Digital Sanskrit Buddhist Canon

१३ उन्मादयन्ती-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

13 unmādayantī-jātakam

१३. उन्मादयन्ती-जातकम्



तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात्। तद्यथानुश्रूयते-



सत्यत्यागोपशमप्रज्ञादिभिर्गुंणातिशयैर्लोकहितार्थमुद्यच्छमानः किल बोधिसत्त्वः कदाचिच्छिबीनां राजा बभूव साक्षाद्धर्म इव विनय इव पितेव प्रजानामुपकारप्रवृत्तः।



दोषप्रवृत्तेर्विनियम्यमानो निवेश्यमानश्च गुणाभिजात्ये।

पित्रेव पुत्रः क्षितिपेन तेन ननन्द लोकद्वितयेऽपि लोकः॥१॥



समप्रभावा स्वजने जने च धर्मानुगा तस्य हि दण्डनीतिः।

अधर्म्यमावृत्य जनस्य मार्गं सोपानमालेव दिवो बभूव॥२॥



धर्मान्वयं लोकहितं स पश्यंस्तदेककार्यों नरलोकपालः।

सर्वात्मना धर्मपथेऽभिरेमे तस्योपमर्दं च परैर्न सेहे॥३॥



अथ तस्य राज्ञः पौरमुख्यस्य दुहिता श्रीरिव विग्रहवती साक्षाद्रतिरिवाप्सरसामन्यतमेव परया रूपलावण्यसंपदोपेता परमदर्शनीया स्त्रीरत्नसंमता बभूव।



अवीतरागस्य जनस्य यावत्सा लोचनप्राप्यवपुर्बभूव।

तावत्स तद्रूपगुणावबद्धां न दृष्टिमुत्कम्पयितुं शशाक॥४॥



अतश्च तस्या उन्मादयन्तीत्येव बान्धवा नाम चक्रुः। अथ तस्याः पिता राज्ञः संविदितं कारयामास-स्त्रीरत्नं ते देव विषये प्रादुर्भूतम्। यतस्तत्प्रतिग्रहं विसर्जनं वा प्रति देवः प्रमाणमिति। अथ स राजा स्त्रीलक्षणविदो ब्राह्मणान् समादिदेश-पश्यन्त्वेनां तत्रभवन्तः किमसावस्मद्योग्या न वेति। अथ तस्याः पिता तान्ब्राह्मणान् स्वभवनमभिनीयोन्मादयन्तीमुवाच-भद्रे स्वयमेव ब्राह्मणान् परिवेषयेति। सा तथेति प्रतिश्रुत्य यथाक्रमं ब्राह्मणान् परिवेषयितुमुपचक्रमे। अथ ते ब्राह्मणाः



तदाननोद्वीक्षणनिश्चलाक्षा मनोभुवा संह्रियमाणधैर्याः।

अनीश्वरा लोचनमानसानामासुर्मदेनेव विलुप्तसंज्ञाः॥५॥



यदा च नैव शक्नुवन्ति स्म प्रतिसंख्यानधीरनिभृतमवस्थातुं, कुत एव भोक्तुम्। अथैषां चक्षुष्पथादुत्सार्य स्वां दुहितरं स गृहपतिः स्वयमेव ब्राह्मणान् परिवेष्य विसर्जयामास। अथ तेषां बुद्धिरभवत्-कृत्यारूपमिव खल्विदमतिमनोहरमस्या दारिकाया रूपचातुर्यम्। यतो नैनां राजा द्रष्टुमप्यर्हति कुतः पुनः पत्नीत्वं गमयितुम्। अनया हि रूपशोभया नियतमस्योन्मादितहृदयस्य धर्मार्थकार्यप्रवृत्तेर्विस्रस्यमानोत्साहस्य राजकार्यकालातिक्रमाः प्रजानां हितसुखोदयपथमुपपीडयन्तः पराभवाय स्युः।



