Digital Sanskrit Buddhist Canon

१४ सुपारग-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

14 supāraga-jātakam

१४. सुपारग-जातकम्



धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम्। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किल महासत्त्वः परमनिपुणमतिर्नौसारथिर्बभूव। धर्मता ह्येषा बोधिसत्त्वानां प्रकृतिमेधावित्वाद्यदुत यं यं शास्त्रातिशयं जिज्ञासन्ते कलाविशेषं वा तस्मिंस्तस्मिन्नधिकतरा भवन्ति मेधाविनो जगतः। अथ स महात्मा विदितज्योतिर्गतित्वाद्दिग्विभागेष्वसम्मूढमतिः परिविदितनियतागन्तुकौत्पातिकनिमित्तः कालाकालक्रमकुशलो मीनतोयवर्णभौमप्रकारशकुनिपर्वतादिभिश्चिह्नैः सूपलक्षितसमुद्रदेशः स्मृतिमान्विजिततन्द्रीनिद्रः शीतोष्णवर्षादिपरिखेदसहिष्णुरप्रमादी धृतिमानाहरणापहरणकुशलत्वादीप्सितं देशं प्रापयिता वणिजामासीत्। तस्य परमसिद्धयात्रत्वात्सुपारग इत्येव नाम बभूव। तदध्युषितं च पत्तनं सुपारगमित्येवाख्यातमासीत्। यदेतर्हि सूपारगमिति ज्ञायते। सोऽपि मङ्गलसम्मतत्वाद् वृद्धत्वेऽपि सांयात्रिकैर्यात्रासिद्धिकामैर्वहनमभ्यर्थनसत्कारपुरःसरमारोप्यते स्म।



अथ कदाचिद्भरुकच्छादभिप्रयाताः सुवर्णभूमिवणिजो यात्रासिद्धिकामाः सुपारगं पत्तनमुपेत्य तं महासत्त्वं वहनारोहणार्थमभ्यर्थयामासुः। स तानुवाच-



जराज्ञया संह्रियमाणदर्शने श्रमाभिपातैः प्रतनूकृतस्मृतौ।

स्वदेहकृत्येऽप्यवसन्नविक्रमे सहायता का परिशङ्क्यते मयि॥१॥



वणिज ऊचुः-विदितेयमस्माकं युष्मच्छरीरावस्था। सत्यपि च वः पराक्रमासहत्वे नैव वयं कर्मविनियोगेन युष्मानायासयितुमिच्छामः। किं तर्हि?



त्वत्पादपङ्कजसमाश्रयसत्कृतेन

मङ्गल्यतामुपगता रजसा त्वियं नौः।

दुर्गे महत्यपि च तोयनिधावमुष्मिन्

स्वस्ति व्रजेदिति भवन्तमुपागताः स्मः॥२॥



अथ स महात्मा तेषामनुकम्पया जराशिथिलशरीरोऽपि तद्वहनमारुरोह। तदधिरोहणाच्च प्रमुदितमनसः सर्व एव ते वणिजो बभूवुर्नियतमस्माकमुत्तमा यात्रासिद्धिरिति। क्रमेण चावजगाहिरे विविधमीनकुलविचरितमनिभृतजलकलकलारावमनिलबलविलासप्रविचलिततरङ्गं बहुविधरत्नैर्भूमिविशेषैरर्पितरङ्गं फेनावलीकुसुमदामविचित्रमसुरबलभुजगभवनं दुरापपातालमप्रमेयतोयं महासमुद्रम्।



अथेन्द्रनीलप्रकराभिनीलं सूर्यांशुतापादिव खं विलीनम्।

समन्ततोऽन्तर्हिततीरलेखमगाधमम्मोनिधिमध्यमीयुः॥३॥



तेषां तत्रानुप्राप्तानां सायाह्नसमये मृदूभूतकिरणचक्रप्रभावे सवितरि महदौत्पातिकं परमभीषणं प्रादुरभूत्।



