Digital Sanskrit Buddhist Canon

५ अविषह्यश्रेष्ठि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 aviṣahyaśreṣṭhi-jātakam

५. अविषह्यश्रेष्ठि-जातकम्



न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषाः। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवांस्त्यागशीलकुलविनयश्रुतज्ञानाविस्मयादिगुणसमुदितो धनदायमानो विभवसंपदा सर्वातिथित्वादनुपरतदानसत्रो लोकहितार्थप्रवृत्तो दायकश्रेष्ठः श्रेष्ठी बभूव मात्सर्यादिदोषाविषह्योऽविषह्य इति प्रकाशनामा।



इष्टार्थसंपत्तिविमर्शनाशात् प्रीतिप्रबोधस्य विशेषहेतुः।

यथार्थिनां दर्शनमास तस्य तथार्थिनां दर्शनमास तस्य॥१॥



देहीति याच्ञानियतार्थमुक्तो नास्तीति नासौ गदितुं शशाक।

हृतावकाशा हि बभूव चित्ते तस्यार्थसक्तिः कृपया महत्या॥२॥



तस्यार्थिभिर्निर्ह्रियमाणसारे गृहे बभूवाभ्यधिकप्रहर्षः।

विवेद स ह्युग्रघनाननर्थानकारणक्षिप्रविरागिणोऽर्थान्॥३॥



भवन्ति लोकस्य हि भूयसार्था लोभाश्रयाद् दुर्गतिमार्गसार्थाः।

परात्मनोरभ्युदयावहत्वादर्थास्तदीयास्तु बभुर्यथार्थाः॥४॥



अथ तस्य महासत्त्वस्य यथाभिलषितैरक्लिष्टैः शिष्टोपचारविभूषणैर्विपुलैरर्थविसर्गैर्याचनकजनं समन्ततः संतर्पयतः प्रदानौदार्यश्रवणाद्विस्मयावर्जितमनाः शक्रो देवेन्द्रः प्रदानस्थिरनिश्चयमस्य जिज्ञासमानः प्रत्यहं धनधान्यरत्नपरिच्छदजातं तत्तदन्तर्धापयामास। अपि नामायं विभवपरिक्षयाशङ्कयापि मात्सर्याय प्रतार्येतेति। प्रदानाधिमुक्तस्य तु पुनर्महासत्त्वस्य



यथा यथा तस्य विनेशुरर्थाः सूर्याभिसृष्ट इव तोयलेशाः।

तथा तथैनान् विपुलैः प्रदानैर्गृहात्प्रदीप्तादिव निर्जहार॥५॥



अथ शक्रो देवेन्द्रस्त्यागपरायणमेव तं महासत्त्वमवेत्य प्रक्षीयमाणविभवसारमपि विस्मिततरमतिस्तस्यैकरात्रेण सर्वं विभवसारमन्तर्धापयामासान्यत्र रज्जुकुण्डलाद्दात्राच्चैकस्मात्। अथ बोधिसत्त्वः प्रभातायां रजन्यां यथोचित्तं प्रतिविबुद्धः पश्यति स्म धनधान्यपरिच्छदपरिजनविभवशून्यं निष्कूजदीनं स्वभवनं राक्षसैरिवोद्वासितमनभिरामदर्शनीयं, किमिति च समुत्थितवितर्कः समनुविचरंस्तद्रज्जुकुण्डलकं दात्रं च केवलमत्र ददर्श। तस्य चिन्ता प्रादुरभवत्-यदि तावत् केनचिद्याचितुमनुचितवचसा स्वविक्रमोपार्जितोपजौविना मद्गृहे प्रणय एवं दर्शितः सूपयुक्ता एवमर्थाः। अथ त्विदानीं मद्भाग्यदोषादुच्छ्रयमसहमानेन केनचिदनुपयुक्ता एव विद्रुतास्तत्कष्टम्।