इयं हि संदर्शनमात्रकेण कुर्यान्मुनीनामपि सिद्धिविघ्नम्।

प्रागेव भावार्पितदृष्टिवृष्टेर्यूनः क्षितीशस्य सुखे स्थितस्य॥६॥



तस्मादिदमत्र प्राप्तकालमिति यथाप्रस्तावमुपेत्य राज्ञे निवेदयामासुः-दृष्टास्माभिर्महाराज सा कन्यका। अस्ति तस्या रूपचातुर्यमात्रकमपलक्षणोपघातनिःश्रीकं तु। यतो नैनां द्रष्टुमप्यर्हति देवः, किं पुनः पत्नीत्वं गमयितुम्।



कुलद्वयस्यापि हि निन्दिता स्त्री यशो विभूतिं च तिरस्करोति।

निमग्नचन्द्रेव निशा समेघा शोभां विभागं च दिवस्पृथिव्योः॥७॥



इति श्रुतार्थः स राजा-अपलक्षणा किलासौ, न च मे कुलानुरूपेति तस्यां विनिवृत्ताभिलाषो बभूव। अनर्थितां तु विज्ञाय राज्ञः स गृहपतिस्तां दारिकां तस्यैव राज्ञोऽमात्यायाभिपारगाय प्रायच्छत्। अथ कदाचित्स राजा क्रमागतां कौमुदीं स्वस्मिन्पुरवरे निषक्तशोभां द्रष्टुमुत्सुकमना रथवरगतः सिक्तसंमृष्टरथ्यान्तरापणमुच्छ्रितविचित्रध्वजपताकं समन्ततः पुष्पोपहारशबलभूमिभागधवलं प्रवृत्तनृत्तगीतहास्यलास्यवादित्रं पुष्पधूपचूर्णवासमाल्यासवस्नानानुलेपनामोदप्रसृतसुरभिगन्धि प्रसारितविविधरुचिरपण्यं तुष्टपुष्टोज्ज्वलतरवेषपौरजानपदसंबाधराजमार्गं पुरवरमनुविचरंस्तस्यामात्यस्य भवनसमीपमुपजगाम। अथोन्मादयन्त्यपलक्षणा किलाहमित्यनेन राज्ञावधूतेति समुत्पन्नामर्षा राजदर्शनकुतूहलेन नाम संदृश्यमानरूपशोभा विद्युदिव घनशिखरं हर्म्यतलमवभासयन्ती व्यतिष्ठत। शक्तिरस्येदानीमस्त्वपलक्षणादर्शनादविचलितधृतिस्मृतिमात्मानं धारयितुमिति। अथ तस्य राज्ञः पुरवरविभूतिदर्शनकुतूहलप्रसृता दृष्टिरभिमुखस्थितायां सहसैव तस्यामपतत्। अथ स राजा-



प्रकाममन्तःपुरसुन्दरीणां वपुर्विलासैः कलितेक्षणोऽपि।

अनुद्धतो धर्मपथानुरागादुद्योगवानिन्द्रियनिर्जयेऽपि। ८॥



विपुलधृतिगुणोऽप्यपत्रपिष्णुः परयुवतीक्षणविक्लवेक्षणोऽपि।

उदितमदनविस्मयः स्त्रियं तां चिरमनिमेषविलोचनो ददर्श॥९॥



कौमुदी किं न्वियं साक्षाद्भवनस्यास्य देवता।

स्वर्गस्त्री दैत्ययोषिद्वा न ह्येतन्मानुषं वपुः॥१०॥



इति विचारयत एव तस्य राज्ञस्तद्दर्शनावितृप्तनयनस्य स रथस्तं देशमतिवर्तमानो न मनोरथानुकूलो बभूव। अथ स राजा शून्यहृदय इव तद्गतैकाग्रमनाः स्वभवनमुपेत्य मन्मथाक्षिप्तधृतिः सुनन्दं सारथिं रहसि पर्यपृच्छत्-



