Digital Sanskrit Buddhist Canon

९ विश्वन्तर-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

9 viśvantara-jātakam

९. विश्वन्तर-जातकम्



न बोधिसत्त्वचरितं सुखमनुमोदितुमप्यल्पसत्त्वैः प्रागेवाचरितुम्। तद्यथानुश्रूयते-



सात्मीभूतेन्द्रियजयः पराक्रमनयविनयसंपदा समधिगतविजयश्रीर्वृद्धोपासननियमात् त्रय्यान्वीक्षिक्योरुपलब्धार्थतत्त्वः स्वधर्मकर्मानुरक्ताभिरनुद्विग्नसुखोचिताभिरनुरक्ताभिः प्रकृतिभिः प्रकाश्यमानदण्डनीतिशोभः सम्यक्प्रवृत्तवार्त्ताविधिः संजयो नाम शिबीनां राजा बभूव।



गुणोदयैर्यस्य निबद्धभावा कुलाङ्गनेवास नराधिपश्रीः।

अतर्कणीयान्यमहीपतीनां सिंहाभिगुप्तेव गुहा मृगाणाम्॥१॥



तपस्सु विद्यासु कलासु चैव कृतश्रमा यस्य सदाभ्युपेताः।

विशेषयुक्तं बहुमानमीयुः पूजाभिराविष्क्रियमाणसाराः॥२॥



तस्य राज्ञः प्रतिपत्त्यनन्तरं प्रथितगुणगणनिरन्तरो विश्वंतरो नाम पुत्रो युवराजो बभूव। [अयमेव भगवाञ्छाक्यमुनिस्तेन समयेन।]



युवापि वृद्धोपशमाभिरामस्तेजस्व्यपि क्षान्तिसुखस्वभावः।

विद्वानपि ज्ञानमदानभिज्ञः श्रिया समृद्धोऽप्यवलेपशून्यः॥३॥



दृष्टप्रयामासु च दिक्षु तस्य व्याप्ते च लोकत्रितये यशोभिः।

बभूव नैवान्ययशोलवानां प्रसर्तुमुत्साह इवावकाशः॥४॥



अमृष्यमाणः स जगद्गतानां दुःखोदयानां प्रसृतावलेपम्।

दानेषुवर्षी करुणोरुचापस्तैर्युद्धसंरम्भमिवाजगाम॥५॥



स प्रत्यहमभिगतमर्थिजनमभिलषिताधिकैरक्लिष्टैरर्थविसर्गैः प्रियवचनोपचारमनोहरैरतीव प्रह्लादयामास। पर्वदिवसेषु च पोषधनियमप्रशमविभूषणः शिरःस्नातः शुक्लक्षौमवासा हिमगिरिशिखरसंनिकाशं मदलेखाभ्यलंकृतमुखं लक्षणविनयजवसत्त्वसंपन्नं गन्धहस्तिनं समाज्ञातमौपवाह्यं द्विरदवरमभिरुह्य समन्ततो नगरस्याभिनिविष्टान्यर्थिजननिपानभूतानि स्वानि सत्त्रागाराणि प्रत्यवेक्षते स्म। तथा च प्रीतिविशेषमभिजगाम।



न हि तां कुरुते प्रीतिं बिभूतिर्भवनाश्रिता।

संक्रम्यमाणार्थिजने सैव दानप्रियस्य याम्॥६॥



अथ कदाचित्तस्यैवंविधं दानप्रसङ्गं प्रमुदितहृदयैरर्थिभिः समन्ततो विकीर्यमाणमुपलभ्यान्यतमो भूम्यनन्तरस्तस्य राजा शक्यमयमभिसंधातुं दानानुरागवशगत्वादिति प्रतर्क्य द्विरदवरापहरणार्थं ब्राह्मणांस्तत्र प्रणिदधे। अथ ते ब्राह्मणा विश्वंतरस्य स्वानि सत्त्रागाराणि प्रत्यवेक्षमाणस्य प्रमोदादधिकतरनयनवदनशोभस्य जयाशीर्वादमुखराः समुच्छ्रिताभिप्रसारितदक्षिणाग्रपाणयः पुरस्तात् समतिष्ठन्त। स ततो विनिगृह्य द्विरदवरमुपचारपुरःसरमभिगमनप्रयोजनमेनान् पर्यपृच्छदाज्ञाप्यतां केनार्थ इति। ब्राह्मणा ऊचुः-



अमुष्य तव नागस्य गतिलीलाविलम्बिनः।

गुणैरर्थित्वमायाता दानशौर्याच्च ते वयम्॥७॥



कैलासशिखराभस्य प्रदानादस्य दन्तिनः।

कुरुष्व तावल्लोकानां विस्मयैकरसं मनः॥८॥



इत्युक्ते बोधिसत्त्वः प्रीत्या समापूर्यमाणहृदयश्चिन्तामापेदे। चिरस्य खलूदारप्रणयसुमुखमर्थिजनं पश्यामि। कः पुनरर्थ एवंविधेन द्विरदपतिनैषां ब्राह्मणानाम् ? व्यक्तमयं लोभेर्ष्याद्वेषपर्याकुलमनसः कस्यापि राज्ञः कार्पण्यप्रयोगः।



