Digital Sanskrit Buddhist Canon

११ शक्र-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

11 śakra-jātakam

११. शक्र-जातकम्



आपदपि महात्मनामैश्वर्यसम्पद्वा सत्त्वेष्वनुकम्पां न शिथिलीकरोति। तद्यथानुश्रूयते-



बोधिसत्त्वः किलानल्पकालस्वभ्यस्तपुण्यकर्मा सात्मीभूतप्रदानदमसंयमकरुणः परहितनियतक्रियातिशयः कदाचिच्छक्रो देवानामिन्द्रो बभूव।



सुरेन्द्रलक्ष्मीरधिकं रराज तत्संश्रयात्स्फीततरप्रभावा।

हर्म्ये सुधासेकनवाङ्गरागे निषक्तरूपा शशिनः प्रभेव॥१॥



यस्याः कृते दितिसुता रभसागतानि

दिङ्नागदन्तमुसलान्युरसाभिजग्मुः।

सौभाग्यविस्तरसुखोपनतापि तस्य

लक्ष्मीर्न दर्पमलिनं हृदयं चकार॥२॥



तस्य दिवस्पृथिव्योः सम्यक्परिपालनोपार्जितां सर्वलोकानुव्यापिनीं कीर्तिसम्पदं तां च लक्ष्मीमत्यद्भुताममृष्यमाणा दैत्यगणाः कल्पनाटोपभीषणतरद्विरदरथतुरगपदातिना क्षुभितसागरघोरनिर्घोषेण जाज्वल्यमानविविधप्रहरणावरणदुर्निरीक्ष्येण महता बलकायेन युद्धायैनमभिजग्मुः।



धर्मात्मनोऽपि तु स तस्य पराबलेपः

क्रीडाविघातविरसं च भयं जनस्य।

तेजस्विता नयपथोपनतः क्रमश्च

युद्धोद्भवाभिमुखतां हृदयस्य चक्रुः॥३॥



अथ स महासत्त्वस्तुरगवरसहस्रयुक्तमभ्युच्छ्रितार्हद्वसनचिह्नरुचिरध्वजं विविधमणिरत्नदीप्तिव्यवभासितमतिज्वलद्वपुषं कल्पनाविभागोपनियतनिशितज्वलितविविधायुधविराजितोभयपार्श्वं पाण्डुकम्बलिनं हैमं रथवरमभिरुह्य महता हस्त्यश्वरथपदातिविचित्रेण देवानीकेन परिवृतस्तदसुरसैन्यं समुद्रतीरान्त एव प्रत्युज्जगाम।