सितप्राकारसंवीतं वेत्सि कस्य नु तद्गृहम्।

का सा तत्र व्यरोचिष्ट विद्युत्सित इवाम्बुदे॥११॥



सारथिरुवाच-अस्ति देवस्याभिपारगो नामामात्यमुख्यः। तस्य तद्गृहं तस्यैव च सा भार्या किरीटवत्सस्य दुहिता उन्मादयन्ती नामेति। तदुपश्रुत्य स राजा परभार्येति वितानीभूतहृदयश्चिन्तास्तिमितनयनो दीर्घमुष्णमभिनिश्वस्य तदर्पितमनाः शनैरात्मगतमुवाच-



अन्वर्थरम्याक्षरसौकुमार्यमहो कृतं नाम यथेदमस्याः।

उन्मादयन्तीति शुचिस्मितायास्तथा हि सोन्मादमिवाकरोन्माम्॥१२॥



विस्मर्तुंमेनामिच्छामि पश्यामीव च चेतसा।

स्थितं तस्यां हि मे चेतः सा प्रभुत्वेन तत्र वा॥१३॥



परस्य नाम भार्यायां ममाप्येवमधीरता।

तदुन्मत्तोऽस्मि संत्यक्तो लज्जयेवाद्य निद्रया॥१४॥



तस्या वपुर्विलसितस्मितवीक्षितेषु

संरागनिश्चलमतेः सहसा स्वनन्ती।

कार्यान्तरक्रमनिवेदनधृष्टशब्दा

विद्वेषमुत्तुदति चेतसि नालिका मे॥१५॥



इति स राजा मदबलविचलितधृतिर्व्यवस्थापयन्नप्यात्मानमापाण्डुकृशतनुः प्रध्यानविनिश्वसितविजृम्भणपरः प्रव्यक्तमदनाकारो बभूव।



धृत्या महत्यापि निगुह्यमानः स भूपतेस्तस्य मनोविकारः।

मुखेन चिन्तास्तिमितेक्षणेन कार्श्येन च व्यक्तिमुपाजगाम॥१६॥



अथेङ्गिताकारग्रहणनिपुणमतिरभिपारगोऽमात्यस्तं राज्ञो वृत्तान्तं सकारणमुपलभ्य स्नेहात्तदत्ययाशङ्को जानानश्चातिबलतां मदनस्य रहसि राजानं संविदितं समुपेत्य कृताभ्यनुज्ञो विज्ञापयामास-



अद्यार्चयन्तं नरदेव देवान्साक्षादुपेत्याम्बुरुहाक्ष यक्षः।

मामाह नावैषि नृपस्य कस्मादुन्मादयन्त्यां हृदयं निविष्टम्॥१७॥



इत्येवमुक्त्वा सहसा तिरोऽभूद्विमर्शवानित्यहमभ्युपेतः।

तच्चेत्तथा देव किमेतदेवमस्मासु ते निष्प्रणयत्वमौनम्॥१८॥



तत्प्रतिग्रहीतुमेनामर्हति मदनुग्रहार्थं देव इति। अथ राजा प्रत्यादेशाल्लज्जावनतवदनो मदनवशगतोऽपि स्वभ्यस्तधर्मसंज्ञत्वादविक्लवीभूतधैर्यः प्रत्याख्यानविशदाक्षरमेनमुवाच-नैतदस्ति। कुतः ?



पुण्याच्च्युतः स्याममरो न चास्मि विद्याच्च नः पापमिदं जनोऽपि।

तद्विप्रयोगाच्च मनो ज्वलंत्स्वां वह्निः पुरा कक्षमिव क्षिणोति॥१९॥



यच्चोभयोरित्यहितावहं स्याल्लोके परस्मिन्निह चैव कर्म।

तद्यस्य हेतोरबुधा भजन्ते तस्यैव हेतोर्न बुधा भजन्ते॥२०॥



अभिपारग उवाच-अलमत्र देवस्य धर्मातिक्रमाशङ्कया।

दाने साहाय्यदानेन धर्म एव भवेत्तव।

दानविघ्नात्त्वधर्मः स्यात्तां मत्तोऽप्रतिगृह्णतः॥२१॥



कीर्त्युपरोधावकाशमपि चात्र देवस्य न पश्यामि। कुतः ?

