Digital Sanskrit Buddhist Canon

७ अगस्त्य-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 agastya-jātakam

७. अगस्त्य-जातकम्



तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवाँल्लोकहितार्थं संसाराध्वनि वर्तमानश्चारित्रगुणविशुद्ध्यभिलक्षितं क्षितितलतिलकभूतमन्यतमं महद् ब्राह्मणकुलं गगनतलमिव शरदमलपरिपूर्णमण्डलश्चन्द्रमाः समुत्पतन्नेवाभ्यलंचकार। स यथाक्रमं श्रुतिस्मृतिविहितानवाप्य जातकर्मादीन् संस्कारानधीत्य साङ्गान्वेदान्कृत्स्नं च कल्पं व्याप्य विद्यायशसा मनुष्यलोकं गुणप्रियैर्दातृभिरभ्यर्थ्य प्रतिगृह्यमाणविभवत्वात् परां धनसमृद्धिमभिजगाम।



स बन्धुमित्राश्रितदीनवर्गान्संमाननीयानतिथीन्गुरूंश्च।

प्रह्लादयामास तथा समृद्ध्या देशान्महामेध इवाभिवर्षन्॥१॥



विद्वत्तया तस्य यशः प्रकाशं तत्त्यागशौर्यादधिकं चकाशे।

निशाकरस्येव शरद्विशुद्धं समग्रशोभाधिककान्ति बिम्बम्॥२॥



अथ स महात्मा कुकार्यव्यासङ्गदोषसंबाधं प्रमादास्पदभूतं धनार्जनरक्षणप्रसङ्गव्याकुलमुपशमविरोधिव्यसनशरशतलक्ष्यभूतमपर्यन्तकर्मान्तानुष्ठानपरिग्रहश्रममतृप्तिजनकं कृशास्वादं गार्हस्थ्यमवेत्य तद्दोषविविक्तसुखां च धर्मप्रतिपत्त्यनुकूलां मोक्षधर्मारम्भाधिष्ठानभूतां प्रव्रज्यामनुपश्यन् महतीमपि तां धनसमृद्धिमपरिक्लेशाधिगतां लोकसंनतिमनोहरां तृणवदपास्य तापसप्रव्रज्याविनयनियमपरो बभूव। प्रव्रजितमपि तं महासत्त्वं यशःप्रकाशत्वात् पूर्वसंस्तवानुस्मरणात् संभावितगुणत्वात् प्रशमाभिलक्षितत्वाच्च श्रेयोऽर्थी जनस्तद्गुणगणावर्जितमतिस्तथैवाभिजगाम। स तं गृहिजनसंसर्गं प्रविवेकसुखप्रमाथिनं व्यासङ्गविक्षेपान्तरायकरमबहुमन्यमानः प्रविवेकाभिरामतया दक्षिणसमुद्रमध्यावगाढमिन्द्रनीलभेदाभिनीलवर्णैरनिलबलाकलितैरूर्मिमालाविलासैराच्छुरितपर्यन्तं सितसिकतास्तीर्णभूमिभागं पुष्पफलपल्लवालंकृतविटपैर्नानातरुभिरुपशोभितं विमलसलिलाशयप्रतीरं काराद्वीपमध्यासनादाश्रमपदश्रिया संयोजयामास।



