Digital Sanskrit Buddhist Canon

१० यज्ञ-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 yajña-jātakam

१०. यज्ञ-जातकम्



न कल्याणाशयाः पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम्। तद्यथानुश्रूयते-



बोधिसत्त्वः किल स्वपुण्यप्रभावोपनतामानतसर्वसामन्तां प्रशान्तस्वपरचक्राद्युपद्रवत्वादकण्टकामसपत्नामेकातपत्रां दायाद्यक्रमागतां पृथिवीं पालयामास।



नाथः पृथिव्याः स जितेन्द्रियारिर्भुंक्तावगीतेषु फलेष्वसक्तः।

प्रजाहितेष्वाहितसर्वभावो घर्मैककार्यो मुनिवद् बभूव॥१॥



विवेद लोकस्य हि स स्वभावं प्रधानचर्यानुकृतिप्रधानम्।

श्रेयः समाधित्सुरतः प्रजासु विशेषतो धर्मविधौ ससञ्जे॥२॥



ददौ धनं शीलविधिं समाददे क्षमां निषेवे जगदर्थमैहत।

प्रजाहिताध्याशयसौम्यदर्शनः स मूर्तिमान्धर्म इव व्यरोचत॥३॥



अथ कदाचित्तद्भुजाभिगुप्तमपि तं विषयं सत्त्वानां कर्मवैगुण्यात्प्रमादवशगत्वाच्च वर्षकर्माधिकृतानां देवपुत्राणां दुर्वृष्टिपर्याकुलता क्वचित्क्वचिदभिदुद्राव। अथ स राजा व्यक्तमयं मम प्रजानां वा धर्मापचारात्समुपनतोऽनर्थ इति निश्चितमतिः संरूढहिताध्याशयत्वात्प्रजासु तद्‍दुःखममृष्यमाणो धर्मतत्त्वज्ञसंमतान्पुरोहितप्रमुखान्ब्राह्मवृद्धान्मतिसचिवांश्च तदुद्धरणोपायं पप्रच्छ। अथ ते वेदविहितमनेकप्राणिशतवधारम्भभीषणं यज्ञविधिं सुवृष्टिहेतुं मन्यमानास्तस्मै संवर्णयामासुः। विदितवृत्तान्तस्तु स राजा यज्ञविहितानां प्राणिवैशसानां करुणात्मकत्वान्न तेषां तद्वचनं भावेनाभ्यनन्दत्। विनयानुवृत्त्या चैनान्प्रत्याख्यानरूक्षाक्षरमनुक्त्वा प्रस्तावान्तरेणैषां तां कथां तिरश्चकार। ते पुनरपि तं राजानं धर्मसंकथाप्रस्तावलब्धावसरा गाम्भीर्यावगूढं तस्य भावमजानाना यज्ञप्रवृत्तये समनुशशासुः-



कार्याणि राज्ञां नियतानि यानि लाभे पृथिव्याः परिपालने च।

नात्येति कालस्तव तानि नित्यं तेषां क्रमो धर्मसुखानि यद्वत्॥४॥



त्रिवर्गसेवानिपुणस्य तस्य प्रजाहितार्थं धृतकार्मुकस्य।

यज्ञाभिधाने सुरलोकसेतौ प्रमादतन्द्रेव कथं मतिस्ते॥५॥



भृत्यैरिवाज्ञा बहु मन्यते ते साक्षादियं सिद्धिरिति क्षितीशैः।

श्रेयांसि कीर्तिज्वलितानि चेतुं यज्ञैरयं ते रिपुकाल कालः॥६॥



कामं सदा दीक्षित एव च त्वं दानप्रसङ्गान्नियमादराच्च।

वेदप्रसिद्धैः क्रतुभिस्तथापि युक्तं भवेन्मोक्तुमृणं सुराणाम्॥७॥



स्विष्ट्याभितुष्टानि हि दैवतानि भूतानि वृष्ट्या प्रतिमानयन्ति।

इति प्रजानां हितमात्मनश्च यशस्करं यज्ञविधिं जुषस्व॥८॥



तस्य चिन्ता प्रादुरभवत्-अतिदुर्न्यस्तो बतायं परप्रत्ययहार्यपेलवमतिरमीमांसको धर्मप्रियः श्रद्दधानो जनो यत्र हि नाम-