विभिद्यमानोर्मिविकीर्णफेनश्चण्डानिलास्फालनभीमनादः।

नैभृत्यनिर्मुक्तसमग्रतोयः क्षणेन रौद्रः समभूत् समुद्रः॥४॥



उत्पातवाताकलितैर्महद्भिस्तोयस्थलैर्भीमरयैर्भ्रमद्भिः।

युगान्तकालप्रचलाचलेव भूमिर्बभूवोग्रवपुः समुद्रः॥५॥



विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजङ्गा इव नैकशीर्षाः।

आवव्रुरादित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः॥६॥



घनैर्घनैरावृतरश्मिजालः सूर्यः क्रमेणास्तमुपारुरोह।

दिनान्तलब्धप्रसरं समन्तात्तमो घनीभावमिवाजगाम॥७॥



धाराशरैराच्छुरितोर्मिचक्रे महोदधावुत्पततीव रोषात्।

भीतेव नौरभ्यधिकं चकम्पे विषादयन्ती हृदयानि तेषाम्॥८॥



ते त्रासदीनाश्च विषादमूका धीराः प्रतीकारससम्भ्रमाश्च।

स्वदेवतायाचनतत्पराश्च भावान्यथा सत्त्वगुणं विवव्रुः॥९॥



अथ ते सांयात्रिकाः पवनबलचलितसलिलवेगवशगया नावा परिभ्रम्यमाणा बहुभिरप्यहोभिर्नैव कुतश्चित्तीरं ददृशुर्न च यथेप्सितानि समुद्रचिह्नानि। अपूर्वैरेव तु समुद्रचिह्नैरभिवर्धमानवैमनस्या भयविषादव्याकुलतामुपजग्मुः। अथैतान् सुपारगो बोधिसत्त्वो व्यवस्थापयन्नुवाच-अनाश्चर्यं खलु महासमुद्रमध्यमवगाढानामौत्पातिकक्षोभपरिक्लेशः। तदलमत्रभवतां विषादानुवृत्त्या। कुतः ?



नापत्प्रतीकारविधिर्विषादस्तस्मादलं दैन्यपरिग्रहेण।

धैर्यात्तु कार्यप्रतिपत्तिदक्षाः कृच्छ्राण्यकृच्छ्रेण समुत्तरन्ति॥१०॥



विषाददैन्यं व्यवधूय तस्मात्कार्यावकाशं क्रियया भजध्वम्।

प्राज्ञस्य धैर्यज्वलितं हि तेजः सर्वार्थसिद्धिग्रहणाग्रहस्तः॥११॥



तद्यथाधिकारावहिता भवन्तु भवन्तः। इति ते सांयात्रिकास्तेन महात्मना धीरीकृतमनसः कूलदर्शनोत्सुकमतयः समुद्रमवलोकयन्तो ददृशुः पुरुषविग्रहानामुक्तरूप्यकवचानिवोन्मज्जतो निमज्जतश्च। सम्यक् चैषामाकृतिनिमित्तमुपधार्य सविस्मयाः सुपारगाय न्यवेदयन्त-अपूर्वं खल्विदमिह महासमुद्रे चिह्नमुपलभ्यते। एते खलु



आमुक्तरूप्यकवचा इव दैत्ययोधा

घोरेक्षणाः खुरनिकाशविरूपघोणाः।

उन्मज्जनावतरणस्फुरणप्रसंगात्

क्रीडामिवार्णवजलेऽनुभवन्ति केऽपि॥१२॥



सुपारग उवाच-नैते मानुषा अमानुषा वा। मीनाः खल्वेते। यतो न भेतव्यमेभ्यः। किन्तु-



सुदूरपमकृष्टाः स्मः पत्तनद्वितयादपि।

खुरमाली समुद्रोऽयं तद्यतध्वं निवर्तितुम्॥१३॥



चण्डवेगवाहिना सलिलनिवहेनैकान्तहरेण च पाश्चात्त्येन वायुना समाक्षिप्तया नावा न ते सांयात्रिकाः शेकुर्विनिवर्तितुम्। अथावगाहमानाः क्रमेण रूप्यप्रभावभासितमनीलफेननिचयपाण्डुरमपरं समुद्रमालोक्य सविस्मयाः सुपारगमूचुः-



