Digital Sanskrit Buddhist Canon

६ शशजातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 śaśajātakam

६. शशजातकम्



तिर्यग्गतानामपि सतां महात्मनां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा। केन नाम मनुष्यभूतेन न दातव्यं स्यात् ? तद्यथानुश्रूयते-



कस्मिंश्चिदरण्यायतनप्रदेशे मनोज्ञवीरुत्तृणतरुगहननिचिते पुष्पफलवति वैडूर्यनीलशुचिवाहिन्या सरिता विभूषितपर्यन्ते मृदुशाद्वलास्तरणसुखसंस्पर्शदर्शनीयधरणीतले तपस्विजनविचरिते बोधिसत्त्वः शशो बभूव।



स सत्त्वयोगाद्वपुषश्च संपदा बलप्रकर्षाद्विपुलेन चौजसा।

अतर्कितः क्षुद्रमृगैरशङ्कितश्चचार तस्मिन्मृगराजलीलया॥१॥



स्वचर्माजिनसंवीतः स्वतनूरुहवल्कलः।

मुनिवत्तत्र शुशुभे तुष्टचित्तस्तृणाङ्कुरैः॥२॥



तस्य मैत्र्यवदातेन मनोवाक्कायकर्मणा।

आसुर्जृम्भितदौरात्म्याः प्रायः शिष्यमुखा मृगाः॥३॥



तस्य गुणातिशयसंभृतेन स्नेहगौरवेण विशेषवत्तरमवबद्धहृदयास्तु ये सहाया बभूवुरुद्रः शृगालो वानरश्च, ते परस्परसंबन्धनिबद्धस्नेहा इव बान्धवा अन्योन्यप्रणयसंमाननाविरूढसौहार्दा इव च सुहृदः संमोदमानास्तत्र विहरन्ति स्म। तिर्यक्स्वभावविमुखाश्च प्राणिषु दयानुवृत्त्या लौल्यप्रशमाद्विस्मृतस्तेयप्रवृत्त्या धर्माविरोधिन्या च यशोऽनुवृत्त्या पटुविज्ञानत्वाद्विनियमधीरया च सज्जनेष्टया चेष्टया देवतानामपि विस्मयनीया बभूवुः।



सुखानुलोमे गुणबाधिनि क्रमे गुणानुकूले च सुखोपरोधिनि।

नरोऽपि तावद्गुणपक्षसंश्रयाद्विराजते किम्वथ तिर्यगाकृतिः॥४॥



अभूत्स तेषां तु शशाकृतिः कृती परानुकम्पाप्रतिषद्गुरुर्गुरुः।

स्वभावसंपच्च गुणक्रमानुगा यशो यदेषां सुरलोकमप्यगात्॥५॥



अथ कदाचित् स महात्मा सायाह्नसमये धर्मश्रवणार्थमभिगतैः सबहुमानमुपास्यमानस्तैः सहायैः परिपूर्णप्रायमंडलमादित्यविप्रकर्षाद्व्यवदायमानशोभं रूप्यदर्पणमिव त्सरुविरहितमीषत्पार्श्वापवृत्तबिम्बं शुक्लपक्षचतुर्दशीचन्द्रमसमुदितमभिसमीक्ष्य सहायानुवाच-



असावापूर्णशोभेन मण्डलेन हसन्निव।

निवेदयति साधूनां चन्द्रमाः पोषधोत्सवम्॥६॥



तद्व्यक्तं श्वः पञ्चदशी। यतो भवद्भिः पोषधनियममभिसंपादयद्भिर्न्यायोपलब्धेनाहारविशेषेण कालोपनतमतिथिजनं प्रतिपूज्य प्राणसंधारणमनुष्ठेयम्। पश्यन्तु भवन्तः।