चलं सौहृदमर्थानां विदितं पूर्वमेव मे।

अर्थिनामेव पीडा तु दहत्यत्र मनो मम॥६॥



प्रदानसत्कारसुखोचिताश्चिरं

विविक्तमर्थैरभिगम्य मद्गृहम्।

कथं भविष्यन्ति नु ते ममार्थिनः

पिपासिताः शुष्कमिवागता ह्रदम्॥७॥



अथ स बोधिसत्त्वः स्वधैर्यावष्टम्भादनास्वादितविषाददैन्यस्तस्यामप्यवस्थायामनभ्यस्तयाच्ञाक्रमत्वात् परान् याचितुं परिचितानपि न प्रसेहे। एवं दुष्करं याचितुमिति च तस्य भूयसी याचनकेष्वनुकम्पा बभूव। अथ स महात्मा याचनकजनस्वागतादिक्रियावेक्षया स्वयमेव तद्रज्जुकुण्डलकं दात्रं च प्रतिगृह्य प्रत्यहं तृणविक्रयोपलब्धया विभवमात्रयार्थिजनप्रणयसम्माननां चकार। अथ शक्रो देवेन्द्रस्तस्येमामविषादितां परमेऽपि दारिद्र्ये प्रदानाभिमुखतां चावेक्ष्य सविस्मयबहुमानः संदृश्यमानदिव्याद्भुतवपुरन्तरिक्षे स्थित्वा दानाद्विच्छन्दयंस्तं महासत्त्वमुवाच-गृहपते !



सुहृन्मनस्तापकरीमवस्थामिमामुपेतस्त्वमतिप्रदानैः।

न दस्युभिर्नैव जलानलाभ्यां न राजभिः संह्रियमाणवित्तः॥८॥



तत्त्वां हितावेक्षितया ब्रवीमि नियच्छ दाने व्यसनानुरागम्।

इत्थंगतः सन्नपि चेन्न दद्या यायाः पुनः पूर्वसमृद्धिशोभाम्॥९॥



शश्वत् कृशेनापि परिव्ययेण कालेन दृष्ट्वा क्षयमर्जनानाम्।

चयेन वल्मीकसमुच्छ्रयांश्च वृद्ध्यर्थिनः संयम एव पन्थाः॥१०॥



अथ बोधिसत्त्वः प्रदानाभ्यासमाहात्म्यं विदर्शयञ्छक्रमुवाच-



अनार्यमार्येण सहस्रनेत्र सुदुष्करं सुष्ठ्वपि दुर्गतेन।

मा चैव तद्भून्मम शक्र वित्तं यत्प्राप्तिहेतोः कृपणाशयः स्याम्॥११॥



इच्छन्ति याच्ञामरणेन गन्तुं दुःखस्य यस्य प्रतिकारमार्गम्।

तेनातुरान् कः कुलपुत्रमानी नास्तीति शुष्काशनिनाभिहन्यात्॥१२॥



तन्मद्विधः किं स्विदुपाददीत रत्नं धनं वा दिवि वापि राज्यम्।

याच्ञाभितापेन विवर्णितानि प्रसादयेन्नार्थिमुखानि येन॥१३॥



मात्सर्यदोषोपचयाय यः स्यान्न त्यागचित्तं परिबृंहयेद्वा।

स त्यागमेवार्हति मद्विधेभ्यः परिग्रहच्छद्ममयो विघातः॥१४॥



विद्युल्लतानृत्तचले धने च साधारणे नैकविघातहेतौ।

दाने निदाने च सुखोदयानां मात्सर्यमार्यः क इवाश्रयेत॥१५॥



तद्दर्शिता शक्र मयि स्वतेयं हिताभिधानादनुकम्पितोऽस्मि।

स्वभ्यस्तहर्षं तु मनः प्रदानैस्तदुत्पथे केन धृतिं लभेत॥१६॥



न चात्र मन्योरनुवृत्तिमार्गे चित्तं भवानर्हति संनियोक्तुम्।

न हि स्वभावस्य विपक्षदुर्गमारोढुमल्पेन बलेन शक्यम्॥१७॥



शक्र उवाच-गृहपते ! पर्याप्तविभवस्य परिपूर्णकोशकोष्ठागारस्य सम्यक्प्रवृत्तविविधविपुलकर्मान्तस्य विरूढायतेर्लोके वशीकृतैश्वर्यस्यायं क्रमो नेमां दशामभिप्रपन्नस्य। पश्य-