आशाविघातदीनत्वं तन्मा भूत्तस्य भूपतेः।

अनादृत्य यशोधर्मौ योऽस्मद्धित इवोद्यतः॥९॥



इति विनिश्चित्य स महात्मा त्वरितमवतीर्य द्विरदवरात् प्रतिगृह्यतामिति समुद्यतकाञ्चनभृङ्गारस्तेषां पुरस्तादवतस्थे।



ततः स विद्वानपि राजशास्त्रमर्थानुवृत्त्या गतधर्ममार्गम्।

धर्मानुरागेण ददौ गजेन्द्रं नीतिव्यलीकेन न संचकम्पे॥१०॥



तं हेमजालरुचिराभरणं गजेन्द्रं

विद्युत्पिनद्धमिव शारदमभ्रराशिम्।

दत्त्वा परां मुदमवाप नरेन्द्रसूनुः

संचुक्षुभे च नगरं नयपक्षपातात्॥११॥



अथ द्विरदपतिप्रदानश्रवणात् समुदीर्णक्रोधसंरम्भाः शिबयो ब्राह्मणवृद्धा मन्त्रिणो योधाः पौरमुख्याश्च कोलाहलमुपजनयन्तः संजयं राजानमभिगम्य ससंभ्रमामर्षसंरम्भात् परिशिथिलोपचारयन्त्रणमूचुः-किमियं देव राज्यश्रीर्विलुप्यमानैवमुपेक्ष्यते ? नार्हति देवः स्वराज्योपप्लवमेवमभिवर्धमानमुपेक्षितुम्। किमेतदिति च सावेगमुक्ता राज्ञा पुनरेवमूचुः-कस्माद् देवो न जानीते !



निषेव्य मत्तभ्रमरोपगीतं यस्याननं दानसुगन्धि वायुः।

मदावलेपं परवारणानामायासदुःखेन विना प्रमार्ष्टि॥१२॥



यत्तेजसाक्रान्तबलप्रभावाः संसुप्तदर्पा इव विद्विषस्ते।

विश्वंतरेणैष गजः स दत्तो रूपी जयस्ते ह्रियतेऽन्यदेशम्॥१३॥



गावः सुवर्णं वसनानि भोज्यमिति द्विजेभ्यो नृप देयरूपम्।

यस्मिञ्जयश्रीर्नियता द्विपेन्द्रे देयः स नामेत्यतिदानशौर्यम्॥१४॥



नयोत्पथेनैनमिति व्रजन्तं कथं समन्वेष्यति राजलक्ष्मीः।

नोपेक्षणं देव तवात्र युक्तं पुरायमानन्दयति द्विषस्ते॥१५॥



तच्छ्रुत्वा स राजा पुत्रप्रियत्वात् किंचित्तानेव प्रत्यप्रीतमनाः कार्यानुरोधात् सावेगवदेवमित्युक्त्वा समनुनेष्यञ्छिबीनुवाच-जाने दानप्रसङ्गव्यसनितां नीतिक्रमानपेक्षां विश्वंतरस्य न चैष क्रमो राज्यधुरि संनियुक्तस्य। दत्तं त्वनेन स्वं हस्तिनं वान्तकल्पं कः प्रत्याहरिष्यति ? अपि तु तथाहमेव करिष्ये यथा दाने मात्रां ज्ञास्यति विश्वंतरः। तदलमत्र वः संरम्भेणेति। शिबय ऊचुः-न खलु महाराज परिभाषामात्रसाध्योऽस्मिन्नर्थे विश्वंतर इति। संजय उवाच-अथ किमन्यदत्र मया शक्यं कर्तुम्?



दोषप्रवृत्तेर्विमुखस्य यस्य गुणप्रसङ्गा व्यसनीक्रियन्ते।

बन्धो वधो वात्मसुतस्य तस्य किं निष्क्रयः स्याद् द्विरदस्य तस्य॥१६॥



तदलमत्र वः संरम्भेण। निवारयिष्याम्यहमतो विश्वन्तरमिति।

अथ शिबयः समुदीर्णमन्यवो राजानमूचुः-



को वा वधं बन्धनताडनं वा सुतस्य ते रोचयते नरेन्द्र।

धर्मात्मकस्त्वेष न राज्यभारक्षोभस्य सोढा करुणामृदुत्वात्॥१७॥



सिंहासनं तेजसि लब्धशब्दास्त्रिवर्गसेवानिपुणा भजन्ते।

धर्मानुरागान्नयनिर्व्यपेक्षस्तपोवनाध्यासनयोग्य एषः॥१८॥



फलन्ति कामं वसुधाधिपानां दुर्नीतिदोषास्तदुपाश्रितेषु।

सह्यास्त एषां तु तथापि दृष्टा मूलोपरोधान्न तु पार्थिवानाम्॥१९॥



किमत्र वा वह्वभिधाय निश्चयस्त्वयं शिबीनां त्वदभूत्यमर्षिणाम्।

प्रयातु वङ्कं तपसोऽभिवृद्धये नृपात्मजः सिद्धनिषेवितं गिरिम्॥२०॥



अथ स राजा स्नेहप्रणयविस्रम्भवशादनयापायदर्शिना हितोद्यतेन तेन जनेन परिनिष्ठुरमित्यभिधीयमानः प्रकृतिकोपाद् व्रीडावनतवदनः पुत्रवियोगचिन्तापरिगतहृदयः सायासमभिनिश्वस्य शिबीनुवाच-यद्येष भवतां निर्बन्धस्तदेकमप्यहोरात्रमस्य मृष्यताम्। प्रभातायां रजन्यामभिप्रेतं वोऽनुष्ठाता विश्वन्तर इति।



