Digital Sanskrit Buddhist Canon

८ मैत्रीबल-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

8 maitrībala-jātakam

८. मैत्रीबल-जातकम्



न परदुःखातुराः स्वसुखमवेक्षन्ते महाकारुणिकाः। तद्यथानुश्रूयते-



बोधिसत्त्वः किल स्वमाहात्म्यकारुण्याभिप्रपन्नो जगत्परित्राणाध्याशयः, प्रदानदमनियमसौरत्यादिभिर्लोकानुग्रहानुकूलैर्गुणातिशयैरभिवर्धमानः सर्वसत्त्वमैत्रमना मैत्रबलो नाम राजा बभूव।



दुःखं सुखं वा यदभूत्प्रजानां तस्यापि राज्ञस्तदभूत्तथैव।

अतः प्रजारक्षणदक्षिणोऽसौ शस्त्रं च शास्त्रं च पराममर्श॥१॥



नरेन्द्रचूडाधृतशासनस्य तस्य त्वलङ्कारवदास शस्त्रम्।

विस्पष्टरूपं ददृशे च शास्त्रं नयेषु लोकस्य हितोदयेषु॥२॥



विनिग्रहप्रग्रहयोः प्रवृत्तिर्धर्मोपरोधं न चकार तस्य।

हिताशयत्वान्नयनैपुणाच्च परीक्षकस्येव पितुः प्रजासु॥३॥



तस्यैवं धर्मेण प्रजाः पालयतः सत्यत्यागोपशमप्रज्ञादिभिश्च परहितपरिणामनात्सविशेषोदात्तक्रमैर्बोधिसम्भारविधिभिरभिवर्धमानस्य कदाचित्कस्मिंश्चिदपराधे यक्षाणामधिपतिना स्वविषयात्प्रव्राजिता ओजोहाराः पञ्च यक्षाः परवधदक्षास्तद्विषयमभिजग्मुः। व्यपगतसर्वोपद्रवत्वाच्च नित्यप्रवृत्तविविधोत्सवं परया सम्पदा समुपेतरूपं प्रमुदिततुष्टपुष्टजनमभिसमीक्ष्य तद्विषयं तन्निवासिनां पुरुषाणामोजांस्यपहर्तुं तेषामभिलाषो बभूव।



ते परेणापि यत्नेन सम्प्रवृत्ताः स्वकर्मणि।

नैव तद्विषयस्थानां हर्तुमोजः प्रसेहिरे॥४॥



तस्य प्रभावातिशयान्नृपस्य ममेति यत्रैव बभूव बुद्धिः।

सैवास्य रक्षा परमास तस्मादोजांसि हर्तुं न विषेहिरे ते॥५॥



यदा च परमपि प्रयत्नं कुर्वन्तो नैव शक्नुवन्ति स्म कस्यचिद्विषयनिवासिनो जनस्यौजोऽपहर्तुमथ तेषां परस्परमवेक्ष्यैतदभूत्। किं नु खल्विदं मार्षाः।



अस्मत्प्रभावप्रतिघातयोग्या विद्यातपःसिद्धिमया विशेषाः।

न सन्ति चैषामथ चाद्य सर्वे व्यर्थाभिधानत्वमुपागताः स्मः॥६॥



अथ ते यक्षा ब्राह्मणवर्णमात्मानमभिनिर्माय समनुचरन्तो ददृशुः प्रत्यरण्यचरमन्यतमं गोपालकं सशाद्वले छायाद्रुममूले सोपानत्कं संनिषण्णं सपल्लवैर्वनतरुकुसुमैर्विरचितां मालामुद्वहन्तं दक्षिणतो विन्यस्तदण्डपरशुमेकाकिनं रज्जुवर्तनव्यापृतं प्रक्ष्वेडितविलासेन गायन्तमासीनम्। समुपेत्य चैनमूचुः-थथथददकाकाकाका। भो गवां संरक्षाधिकृत ! एवं विविक्ते निर्जनसम्पातेऽस्मिन्नरण्ये विचरन्नेवमेकाकी कथं न बिभेषीति। स तानालोक्याब्रवीत्-कुतो वा भेतव्यमिति। यक्षा ऊचुः-किं त्वया न श्रूतपूर्वा यक्षराक्षसानां पिशाचानां वा निसर्गरौद्रा प्रकृतिरिति ?