स्वफेनमग्नैरिव कोऽयमम्बुभिर्महार्णवः शुक्लदुकूलवानिव।

द्रवानिवेन्दोः किरणान्समुद्वहन्समन्ततो हास इव प्रसर्पति॥१४॥



सुपारग उवाच-कष्टम्। अतिदूरं खल्ववगाह्यते।

क्षीरार्णव इति ख्यात उदधिर्दधिमाल्यसौ।

क्षमं नातः परं गन्तुं शक्यते चेन्निवर्तितुम्॥१५॥



वणिज ऊचुः-न खलु शक्यते विलम्बयितुमपि वहनं कुत एव सन्निवर्तयितुमतिशीघ्रवाहित्वाद्वहनस्य प्रतिकूलत्वाच्च मारुतस्येति।



अथ व्यतीत्य तमपि समुद्रं सुवर्णप्रभानुरञ्जितप्रचलोर्मिमालमग्निज्वालकपिलसलिलमपरं समुद्रमालोक्य सविस्मयकौतूहलास्ते वणिजः सुपारगं पप्रच्छुः-



बालार्कलक्ष्म्येव कृताङ्गरागैः समुन्नमद्भिः सलिलैरनीलैः।

ज्वलन्महानग्निरिवावभाति को नाम तस्माच्च महार्णवोऽयम्॥१६॥



सुपारग उवाच-

अग्निमालीति विख्यातः समुद्रोऽयं प्रकाशते।

अतीव खलु साधु स्यान्निवर्तेमहि यद्यतः॥१७॥



इति स महात्मा नाममात्रमकथयत्तस्य सरित्पतेर्न तोयवैवर्ण्यकारणं दीर्घदर्शित्वात्। अथ ते सांयात्रिकास्तमपि समुद्रमतीत्य पुष्परागेन्द्रनीलप्रभोद्योतितसलिलं परिपक्वकुशवननिकाशवर्णं समुद्रमालोक्य कौतूहलजाताः सुपारगं पप्रच्छुः-



परिणतकुशपर्णवर्णतोयः सलिलनिधिः कतमो न्वयं विभाति।

सकुसुम इव फेनभक्तिचित्रैरनिलजवाकलितैस्तरङ्गभङ्गैः॥१८॥



सुपारग उवाच-भोः सार्थवाहा निवर्तनं प्रति यत्नः क्रियताम्। न खल्वतः क्षमते परं गन्तुम्।



कुशमाली समुद्रोऽयमत्यङ्कश इव द्विपः।

प्रसह्यासह्यसलिलो हरन्हरति नो रतिम्॥१९॥



अथ ते वाणिजकाः परेणापि यत्नेन निवर्तयितुमशक्नुवन्तस्तमपि समुद्रमतीत्य वंशरागवैडूर्यप्रभाव्यतिकरहरितसलिलमपरं समुद्रमालोक्य सुपारगमपृच्छन्-



मरकतहरितप्रभैर्जलैर्वहति नवामिव शाद्वलश्रियम्।

कुमुदरुचिरफेनभूषणः सलिलनिधिः कतमोऽयमीक्ष्यते॥२०॥



अथ स महात्मा तेन वणिग्जनस्य व्यसनोपनिपातेन दह्यमानहृदयो दीर्घमुष्णमभिनिश्वस्य शनैरुवाच-