एवमस्त्विति च प्रतिगृहीतानुनयः शिबिभिः स राजा क्षत्तारमुवाच-गच्छेमं वृत्तान्तं विश्वन्तराय निवेदयेति। स तथेति प्रतिश्रुत्य शोकाश्रुपरिषिक्तवदनो विश्वन्तरं स्वभवनगतमुपेत्य शोकदुःखावेगात् सस्वरं रुदन् पादयोरस्य न्यपतत्। अपि कुशलं राजकुलस्येति च ससंभ्रमं विश्वन्तरेणानुयुक्तः समवसीदन्नविशदपदाक्षरमेनमुवाच-कुशलं राजकुलस्येति। अथ कस्मादेवमधीरोऽसीति च पुनरनुयुक्तो विश्वन्तरेण क्षत्ता बाष्पवेगोपरुध्यमानगद्गदकण्ठः श्वासविस्खलितलुलिताक्षरं शनैरित्युवाच-



सान्त्वगर्भामनादृत्य नृपाज्ञामप्यदक्षिणाः।

राष्ट्रात्प्रव्राजयन्ति त्वां कुपिताः शिबयो नृप॥२१॥



विश्वन्तर उवाच-मां शिबयः प्रव्राजयन्ति कुपिता इति कः संबन्धः?



रमे न विनयोन्मार्गे द्वेष्मि चाहं प्रमादिताम्।

कुत्र मे शिबयः क्रुद्धा यन्न पश्यामि दुष्कृतम्॥२२॥



क्षत्तोवाच-अत्युदारतायाम्।

अलोभशुभ्रा त्वयि तुष्टिरासील्लोभाकुला याचकमानसेषु।

दत्ते त्वया मानद वारणेन्द्रे धैर्याणि कोपस्त्वहरच्छिबीनाम्॥२३॥



इत्यतीताः स्वमर्यादां रभसाः शिबयस्त्वयि।

येन प्रव्राजिता यान्ति पथा तेन किल व्रज॥२४॥



अथ बोधिसत्त्वः कृपाभ्यासरूढां याचनकजनवत्सलतां धैर्यातिशयसंपदं च स्वामुद्भावयन्नुवाच-चपलस्वभावाः खलु शिबयोऽनभिज्ञा इव चास्मत्स्वभावस्य।



द्रव्येषु बाह्येषु क एव वादो दद्यामहं स्वे नयने शिरो वा।

इमं हि लोकार्थमहं बिभर्मि समुच्छ्रयं किम्वथ वस्त्रवाह्यम्॥२५॥



यस्य स्वगात्रैरपि यावकानां वचांसि संपूजयितुं मनीषा।

भयान्न दद्यात्स इति प्रतर्कः प्रकाशना बालिशचापलस्य॥२६॥



कामं मां शिबयः सर्वे घ्नन्तु प्रव्राजयन्तु वा।

न त्वेवाहं न दास्यामि गच्छाम्येष तपोवनम्॥२७॥



अथ बोधिसत्त्वो विप्रियश्रवणविक्लवमुखीं पत्नीमुवाच-श्रुतोऽत्रभवत्या शिबीनां निश्चयः ? मद्र्युवाच-श्रुतोऽयं देव। विश्वन्तर उवाच-



तद्यदस्ति धनं किंचिदस्मत्तोऽधिगतं त्वया।

निधेहि तदनिन्द्याक्षि यच्च ते पैत्रिकं धनम्॥२८॥



मद्र्युवाच-कुत्रैतद्देव निदधामीति ? विश्वन्तर उवाच-



शीलवद्भ्यः सदा दद्या दानं सत्कारशीभरम्।

तथा हि निहितं द्रव्यमहार्यमनुगामि च॥२९॥



प्रियं श्वशुरयोः कुर्याः पुत्रयोः परिपालनम्।

धर्ममेवाप्रमादं च शोकं मद्विरहात्तु मा॥३०॥



तच्छ्रुत्वा मद्री संतप्तहृदयापि भर्तुरधृतिपरिहारार्थमनादृत्य शोकदैन्यमित्युवाच-



नैष धर्मो महाराज यद्याया वनमेककः।

तेनाहमपि यास्यामि येन क्षत्रिय यास्यसि॥३१॥



त्वदङ्गपरिवर्तिन्या मृत्युरुत्सव एव मे।

मृत्योर्दुःखतरं तत्स्याज्जीवेयं यत्त्वया विना॥३२॥



नैव च खलु मे देव वनवासो दुःख इति प्रतिभाति। तथा हि-



निर्दुर्जनान्यनुपभुक्तसरित्तरूणि

नानाविहंगविरुतानि मृगाकुलानि।

वैडूर्यकुट्टिममनोहरशाद्वलानि

क्रीडावनाधिकसुखानि तपोवनानि॥३३॥



अपि च देव !