सहायमध्येऽपि हि वर्तमानो विद्यातपःस्वस्त्ययनैरुपेतः।

येभ्यः कथञ्चित्परिमोक्षमेति शौर्यादवज्ञातभयोऽपि लोकः॥७॥



तेभ्यो नृमेदःपिशिताशनेभ्यः कथं भयं तेऽस्ति न राक्षसेभ्यः।

विविक्तगम्भीरभयानकेषु सहायहीनस्य वनान्तरेषु॥८॥



इत्युक्ते स गोपालकः प्रहस्यैनानुवाच-

जनः स्वस्त्ययनेनायं महता परिपाल्यते।

देवेन्द्रेणाप्यशक्योऽयं किं पुनः पिशिताशनैः॥९॥



तेन गेह इवारण्ये रात्रावपि यथा दिवा।

जनान्त इव चैकोऽपि निर्भयो विचराम्यहम्॥१०॥



अथैनं ते यक्षाः कुतूहलप्राबल्यात्सादरमुत्साहयन्त इवोचुः-



तत्कथय कथय तावद्भद कीदृशोऽयं युष्माकं स्वस्त्ययनविशेष इति। स तान्प्रहसन्नुवाच-श्रूयतां यादृशोऽयमस्माकमत्यद्भूतः स्वस्त्ययनविशेषः।



कनकगिरिशिलाविशालवक्षाः शरदमलेन्दुमनोज्ञवक्त्रशोभः।

कनकपरिघपीनलम्बबाहुर्वृषभनिभेक्षणविक्रमो नरेन्द्रः॥११॥



ईदृशोऽस्माकं स्वस्त्ययनविशेषः। इत्युक्त्वा सामर्षविस्मयस्तान् यक्षानवेक्षमाणः पुनरुवाच-आश्चर्यं बतेदम्।



एवं प्रकाशो नृपतिप्रभावः कथं नु वः श्रोत्रपथं न यातः।

अत्यद्भुतत्वादथवा श्रुतोऽपि भवत्सु विप्रत्ययतो न रूढः॥१२॥



शङ्के गुणान्वेषणविक्लवो वा देशी जनोऽसावकुतूहलो वा।

विवर्जितो भाग्यपरिक्षयाद्वा कीर्त्या नरेन्द्रस्य यतोऽभ्युपैत॥१३॥



तदस्ति वो भाग्यशेषं यत्तादृशाद्देशकान्तारादिहागताः स्थ। यक्षा ऊचुः- भद्रमुख ! कथय किंकृतोऽयमस्य राज्ञः प्रभावो यदस्यामानुषा न प्रसहन्ते विषयवासिनं जनं हिंसितुमिति। गोपालक उवाच- स्वमाहात्म्याधिगतः प्रभावोऽयमस्माकं महाराजस्य। पश्यत महाब्राह्मणाः !



मैत्री तस्य बलं ध्वजाग्रशबलं त्वाचारमात्रं बलं

नाऽसौ वेत्ति रूषं न चाऽऽह परुषं सम्यक् च गां रक्षति।

धर्मस्तस्य नयो न नीतिनिकृतिः पूजार्थमर्थः सता-

मित्याश्चर्यमयोऽपि दुर्जनधनं गर्वं च नालम्बते॥१४॥



एवमादिगुणशतसमुदितोऽयमस्माकं स्वामी। तेनास्य न प्रसहन्ते विषयनिवासिनं जनं हिंसितुमुपद्रवाः। अपि च। कियदहं वः शक्ष्यामि वक्तुम्। नृपतिगुणश्रवणकौतूहलैस्तु भवद्भिर्नगरमेव युक्तं प्रवेष्टुं स्यात्। तत्र हि भवन्तः स्वधर्मानुरागाद्व्यवस्थितार्यमर्यादं नित्यक्षेमसुभिक्षत्वात्प्रमुदितसमृद्धमनुद्धतोदात्तवेषमभ्यागतातिथिजनविशेषवत्सलं नृपतिगुणाक्षिप्तहृदयं तत्कीर्त्याश्रयाः स्तुतीर्मङ्गलमिव स्वस्त्ययनमिव च प्रहर्षादभ्यस्यन्तं जनं दृष्ट्वा राज्ञो गुणविस्तरमनुमास्यन्ते। सत्यां च गुणबहुमानोद्भावनायां तद्दिदृक्षया यूयमवश्यं तद्गुणप्रत्यक्षिणो भविष्यथेति। अथ ते यक्षाः स्वप्रभावप्रतिघातात्तस्मिन्नाजनि सामर्षहृदया भावप्रयुक्तयापि युक्तया तया तद्गुणकथया नैव मार्दवमुपजग्मुः।



