Digital Sanskrit Buddhist Canon

१६ वर्तकापीतक-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 16 vartakāpītaka-jātakam
१६. वर्तकापीतक-जातकम्



सत्यपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचनेऽभियोगः करणीयः। तद्यथानुश्रूयते-



बोधिसत्त्वः किलान्यतमस्मिन्नरण्यायतने वर्तकापोतको भवति स्म। स कतिपयरात्रोद्भिन्नाण्डकोशः प्रविरोक्ष्यमाणतरुणपक्षः परिदुर्बलत्वादलक्ष्यमाणाङ्गप्रत्यङ्गप्रदेशः स्वमातापितृप्रयत्नरचिते तृणगहनोपगूढे गुल्मलतासंनिश्रिते नीडे संबहुलैर्भ्रातृभिः सार्धं प्रतिवसति स्म। तदवस्थोऽपि चापरिलुप्तधर्मसंज्ञत्वान्मातापितृभ्यामुपहृतान्प्राणिनो नेच्छति स्माभ्यवहर्तुम्। यदेव त्वस्य तृणबीजन्यग्रोधफलाद्युपजह्रतुर्मातापितरौ तेनैव वर्तयामास। तस्य तया रूक्षाल्पाहारतया न कायः पुष्टिमुपययौ। नापि पक्षौ सम्यक्प्रविरुरोहतुः। इतरे तु वर्तकापोतका यथोपनीतमाहारमभ्यवहरन्तो बलवन्तः सञ्जातपक्षाश्च बभूवुः। धर्मता ह्येषा यदुत-



धर्माधर्मनिराशङ्कः सर्वाशी सुखमेधते।

धर्म्यां तु वृत्तिमन्विच्छन्विचिताशीह दुःखितः॥१॥



[अपि चोक्तं भगवता-सुजीवितमह्रीकेणेति गाथाद्वयम्।



सुजीवितमह्रीकेण ध्वाङ्क्षेणाशुचिकर्मणा।

प्रस्कन्दिना प्रगल्भेन सुसंक्लिष्टं तु जीवितम्॥२॥



ह्रीमता त्विह दुर्जीवं नित्यं शुचिगवेषिणा।

संलीनेनाप्रगल्भेन शुद्धाजीवेन जीवता॥३॥



इति गाथाद्वयमेतदार्यस्थाविरीयकनिकाये पठ्यते।] तेषामेवमवस्थानां नातिदूरे महान्वनदावः प्रतिभयप्रसक्तनिनदो विजृम्भमाणधूमराशिर्विकीर्यमाणज्वालावलीलोलविस्फुलिङ्गः सन्त्रासनो वनचराणामनयो वनगहनानां प्रादुरभवत्।



स मारुताधूर्णितविप्रकीर्णैर्ज्वालाभुजैर्नृत्तविशेषचित्रैः।

वल्गन्निव व्याकुलधूमकेशः सस्वान तेषां धृतिमाददानः॥४॥



चण्डानिलास्फालनचञ्चलानि भयद्रुतानीव वने तृणानि।

सोऽग्निः ससंरम्भ इवाभिपत्य स्फुरत्स्फुलिङ्गप्रकरो ददाह॥५॥



भयद्रुतोद्भ्रान्तविहङ्गसार्थं परिभ्रमद्भीतमृगं समन्तात्।

धूमौघमग्नं पटुवह्निशब्दं वनं तदार्त्येव भृशं ररास॥६॥



क्रमेण चोत्पीड्यमान इव स वह्निः पटुना मारुतेन तृणगहनानुसारी तेषां नीडसमीपमुपजगाम। अथ ते वर्तकापोतका भयविरसव्याकुलविरावाः परस्परनिरपेक्षाः सहसा समुत्पेतुः। परिदुर्बलत्वादसञ्जातपक्षत्वाच्च बोधिसत्त्वस्तु नोत्पतितुं प्रयत्नं चकार। विदितात्मप्रभावस्त्वसंभ्रान्त एव स महासत्त्वः सरभसमिवोपसर्पन्तमग्निं सानुनयमित्युवाच-



व्यर्थाभिधानचरणोऽस्म्यविरूढपक्ष-

स्त्वत्सम्भ्रमाच्च पितरावपि मे प्रडीनौ।

त्वद्योग्यमस्ति न च किञ्चिदिहातिथेय-

मस्मान्निवर्तितुमतस्तव युक्तमग्ने॥७॥



इत्युक्ते सत्यपरिभावितवचसा तेन महासत्त्वेन-

उदीर्यमाणोऽप्यनिलेन सोऽग्निर्विशुष्कसंसक्ततृणेऽपि कक्षे।

नदीमिव प्राप्य विवृद्धतोयां तद्वाचमासाद्य शशाम सद्यः॥८॥



अद्यापि तं हिमवति प्रथितं प्रदेशं

दावाग्निरुद्धतशिखोऽपि समीरणेन।

मन्त्राभिशप्त इव नैकशिरा भुजङ्गः

सङ्कोचमन्दलुलितार्चिरुपैति शान्तिम्॥९॥



तत्किमिदमुपनीतमिति? उच्यते-

वेलामिव प्रचलितोर्मिफणः समुद्रः

शिक्षां मुनीन्द्रविहितामिव सत्यकामः।

सत्यात्मनामिति न लङ्घयितुं यदाज्ञां

शक्तः कृशानुरपि सत्यमतो न जह्यात्॥१०॥



तदेवं सत्यवचनपरिभावितां वाचमग्निरपि न प्रसहते लङ्घयितुमिति सत्यवचनेऽभियोगः करणीयः। तथागतवर्णेऽपि वाच्यमिति।



इति वर्तकापोतक-जातकं षोडशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project