आवाभ्यामिदमन्यश्च क एव ज्ञातुमर्हति।

जनापवादादाशङ्कामतो मनसि मा कृथाः॥२२॥



अनुग्रहश्चैष मम स्यान्न पीडा। कुतः ?

स्वाम्यर्थचर्यार्जितया हि तुष्ट्या निरन्तरे चेतसि को विघातः।

यतः सुकामं कुरु देव काममलं मदुत्पीडनशङ्कया ते॥२३॥



राजोवाच-शान्तं पापम्।

व्यक्तमस्मदतिस्नेहान्न त्वयैतदपेक्षितम्।

यथा दाने न सर्वस्मिन्साचिव्यं धर्मसाधनम्॥२४॥



यो मदर्थमतिस्नेहात्स्वान् प्राणानपि नेक्षते।

तस्य बन्धुविशिष्टस्य सख्युर्भार्या सखी मम॥२५॥



तदयुक्तं मामतीर्थे प्रतारयितुम्। यदपि चेष्टं नैतदन्यः कश्चिज्ज्ञास्यतीति, किमेवमिदमपापं स्यात्?



अदृश्यमानोऽपि हि पापमाचरन्विषं निषेव्येव कथं समृध्नुयात्।

न तं न पश्यन्ति विशुद्धचक्षुषो दिवौकसश्चैव नराश्च योगिनः॥२६॥



किं च भूयः,

श्रद्दधीत क एतच्च यथासौ तव न प्रिया।

तां परित्यज्य सद्यो वा विघातं न समाप्नुयाः॥२७॥



अभिपारग उवाच-

सपुत्रदारो दासोऽहं स्वामी त्वं दैवतं च मे।

दास्यामस्यां यतो देव कस्ते धर्मव्यतिक्रमः॥२८॥



यदपि चेष्टं प्रिया ममेयमिति किम् ?



मम प्रिया कामद काममेषा तेनैव दित्सामि च तुभ्यमेनाम्।

प्रियं हि दत्त्वा लभते परत्र प्रकर्षरम्याणि जनः प्रियाणि॥२९॥



यतः प्रतिगृह्णात्वेवैनां देव इति। राजोवाच-मा मैवम्। अक्रम एषः। कुतः ?



अहं हि शस्त्रं निशितं विशेयं हुताशनं विस्फुरदर्चिषं वा।

न त्वेव धर्मादधिगम्य लक्ष्मीं शक्ष्यामि तत्रैव पुनः प्रहर्तुंम्॥३०॥



अभिपारग उवाच-यद्येनां मद्भार्येति देवो न प्रतिग्रहीतुमिच्छत्ययमहमस्याः सर्वजनप्रार्थनाविरुद्धवेश्याव्रतमादिशामि। तत एनां देवः प्रतिगृह्णीयादिति।



राजोवाच-किमुन्मत्तोऽसि?

अदुष्टां संत्यजन्भार्यां मत्तो दण्डमवाप्नुयाः।

स धिग्वादास्पदीभूतः परत्रेह च धक्ष्यसे॥३१॥



तदलमकार्यनिर्बन्धितया। न्यायाभिनिवेशी भवेति।

अभिपारग उवाच-

धर्मात्ययो मे यदि कश्चिदेवं जनापवादः सुखविप्लवो वा।

प्रत्युद्गमिष्याम्युरसा तु तत्तत्त्वत्सौख्यलब्धेन मनःसुखेन॥३२॥



त्वत्तः परं चाहवनीयमन्यं लोके न पश्यामि महीमहेन्द्र।

उन्मादयन्ती मम पुण्यवृद्ध्यै तां दक्षिणामृत्विगिव प्रतीच्छ॥३३॥



राजोवाच-काममस्मदतिस्नेहादनवेक्षितात्महिताहितक्रमो मदर्थचर्यासमुद्योगस्तवायम्। अत एव तु त्वां विशेषतो नोपेक्षितुमर्हामि। नैव खलु लोकापवादनिःशङ्केन भवितव्यम्। पश्य,