अलंकृताविमौ पश्यन्कुमारौ मालभारिणौ।

क्रीडन्तौ वनगुल्मेषु न राज्यस्य स्मरिष्यसि॥३४॥



ऋतुप्रयत्नरचिता वनशोभा नवा नवाः।

वने त्वां रमयिष्यन्ति सरित्कुञ्जाश्च सोदकाः॥३५॥



चित्रं विरुतवादित्रं पक्षिणां रतिकाङ्क्षिणाम्।

मदाचार्योपदिष्टानि नृत्तानि च शिखण्डिनाम्॥३६॥



माधुर्यानवगीतं च गीतं मधुपयोषिताम्।

वनेषु कृतसंगीतं हर्षयिष्यति ते मनः॥३७॥



आस्तीर्यमाणानि च शर्वरीषु ज्योत्स्नादुकूलेन शिलातलानि।

संवाहमानो वनमारुतश्च लब्धाधिवासः कुसुमद्रुमेभ्यः॥३८॥



चलोपलप्रस्खलितोदकानां कला विरावाश्च सरिद्वधूनाम्।

विभूषणानामिव संनिनादाः प्रमोदयिष्यन्ति वने मनस्ते॥३९॥



इत्यनुनीयमानः स दयितया वनप्रयाणपर्युंत्सुकमतिरर्थिजनापेक्षया महाप्रदानं दातुमुपचक्रमे।



अथेमां विश्वन्तरप्रव्राजनप्रवृत्तिमुपलभ्य राजकुले तुमुल आक्रन्दशब्दः प्रादुरभूत। शोकदुःखावेगान्मूर्च्छापरीत इवार्थिजनो मत्तोन्मत्त इव च तत्तद्बहुविधं विललाप।



छायातरोः स्वादुफलप्रदस्य च्छेदार्थमागूर्णपरश्वधानाम्।

धात्री न लज्जां यदुपैति भूमिर्व्यक्तं तदस्या हतचेतनत्वम्॥४०॥



शीतामलस्वादुजलं निपानं बिभित्सतामस्ति न चेन्निषेद्धा।

व्यर्थाभिधाना बत लोकपाला विप्रोषिता वा श्रुतिमात्रकं वा॥४१॥



अधर्मो बत जागर्ति धर्मः सुप्तोऽथवा मृतः।

यत्र विश्वन्तरो राजा स्वस्माद्राज्यान्निरस्यते॥४२॥



कोऽनर्थपटुसामर्थ्यो याच्ञानूर्जितवृत्तिषु।

अस्मास्वनपराधेषु वधाभ्युद्यमनिष्ठुरः॥४३॥



अथ बोधिसत्त्वो नैकशतसहस्रसंख्यं मणिकनकरजतपरिपूर्णकोशं विविधधनधान्यनिचयवन्ति कोशकोष्ठागाराणि दासीदासयानवाहनवसनपरिच्छदादि च सर्वमर्थिभ्यो यथार्हमतिसृज्य, शोकदुःखाभिभूतधैर्ययोर्मातापित्रोश्चरणावभिप्रणम्य सपुत्रदारः स्यन्दनवरमभिरुह्य पुण्याहघोषेणैव महतो जनकायस्याक्रन्दितशब्देन पुरवरान्निरगच्छत्। अनुरागवशगमनुयायिनं च जनं शोकाश्रुपरिक्लिन्नवदनं प्रयत्नाद्विनिवर्त्य स्वयमेव रथप्रग्रहान् प्रतिगृह्य येन वङ्कः पर्वतस्तेन प्रायात्। व्यतीत्य चाविक्लवमतिरुद्यानवनरुचिरमालिनं पुरवरोपचारमनुपूर्वेण प्रविरलच्छायद्रुमं विच्छिद्यमानजनसंपातं प्रविचरितमृगगणसंबाधदिगालोकं चीरीविरावोन्नादितमरण्यं प्रत्यपद्यत। अथैनं यदृच्छयाभिगता ब्राह्मणा रथवाहांस्तुरगानयाचन्त।



स वर्तमानोऽध्वनि नैकयोजने सहायहीनोऽपि कलत्रवानपि।

प्रदानहर्षादनपेक्षितायतिर्ददौ द्विजेभ्यश्चतुरस्तुरंगमान्॥४४॥



अथ बोधिसत्त्वस्य स्वयमेव रथधुर्यतामुपगन्तुकामस्य गाढतरं परिकरमभिसंयच्छमानस्य रोहितमृगरूपिणश्चत्वारो यक्षकुमाराः सुविनीता इव सदश्वाः स्वयमेव रथयुगं स्कन्धप्रदेशैः प्रत्यपद्यन्त। तांस्तु दृष्ट्वा हर्षविस्मयविशालतराक्षीं मद्रीं बोधिसत्त्व उवाच-



तपोधनाध्यासनसत्कृतानां पश्य प्रभावातिशयं वनानाम्।

यत्रैवमभ्यागतवत्सलत्वं संरूढमूलं मृगपुंगवेषु॥४५॥



मद्र्युवाच-

तवैवाहमिमं मन्ये प्रभावमतिमानुषम्।

रूढोऽपि हि गुणाभ्यासः सर्वत्र न समः सताम्॥४६॥



तोयेषु ताराप्रतिबिम्बशोभा विशेष्यते यत्कुमुदप्रहासैः।

कौतूहलाभिप्रसृता इवेन्दोर्हेतुत्वमत्राग्रकराः प्रयान्ति॥४७॥



इति तयोरन्योन्यानुकूल्यात्परस्परं प्रियं वदतोरध्वानं गच्छतोरथापरो ब्राह्मणः समभिगम्य बोधिसत्त्वं रथवरमयाचत।