यत्संप्रयोगा विरहावसानाः समुच्छ्रयाः पातविरूपनिष्ठाः।

विद्युल्लताभङ्गरलोलमायुस्तेनैव कार्यो दृढमप्रमादः॥७॥



दानेन शीलाभरणेन तस्मात् पुण्यानि संवर्धयितुं यतध्वम्।

विवर्तमानस्य हि जन्मदुर्गे लोकस्य पुण्यानि परा प्रतिष्ठा॥८॥



तारागणानामभिभूय लक्ष्मीं विभाति यत्कान्तिगुणेन सोमः।

ज्योतींषि चाक्रम्य सहस्ररश्मिर्यद्दीप्यते पुण्यगुणोच्छ्रयः सः॥९॥



दृप्तस्वभावाः सचिवा नृपाश्च पुण्यप्रभावात् पृथिवीश्वराणाम्।

सदश्ववृत्त्या हतसर्वगर्वाः प्रीता इवाज्ञाधुरमुद्वहन्ति॥१०॥



पुण्यैर्विहीनाननुयात्यलक्ष्मीर्विस्पन्दमानानपि नीतिमार्गे।

पुण्याधिकैः सा ह्यवभर्त्स्यमाना पर्येत्यमर्षादिव तद्विपक्षान्॥११॥



दुःखप्रतिष्ठादयशोऽनुबद्धादपुण्यमार्गादुपरम्य तस्मात्।

श्रीमत्सु सौख्योदयसाधनेषु पुण्यप्रसङ्गेषु मतिं कुरुध्वम्॥१२॥



ते तथेत्यस्यानुशासनां प्रतिगृह्याभिवाद्य प्रदक्षिणीकृत्य चैनं स्वान्स्वानालयानभिजग्मुः। अचिरगतेषु च तेषु सहायेषु स महात्मा चिन्तामापेदे।



अतिथेरभ्युपेतस्य संमानं येन तेन वा।

विधातुं शक्तिरस्त्येषामत्र शोच्योऽहमेव तु॥१३॥



अस्मद्दन्ताग्रविच्छिन्नाः परितिक्तास्तृणाङ्कराः।

शक्या नातिथये दातुं सर्वथा धिगशक्तिताम्॥१४॥



इत्यसामर्थ्यदीनेन को न्वर्थो जीवितेन मे।

आनन्दः शोकतां यायाद्यस्यैवमतिथिर्मम॥१५॥



तत्कुत्रेदानीमिदमतिथिपरिचर्यावैगुण्ये निःसारं शरीरकमुत्सृज्यमानं कस्यचिदुपयोगाय स्यादिति विमृशन्स महात्मा स्मृतिं प्रतिलेभे।



अये!

स्वाधीनसुलभमेतन्निरवद्यं विद्यते ममैव खलु।

अतिथिजनप्रतिपूजनसमर्थरूपं शरीरधनम्॥१६॥



तत्किमहं विषीदामि?

समधिगतमिदं मयातिथेयं हृदय विमुञ्च यतो विषाददैन्यम्।

समुपनतमनेन सत्करिष्याम्यहमतिथिप्रणयं शरीरकेण॥१७॥



इति विनिश्चत्य स महासत्त्वः परममिव लाभमधिगम्य परमप्रीतमनास्तत्रावतस्थेः।



वितर्कातिशये तस्य हृदये प्रविजृम्भिते।

आविश्चक्रे प्रसादश्च प्रभावश्च दिवौकसाम्॥१८॥



ततः प्रहर्षादिव साचला चला मही बभूवानिभृतार्णवांशुका।

वितस्तनुः खे सुरदुन्दुभिस्वना दिशः प्रसादाभरणाश्चकाशिरे॥१९॥



प्रसक्तमन्दस्तनिताः प्रहासिनस्तडित्पिनद्धाश्च घनाः समन्ततः।

परस्पराश्लेषविकीर्णरेणुभिः प्रसक्तमेनं कुसुमैरवाकिरन्॥२०॥



समुद्वहन्धीरगतिः समीरणः सुगन्धि नानाद्रुमपुष्पजं रजः।

मुदा प्रविद्धैरविभक्तभक्तिभिस्तमर्चयामास कृशांशुकैरिव॥२१॥



तदुपलभ्य प्रमुदितविस्मितमनोभिर्देवताभिः समन्ततः परिकीर्त्यमानं तस्य वितर्काद्भूतं शक्रो देवेन्द्रः समापूर्यमाणविस्मयकौतूहलेन मनसा तस्य महासत्त्वस्य भावजिज्ञासया द्वितीयेऽहनि गगनतलमध्यमभिलङ्घमाने पटुतरकिरणप्रभावे सवितरि प्रस्फुलितमरीचिजालवसनासु भास्वरातपविसरावगुण्ठितास्वनालोकनक्षमासु दिक्षु संक्षिप्यमाणच्छायेष्वभिवृद्धचीरीविरावोन्नादितेषु वनान्तरेषु विच्छिद्यमानपक्षिसंपातेषु धर्मक्लमापीतोत्साहेष्वध्वगेषु शक्रो देवानामधिपतिर्ब्राह्मणरूपो भूत्वा मार्गप्रनष्ट इव क्षुत्तर्षश्रमविषाददीनकण्ठः सस्वरं प्ररुदन्नातिदूरे तेषां विचुक्रोश।