लोकस्य यो नाद्रियतेऽपवादं धर्मानपेक्षः परतः फलं वा।

जनो न विश्वासमुपैति तस्मिन्ध्रुवं च लक्ष्म्यापि विवर्ज्यते सः॥३४॥



यतस्त्वां ब्रवीमि

मा ते रोचिष्ट धर्मस्य जीवितार्थे व्यतिक्रमः।

निःसंदिग्धमहादोषः ससन्देहकृशोदयः॥३५॥



किं च भूयः,

निन्दादिदुःखेषु परान्निपात्य नेष्टा सतामात्मसुखप्रवृत्तिः।

एकोऽप्यनुत्पीड्य परानतोऽहं धर्मे स्थितः स्वार्थधुरं प्रपत्स्ये॥३६॥



अभिपारग उवाच-स्वाम्यर्थं भक्तिवशेन चरतो मम तावदत्र क एवाधर्मावकाशः स्याद्देवस्य वा दीयमानामेनां प्रतिगृह्णतः। यतः सनैगमजानपदाः शिबयः किमत्राधर्म इति ब्रूयुः। तत् प्रतिगृह्णात्वेवैनां देव इति।



राजोवाच-अद्धा मदर्थचर्याप्रणयिमतिर्भवान्। इदं त्वत्र चिन्तयितव्यम्-सनैगमजानपदानां वा शिबीनां तव मम वा कोऽस्माकं धर्मवित्तम इति।



अथाभिपारगः ससंभ्रमो राजानमुवाच-

बृद्धोपसेवासु कृतश्रमत्वाच्छ्रुताधिकारान्मतिपाटवाच्च।

त्रिवर्गविद्यातिशयार्थतत्त्वं त्वयि स्थितं देव बृहस्पतौ च। ३७॥



राजोवाच-तेन हि न मामत्र प्रतारयितुमर्हसि। कुतः?

नराधिपानां चरितेष्वधीनं लोकस्य यस्मादहितं हितं च।

भक्तिं प्रजानामनुचिन्त्य तस्मात्कीर्तिक्षमे सत्पथ एव रंस्ये॥३८॥



जिह्मं शुभं वा वृषभप्रचारं गावोऽनुगा यद्वदनुप्रयान्ति।

उत्क्षिप्तशङ्काङ्कशनिर्विघट्टं प्रजास्तथैव क्षितिपस्य वृत्तिम्॥३९॥



अपि पश्यतु तावद्भवान्।

आत्मानमपि चेच्छक्तिर्न स्यात्पालयितुं मम।

का न्ववस्था जनस्यास्य मत्तो रक्षाभिकाङ्क्षिणः॥४०॥



इति प्रजानां हितमीक्षमाणः स्वं चैव धर्मं विमलं यशश्च।

नेच्छामि चित्तस्य वशेन गन्तुमहं हि नेता वृषवत्प्रजानाम्॥४१॥



अथाभिपारगोऽमात्यस्तेन राज्ञोऽवस्थानेन प्रसादितमनाः प्रणम्य राजानं प्राञ्जलिरित्युवाच-



अहो प्रजानामतिभाग्यसम्पद्यासां त्वमेवं नरदेव गोप्ता।

धर्मानुरागो हि सुखानपेक्षस्तपोवनस्थेष्वपि मृग्य एव॥४२॥



महच्छब्दो महाराज त्वय्येवायं विराजते

विगुणेषु गुणोक्तिर्हि क्षेपरूक्षतराक्षरा॥४३॥



विस्मयोऽनिभृतत्वं वा किं ममैतावता त्वयि।

समुद्र इव रत्नानां गुणानां यस्त्वमाकरः॥४४॥



तदेवं तीव्रदुःखातुराणामपि सतां नीचमार्गनिष्प्रणयता भवति स्वधैर्यावष्टम्भात् स्वभ्यस्तधर्मसंज्ञत्वाच्चेति धैर्यधर्माभ्यासे च योगः कार्य इति।



इत्युन्मादयन्ती-जातकं त्रयोदशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project