ततः स्वसुखनिःसङ्गो याचकप्रियबान्धवः।

पूरयामास विप्रस्य स रथेन मनोरथम्॥४८॥



अथ बोधिसत्त्वः प्रीतमना रथादवतार्य स्वजनान्निर्यात्य रथवरं ब्राह्मणाय जालिनं कुमारमङ्केनादाय पद्भ्यामेवाध्वानं प्रत्यपद्यत। अविमनस्कैव च मद्री कृष्णाजिनां कुमारीमङ्केनादाय पृष्ठतोऽन्वगच्छदेनम्।



निमन्त्रयामासुरिव द्रुमास्तं हृद्यैः फलैरानमिताग्रशाखाः।

पुण्यानुभावादभिवीक्षमाणाः शिष्या विनीता इव च प्रणेमुः॥४९॥



हंसांसविक्षोभितपङ्कजानि किञ्जल्करेणुस्फुटपिञ्जराणि।

प्रादुर्बभूवुश्च सरांसि तस्य तत्रैव यत्राभिचकाङ्क्ष वारि॥५०॥



वितानशोभां दधिरे पयोदाः सुखः सुगन्धिः प्रववौ नभस्वान्।

परिश्रमक्लेशममृष्यमाणा यक्षाश्च संचिक्षिपुरस्य मार्गम्॥५१॥



इति बोधिसत्त्व उद्यानगत इव पादचारविनोदनसुखमनुभवन्मार्गपरिखेदरसमनास्वाद्य सपुत्रदारः प्रान्त एव तु वङ्कपर्वतमपश्यत्। तत्र च पुष्पफलपल्लवालंकृतस्निग्धविविधरुचिरतरुवरनिचितं मदमुदितविहंगबहुविधरुतविनदं प्रवृत्तनृत्तबर्हिगणोपशोभितं प्रविचरितनैकमृगकुलं कृतपरिकरमिव विमलनीलसलिलया सरिता कुसुमरजोऽरुणसुखपवनं तपोवनं वनचरकादेशितमार्गः प्रविश्य विश्वकर्मणा शक्रसंदेशात् स्वयमभिनिर्मितां मनोज्ञदर्शनां सर्वर्तुसुखां तत्र प्रविविक्तां पर्णशालामध्यावसत्।



तस्मिन्वने दयितया परिचर्यमाणः

शृण्वन्नयत्नमधुरांश्च सुतप्रलापान्।

उद्यानसंस्थ इव विस्मृतराज्यचिन्तः

संवत्सरार्धमधिकं स तपश्चचार॥५२॥



अथ कदाचिन्मूलफलार्थं गतायां राजपुत्र्यां पुत्रयोः परिपालननिमित्तमाश्रमपदमशून्यं कुर्वाणे राजपुत्रे मार्गरेणुपरुषीकृतचरणप्रजङ्घः परिश्रमक्षामनयनवदनो दण्डकाष्ठावबद्धस्कन्धावसक्तकमण्डलुर्ब्राह्मणः पत्न्याः परिचारकानयनार्थं समर्पितदृढसंदेशस्तं देशमुपजगाम। अथ बोधिसत्त्वश्चिरस्यार्थिजनं दृष्ट्वाऽभिगतं मनःप्रहर्षात् समुपजायमाननयनवदनप्रसादः प्रत्युद्गम्य स्वागतादिप्रियवचनपुरःसरं प्रवेश्य चैनमाश्रमपदं कृतातिथिसत्कारमागमनप्रयोजनमपृच्छत्। अथ स ब्राह्मणो भार्यानुरागादुत्सारितधैर्यलज्जः प्रतिग्रहमात्रसज्जो नियतमर्थमीदृशमुवाच-



आलोको भवति यतः समश्च मार्गो

लोकोऽयं व्रजति ततो न दुर्गमेण।

प्रायोऽस्मिञ्जगति तु मत्सरान्धकारे-

णान्ये न प्रणयपदानि मे वहन्ति॥५३॥



प्रदानशौर्योदितया यशःश्रिया गतं च गन्तव्यमशेषतस्तव।

अतोऽस्मि याच्ञाश्रममभ्युपेयिवान्प्रयच्छ तन्मे परिचारकौ सुतौ॥५४॥



इत्युक्ते बोधिसत्त्वो महासत्त्वः

दानप्रीतौ कृताभ्यासः प्रत्याख्यातुमशिक्षितः।

ददामीत्यवदद् धृष्टं दयितौ तनयावपि॥५५॥



स्वस्त्यस्तु। तत्किमिदानीमास्यत इति च ब्राह्मणेनाभिहितः स महासत्त्वः प्रदानकथाश्रवणोत्पतितविषादविप्लुताक्षयोः सुतयोः स्नेहावेगादवलम्बमानहृदयो बोधिसत्त्व उवाच-



