Digital Sanskrit Buddhist Canon

१२ ब्राह्मण-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

12 brāhmaṇa-jātakam

१२. ब्राह्मण-जातकम्



आत्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्ति। तद्यथानुश्रूयते-



बोधिसत्त्वः किल कस्मिंश्चिदनुपक्रुष्टगोत्रचारित्रे स्वधर्मानुवृत्तिप्रकाशयशसि विनयाचारश्लाघिनि महति ब्राह्मणकुले जन्मपरिग्रहं चकार। स यथाक्रमं गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मादिभिः कृतसंस्कारक्रमो वेदाध्ययननिमित्तं श्रुताभिजनाचारसम्पन्ने गुरौ प्रतिवसति स्म।



तस्य श्रुतग्रहणधारणपाटवं च

भक्त्यन्वयश्च सततं स्वकुलप्रसिद्धः।

पूर्वे वयस्यपि शमाभरणा स्थितिश्च

प्रेमप्रसादसुमुखं गुरुमस्य चक्रुः॥१॥



वशीकरणमन्त्रा हि नित्यमव्याहता गुणाः।

अपि द्वेषाग्नितप्तानां किं पुनः स्वस्थचेतसाम्॥२॥



अथ तस्याध्यापकः सर्वेषामेव शिष्याणां शीलपरीक्षानिमित्तं स्वाध्यायविश्रामकालेष्वात्मनो दारिद्र्यदुःखान्यभीक्ष्णमुपवर्णयामास।



स्वजनेऽपि निराक्रन्दमुत्सवेऽपि हतानन्दम्।

धिक्प्रदानकथामन्दं दारिद्र्यमफलच्छन्दम्॥३॥



परिभवभवनं श्रमास्पदं सुखपरिवर्जितमत्यनूर्जितम्।

व्यसनमिव सदैव शोचनं धनविकलत्वमतीव दारुणम्॥४॥



अथ ते तस्य शिष्याः प्रतोदसंचोदिता इव सदश्वा गुरुस्नेहात्समुपजातसंवेगाः सम्पन्नतरं प्रभूततरं च भैक्षमुपसंहरन्ति स्म। स तानुवाच-



अलमनेनात्रभवतां परिश्रमेण। न भैक्षोपहाराः कस्यचिद्दारिद्र्यक्षामतां क्षपयन्ति। अस्मत्परिक्लेशामर्षिभिस्तु भवद्भिरयमेव यत्नो धनाहरणं प्रति युक्तः कर्त्तुं स्यात्। कुतः ?



क्षुधमन्नं जलं तर्षं मन्त्रवाक्सागदा गदान्।

हन्ति दारिद्र्यदुःखं तु सन्तत्याराधनं धनम्॥५॥



शिष्या ऊचुः-किं करिष्यामो मन्दभाग्या वयं यदेतावान्नः शक्तिप्रयामः। अपि च



भैक्षवद्यदि लभ्येररन्नुपाध्याय धनान्यपि।

नेदं दारिद्र्यदुःखं ते वयमेवं सहेमहि॥६॥



प्रतिग्रहकृशोपायं विप्राणां हि धनार्जनम्।

अप्रदाता जनश्चायमित्यगत्या हता वयम्॥७॥



अध्यापक उवाच-सन्त्यन्येऽपि शास्रपरिदृष्टा धनार्जनोपायाः। जरानिष्पीतसामर्थ्यास्तु वयमयोग्यरूपास्तत्प्रतिपत्तौ। शिष्या ऊचुः- वयमुपाध्याय जरयानुपहतपराक्रमाः। तद्यदि नस्तेषां शास्त्रविहितानामुपायानां प्रतिपत्तिसहतां मन्यसे, तदुच्यताम्। यावदध्यापनपरिश्रमस्यानृण्यं ते गच्छाम इति। अध्यापक उवाच-तरुणैरपि व्यवसायशिथिलहृदयैर्दुरभिसम्भवाः खल्वेवंविधा धनार्जनोपायाः। यदि त्वयमत्र भवतां निर्बन्धः। तच्छ्रुयतां साधुः कतम एको धनोपार्जनक्रमः।



आपद्धर्मः स्तेयमिष्टं द्विजानामापच्चान्त्या निःस्वता नाम लोके।

तस्माद् भोज्यं स्वं परेषामदुष्टैः सर्वं चैतद् ब्राह्मणानां स्वमेव॥८॥



कामं प्रसह्यापि धनानि हर्तुं शक्तिर्भवेदेव भवद्विधानाम्।

न त्वेष योगः स्वयशो हि रक्ष्यं शून्येषु तस्माद्व्यवसेयमेव॥९॥



इति मुक्तप्रग्रहास्तेन ते छात्राः परममिति तत्तस्य वचनमयुक्तमपि युक्तमिव प्रत्यश्रौषुरन्यत्र बोधिसत्त्वात्।