य एव लोकेषु शरण्यसम्मतास्त एव हिंसामपि धर्मतो गताः।

विवर्तते कष्टमपायसङ्कटे जनस्तदादेशितकापथानुगः॥९॥



को हि नामाभिसम्बन्धो धर्मस्य पशुहिंसया।

सुरलोकाधिवासस्य दैवतप्रीणनस्य वा॥१०॥



विशस्यमानः किल मन्त्रशक्तिभिः पशुर्दिवं गच्छति तेन तद्वधः।

उपैति धर्मत्वमितीदमप्यसत्परैः कृतं को हि परत्र लप्स्यते॥११॥



असत्प्रवृत्तेरनिवृत्तमानसः शुभेषु कर्मस्वविरूढनिश्चयः।

पशुर्दिवं यास्यति केन हेतुना हतोऽपि यज्ञे स्वकृताश्रयाद्विना॥१२॥



हतश्च यज्ञे त्रिदिवं यदि व्रजेन्ननु व्रजेयुः पशुतां स्वयं द्विजाः।

यतस्तु नायं विधिरीक्ष्यते क्वचिद्वचस्तदेषां क इव ग्रहीष्यति॥१३॥



अतुल्यगन्धर्द्धिरसौजसं शुभां सुधां किलोत्सृज्य वराप्सरोधृताम्।

मुदं प्रयास्यन्ति वपादिकारणाद्वधेन शोच्यस्य पशोर्दिवौकसः॥१४॥



तदिदमत्र प्राप्तकालमिति विनिश्चित्य स राजा यज्ञारम्भसमुत्सुक इव नाम तत्तेषां वचनं प्रतिगृह्यावोचदेनन्-सनाथः खल्वहमनुग्रहवांश्च यदेवं मे हितावहितमनसोऽत्रभवन्तः। तदिच्छामि पुरुषमेधसहस्रेण यष्टुम्। अन्विष्यतां तदुपयोग्यसम्भारसमुदानयनार्थं यथाधिकारममात्यैः। परीक्ष्यतां सत्रागारनिवेशनयोग्यो भूमिप्रदेशस्तदनुगुणश्च तिथि-करण-मुहूर्त-नक्षत्र-योग इति। अथैनं पुरोहित उवाच-ईप्सितार्थसिद्धये स्नातु तावन्महाराज एकस्य यज्ञस्य समाप्ताववभृथे। अथोत्तरेषामारम्भः करिष्यते क्रमेण। युगपत्पुरुषपशवः सहस्रशो हि परिगृह्यमाणा व्यक्तमुद्वेगदोषाय प्रजानां ते स्युरिति। अस्त्येतदिति ब्राह्मणैरुक्तः स राजा तानुवाच-अलमत्रभवतां प्रकृतिकोपाशङ्कया। तथा हि संविधास्ये यथोद्वेगं मे प्रजा न यास्यन्तीति। अथ स राजा पौरजानपदान्संनिपात्याव्रवीत्-इच्छामि पुरुषमेधसहस्रेण यष्टुम्। न च मयार्हः कश्चिदकामः पुरुषः पशुत्वे नियोक्तुमदुष्टः। तद्यं यमतः प्रभृति वो द्रक्ष्यामि व्यवधूतप्रमादनिद्रेण विमलेन चारचक्षुषा शीलमर्यादातिवर्तिनमस्मदाज्ञां परिभवन्तं तं तं स्वकुलपांसनं देशकण्टकमहं यज्ञपशुनिमित्तमादास्य इत्येतद्वो विदितमस्त्विति। अथ तेषां मुख्यतमाः प्राञ्जलयो भूत्वैनमूचुः-



सर्वाः क्रियास्तव हितप्रवणाः प्रजानां

तत्रावमाननविधेर्नरदेव कोऽर्थः।

ब्रह्मापि ते चरितमभ्यनुमन्तुमर्हः

साधुप्रमाण परमत्र भवान्प्रमाणम्॥१५॥



प्रियं यदेव देवस्य तदस्माकमपि प्रियम्।

अस्मत्प्रियहितादन्यद् दृश्यते न हि ते प्रियम्॥१६॥



इति प्रतिगृहीतवचनः पौरजनापदैः स राजा जनप्रकाशेनाडम्बरेण प्रत्ययितानमात्यान्पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयामास समन्ततश्च प्रत्यहमिति घोषणाः कारयामास।



