबला विनिबन्धयेदपि तरौ पितरौ।

गणयेच्च सा धनपतिं न पतिं तदिदं घटे विनिहितं निहितम्॥१७॥



यां पीतवन्तो मदलुप्तसंज्ञा वृष्ण्यन्धका विस्मृतबन्धुभावाः।

परस्परं निष्पिपिषुर्गदाभिरुन्मादनी सा निहितेह कुम्भे॥१८॥



यत्र प्रसक्तानि कुलानि नेशुर्लक्ष्मीनिकेतान्युदितोदितानि।

उच्छेदनी वित्तवतां कुलानां सेयं घटे क्रय्यतयाधिरूढा॥१९॥



अनियतरुदितस्थितविहसितवा-

ग्जडगुरुनयनो ग्रहवशग इव।

परिभवभवनं भवति च नियतं

यदुपहतमतिस्तदिदमिह घटे॥२०॥



प्रवयसोऽपि यदाकुलचेतनाः स्वहितमार्गसमाश्रयकातराः।

बहु वदन्त्यसमीक्षितनिश्चयं क्रयपथेन गतं तदिदं घटे॥२१॥



यस्या दोषात्पूर्वदेवाः प्रमत्ता लक्ष्मीमोषं देवराजादवाप्य।

त्राणापेक्षास्तोयराशौ ममज्जुस्तस्याः पूर्णं कुम्भमेतं वृणीत॥२२॥



ब्रूयादसत्यमपि सत्यमिव प्रतीतः

कुर्यादकार्यमपि कार्यमिव प्रहृष्टः।

यस्या गुणेन सदसत्सदसच्च विद्या-

च्छापस्य मूर्तिरिव सा निहितेह कुम्भे॥२३॥



उन्मादविद्यां व्यसनप्रतिष्ठां साक्षादलक्ष्मीं जननीमघानाम्।

अद्वैतसिद्धां कलिपद्धतिं तां क्रीणीत घोरां मनसस्तमिस्त्राम्॥२४॥



परिमुषितमतिर्यया निहन्यादपि पितरं जननीमनागसं वा।

अविगणितसुखायतिर्यतिं वा क्रयविधिना नृप तामितो गृहाण॥२५॥



एवंविधं मद्यमिदं नरेन्द्र सुरेति लोके प्रथितं सुराभ।

न पक्षपातोऽस्ति गुणेषु यस्य स क्रेतुमुद्योगमिदं करोतु॥२६॥



निषेव्य यद्‍दुश्चरितप्रसक्ताः पतन्ति भीमान्नरकप्रपातान्।

तिर्यग्गतिं प्रेतदरिद्रतां च को नाम तद्‍द्रष्टुमपिव्यवस्येत्॥२७॥



लघुरपि च विपाको मद्यपानस्य यः स्या-

न्मनुजगतिगतानां शीलदृष्टीः स हन्ति।

ज्वलितदहनरौद्रे येन भूयोऽप्यवीचौ

निवसति पितृलोके हीनतिर्यक्षु चैव॥२८॥



शीलं निमीलयति हन्ति यशः प्रसह्य

लज्जां निरस्यति मतिं मलिनीकरोति।

यन्नाम पीतमुपहन्ति गुणांश्च तांस्तां-

स्तत्पातुमर्हसि कथं नृप मद्यमद्य॥२९॥



अथ सा राजा तैस्तस्य हृदयग्राहकैर्हेतुमद्भिर्वचोभिरवगमितमद्यपानदोषो मद्यप्रसङ्गादपवृत्ताभिलाषः शक्रमित्युवाच-



स्निग्धः पिता विनयभक्तिगुणाद् गुरुर्वा

यद्वक्तुमर्हति नयानयविन्मुनिर्वा।

तावत्त्वया स्वभिहितं हितकाम्यया मे

तत्कर्मणा विधिवदर्चयितुं यतिष्ये॥३०॥



इदं च तावत्सुभाषितप्रतिपूजनमर्हति नोऽत्रभवान् प्रतिग्रहीतुम्।

ददामि ते ग्रामवरांश्च पञ्च दासीशतं पञ्च गवां शतानि।

सदश्वयुक्तांश्च रथान्दशेमान्हितस्य वक्ता हि गुरुर्ममासि॥३१॥



यद्वा मयान्यत्करणीयं तत्संदेशादर्हत्यत्रभवान्भूयोऽपि मामनुग्रहीतुम्। शक्र उवाच-



अर्थोऽस्ति न ग्रामवरादिना मे सुराधिपं मामभिगच्छ राजन्।

संपूजनीयस्तु हितस्य वक्ता वाक्प्रग्रहेण प्रतिपन्मयेन॥३२॥



अयं हि पन्था यशसः श्रियश्च परत्र सौख्यस्य च तस्य तस्य।

अपास्य तस्मान्मदिराप्रसङ्गं धर्माश्रयान्मद्विषयं भजस्व॥३३॥



इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे। स च राजा सपौरजानपदो मद्यपानाद्विरराम।



तदेवमनेकदोषोपसृष्टमतिकष्टं मद्यपानमिति साधवः परमस्माद्वारयन्ति प्रागेवात्मानमिति। एवं लोकहितः पूर्वजन्मस्वपि स भगवानिति तथागतवर्णेऽपि वाच्यम्।



इति कुम्भ-जातकं सप्तदशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project