सुतनुस्तपसा तत्र स रेजे तपसातनुः।

नवचन्द्र इव व्योम्नि कान्तत्वेनाकृशः कृशः॥३॥



प्रशमनिभृतचेष्टितेन्द्रियो व्रतनियमैकरसो वने वसन्।

मुनिरिति तनुबुद्धिशक्तिभिर्मृगविहगैरपि सोऽन्वगम्यत॥४॥



अथ स महात्मा प्रदानोचितत्वात्तपोवनेऽपि निवसन् कालोपनतमतिथिजनं यथासंनिहितेन मूलफलेन शुचिना सलिलेन हृद्याभिश्च स्वागताशीर्वादपेशलाभिस्तपस्विजनयोग्याभिर्वाग्भिः संपूजयति स्म। अतिथिजनोपयुक्तशेषेण च यात्रामात्रार्थमभ्यवहृतेन तेन वन्येनाहारेण वर्तयामास। तस्य तपःप्रकर्षात् प्रविसृतेन यशसा समावर्जितहृदयः शक्रो देवेन्द्रः स्थैर्यजिज्ञासया तस्य महासत्त्वस्य तस्मिन्नरण्यायतने तापसजनोपभोगयोग्यं मूलफलमनुपूर्वेण सर्वमन्तर्धापयामास। बोधिसत्त्वोऽपि ध्यानप्रसृतमानसतया संतोषपरिचयादनधिमूर्च्छितत्वादाहारे स्वशरीरे चानभिष्वङ्गान्न तमन्तर्धानहेतुं मनसि चकार। स तरुणानि तरुपर्णान्यधिश्राय तैराहारप्रयोजनमभिनिष्पाद्यातृष्यमाण आहारविशेषानुत्सुकः स्वस्थमतिस्तथैव विजहार।



न क्वचिद् दुर्लभा वृत्तिः संतोषनियतात्मनाम्।

कुत्र नाम न विद्यन्ते तृणपर्णजलाशयाः॥५॥



विस्मिततरमनास्तु शक्रो देवेन्द्रस्तस्य तेनावस्थानेन स्थिरतरगुणसंभावनस्तत्परीक्षानिमित्तं तस्मिन्नरण्यवनप्रदेशे निदाघकालानिलवत्समग्रं वीरुत्तृणतरुगणं पर्णसमृद्ध्या वियोजयामास। अथ बोधिसत्त्वः प्रत्यार्द्रतराणि शीर्णपर्णानि समाहृत्य तैरुदकस्विन्नैरनुत्कण्ठितमतिर्वर्तमानो ध्यानसुखप्रीणितमनास्तत्रामृततृप्त इव विजहार।



अविस्मयः श्रुतवतां समृद्धानाममत्सरः।

संतोषश्च वनस्थानां गुणशोभाविधिः परः॥६॥



अथ शक्रस्तेन तस्याद्भुतरूपेण संतोषस्थैर्येण समभिवृद्धविस्मयः सामर्ष इव तस्य महासत्त्वस्य व्रतकाले हुताग्निहोत्रस्य परिसमाप्तजप्यस्यातिथिजनदिदृक्षया व्यवलोकयतो ब्राह्मणरूपमास्थायातिथिरिव नाम भूत्वा पुरस्तात्प्रादुरभूत्। स प्रीतमनाः समभिगम्य चैनं बोधिसत्त्वः स्वागतादिप्रियवचनपुरःसरेणाहारकालनिवेदनेनोपनिमन्त्रयामास। तूष्णींभावात्तु तस्याभिमतमुपनिमन्त्रणमवेत्य स महात्मा



दित्साप्रहर्षविकसन्नयनास्यशोभः

स्निग्धैर्मनःश्रुतिसुखैरभिनन्द्य वाक्यैः।

कृच्छ्रोपलब्धमपि तच्छ्रपणं समस्तं

तस्मै ददौ स्वयमभूच्च मुदेव तृप्तः॥७॥



स तथैव प्रविश्य ध्यानागारं तेनैव प्रीतिप्रामोद्येन तमहोरात्रमतिनामयामास। अथ शक्रस्तस्य द्वितीये तृतीये चतुर्थे पञ्चमेऽपि चाहनि तथैव व्रतकाले पुरतः प्रादुरभूत्। सोऽपि चैनं प्रमुदिततरमनास्तथैव प्रतिपूजयामास।