अतिदूरमुपेताः स्थ दुःखमस्मान्निवर्तितुम्।

पर्यन्त इव लोकस्य नलमाल्येष सागरः॥२१॥



तच्छ्रुत्वा ते वाणिजका विषादोपरुध्यमानमनसो विस्रस्यमानगात्रोत्साहा निश्वसितमात्रपरायणास्तत्रैव निषेदुः। व्यतीत्य च तमपि समुद्रं सायाह्नसमये विलम्बमानरश्मिमण्डले सलिलनिधिमिव प्रवेष्टुकामे दिवसकरे समुद्वर्तमानस्येव सलिलनिधेरशनीनामिव च सम्पततां वेणुवनानामिव चाग्निपरिगतानां विस्फुटतां तुमुलमतिभीषणं श्रुतिहृदयविदारणं समुद्रध्वनिमश्रौषुः। श्रुत्वा च सन्त्रासवशगाः स्फुरन्मनसः सहसैवोत्थाय समन्ततोऽनुविलोकयन्तो ददृशुः प्रपात इव श्वभ्र इव च महति तमुदकौघं निपतन्तम्। दृष्ट्वा च परमभयविषादविह्वलाः सुपारगमुपेत्योचुः



निर्भिन्दन्निव नः श्रुतीः प्रतिभयश्चेतांसि मथ्नन्निव

क्रुद्धस्येव सरित्पतेर्ध्वनिरयं दूरादपि श्रूयते।

भीमे श्वभ्र इवार्णवस्य निपतत्येतत्समग्रं जलं

तत्कोऽसावुदधिः किमत्र च परं कृत्यं भवान्मन्यते॥२२॥



अथ स महात्मा ससम्भ्रमः कष्टं कष्टमित्युक्त्वा समुद्रमालोकयन्नुवाच-



यत्प्राप्य न निवर्तन्ते मृत्योर्मुखमिवामुखम्।

अशिवं समुपेताः स्थ तदेतद्वडवामुखम्॥२३॥



तदुपश्रुत्य ते वाणिजका वडवामुखमुपेता वयमिति त्यक्तजीविताशा मरणभयविक्लवीभूतमनसः



सस्वरं रुरुदुः केचिद्विलेपुरथ चुक्रुशुः।

न किञ्चित्प्रत्यपद्यन्त केचित्त्रासविचेतसः॥२४॥



विशेषतः केचिदभिप्रणेमुर्देवेन्द्रमार्तिप्रहतैर्मनोभिः।

आदित्यरुद्रांश्च मरुद्वसूंश्च प्रपेदिरे सागरमेव चान्ये॥२५॥



जेपुश्च मन्त्रानपरे विचित्रानन्ये तु देवीं विधिवत्प्रणेमुः।

सुपारगं केचिदुपेत्य तत्तद्विचेष्टमानाः करुणं विलेपुः॥२६॥



आपद्गतत्रासहरस्य नित्यं परानुकम्पागुणसम्भृतस्य।

अयं प्रभावातिशयस्य तस्य तवाभ्युपेतो विनियोगकालः॥२७॥



आर्ताननाथाञ्छरणागतान्नस्त्वं त्रातुमावर्जय धीर चेतः।

अयं हि कोपाद्वडवामुखेन चिकीर्षति ग्रासमिवार्णवोऽस्मान्॥२८॥



नोपेक्षितुं युक्तमयं जनस्ते विपद्यमानः सलिलौघमध्ये।

नाज्ञां तवात्येति महासमुद्रस्तद्वार्यतामप्रशमोऽयमस्य॥२९॥



अथ स महात्मा महत्या करुणया समापीड्यमानहृदयस्तान्वाणिजकान्व्यवस्थापयन्नुवाच-अस्त्यत्रापि नः कश्चित्प्रतिकारविधिः प्रतिभाति। तत्तावत्प्रयोक्ष्ये। यतो मुहूर्तं धीरास्तावद् भवन्तु भवन्त इति। अथ ते वाणिजका अस्त्यत्रापि किल प्रतीकारविधिरित्याशया समुपस्तम्भितधैर्यास्तदवहितमनसस्तूष्णींबभूवुः। अथ सुपारगो बोधिसत्त्व एकांसमुत्तरासङ्गं कृत्वा दक्षिणेन जानुमण्डलेनाधिष्ठाय नावं समावर्जितसर्वभावः प्रणम्य तथागतेभ्यस्तान्सांयात्रिकानामन्त्रयते स्म-श्रृण्वन्त्वत्रभवन्तः सांयात्रिकाः सलिलनिधिव्योमाश्रयाश्च देवविशेषाः