प्रायेण खलु मन्दानाममर्षज्वलितं मनः।

यस्मिन्वस्तुनि तत्कीर्त्या तद्विशेषेण दह्यते॥१५॥



प्रदानप्रियतां तु समभिवीक्ष्य तस्य राज्ञस्ते यक्षास्तदपकारचिकीर्षवः समभिगम्य राजानं सन्दर्शनकाले भोजनमयाचन्त। अथ स राजा प्रमुदितमनास्तदधिकृतान्पुरुषान्समादिदेश-क्षिप्रमभिरुचितं भोजनं ब्राह्मणेभ्यो दीयतामिति। अथ ते यक्षाः समुपहृतं राजार्हमपि भोजनं हरिततृणमिव व्याघ्रा नैव प्रत्यगृह्णन्नैवंविधं भोजनं वयमश्नीम इति। तच्छ्रुत्वा स राजा समभिगम्यैनानब्रवीत्- अथ कीदृशं भोजनं युष्माकमुपशेते? यावत्तादृशमन्विष्यतामिति। यक्षा ऊचुः-



प्रत्यग्रोष्माणि मांसानि नराणां रुधिराणि च।

इत्यन्नपानं पद्माक्ष ! यक्षाणामक्षतव्रत॥१६॥



इत्युक्त्वा दंष्ट्राकरालवदनानि दीप्त-पिङ्गल केकर-रौद्रनयनानि स्फुटितचिपिटविरूपघोणानि ज्वलदनलकपिलकेशश्मश्रूणि सजलजलधरान्धकाराणि विकृतभीषणानि स्वान्येव वपूंषि प्रत्यपद्यन्त। समभिवीक्ष्य चैनान्स राजा-पिशाचाः खल्विमे न मानुषास्तेनास्मदीयमन्नपानं नाभिलषन्तीति निश्चयमुपजगाम।



अथ तस्य नरेन्द्रस्य प्रकृत्या करुणात्मनः।

भूयसी करुणा तेषु समभूच्छुद्धचेतसः॥१७॥



करुणैकतानहृदयश्च तान्यक्षाननुशोचन्नियतमीदृशमर्थं चिन्तयामास।



दयावतस्तावदिदमन्नपानं सुदुर्लभम्।

प्रत्यहं च तदन्वेष्यं किन्नु दुःखमतः परम्॥१८॥



निर्दयस्याप्यशक्तस्य विघातैकरसः श्रमः।

शक्तस्याप्यहिताभ्यासात् किंस्वित्कष्टतरं ततः॥१९॥



एवंविधाहारपरायणानां कारूण्यशून्याशिवमानसानाम्।

प्रत्याहमेषां दहतां स्वमर्थं दुःखानि यास्यन्ति कदा नु नाशम्॥२०॥



तत्कथमिदानीमहमेषामीदृशाहारसम्पादनादेकाहमपि तावत्परहिंसाप्राणविघातं कुर्याम्?



न हि स्मराम्यर्थितयागतानामाशाविपर्यासहतप्रभाणि।

हिमानिलम्लापितपङ्कजानां समानदैन्यानि मुखानि कर्तुम्॥२१॥



भवतु। दृष्टम्।

स्वतः शरीरात्स्थिरपीवराणि दास्यामि मांसानि सशोणितानि।

अतोऽन्यथा को हि मम क्रमः स्यादित्यागतेष्वर्थिषु युक्तरूपः॥२२॥



स्वयंमृतानां हि निरूष्मकाणि भवन्ति मांसानि विशोणितानि।

प्रियाणि चैषां न हि तानि सम्यग् बुभुक्षया पीडितविग्रहाणाम्॥२३॥



जीवतोऽपि च कुतोऽहमन्यस्मान्मांसमादास्ये मामभिगम्य चैते तथैव क्षुत्तर्षपरिक्षामनयनवदना निष्फलाशाप्रणयत्वादधिकतरविघातातुरमनसः कथं नाम प्रतियास्यन्ति ? तदिदमत्र प्राप्तकालम्।