दानाभिलाषः साधूनां कृपाभ्यासविवर्धितः।

नैति संकोचदीनत्वं दुःखैः प्राणान्तिकैरपि॥८॥



अथ शक्रः परमविस्मयाविष्टहृदयस्तपःप्रकर्षादस्य प्रार्थनामात्रापेक्षं त्रिदशपतिलक्ष्मीसंपर्कमवगम्य समुत्पतितभयाशङ्कः स्वमेव वपुर्दिव्याद्भुतशोभमभिप्रपद्य तपःप्रयोजनमेनं पर्यपृच्छत्।



बन्धून्प्रियानश्रुमुखान्विहाय परिग्रहान्सौख्यपरिग्रहांश्च।

आशाङ्कुशं नु व्यवसृज्य कुत्र तपःपरिक्लेशमिमं श्रितोऽसि॥९॥



सुखोपपन्नान्परिभूय भोगाँच्छोकाकुलं बन्धुजनं च हित्वा।

न हेतुनाल्पेन हि यान्ति धीराः सुखोपरोधीनि तपोवनानि॥१०॥



वक्तव्यमेतन्मयि मन्यसे चेत्कौतूहलं नोऽर्हसि तद्विनेतुम्।

किं नाम तद्यस्य गुणप्रवेशवशीकृतैवं भवतोऽपि बुद्धिः॥११॥



बोधिसत्त्व उवाच-श्रूयतां मार्ष यन्निमित्तोऽयं मम प्रयत्नः।

पुनः पुनर्जातिरतीव दुःखं जराविपद्वयाधिविरूपताश्च।

मर्तव्यमित्याकुलता च बुद्धेर्लोकानतस्त्रातुमिति स्थितोऽस्मि॥१२॥



अथ शक्रो देवेन्द्रो नायमस्मद्गतां श्रियमभिकामयत इति समाश्वासितहृदयः सुभाषितेन तेन चाभिप्रसादितमतिर्युक्तमित्यभिपूज्य तदस्य वचनं वरप्रदानेन बोधिसत्त्वमुपनिमन्त्रयामास-



अत्र ते तापसजनप्रतिरूपे सुभाषिते।

ददामि काश्यप वरं तद्वृणीष्व यदिच्छसि॥१३॥



अथ बोधिसत्त्वो भवभोगसुखेष्वनास्थः प्रार्थनामेव दुःखमवगच्छन्सात्मीभूतसंतोषः शक्रमुवाच-



दातुमिच्छसि चेन्मह्यमनुग्रहकरं वरम्।

वृणे तस्मादहमिमं देवानां प्रवरं वरम्॥१४॥



दारान्मनोऽभिलषितांस्तनयान्प्रभुत्व-

मर्थानभीप्सितविशालतरांश्च लब्ध्वा।

येनाभितप्तमतिरेति न जातु तृप्तिं

लोभानलः स हृदयं मम नाभ्युपेयात्॥१५॥



अथ शक्रस्तया तस्य संतोषप्रवणमानसतया सुभाषिताभिव्यञ्जितया भूयस्या मात्रया संप्रसादितमतिः पुनर्बोधिसत्त्वं साधु साध्विति प्रशस्य वरेणीपच्छन्दयामास-



अत्रापि ते मुनिजनप्रतिरूपे सुभाषिते।

प्रतिप्राभृतवत्प्रीत्या प्रयच्छाम्यपरं वरम्॥१६॥



अथ बोधिसत्त्वः क्लेशवियोगस्यैव दुर्लभतामस्य प्रदर्शयन्वरयाच्ञापदेशेन पुनरप्यस्मै धर्मं देशयासास-