स्मरामि यत आत्मानं यतः प्राप्तोऽस्मि विज्ञताम्।

नाभिजानामि सञ्चिन्त्य प्राणिनं हिंसुतुं क्वचित्॥३०॥



अनेन सत्यवाक्येन मम पुण्यबलेन च।

वडवामुखमप्राप्य स्वस्ति नौर्विनिवर्तताम्॥३१॥



अथ तस्य महात्मनः सत्याधिष्ठानबलात्पुण्यतेजसा सह सलिलजवेन स मारुतो व्यावर्तमानस्तां नावं निवर्तयामास। निवृत्तां तु तां नावमभिसमीक्ष्य ते वाणिजकाः परमविस्मयप्रहर्षोद्धतमानसा निवृत्ता नौरिति प्रणामसभाजनपुरःसरं सुपारगाय न्यवेदयन्त। अथ स महात्मा तान्वाणिजकानुवाच-स्थिरीभवन्तु भवन्तः। शीघ्रमारोप्यन्तां शीतानि। इति च तेन समादिष्टाः प्रमोदादुद्भूतबलोत्साहास्ते तदधिकृतास्तथा चक्रुः।



अथ मुदितजनप्रहासनादा प्रविततपाण्डुरशीतचारुपक्षा।

सलिलनिधिगता रराज सा नौर्गतजलदे नभसीव राजहंसी॥३२॥



निवृत्तायां तु तस्यां नाव्यनुकूलसलिलमारुतायां विमानलीलया स्वेच्छयैव चाभिप्रयातायां नातिश्यामीभूतसन्ध्याङ्गरागासु प्रवितन्यमानतमोवितानास्वालक्षितनक्षत्रभूषणासु दिक्षु किञ्चिदवशेषप्रभे दिवसकरमार्गे प्रवृत्तक्षणदाधिकारे सुपारगस्तान्वाणिजकानुवाच-भोः सार्थवाहा नलमालिप्रभृतिभ्यो यथादृष्टेभ्यः समुद्रेभ्यो वालुकाः पाषाणाश्च वहनमारोप्यन्तां यावत्सहते। एवमिदं यानपात्रं निर्घातभरीक्रान्तं न च पार्श्वानि दास्यति, मङ्गलसम्मताश्चैते वालुकापाषाणा नियतं लाभसिद्धये वो भविष्यन्तीति। अथ ते सांयात्रिकाः सुपारगप्रेमबहुमानावर्जितमतिभिर्देवताभिरनुप्रदर्शितेभ्यः स्थलेभ्य आदाय वालुकापाषाणबुद्ध्या वैडूर्यादीनि रत्नानि वहनमारोपयामासुः। तेनैव चैकरात्रेण सा नौर्भरुकच्छमुपजगाम।



अथ प्रभाते रजतेन्द्रनीलवैडूर्यहेमप्रतिपूर्णनौकाः।

स्वदेशतीरान्तमुपागतास्ते प्रीत्या तमानर्चुरुदीर्णहर्षाः॥३३॥



तदेवं धर्माश्रयं सत्यवचनमप्यापदं नुदति प्रागेव तत्फलमिति धर्मानुवर्तिना भवितव्यम्। कल्याणमित्राश्रयवर्णेऽपि वाच्यमेवं कल्याणमित्राश्रिताः श्रेयः प्राप्नुवन्तीति।



इति सुपारग-जातकं चतुर्दशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project