दत्तावेतौ मया तुभ्यं किं तु मातानयोर्गता।

वनं मूलफलस्यार्थे सायमद्यागमिष्यति॥५६॥



तया दृष्टावुपाघ्रातौ मालिनावभ्यलंकृतौ।

इहैकरात्रं विश्रम्य श्वो नेतासि सुतौ मम॥५७॥



ब्राह्मण उवाच-अलमनेनात्रभवतो निर्बन्धेन।



गौणमेतद्धि नारीणां नाम वामा इति स्थितम्।

स्याच्चैव दानविघ्नस्ते तेन वासं न रोचये॥५८॥



बोधिसत्त्व उवाच-अलं दानविघ्नशङ्कया। सहधर्मचारिणी मम सा। यथा वात्रभवते रोचते। अपि च महाब्राह्मण,



सुकुमारतया बाल्यात्परिचर्यास्वकौशलात्।

कीदृशीं नाम कुर्यातां दासप्रीतिमिमौ तव॥५९॥



दृष्ट्वा त्वित्थंगतावेतौ शिबिराजः पितामहः।

अद्धा दद्याद्यदिष्टं ते धनं निष्क्रयमेतयोः॥६०॥



यतस्तद्विषयं साधु त्वमिमौ नेतुमर्हसि।

एवं ह्यर्थेन महता धर्मेण च समेष्यसि॥६१॥



(ब्राह्मण उवाच)-न शक्ष्याम्यहमाशीविषदुरासदं विप्रियोपायनेन राजानमभिगन्तुम्।



आच्छिन्द्यान्मदिमौ राजा दण्डं वा प्रणयेन्मयि।

यतो नेष्याम्यहमिमौ ब्राह्मण्याः परिचारकौ॥६२॥



अथ बोधिसत्त्वो यथेष्टमिदानीमित्वपरिसमाप्तार्थमुक्त्वा सानुनयमनुशिष्य तनयौ परिचर्यानुकूल्ये प्रतिग्रहार्थमभिप्रसारिते ब्राह्मणस्य पाणौ कमण्डलुमावर्जयामास।



तस्य यत्नानुरोधेन पपाताम्बु कमण्डलोः।

पद्मपत्राभिताम्राभ्यां नेत्राभ्यां स्वयमेव तु॥६३॥



अथ स ब्राह्यणो लाभातिहर्षात् संभ्रमाकुलितमतिर्बोधिसत्त्वतनयापहरणत्वरया संक्षिप्तपदमाशीर्वचनमुक्त्वा निर्गम्यतामित्याज्ञाकर्कशेन वचसा कुमारावाश्रमपदान्निष्क्रामयितुमारेभे। अथ कुमारौ वियोगदुःखातिभारव्यथितहृदयौ पितरमभिप्रणम्य बाष्पोपरुध्यमाननयनावूचतुः-



अम्बा च तात निष्क्रान्ता त्वं च नौ दातुमिच्छसि।

यावत्तामपि पश्यावस्ततो दास्यति नौ भवान्॥६४॥



अथ स ब्राह्मणः पुरा मातानयोरागच्छति, अस्य वा पुत्रस्नेहात् पश्चात्तापः संभवतीति विचिन्त्य पद्मकलापमिवानयोर्हस्तानाबध्य लतया संतर्जयन्विचेष्टमानौ पितरं प्रति व्यावर्तितवदनौ प्रकृतिसुकुमारौ कुमारौ प्रचकर्ष।



अथ कृष्णाजिना कुमार्यपूर्वदुःखोपनिपातात् सस्वरं रुदती पितरमुवाच-



अयं मां ब्राह्मणस्तात लतया हन्ति निर्दयः।

न चायं ब्राह्मणो व्यक्तं धार्मिका ब्राह्मणाः किल॥६५॥



यक्षोऽयं ब्राह्मणच्छद्मा नूनं हरति खादितुम्।

नीयमानौ पिशाचेन तात किं नावुपेक्षसे॥६६॥



अथ जाली कुमारो मातरमनुशोचयन्नुवाच-



नैवेदं मे तथा दुःखं यदयं हन्ति मां द्विजः।

नापश्यमम्बां यत्त्वद्य तद्विदारयतीव माम्॥६७॥



रोदिष्यति चिरं नूनमम्बा शून्ये तपोवने।

पुत्रशोकेन कृपणा हतशावेव चातकी॥६८॥



अस्मदर्थे समाहृत्य वनान्मूलफलं बहु।

भविष्यति कथं न्वम्बा दृष्ट्वा शून्यं तपोवनम्॥६९॥



इमे नावश्वकास्तात हस्तिका रथकाश्च ये।

अतोऽर्धं देयमम्बायै शोकं तेन विनेष्यति॥७०॥



वन्द्यास्मद्वचनादम्बा वार्या शोकाच्च सर्वथा।

दुर्लभं हि पुनस्तात तव तस्याश्च दर्शनम्॥७१॥



एहि कृष्णे मरिष्यावः को न्वर्थो जीवितेन नौ।

दत्तावावां नरेन्द्रेण ब्राह्मणाय धनैषिणे॥७२॥



इत्युक्त्वा जग्मतुः। अथ बोधिसत्त्वस्तेनातिकरुणेन तनयप्रलापेनाकम्पितमतिरपि क इदानीं दत्त्वानुतापं करिष्यतीति निष्प्रतीकारेण शोकाग्निना विनिर्दह्यमानहृदयो विषवेगमूर्च्छापरिगत इव समुपरुध्यमानचेतास्तत्रैव निषसाद। शीतलानिलव्यजनप्रतिलब्धसंज्ञश्च निष्कूजमिवाश्रमपदं तनयशून्यमभिवीक्ष्य बाष्पगद्गदसंनिरुद्धकण्ठ इत्यात्मगतमुवाच-