स हि प्रकृतिभद्रत्वात्तन्नोत्सेहेऽनुमोदितुम्।

कृत्यवत्प्रतिपन्नं तैर्व्याहन्तुं सहसैव तु॥१०॥



व्रीडावनतवदनस्तु बोधिसत्त्वो मृदु विनिश्वस्य तूष्णीमभूत्। अथ स तेषामध्यापको बोधिसत्त्वमवेक्ष्य तं विधिमनभिनन्दन्तमप्रतिक्रोशन्तं निविष्टगुणसम्भावनस्तस्मिन्महासत्त्वे किं नु खल्वयमव्यवसितत्वान्निःस्नेहतया वा मयि स्तेयं न प्रतिपद्यते, उताधर्मसंज्ञयेति समुत्पन्नविमर्शस्तत्स्वभावव्यक्तीकरणार्थं बोधिसत्त्वमुवाच-भो महाब्राह्मण !



अमी द्विजा मद्व्यसनासहिष्णवः समाश्रिता वीरमनुष्यपद्धतिम्।

भवाननुत्साहजडस्तु लभ्यते न नूनमस्मद्व्यसनेन तप्यते॥११॥



परिप्रकाशेऽप्यनिगूढविस्तरे मयात्मदुःखे वचसा विदर्शिते।

कथं नु निःसम्भ्रमदीनमानसो भवानिति स्वस्थवदेव तिष्ठति॥१२॥



अथ बोधिसत्त्वः ससम्भ्रमोऽभिवाद्योपाध्यायमुवाच-शान्तं पापम्। न खल्वहं निःस्नेहकठिनहृदयत्वादपरितप्यमानो गुरुदुःखैरेवमवस्थितः, किन्त्वसम्भवादुपाध्यायप्रदर्शितस्य क्रमस्य। न हि शक्यमदृश्यमानेन क्वचित्पापमाचरितुम्। कुतः ? रहोऽनुपपत्तेः।



नास्ति लोके रहो नाम पापं कर्म प्रकुर्वतः।

अदृश्यानि हि पश्यन्ति ननु भूतानि मानुषान्॥१३॥



कृतात्मानश्च मुनयो दिव्योन्मिषितचक्षुषः।

तानपश्यन्रहोमानी बालः पापे प्रवर्तते॥१४॥



अहं पुनर्न पश्यामि शून्यं क्वचन किञ्चन।

यत्राप्यन्यं न पश्यामि नन्वशून्यं मयैव तत्॥१५॥



परेण यच्च दृश्येत दुष्कृतं स्वयमेव वा।

सुदृष्टतरमेतत्स्याद् दृश्यते स्वयमेव यत्॥१६॥



स्वकार्यपर्याकुलमानसत्वात्पश्येन्न वान्यश्चरितं परस्य।

रागार्पितैकाग्रमतिः स्वयं तु पापं प्रकुर्वन्नियमेन वेत्ति॥१७॥



तदनेन कारणेनाहमेवं व्यवस्थित इति। अथ बोधिसत्त्वः समभिप्रसादितमनसमुपाध्यायमवेत्य पुनरुवाच-



न चात्र मे निश्चयमेति मानसं धनार्थमेवं प्रतरेद्भवानपि।

अवेत्य को नाम गुणागुणान्तरं गुणोपमर्दं धनमूल्यतां नयेत्॥१८॥



स्वाभिप्रायं खलु निवेदयामि-

कपालमादाय विवर्णवाससा वरं द्विषद्वेश्मसमृद्धिरीक्षिता।

व्यतीत्य लज्जां न तु धर्मवैशसे सुरेन्द्रतार्थेऽप्युपसंहृतं मनः॥१९॥



अथ तस्योपाध्यायः प्रहर्षविस्मयाक्षिप्तहृदय उत्थायासनात्सम्परिष्वज्यैनमुवाच-साधु साधु पुत्रक ! साधु साधु महाब्राह्मण ! प्रतिरूपमेतत्ते प्रशमालङ्कृतस्यास्य मेधाविकस्य।



निमित्तमासाद्य यदेव किञ्चन

स्वधर्ममार्गं विसृजन्ति बालिशाः।

तपःश्रुतज्ञानधनास्तु साधवो

न यान्ति कृच्छ्रे परमेऽपि विक्रियाम्॥२०॥



त्वया कुलं सममलमभ्यलङ्कृतं

समुद्यता नभ इव शारदेन्दुना।

तवार्थवत्सुचरितविश्रुतं श्रुतं

सुखोदयः सफलतया श्रमश्च मे॥२१॥



तदेवमात्मलज्जयैव सत्पुरुषा नाचारवेलां लङ्घयन्तीति ह्रीबलेनार्येण भवितव्यम्। एवं ह्रीपरिखासम्पन्न आर्यश्रावकोऽकुशलं प्रजहाति कुशलं च भावयतीत्येवमादिषु सूत्रेषूपनेयम्। ह्रीवर्णप्रतिसंयुक्तेषु लोकाधिपतेयेषु चेति।



इति ब्राह्मण-जातकं द्वादशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project