अथ प्रववृते तत्र भीरूणां धृतिदारणः।

अन्योन्यायुधनिष्पेषजर्जरावरणो रणः॥४॥



तिष्ठ नैवमितः पश्य क्वेदानीं मन्न मोक्ष्यसे।

प्रहरायं न भवसीत्येवं तेऽन्योन्यमार्दयन्॥५॥



ततः प्रवृत्ते तुमुले स्फूर्जत्प्रहरणे रणे।

पटहध्वनिनोत्क्रुष्टैः स्फुटतीव नभस्तलम्॥६॥



दानगन्धोद्धतामर्षेष्वापतत्सु परस्परम्।

युगान्तवाताकलितशैलभीमेषु दन्तिषु॥७॥



विद्युल्लोलपताकेषु प्रसृतेषु समन्ततः।

रथेषु पटुनिर्घोषेषूत्पाताम्बुधरेष्विव॥८॥



पात्यमानध्वजच्छत्रशस्त्रावरणमौलिषु।

देवदानववीरेषु शितैरन्योन्यसायकैः॥९॥



अथ प्रतप्तासुरशस्त्रसायकैर्भयात्प्रदुद्राव सुरेन्द्रवाहिनी।

रथेन विष्टभ्य बलं तु विद्विषां सुरेन्द्र एकः समरे व्यतिष्ठत॥१०॥



अभ्युदीर्णं त्वासुरं बलमतिहर्षात्पटुतरोत्क्रुष्टक्ष्वेडितसिंहनादमभिपतितमभिसमीक्ष्य मातलिर्देवेन्द्रसारथिः स्वं च बलं पलायनपरमवेत्यापयानमत्र प्राप्तकालमिति मत्वा देवाधिपतेः स्यन्दनमावर्तयामास। अथ शक्रो देवेन्द्रः समुत्पततो रथेषाग्राभिमुखान्यभिघातपथागतानि शाल्मलीवृक्षे गरुडनीडान्यपश्यत्। दृष्ट्वैव च करुणया समालम्ब्यमानहृदयो मातलिं संग्राहकमित्युवाच-



अजातपक्षद्विजपोतसङ्कुला द्विजालयाः शाल्मलिपादपाश्रयाः।

अमी पतेयुर्न यथा रथेषया विचूर्णिता वाहय मे रथं तथा॥११॥



मातलिरुवाच-अमी तावन्मार्ष समभियान्ति नो दैत्यसंघा इति। शक्र उवाच-ततः किम्? परिहरैतानि सम्यग्गरुडनीडानीति। अथैनं मातलिः पुनरुवाच-



निवर्तनादस्य रथस्य केवलं शिवं भवेदम्बुरुहाक्ष पक्षिणाम्।

चिरस्य लब्धप्रसरा सुरेष्वसावभिद्रवत्येव तु नो द्विषच्चमूः॥१२॥



अथ शक्रो देवेन्द्रः स्वमध्याशयातिशयं सत्त्वविशेषं च कारुण्यविशेषात् प्रकाशयन्नुवाच-



तस्मान्निवर्तय रथं वरमेव मृत्यु-

र्दैत्याधिपप्रहितभीमगदाभिघातैः।

धिग्वाददग्धयशसो न तु जीवितं मे

सत्त्वान्यमूनि भयदीनमुखानि हत्वा॥१३॥



अथ मातलिस्तथेति प्रतिश्रुत्य तुरगसहस्रयुक्तं स्यन्दनमस्य निवर्तयामास।



दृष्टावदाना रिपवस्तु तस्य युद्धे समालोक्य रथं निवृत्तम्।

भयद्रुताः प्रस्खलिताः प्रणेमुर्वाताभिनुन्ना इव कालमेघाः॥१४॥



भग्ने स्वसैन्ये विनिवर्तमानः पन्थानमावृत्य रिपुध्वजिन्याः।

सङ्कोचयत्येव मदावलेपमेकोऽप्यसम्भाव्यपराक्रमत्वात्॥१५॥



निरीक्ष्य भग्नं तु तदासुरं बलं सुरेन्द्रसेनाप्यथ सा न्यवर्तत।

बभूव नैव प्रणयः सुरद्विषां भयद्रुतानां विनिवर्तितुं यतः॥१६॥



सहर्षलज्जैस्त्रिदशैः सुराधिपः सभाज्यमानोऽथ रणाजिराच्छनैः।

अभिज्वलच्चारुवपुर्जयश्रिया समुत्सुकान्तःपुरमागमत् पुरम्॥१७॥



एवं स एव तस्य संग्रामस्य विजयो बभूव। तस्मादुच्यते-



पापं समाचरति वीतघृणो जघन्यः

प्राप्यापदं सघृण एव तु मध्यबुद्धिः।

प्राणात्ययेऽपि तु न साधुजनः स्ववृत्तिं

वेलां समुद्र इव लङ्घयितुं समर्थः॥१८॥



तदेवं देवराज्यं प्राणानपि परित्यज्य दीर्घरात्रं परिपालितानि भगवता सत्त्वानि। तेष्विह प्राज्ञस्याघातो न युक्तरूपः प्रागेव विप्रतिपत्तिरिति प्राणिषु दयायत्तेनार्येण भवितव्यम्। तथा हि धर्मो ह वै रक्षति धर्मचारिणमित्यत्राप्युन्नेयम्। तथागतवर्णे सत्कृत्य धर्मश्रवणे चेति।



इति शक्र-जातकमेकादशम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project