स्वबुद्धिविस्पन्दसमाहितेन वा यशोऽनुकूलेन कुलोचितेन वा।

समृद्धिमाकृष्य शुभेन कर्मणा सपत्नतेजांस्यभिभूय भानुवत्॥१८॥



जने प्रसङ्गेन वितस्य सद्गतिं प्रबोध्य हर्षं ससुहृत्सु बन्धुषु।

अवाप्तसंमानविधिर्नृपादपि श्रिया परिष्वक्त इवाभिकामया॥१९॥



अथ प्रदाने प्रविजृम्भितक्रमः सुखेषु वा नैति जनस्य वाच्यताम्।

अजातपक्षः खमिवारुरुक्षया विघातभाक्केवलया तु दित्सया॥२०॥



यतो धनं संयमनैभृताश्रयादुपार्ज्यतां तावदलं प्रदित्सया।

अनार्यताप्यत्र च नाम का भवेन्न यत्प्रदद्या विभवेष्वभाविषु॥२१॥



बोधिसत्त्व उवाच-अलमतिनिर्बन्धेनात्रभवतः।



आत्मार्थः स्याद्यस्य गरीयान् परकार्यात्

तेनापि स्याद्देयमनादृत्य समृद्धिम्।

नैति प्रीतिं तां हि महत्यापि विभूत्या

दानैस्तुष्टिं लोभजयाद्यामुपभुङ्क्ते॥२२॥



नैति स्वर्गं केवलया यच्च समृद्ध्या

दानेनैव ख्यातिमवाप्नोति च पुण्याम्।

मात्सर्यादीन्नाभिभवत्येव च दोषां-

स्तस्या हेतोर्दानमतः को न भजेत॥२३॥



त्रातुं लोकान्यस्तु जरामृत्युपरीता-

नप्यात्मानं दित्सति कारुण्यवशेन।

यो नास्वादं वेत्ति सुखानां परदुःखैः

कस्तस्यार्थस्त्वद्गतया स्यादपि लक्ष्म्या॥२४॥



अपि च देवेन्द्र

संपत्तिरिव वित्तानामध्रुवा स्थितिरायुषः।

इति याचनकं लब्ध्वा न समृद्धिरवेक्ष्यते॥२५॥



एको रथश्च भुवि यद्विदधाति वर्त्म

तेनापरो व्रजति धृष्टतरं तथान्यः।

कल्याणमाद्यमिममित्यवधूय मार्गं

नासत्पथप्रणयने रमते मनो मे॥२६॥



अर्थश्च विस्तरमुपैष्यति चेत्पुनर्मे

हर्ता मनांसि नियमेन स याचकानाम्।

एवंगतेऽपि च यथाविभवं प्रदास्ये

मा चैव दाननियमे प्रमदिष्म शक्र॥२७॥



इत्युक्ते शक्रो देवेन्द्रः समभिप्रसादितमनाः साधु साध्वित्येनमभिसंराध्य सबहुमानस्निग्धमवेक्षमाण उवाच-



यशःसपत्नैरपि कर्मभिर्जनः समृद्धिमन्विच्छति नीचदारुणैः।

स्वसौख्यसङ्गादनवेक्षितात्ययः प्रतार्यमाणश्चपलेन चेतसा॥२८॥



अचिन्तयित्वा तु धनक्षयं त्वया स्वसौख्यहानिं मम च प्रतारणाम्।

परार्थसंपादनधीरचेतसा महत्त्वमुद्भावितमात्मसंपदः॥२९॥



अहो बतौदार्यविशेषभास्वतः प्रमृष्टमात्सर्यतमिस्रता हृदः।

प्रदानसंकोचविरूपतां गतं धने प्रनष्टेऽपि न यत्तदाशया॥३०॥



न चात्र चित्रं परदुःखदुःखिनः कृपावशाल्लोकहितैषिणस्तव।

हिमावदातः शिखरीव वायुना न यत्प्रदानादसि कम्पितो मया॥३१॥



यशः समुद्भावयितुं परीक्षया धनं तवेदं तु निगूढवानहम्।

मणिर्हि शोभानुगतोऽप्यतोऽन्यथा न संस्पृशेद्रत्नयशोमहार्घताम्॥३२॥



यतः प्रदानैरभिवर्ष याचकान् ह्रदान् महामेघ इवाभिपूरयन्।

धनक्षयं नाप्स्यसि मत्परिग्रहादिदं क्षमेथाश्च विचेष्टितं मम॥३३॥



इत्येनमभिसंराध्य शक्रस्तच्चास्य विभवसारमुपसंहृत्य क्षमयित्वा च तत्रैवान्तर्दधे।



तदेवं न विभवक्षयावेक्षया समृद्ध्याशया वा प्रदानवैधुर्यमुपयान्ति सत्पुरुषा इति।



इत्यविषह्यश्रेष्ठि-जातकं पञ्चमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project