एकं सार्थात्परिभ्रष्टं भ्रमन्तं गहने वने।

क्षुच्छ्रमक्लान्तदेहं मां त्रातुमर्हन्ति साधवः॥२२॥



मार्गामार्गज्ञाननिश्चेतनं मां दिक्संमोहात्क्वापि गच्छन्तमेकम्।

कान्तारेऽस्मिन्धर्मतर्षक्लमार्तं मा भैः शब्दैः को नु मां ह्लादयेत॥२३॥



अथ ते महासत्त्वास्तस्य तेन करुणेनाक्रन्दितशब्देन समाकम्पितहृदयाः ससंभ्रमा द्रुततरगतयस्तं देशमभिजग्मुः। मार्गप्रनष्टाध्वगदीनदर्शनं चैनमभिसमीक्ष्य समभिगम्योपचारपुरःसरं समाश्वासयन्त ऊचुः-



कान्तारे विप्रनष्टोऽहमित्यलं विभ्रमेण ते।

स्वस्य शिष्यगणस्येव समीपे वर्तसे हि नः॥२४॥



तदद्य तावदस्माकं परिचर्यापरिग्रहात्।

विधायानुग्रहं सौम्य श्चो गन्तासि यथेप्सितम्॥२५॥



अथोद्रस्तस्य तूष्णींभावादनुमतमुपनिमन्त्रणमवेत्य हर्षसंभ्रमत्वरितगतिः सप्त रोहितमत्स्यान्समुपनीयावोचदेनम्-



मीनारिभिर्विस्मरणोज्झिता वा त्रासोत्प्लुता वा स्थलमभ्युपेताः।

खेदप्रसुप्ता इव सप्त मत्स्या लब्धा मयैतान्निवसेह भुक्त्वा॥२६॥

अथ शृगालोऽप्येनं यथोपलब्धमन्नजातमुपसंहृत्य प्रणामपुरःसरं सादरमित्युवाच-



एका च गोधा दघिभाजनं च केनापि संत्यक्तमिहाध्यगच्छम्।

तन्मे हितावेक्षितयोपयुज्य वनेऽस्तु तेऽस्मिन्गुणवास वासः॥२७॥

इत्युक्त्वा परमप्रीतमनास्तदस्मै समुपजहार।



अथ वानरः परिपाकगुणादुपजातमार्दवानि मनःशिलाचूर्णरञ्जितानीवातिपिञ्जराण्यतिरक्तबन्धनमूलानि पिण्डीगतान्याम्रफलान्यादाय साञ्जलिप्रग्रहमेनमुवाच-



आम्राणि पक्वान्युदकं मनोज्ञं छाया च सत्संगमसौख्यशीता।

इत्यस्ति मे ब्रह्मविदां वरिष्ठ भुक्त्वैतदत्रैव तवास्तु वासः॥२८॥



अथ शशः समुपसृत्यैनमुपचारक्रियानन्तरं सबहुमानमुदीक्षमाणः स्वेन शरीरेणोपनिमन्त्रयामास-