पुत्राभिधाने हृदये समक्षं प्रहरन्मम।

नाशङ्कत कथं नाम धिगलज्जो बत द्विजः॥७३॥



पत्तिकावनुपानत्कौ सौकुमार्यात्क्लमासहौ।

यास्यतः कथमध्वानं तस्य च प्रेष्यतां गतो॥७४॥



मार्गश्रमपरिम्लानौ कोऽद्य विश्रामयिष्यति।

क्षुत्तर्षदुःखाभिहतौ याचिष्येते कमेत्य वा॥७५॥



मम तावदिदं दुःखं धीरतां कर्तुमिच्छतः।

का त्ववस्था मम तयोः सुतयोः सुखवृद्धयोः॥७६॥



अहो पुत्रवियोगाग्निर्निर्दहत्येव मे मनः।

सतां तु धर्मं संस्मृत्य कोऽनुतापं करिष्यति॥७७॥



अथ मद्री विप्रियोपनिपातशंसिभिरनिष्टेर्निमित्तैरुपजनितवैमनस्या मूलफलान्यादाय क्षिप्रतरमागन्तुकामापि व्यालमृगोपरुध्यमानमार्गा चिरतरेणाश्रमपदमुपजगाम। उचितायां च प्रत्युद्गमनभूमावाक्रीडास्थाने च तनयावपश्यन्ती भृशतरमरतिवशमगात्।



अनीप्सिताशङ्कितजातसंभ्रमा ततः सुतान्वेषणचञ्चलेक्षणा।

प्रसक्तमाह्वानमसंपरिग्रहं तयोर्विदित्वा व्यलपच्छुचातुरा॥७८॥



समाजवद्यत्प्रतिभाति मे पुरा सुतप्रलापप्रतिनादितं वनम्।

अदर्शनादद्य तयोस्तदेव मे प्रयाति कान्तारमिवाशरण्यताम्॥७९॥



किं नु खलु तौ कुमारौ-

क्रीडाप्रसङ्गश्रमजातनिद्रौ सुप्तौ नु नष्टौ गहने वने वा।

चिरान्मदभ्यागमनादतुष्टौ स्यातां क्वचिद् बालतया निलीनौ॥८०॥



रुवन्ति कस्माच्च न पक्षिणोऽप्यमी समाकुलास्तद्वधसाक्षिणो यदि।

तरंगभङ्गैरविनीतकोपया हृतौ नु किं निम्नगयातिवेगया॥८१॥



अपीदानीं मे वितथा मिथ्याविकल्पा भवेयुः। अपि राजपुत्राय सपुत्राय स्वस्ति स्यात्। अप्यनिष्टनिवेदिनां निमित्तानां मच्छरीर एव विपाको भवेत्। किं नु खल्विदमनिमित्तापवृत्तप्रहर्षमरतितमिस्रयावच्छाद्यमानं विद्रवतीव हृदयम्। विस्रस्यन्त इव मे गात्राणि। व्याकुला इव दिग्विभागाः। भ्रमतीव चेदं परिध्वस्तलक्ष्मीकं वनमिति। अथानुप्रविश्याश्रमपदमेकान्ते निक्षिप्य मूलफलं यथोपचारपुरःसरं भर्तारमभिगम्य क्व दारकाविति पप्रच्छ। अथ बोधिसत्त्वो जानानः स्नेहदुर्बलतां मातृहृदयस्य दुर्निवद्यत्वाच्च विप्रियस्य नैनां किंचिद्वक्तुं शशाक।



जनस्य हि प्रियार्हस्य विप्रियाख्यानवह्निना।

उपेत्य मनसस्तापः सघृणेन सुदुष्करः॥८२॥



अथ मद्री व्यक्तमकुशलं मे पुत्रयोः, यदयमेवं तूप्णींभूतः शोकदैन्यानुवृत्त्यैवेत्यवधार्य समन्ततः क्षिप्तचित्तेव विलोक्याश्रमपदं तनयावपश्यन्ती सबाष्पगद्गदं पुनरुवाच-



दारकौ च न पश्यामि त्वं च मां नाभिभाषसे।

हता खल्वहं कृपणा विप्रियं हि न कथ्यते॥८३॥



इत्युक्त्वा शोकाग्निना परिगतहृदया छिन्नमूलेव लता निपपात। पतन्तीमेव चैनां परिगृह्य बोधिसत्त्वस्तृणशयनमानीय शीताभिरद्भिः परिषिच्य प्रत्यागतप्राणां समाश्वासयन्नुवाच-



सहसैव न ते मद्रि दुःखमाख्यातवानहम्।

न हि संभाव्यते धैर्यं मनसि स्नेहदुर्बले॥८४॥



जरादारिद्र्यदुःखार्तो ब्राह्मणो मामुपागमत्।

तस्मै दत्तौ मया पुत्रौ समाश्वसिहि मा शुचः॥८५॥



मां पश्य मद्रि मा पुत्रौ परिदेवीश्च देवि मा।

पुत्रशोकसशल्ये मे प्रहार्षीरिव मा हृदि॥८६॥



याचितेन कथं शक्यं न दातुमपि जीवितम्।

अनुमोदस्व तद् भद्रे पुत्रदानमिदं मम॥८७॥



तच्छ्रुत्वा मद्री पुत्रविनाशशङ्काव्यथितहृदया पुत्रयोर्जीवितप्रवृत्तिश्रवणात् प्रतनूभूतशोकक्लमा भर्तुरधृतिपरिहारार्थं प्रमृज्य नयने सविस्मयमुदीक्षमाणा भर्तारमुवाच-आश्चर्यम् ! किं बहुना !