ददासि मे यदि वरं सद्गुणावास वासव।

वृणे तेनेममपरं देवेन्द्रानवरं वरम्॥१७॥



अर्थादपि भ्रंशमवाप्नुवन्ति वर्णप्रसादाद्यशसः सुखाच्च।

येनाभिभूता द्विषतेव सत्त्वाः सद्वेषवह्निर्मम दूरतः स्यात्॥१८॥



तच्छ्रुत्वा शक्रो देवानामधिपतिर्विस्मयवशात् साधु साध्वित्येनमभिप्रशस्य पुनरुवाच-



स्थाने प्रव्रजितान्कीर्तिरनुरक्तेव सेवते।

तद्वरं प्रतिगृह्णीष्व मदत्रापि सुभाषिते॥१९॥



अथ बोधिसत्त्वः क्लेशप्रातिकूल्यात् क्लिष्टसत्त्वसंपर्कविगर्हां व्रतिसंप्रतिग्रहापदेशेन कुर्वन्नित्युवाच-



शृणुयामपि नैव जातु बालं न च वीक्षेय न चैनमालपेयम्।

न च तेन निवासखेददुःखं समुपेयां वरमित्यहं वृणे त्वाम्॥२०॥



शक्र उवाच-

अनुकम्प्यो विशेषेण सतामापद्गतो ननु।

आपदां मूलभूतत्वाद्बाल्यं चाधममिष्यते॥२१॥



करुणाश्रयभूतस्य बालस्यास्य विशेषतः।

कृपालुरपि सन्कस्मान्न दर्शनमपीच्छसि॥२२॥



बोधिसत्त्व उवाच-अगत्या मार्ष। पश्यत्वत्रभवान्।

कथंचिदपि शक्येत यदि बालश्चिकित्सितुम्।

तद्धितोद्योगनिर्यत्नः कथं स्यादिति मद्विधः॥२३॥



इत्थं चैष चिकित्साप्रयोगस्यापात्रमिति गृह्यताम्।

सुनयवदनयं नयत्ययं परमपि चात्र नियोक्तुमिच्छति।

अनुचितविनयार्जवक्रमो हितमपि चाभिहितः प्रकुप्यति॥२४॥



इति पण्डितमानमोहदग्धे हितवादिष्वपि रोषरूक्षभावे।

रभसे विनयाभियोगमान्द्याद्वद कस्तत्र हितार्पणाभ्युपायः॥२५॥



इत्यगत्या सुरश्रेष्ठ करुणाप्रवणैरपि।

बालस्याद्रव्यभूतस्य न दर्शनमपीष्यते॥२६॥



तच्छ्रुत्वा शक्रः साधु साध्वित्येनमभिनन्द्य सुभाषिताभिप्रसादितमतिः पुनरुवाच-



न सुभाषितरत्नानामर्घः कश्चन विद्यते।

कुसुमाञ्जलिवत्प्रीत्या ददाम्यत्रापि ते वरम्॥२७॥



अथ बोधिसत्त्वः सर्वावस्थासुखतां सज्जनस्य प्रदर्शयञ्छक्रमुवाच-

वीक्षेय धीरं शृणुयां च धीरं स्यान्मे निवासः सह तेन शक्र।

संभाषणं तेन सहैव भूयादेतं वरं देववर प्रयच्छ॥२८॥



शक्र उवाच-अतिपक्षपात इव खलु ते धीरं प्रति। तदुच्यतां तावत्।



किं नु धीरस्तवाकार्षीद्वद काश्यप कारणम्।

अधीर इव येनासि धीरदर्शनलालसः॥२९॥



अथ बोधिसत्त्वः सज्जनमाहात्म्यमस्य प्रदर्शयन्नुवाच-श्रूयतां मार्ष, येन मे धीरदर्शनमेवाभिलषते मतिः।



व्रजति गुणपथेन च स्वयं नयति परानपि तेन वर्त्मना।

वचनमपि न रूक्षमक्षमां जनयति तस्य हितोपसंहितम्॥३०॥



अशठविनयभूषणः सदा हितमिति लम्भयितुं स शक्यते।

इति मम गुणपक्षपातिनी नमति मतिर्गुंणपक्षपातिनि॥३१॥



अथैनं शक्रः साधूपपन्नरूपमिदमिति चाभिनन्द्य समभिवृद्धप्रसादः पुनर्वरेणोपनिमन्त्रयामास-