अभयमभयदो ददाति राजा स्थिरशुचिशीलधनाय सज्जनाय।

अविनयनिरतैः प्रजाहितार्थं नरपशुभिस्तु सहस्रशो यियक्षुः॥१७॥



तद्यः कश्चिदतः प्रभृत्यविनयश्लाघानुवृत्त्युद्भवात्

सामन्तक्षितिपार्चितामपि नृपस्याज्ञामवज्ञास्यति।

स स्वैरेव विषह्य यज्ञपशुतामापादितः कर्मभि-

र्यूपाबद्धतनुर्विषादकृपणः शुष्यञ्जनैर्द्रक्ष्यते॥१८॥



अथ तद्विषयनिवासिनः पुरुषा यज्ञपशुनिमित्तं दुःशीलपुरुषान्वेषणादरं तमन्ववेक्ष्य राज्ञस्तां च घोषणामतिभीषणां प्रत्यहमुपश्रृण्वन्तः पापजनोपग्रहावहितांश्च राजपुरुषान्समन्ततः समापततोऽभिवीक्ष्य त्यक्तदौःशील्यानुरागाः शीलसंवरसमादानपरा वैरप्रसङ्गपराङ्मुखाः परस्परप्रेमगौरवसुमुखाः प्रशान्तविग्रहविवादा गुरुजनवचनानुवर्तिनः संविभागविशारदाः प्रियातिथयो विनयनैभृत्यश्लाघिनः कृत इव युगे बभूवुः।



भयेन मृत्योः परलोकचिन्तया कुलाभिमानेन यशोऽनुरक्षया।

सुशुक्लभावाच्च विरुढया ह्रिया जनः सः शीलामलभूषणोऽभवत्॥१९॥



यथा यथा धर्मपरोऽभवज्जनस्तथा तथा रक्षिजनो विशेषतः।

चकार दुःशीलजनाभिमार्गणामतश्च धर्मान्न चचाल कश्चन॥२०॥



स्वदेशवृत्तान्तमथोपशुश्रुवानिमं नृपः प्रीतिविशेषभूषणः।

चरान्प्रियाख्यानकदानविस्तरैः सन्तर्पयित्वा सचिवान्समन्वशात्॥२१॥



परा मनीषा मम रक्षितुं प्रजा गताश्च ताः सम्प्रति दक्षिणीयताम्।

इदं च यज्ञाय धनं प्रतर्कितं यियक्षुरस्मीति यथाप्रतर्कितम्॥२२॥



यदीप्सितं यस्य सुखेन्धनं धनं प्रकाममाप्नोतु स तन्मदन्तिकात्।

इतीयमस्मद्विषयोपतापिनी दरिद्रता निर्विषया यथा भवेत्॥२३॥



मयि प्रजारक्षणनिश्चयस्थिते सहायसम्पत्परिवृद्धसाधने।

इयं जनार्तिर्मदमर्षदीपनी मुहुर्मुंहुर्मे ज्वलतीव चेतसि॥२४॥



अथ ते तस्य राज्ञः सचिवाः परममिति प्रतिगृह्य तद्वचनं सर्वेषु ग्रामनगरनिगमेषु मार्गविश्रामप्रदेशेषु च दानशालाः कारयित्वा यथासन्दिष्टं राज्ञा प्रत्यहमर्थिजनमभिलषितैरर्थविसर्गैः सन्तर्पयामासुः।