नूनं विस्मयवक्तव्यचेतसोऽपि दिवौकसः।

यदित्यलब्धप्रसरस्तव चेतसि मत्सरः॥८८॥



तथा हि दिक्षु प्रसृतप्रतिस्वनैः समन्ततो दैवतदुन्दुभिस्वनैः।

प्रसक्तविस्पष्टपदाक्षरं नभस्तवैव कीर्तिग्रथनादरादभूत्॥८९॥



प्रकम्पिशैलेन्द्रपयोधरा धरा मदादिवाभूदभिवृद्धवेपथुः।

दिवः पतद्भिः कुसुमैश्च काञ्चनैः सविद्युदुद्योतमिवाभवन्नभः॥९०॥



तदलं शोकदैन्येन दत्त्वा चित्तं प्रसादय।

निपानभूतो लोकानां दातैव च पुनर्भव॥९१॥



अथ शक्रो देवेन्द्रः क्षितितलचलनादाकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पन्नविमर्शो विस्मयोत्फुल्लनयनेभ्यो लोकपालेभ्यः पृथिवीकम्पकारणं विश्वन्तरपुत्रदानमुपलभ्य प्रहर्षविस्मयाघूर्णितमनाः प्रभातायां तस्यां रजन्यां ब्राह्मणरूपी विश्वन्तरमर्थिवदभ्यगच्छत्। कृतातिथिसत्कारश्च बोधिसत्त्वेन केनार्थ इत्युपनिमन्त्रितो भार्यामेनमयाचत-



महाह्रदेष्वम्भ इवोपशोषं न दानधर्मः समुपैति सत्सु।

याचे ततस्त्वां सुरसन्निभा या भार्यामिमामहंसि तत्प्रदातुम्॥९२॥



अविमना एव तु बोधिसत्त्वस्तथेत्यस्मै प्रतिशुश्राव।

ततः स वामेन करेण मद्रीमादाय सव्येन कमण्डलुं च।

न्यपातयत्तस्य जलं कराग्रे मनोभुवश्चेतसि शोकवह्निम्॥९३॥



चुकोप मद्री न तु नो रुरोद विवेद सा तस्य हि तं स्वभावम्।

अपूर्वदुःखातिभरातुरा तु तं प्रेक्षमाणा लिखितेव तस्थौ॥९४॥



तद् दृष्ट्वा परमविस्मयाक्रान्तहृदयः शक्रो देवानामिन्द्रस्तं महासत्त्वमभिष्टुवन्नुवाच-



अहो विकृष्टान्तरता सदसद्धर्मयोर्यथा।

श्रद्धातुमपि कर्मेदं का शक्तिरकृतात्मनाम्॥९५॥



अवीतरागेण सता पुत्रदारमतिप्रियम्।

निःसङ्गमिति दातव्यं का नामेयमुदात्तता॥९६॥



असंशयं त्वद्गुणरक्तसंकथैः प्रकीर्यमाणेषु यशस्सु दिक्षु ते।

तिरोभविष्यन्त्यपरा यशःश्रियः पतंगतेजस्सु यथान्यदीप्तयः॥९७॥



तस्य तेऽभ्यनुमोदन्ते कर्मेदमतिमानुषम्।

यक्षगन्धर्वभुजगास्त्रिदशाश्च सवासवाः॥९८॥



इत्युक्त्वा शक्रः स्वमेव वपुरभिज्वलदास्थाय शक्रोऽहमस्मीति च निवेद्यात्मानं बोधिसत्त्वमुवाच-



तुभ्यमेव प्रयच्छामि मद्रीं भार्यामिमामहम्।

व्यतीत्य न हि शीतांशुं चन्द्रिका स्थातुमर्हति॥९९॥



तन्मा चिन्तां पुत्रयोर्विप्रयोगाद्राज्यभ्रंशान्मा च संतापमागाः।

सार्धं ताभ्यामभ्युपेतः पिता ते कर्ता राज्यं त्वत्सनाथं सनाथम्॥१००॥



इत्युक्त्वा शक्रस्तत्रैवान्तर्दधे। शक्रानुभावाच्च स ब्राह्मणो बोधिसत्त्वतनयौ शिबिविषयमेव संप्रापयामास। अथ शिबयः संजयश्च शिबिराजस्तदतिकरुणमतिदुष्करं च बोधिसत्त्वस्य कर्म श्रुत्वा समाक्लेदितहृदया ब्राह्मणहस्तान्निष्क्रीय बोधिसत्त्वतनयौ प्रसाद्यानीय च विश्वन्तरं राज्य एव प्रतिष्ठापयामासुः।



तदेवमत्यद्भुता बोधिसत्त्वचर्येति तदुन्मुखेषु सत्त्वविशेषेषु नावज्ञा प्रतीघातो वा करणीयः। तथागतवर्णे सत्कृत्य धर्मश्रवणे चोपनेयम्।



इति विश्वन्तर-जातकं नवमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project