दुष्टव्रणस्येव सदातुरस्य कडे(ले)वरस्यास्य रुजाकरस्य।

करोमि कार्यातिशयोपयोगादत्यर्थरम्यं प्रतिकारखेदम्॥२४॥



इति विनिश्चित्य स महात्मा प्रहर्षोद्गमस्फीतीकृतनयनवदनशोभः स्वं शरीरमुपदर्शयंस्तान्यक्षानुवाच-



अमूनि मांसानि सशोणितानि धृतानि लोकस्य हितार्थमेव।

यद्यातिथेयत्वमुपेयुरद्य महोदयः सोऽभ्युदयो मम स्यात्॥२५॥



अथ ते यक्षा जानन्तोऽपि तस्य राज्ञस्तमध्याशयमत्यद्भुतत्वादश्रद्दधाना राजानमूचुः-



अर्थिनात्मगते दुःखे याच्ञादैन्येन दर्शिते।

ज्ञातुमर्हति दातैव प्राप्तकालमतः परम्॥२६॥



अथ राजा-अनुमतमिदमेषामिति प्रमुदितमनाः सिरामोक्षणार्थं वैद्या आज्ञाप्यन्तामिति समादिदेश। अथ तस्य राज्ञोऽमात्याः स्वमांसशोणितप्रदानव्यवसायमवेत्य सम्भ्रमामर्षव्याकुलहृदया व्यक्तमीदृशं कञ्चिदर्थं स्नेहवशादूचुः-नार्हति देवः प्रदानहर्षातिशयादनुरक्तानां प्रजानां हिताहितक्रममनवेक्षितुम्। न चैतदविदितं देवस्य। यथा-



यद्यत्प्रजानामहितोदयाय तत्तत्प्रियं मानद ! राक्षसानाम्।

परोपरोधार्जितवृत्तितुष्टिरेवंस्वभावानघ जातिरेषाम्॥२७॥



सुखेष्वसक्तश्च बिभर्षि देव ! राज्यश्रमं लोकहितार्थमेव।

स्वमांसदानव्यवसायमस्मात्स्वनिश्चयोन्मार्गमिमं विमुञ्च॥२८॥



असंशयं न प्रसहन्त एते त्वद्वीर्यगुप्तं नरदेव लोकम्।

अनर्थपाण्डित्यहतास्तथा हि नयेन वाञ्छन्त्यनयं प्रजानाम्॥२९॥



मेदोवसाद्यैस्त्रिदशा मखेषु प्रीतिं हुताशाभिहुतैर्व्रजन्ति।

सत्कारपूतं भवदीयमन्नं सम्पन्नमेषां किल नैव रुच्यम्॥३०॥



कामं नास्मद्विधजनाधेयबुद्धयो देवपादाः। स्वकार्यानुरागस्त्वयमस्मानेवमुपचारपथाद् भ्रंशयति। पञ्चानाममीषामर्थे सकलं जगदनर्थीकर्तव्यमिति कोऽयं धर्ममार्गो देवस्य ? अपि च। किंकृतेयमस्मास्वेवं निष्प्रणयता, केन वास्माकं स्वाम्यर्थे विनियोज्यमानानि विनिगूढपूर्वाणि मांसशोणितानि यदपरिक्षीणेष्वेवामीषु स्वानि देवो दातुमिच्छतीति। अथ स राजा तानमात्यानुवाच-



संविद्यमानं नास्तीति ब्रूयादस्मद्विधः कथम्।

न दास्यामीत्यसत्यं वा विस्पष्टमपि याचितः॥३१॥



धर्मव्यवस्थासु पुरःसरः सन् स्वयं व्रजेयं यदि कापथेन।

अस्मद्गताचारपथानुगानां भवेदवस्था मम का प्रजानाम्॥३२॥



यतः प्रजा एव समीक्षमाणः सारं शरीरादहमुद्धरिष्ये।

कश्च प्रभावो जगदर्थसाधुर्मात्सर्यहार्याल्पहृदो मम स्यात्॥३३॥



यदपि चास्मत्प्रेमबहुमानावर्जितं प्रणयविस्रम्भगर्भमभिधीयते भवद्भिः- किंकृतेयमस्मास्वेवं निष्प्रणयता यदपरिक्षीणेष्वेव नो मांसशोणितेषु स्वानि देवो दातुमिच्छतीति। अत्र वोऽनुनेष्यामि। न खलु मे युष्मासु प्रतिहतविषयः प्रणयमार्गो विस्रम्भविरहात्परिशङ्कागहनदुरवगाहो वा। किन्तु-