अथ विहाय जनः स दरिद्रतां सममवाप्तवसुर्वसुधाधिपात्।

विविधचित्रपरिच्छदभूषणः प्रविततोत्सवशोभ इवाभवत्॥२५॥



प्रमुदितार्थिजनस्तुतिसञ्चितं प्रविततान नृपस्य दिशो यशः।

तनुतरङ्गविवर्धितविस्तरं सर इवाम्बुजकेसरजं रजः॥२६॥



इति नृपस्य सुनीतिगुणाश्रयात्सुचरिताभिमुखे निखिले जने।

समभिभूतबलाः कुशलोच्छ्रयैर्विलयमीयुरसङ्गमुपद्रवाः॥२७॥



अविषमत्वसुखा ऋतवोऽभवन्नवनृपा इव धर्मपरायणाः।

विविधसस्यधरा च वसुन्धरा सकमलामलनीलजलाशया॥२८॥



न जनमभ्यरुजन्प्रबला रुजः पटुतरं गुणमोषधयो दधुः।

ऋतुवशेन ववौ नियतोऽनिलः परिययुश्च शुभेन पथा ग्रहाः॥२९॥



न परचक्रकृतं समभूद्भयं न च परस्परजं न च दैविकम्।

नियमधर्मपरे निभृते जने कृतमिवात्र युगं समपद्यत॥३०॥



अथैवं प्रवृत्तेन धर्मयज्ञेन राज्ञा प्रशमितेष्वर्थिजनदुःखेषु सार्धमुपद्रवैः प्रमुदितजनसम्बाधायामभ्युदयरम्यदर्शनायां वसुन्धरायां नृपतेराशीर्वचनाध्ययनसव्यापारे लोके वितन्यमाने समन्ततो राजयशसि प्रसादावर्जितमतिः कश्चिदमात्यमुख्यो राजानमित्युवाच-सुष्ठु खल्विदमुच्यते-



उत्तमाधममध्यानां कार्याणां नित्यदर्शनात्।

उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः॥३१॥



इति। देवेन हि पशुवैशसवाच्यदोषविरहितेन धर्मयज्ञेन प्रजानामुभयलोकहितं सम्पादितमुपद्रवाश्च प्रशमं नीता दारिद्र्यदुःखानि च शीले प्रतिष्ठापितानाम्। किं बहुना? सभाग्यास्ताः प्रजाः।



लक्ष्मेव क्षणदाकरस्य विततं गात्रे न कृष्णाजिनं

दीक्षायन्त्रणया निसर्गललिता चेष्टा न मन्दोद्यमः।

मूर्ध्नश्छत्रनिभस्य केशरचना शोभा तथैवाथ च

त्यागैस्ते शतयज्वनोऽप्यपहृतः कीर्त्याश्रयो विस्मयः॥३२॥



हिंसाविषक्तः कृपणः फलेप्सोः प्रायेण लोकस्य नयज्ञ यज्ञः।

यज्ञस्तु कीर्त्याभरणः समस्ते शीलस्य निर्दोषमनोहरस्य॥३३॥



अहो प्रजानां भाग्यानि यासां गोपायिता भवान्।

प्रजानामपि हि व्यक्तं नैवं स्याद् गोपिता पिता॥३४॥



अपर उवाच-

दानं नाम धनोदये सति जनो दत्ते तदाशावशः

स्याच्छीलेऽपि च लोकपंक्त्यभिमुखः स्वर्गे च जातस्पृहः।

या त्वेषा परकार्यदक्षिणतया तद्वत्प्रवृत्तिस्तयो-

र्नाविद्वत्सु न सत्त्वयोगविधुरेष्वेषा समालक्ष्यते॥३५॥



तदेवं कल्याणाशया न पापप्रतारणामनुविधीयन्त इत्याशयशुद्धौ प्रयतितव्यम्।



इति प्रजाहितोद्योगः श्रेयःकीर्तिसुखावहः।

यन्नृपाणामतो नालं तमनादृत्य वर्तितुम्॥३६॥



एवं राजापवादेऽपि वाच्यम्। धर्माभ्यासः प्रजानां भूतिमावहतीति भूतिकामेन धर्मानुवर्तिना भवितव्यमित्येवमप्युन्नेयम्। न पशुहिंसा कदाचिदभ्युदयाय दानदमसंयमादयस्त्वभ्युदयायेति तदर्थिना दानादिपरेण भवितव्यमित्येवमपि वाच्यम्। लोकार्थचर्याप्रवणमतिरेवं पूर्वजन्मस्वपि भगवानिति तथागतवर्णेऽपि वाच्यम्।



इति यज्ञ-जातकं दशमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project