न सन्ति मुद्गा न तिला न तण्डुला वने विवृद्धस्य शशस्य केचन।

शरीरमेतत्त्वनलाभिसंस्कृतं ममोपयुज्याद्य तपोवने वस॥२९॥



यदस्ति यस्येप्सितसाधनं धनं स तन्नियुङ्क्तेऽर्थिसमागमोत्सवे।

न चास्ति देहादधिकं च मे धनं प्रतीच्छ सर्वस्वमिदं यतो मम॥३०॥



शक्र उवाच-

अन्यस्यापि वधं तावत्कुर्यादस्मद्विधः कथम्।

इति दर्शितसौहार्दे कथा कैव भवद्विधे॥३१॥



शश उवाच-उपपन्नरूपमिदमासन्नानुक्रोशे ब्राह्मणे। तदिहैव तावद्भवानास्तामस्मदनुग्रहापेक्षया यावत्कुतश्चिदात्मानुग्रहोपायमासादयामीति। अथ शक्रो देवानामिन्द्रस्तस्य भावमवेत्य तप्ततपनीयवर्णं स्फुरत्प्रतनुज्वालं विकीर्यमाणविस्फुलिङ्गप्रकरं निर्धूममङ्गारराशिमभिनिर्ममे। अथ शशः समन्ततोऽनुविलोकयंस्तमग्निस्कन्धं ददर्श। दृष्ट्वा च प्रीतमनाः शक्रमुवाच-समधिगतोऽयं मयात्मानुग्रहोपायः। तदस्मच्छरीरोपयोगात्सफलामनुग्रहाशां मे कर्तुंमर्हसि। पश्य महाब्राह्मण।



देयं च दित्साप्रवणं च चित्तं भवद्विधेनातिथिना च योगः।

नावाप्तुमेतद्धि सुखेन शक्यं तत्स्यादमोघं भवदाश्रयान्मे॥३२॥



इत्यनुनीय स महात्मा संमाननादरादतिथिप्रियतया चैनमभिवाद्य,

ततः स तं वह्निमभिज्वलन्तं निधिं धनार्थी सहसैव दृष्ट्वा।

परेण हर्षेण समारुरोह तोयं हसत्पद्ममिवैकहंसः॥३३॥



तद्दृष्ट्वा परमविस्मयावर्जितमतिर्देवानामधिपतिः स्वमेव वपुरास्थाय दिव्यकुसुमवर्षपुरःसरीभिर्मनःश्रुतिसुखाभिर्वाग्भिरभिपूज्य तं महासत्त्वं कमलपलाशलक्ष्मीसमृद्धाभ्यां भासुराङ्गलीभूषणालंकृताभ्यां पाणिभ्यां स्वयमेव चैनं परिगृह्य त्रिदशेभ्यः संदर्शयामास। पश्यन्त्वत्रभवन्तस्त्रिदशालयनिवासिनो देवाः, समनुमोदन्तां चेदमतिविस्मयनीयं कर्मावदानमस्य महासत्त्वस्य।



त्यक्तं बतानेन यथा शरीरं निःशङ्कमद्यातिथिवत्सलेन।

निर्माल्यमप्येवमकम्पमाना नालं परित्यक्तुमधीरसत्त्वाः॥३४॥



जातिः क्वेयं तद्विरोधि क्व चेदं त्यागौदार्यं चेतसः पाटवं च।

विस्पष्टोऽयं पुण्यमन्दादराणां प्रत्यादेशो देवतानां नृणां च॥३५॥



अहो बत गुणाभ्यासवासितास्य यथा मतिः।

अहो सद्‍वृत्तवात्सल्यं क्रियौदार्येण दर्शितम्॥३६॥



अथ शक्रस्तत्कर्मातिशयविख्यापनार्थं लोकहितावेक्षी शशबिम्बलक्षणेन वैजयन्तस्य प्रासादवरस्य सुधर्मायाश्च देवसभायाः कूटागारकर्णिके चन्द्रमण्डलं चाभ्यलंचकार।



सम्पूर्णेऽद्यापि तदिदं शशबिम्बं निशाकरे।

छायामयमिवादर्शे राजते दिवि राजते॥३७॥



ततः प्रभृति लोकेन कुमुदाकरहासनः।

क्षणदातिलकश्चन्द्रः शशाङ्क इति कीर्त्यते॥३८॥



तेऽप्युद्रशृगालवानरास्ततश्च्युत्वा देवलोक उपपन्नाः कल्याणमित्रं समासाद्य।



तदेवं तिर्यग्गतानामपि महासत्त्वानां शक्त्यनुरूपा दानप्रवृत्तिर्दृष्टा। केन नाम मनुष्यभूतेन न दातव्यं स्यात् ? तथा तिर्यग्गता अपि गुणवात्सल्यात् संपूज्यन्ते सद्भिरिति गुणेष्वादरः कार्य इत्येवमप्युन्नेयम्।



इति शश-जातकं षष्ठम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project