धने तनुत्वं क्रमशो गते वा भाग्यानुवृत्त्या क्षयमागते वा।

विजृम्भमाणप्रणयः सुहृत्सु शोभेत न स्फीतधनः कृशेषु॥३४॥



विवर्धितेष्वर्थिजनार्थमेव संविद्यमानेषु च मे बृहत्सु।

गात्रेषु मांसोपचयोन्नतेषु युष्मास्वपि स्यात्प्रणयो विरूपः॥३५॥



असंस्तुतानामपि न क्षमेय पीडां कथं कैव कथा भवत्सु।

स्वान्येव मांसानि यतोऽस्मि दित्सुर्मां चैव याचन्त इमे न युष्मान्॥३६॥



तदलमस्मदतिस्नेहाद्धर्मविघ्ननिःसाध्वसतया। अनुचितः खल्वयमत्रभवतामस्मदर्थिषु समुदाचारः। मीमांसितव्यमपि च तावदेतत्स्यात्-



स्वार्थमन्नादि दित्सन्तं कथं स्यात्प्रतिषेधयन्।

साधुवृत्तिरसाधुर्वा प्रागेवैवंविधं विधिम्॥३७॥



तदलमनेनात्र वो निर्बन्धेन। न्यायोपपरीक्षया क्रियतामस्मत्साचिव्यसदृशमुन्मार्गावरणं मनसः। अनुमोदनानुगुणवचसः खल्वत्रभवन्तः शोभेरन्नेवमधीरनयनाः। कुतः-



नैकोपयोगस्य धनस्य तावन्न प्रत्यहं याचनका भवन्ति।

एवंविधस्त्वर्थिजनोऽधिगन्तुं न देवताराधनयापि शक्यः॥३८॥



एवंविधे चार्थिजनेऽभ्युपेते देहे विनाशिन्यसुखास्पदे च।

विमर्शमार्गोऽप्यनुदात्तता स्यान्मात्सर्यदैन्यं तु परा तमिस्रा॥३९॥



तन्न मा वारयतुमर्हन्त्यत्रभवन्त इत्यनुनीय स राजा स्वां पर्षदमाहूय वैद्यान्पञ्च सिराः स्वशरीरे मोक्षयित्वा तान्यक्षानुवाच-



धर्मकर्मणि साचिव्यं प्रीतिं च परमां मम।

भवन्तः कर्तुमर्हन्ति देयस्यास्य प्रतिग्रहात्॥४०॥



ते तथेत्युक्त्वाञ्जलिपुटैरेव राज्ञो रक्तचन्दनरसाभिताम्रं रुधिरं पातुमुपचक्रमिरे।



स पीयमानक्षतजः क्षितीशः क्षपाचरैर्हेमवपुश्चकाशे।

सन्ध्यानुरक्तैर्जलभारनम्रैः पयोधरैर्मेरुरिवोपगूढः॥४१॥



प्रीतिप्रकर्षाद्‍धृतिसम्पदा च वपुर्गुणादेव च तस्य राज्ञः।

मम्लौ न गात्रं न मुमूर्छ चेतः संचिक्षिपे न क्षतजं क्षरद्वा॥४२॥



विनीततर्षक्लमास्तु ते यक्षाः पर्याप्तमनेनेति राजानमूचुः-

अनेकदुःखायतने शरीरे सदा कृतध्नेऽपि नराधिपस्य।

गतेऽर्थिसंमाननसाधनत्वं हर्षानुकूलं ग्रहणं बभूव॥४३॥



अथ स राजा हर्षप्रबोधादधिकतरनयनवदनप्रसादो नीलोत्पलदलनीलविमलपत्रं रत्नप्रभोद्भासुररुचिरत्सरुं निशितं निस्त्रिंशमादाय स्वमांसानि च्छित्त्वा तेभ्यः प्रायच्छत्।