कामं संतोषसात्मत्वात्सर्वत्र कृतमेव ते।

मदनुग्रहबुद्ध्या तु ग्रहीतुं वरमर्हसि॥३२॥



उपकाराशया भक्त्या शक्त्या चैव समस्तया।

प्रयुक्तस्यातिदुःखो हि प्रणयस्याप्रतिग्रहः॥३३॥



अथ तस्य परामुपकर्तुकामतामवेक्ष्य बोधिसत्त्वस्तत्प्रियहितकामतया प्रदानानुतर्षप्राबल्यमस्मै प्रकाशयन्नुवाच-



त्वदीयमन्नं क्षयदोषवर्जितं मनश्च दित्साप्रतिपत्तिपेशलम्।

विशुद्धशीलाभरणाश्च याचका मम स्युरेतां वरसंपदं वृणे॥३४॥



शक्र उवाच-सुभाषितरत्नाकरः खल्वत्रभवान्। अपि च-

यदभिप्रार्थितं सर्वं तत्तथैव भविष्यति।

ददामि च पुनस्तुभ्यं वरमस्मिन्सुभाषिते॥३५॥



बोधिसत्त्व उवाच-

वरं ममानुग्रहसंपदाकरं ददासि चेत्सर्वदिवौकसां वर।

न माभ्युपेयाः पुनरित्यभिज्वलन्निमं वरं दैन्यनिसूदनं वृणे॥३६॥



अथ शक्रः सामर्षवदेनमतिविस्मयमान उवाच-मा तावद्भोः!



जपव्रतेज्याविधिना तपःश्रमैर्जनोऽयमन्विच्छति दर्शनं मम।

भवान्पुनर्नेच्छति केन हेतुना वरप्रदित्साभिगतस्य मे सतः॥३७॥



बोधिसत्त्व उवाच-अलं ते मन्युप्रणयेन। समनुनेष्याम्यहमत्रभवन्तं देवराज ! न ह्यसावदाक्षिण्यानुवृत्तिर्न चाप्यबहुमानविचेष्टितमसमवधानकाम्यता वा भवति भवताम्। किं तु



निरीक्ष्य ते रूपममानुषाद्भुतं प्रसन्नकान्ति ज्वलितं च तेजसा।

भवेत्प्रमादस्तपसीति मे भयं प्रसादसौम्यादपि दर्शनात्तव॥३८॥



अथ शक्रः प्रणम्य प्रदक्षिणीकृत्य चैनं तत्रैवान्तर्दधे। प्रभातायां च रजन्यां बोधिसत्त्वः शक्रप्रभावोपहृतं प्रभूतं दिव्यमन्नपानं ददर्श। शक्रोपनिमन्त्रणाहूतानि चानेकानि प्रत्येकबुद्धशतानि व्यायताबद्धपरिकरांश्च परिवेषणसज्जाननेकांश्च देवकुमारान्।



तेनान्नपानविधिना स मुनिर्महर्षीन्

संतर्पयन्मुदमुदारतरामवाप।

वृत्त्या च तापसजनोचितयाभिरेमे

ध्यानाप्रमाणनियमेन शमेन चैव॥३९॥



तदेवं तपोवनस्थानामप्यलंकारस्त्यागशौर्यं प्रागेव गृहस्थानामिति त्यागशौर्येणालंकर्तव्य एवात्मा सत्पुरुषेणेति। दानपतिसंप्रहर्षणायामप्युन्नेयं लोभद्वेषमोहबाल्यविगर्हायां कल्याणमित्रसंपर्कगुणे संतोषकथायां तथागतमाहात्म्ये च। एवं पूर्वजन्मस्वपि सुभाषितरत्नातिशयाकरः स भगवान् प्रागेव संबुद्ध इति।



इत्यगस्त्य-जातकं सप्तमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project