ह्रियमाणावकाशं तु दानप्रीत्या पुनः पुनः।

न प्रसेहे मनस्तस्य च्छेददुःखं विगाहितुम्॥४४॥



आकृष्यमाणं शितशस्रपातैः प्रीत्या पुनर्दूंरमपास्यमानम्।

खेदालसत्वादिव तस्य दुःखं मनःसमुत्सर्पणमन्दमासीत्॥४५॥



स प्रीतिमानेव निशाचरांस्तान्सन्तर्पयन्स्वैः पिशितैस्तथासीत्।

क्रूराणि तेषामपि मानसानि येनासुराविष्कृतमार्दवानि॥४६॥



धर्मप्रियत्वात्करुणावशाद्वा त्यजन् परार्थे प्रियमात्मदेहम्।

द्वेषाग्निदग्धान्यपि मानसानि प्रसादसौवर्ण्यनवानि कुर्यात्॥४७॥



अथ ते यक्षास्तं राजानं स्वमांसोत्कर्तनपरं तथैवास्खलितवदनप्रसादमविकम्प्यमानं मांसच्छेदवेदनाभिरभिवीक्ष्य प्रसादं विस्मयञ्चोपजग्मुः।



आश्चर्यमद्भुतमहो बत किंस्विदेतत्

सत्यं न वेति समुदीर्णविचारहर्षाः।

राजन्यमर्षमुपमृद्य मनःप्रसादं

तत्संस्तुतिप्रणतिभिः प्रथयाम्बभूवुः॥४८॥



अलमलं देव ! विरम्यतां स्वशरीरपीडाप्रसङ्गात्। सन्तर्पिताः स्मस्तवानयाद्भुतया याचनकजनमनोहरया प्रतिपत्त्येति ससम्भ्रमाः सप्रणामं विनिवार्य राजानं प्रसादाश्रुपरिषिक्तवदनाः सबहुमानमुदीक्षमाणाः पुनरूचुः-



स्थाने भक्तिवशेन गच्छति जनस्त्वत्कीर्तिवाचालतां

स्थाने श्रीः परिभूय पङ्कजवनं त्वत्संश्रयश्लाघिनी।

व्यक्तं शक्रसनाथतामपि गता त्वद्वीर्यगुप्तामिमां

द्यौः पश्यत्युदितस्पृहा वसुमतीं नो चेदहो वञ्च्यते॥४९॥



किं बहुना ? एवंविधजनाभ्युपपन्नः सभाग्यः खलु मनुष्यलोकः। युष्मदायासाभ्यनुमोदनात्तु वयमेवात्र दग्धाः। भवद्विधजनापश्रयाच्छक्यमित्थङ्गतैरप्यात्मानं समुद्धर्तुमिति स्वदुष्करप्रतीघाताशया भवन्तं पृच्छामः-



अनादृत्य सुखप्राप्तामनुरक्तां नृपश्रियम्।

किं तदत्यद्भुतं स्थानं पथानेन यदीप्ससि॥५०॥



सर्वक्षितिपतित्वं नु धनेशत्वमथेन्द्रताम्।

ब्रह्मभूयं विमोक्षं वा तपसानेन वाञ्छसि॥५१॥



अस्य हि व्यवसायस्य न दूरतरमीप्सितम्।

श्रोतव्यं चैतदस्माभिर्बक्तुमर्हति नो भवान्॥५२॥



राजोवाच-श्रूयतां यदर्थोऽयं ममाभ्युद्यमः।

प्रयत्नलभ्या यदयत्ननाशिनी न तृप्तिसौख्याय कुतः प्रशान्तये।

भवाश्रया सम्पदतो न कामये सुरेन्द्रलक्ष्मीमपि किम्वथेतराम्॥५३॥



न चात्मदुःखक्षयमात्रकेण मे प्रयाति सन्तोषपथेन मानसम्।

अमूननाथानभिवीक्ष्य देहिनः प्रसक्ततीव्रव्यसनश्रमातुरान्॥५४॥



अनेन पुण्येन तु सर्वदर्शितामवाप्य निर्जित्य च दोषविद्विषः।

जरा-रुजा-मृत्युमहोर्मिसङ्कुलात्समुद्धरेयं भवसागराज्जगत्॥५५॥



अथ ते यक्षाः प्रसादसंहर्षिततनुरुहाः प्रणम्य राजानमूचुः-उपपन्नरूपमेवंविधस्य व्यवसायातिशयस्येदं कर्म। तन्न दूरे भवद्विधानामभिप्रायसम्पद इति निश्चितमनसो विज्ञापयामः-



कामं लोकहितायैव तव सर्वोऽयमुद्यमः।

स्वहितात्यादरं त्वेषां स्मर्तुमर्हसि नस्तदा॥५६॥



अज्ञानाच्च यदस्माभिरेवमायासितो भवान्।

स्वमप्यर्थमपश्यद्भिर्मृष्यतामेव तच्च नः॥५७॥



आज्ञामपि च तावन्नस्त्वमनुग्रहपद्धतिम्।

सचिवानामिव स्वेषां विस्रब्धं दातुमर्हसि॥५८॥



अथ स राजा प्रसादमृदूकृतहृदयान्मत्वैनानुवाच-उपकारः खल्वयं नायासो ममेत्यलमत्र वोऽक्षमाशङ्कया। अपि च-



एवंविधे धर्मपथे सहायान्किं विस्मरिष्याम्यधिगम्य बोधिम्।

युष्माकमेव प्रथमं करिष्ये विमोक्षधर्मामृतसंविभागम्॥५९॥



अस्मत्प्रियं चाभिसमीक्षमाणैर्हिंसा भवद्भिर्विषवद्विवर्ज्या।

लोभः परद्रव्यपरिग्रहेषु वाग्गर्हिता मद्यमयश्च पाप्मा॥६०॥



अथ ते यक्षास्तथेत्यस्मै प्रतिश्रुत्य प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधिरे। स्वमांसशोणितप्रदाननिश्चयसमकालमेव तु तस्य महासत्त्वस्य।



विकम्पमाना बहुधा वसुन्धरा विधूर्णयामास सुवर्णपर्वतम्।

प्रसस्वनुर्दुन्दुभयश्च तद्गता द्रुमाश्च पुष्पं ससृजुर्विकम्पनात्॥६१॥



तदभ्रवद्व्योमनि मारुतेरितं पतत्रिसेनेव वितानवत्क्वचित्।

विसृत्य माला ग्रथितेव कुत्रचित्समं समन्तान्नृपतेर्व्यकीर्यत॥६२॥



निवारयिष्यन्निव मेदिनीपतिं समुद्धतावेगतया महार्णवः।

जलैः प्रकृत्यभ्यधिकक्रमस्वनैः प्रयाणसौजस्कवपुर्व्यरोचत॥६३॥



किमेतदित्यागतसम्भ्रमस्ततः सुराधिपस्तत्र विचिन्त्य कारणम्।

नृपात्ययाशङ्किततूर्णमाययौ नृपालयं शोकभयाकुलाकुलम्॥६४॥



तथागतस्यापि तु तस्य भूपतेर्मुखप्रसादात्सविशेषविस्मयः।

उपेत्य तक्तर्म मनोज्ञया गिरा प्रसादसंहर्षवशेन तुष्टुवे॥६५॥



अहो प्रकर्षो बत सज्जनस्थितेरहो गुणाभ्यासनिधेरुदारता।

अहो परानुग्रहपेशला मतिस्त्वदर्पणान्नाथवती बत क्षितिः॥६६॥



इत्यभिप्रशस्यैनं शक्रो देवेन्द्रः सद्यः क्षतरोहणसमर्थैर्दिव्यैर्मानुष्यकैरोषधिविशेषैर्निर्वेदनं यथापौराणं शरीरं कृत्वा दाक्षिण्यविनयोपचारमधुरं प्रतिपूजितस्तेन राज्ञा स्वमावासं प्रतिजगाम।



तदेवं परदुःखातुरा नात्मसुखमवेक्षन्ते महाकारुणिका इति। को नाम धनमात्रकेऽप्यपेक्षां नोत्स्रष्टुमर्हतीति दायकजनसमुत्तेजनायां वाच्यम्। करुणावर्णेऽपि तथागतमाहात्म्ये सत्कृत्य धर्मश्रवणे च।



यच्चोक्तं भगवता 'बहुकरः खल्वेते पञ्चका भिक्षवः' इति स्यादेतत्सन्धाय। तेन हि समयेन ते पञ्च यक्षा बभूवुः। तेषां भगवता यथाप्रतिज्ञातमेव प्रथमं धर्मामृतसंविभागः कृत इति।



इति मैत्रीबल-जातकमष्टमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project