Digital Sanskrit Buddhist Canon

४ श्रेष्ठि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 śreṣṭhi-jātakam

४. श्रेष्ठि-जातकम्



अत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः। केन नाम स्वस्थेन न दातव्यं स्यात्? तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवान्भाग्यातिशयगुणादुत्थानसम्पदा चाधिगतविपुलधनसमृद्धिरविषमव्यवहारशीलत्वाल्लोके बहुमाननिकेतभूत उदाराभिजनवाननेकविद्याकलाविकल्पाधिगमविमलतरमतिर्गुणमाहात्म्याद्राज्ञा समुपहृतसम्मानः प्रदानशीलत्वाल्लोकसाधारणविभवः श्रेष्ठी बभूव।



अर्थिभिः प्रीतहृदयैः कीर्त्यमानमितस्ततः।

त्यागशौर्योन्नतं नाम तस्य व्याप दिशो दश॥१॥



दद्यान्न दद्यादिति तत्र नासीद्विचारदोलाचलमानसोऽर्थी।

ख्यातावदाने हि बभूव तस्मिन्विस्रम्भधृष्टप्रणयोऽर्थिवर्गः॥२॥



नाऽसौ जुगोपात्मसुखार्थमर्थं न स्पर्धया लोभपराभवाद्वा।

सत्त्वार्थिदुःखं न शशाक सोढुं नास्तीति वक्तुं च ततो जुगोप॥३॥



अथ कदाचित्तस्य महासत्त्वस्य भोजनकाले स्नातानुलिप्तगात्रस्य कुशलोदारसूदोपकल्पिते समुपस्थितेवर्णगन्धरसस्पर्शादिगुणसमुदिते विचित्रे भक्ष्यभोज्यादिविधौ तत्पुण्यसम्भाराभिवृद्धिकामो ज्ञानाग्निनिर्दग्धसर्वक्लेशेन्धनः प्रत्येकबुद्धस्तद्गृहमभिजगाम भिक्षार्थी। समुपेत्य च द्वारकोष्ठके व्यतिष्ठत।



अशङ्किताचञ्चलधीरसौम्यमवेक्षमाणो युगमात्रमुर्व्याः।

तत्रावतस्थे प्रशमाभिजातः स पात्रसंसक्तकराग्रपद्मः॥४॥



अथ मारः पापीयान्बोधिसत्त्वस्य तां दानसम्पदममृष्यमाणस्तद्विध्नार्थमन्तरा च तं भदन्तमन्तरा च द्वारदेहलीं प्रचलज्वालाकरालोदरमनेकपौरुषमतिगम्भीरं भयानकदर्शनं सप्रतिभयनिर्घोषं नरकमभिनिर्ममे विस्फुरद्भिरनेकैर्जनशतैराचितम्।



अथ बोधिसत्त्वः प्रत्येकबुद्धं भिक्षार्थिनमभिगतमालोक्य पत्नीमुवाच-भद्रे ! स्वयमार्याय पर्याप्तं पिण्डपातं देहीति। सा तथेति प्रतिश्रुत्य प्रणीतं भक्ष्यभोज्यमादाय प्रस्थिता। नरकमालोक्य द्वारकोष्ठकसमीपे भयविषादचञ्चलाक्षी सहसा न्यवर्तत। किमेतदिति च भर्त्रा पर्यनुयुक्ता समापतितसाध्वसापिहितकण्ठी तत्कथञ्चित्तस्मै कथयामास।



अथ बोधिसत्त्वः कथमयमार्यो मद्गृहादनवाप्तभिक्ष एव प्रतियास्यतीति ससम्भ्रमं तत्तस्याः कथितमनादृत्य स्वयमेव च प्रणीतं भक्ष्यभोज्यमादाय तस्य महात्मनः पिण्डपातं प्रतिपादयितुकामो द्वारकोष्ठकसमीपमभिगतस्तमतिभीषणमन्तरा नरकं ददर्श। तस्य किं स्विदिदमिति समुत्पन्नवितर्कस्य मारः पापीयान्भवनभित्तेर्विनिःसृत्य संदृश्यमानदिव्याद्भूतवपुरन्तरिक्षे स्थित्वा हितकाम इव नामाब्रवीत्-गृहपते महारौरवनामायं महानरकः।



अर्थिप्रशंसावचनप्रलुब्धा दित्सन्ति दानव्यसनेन येऽर्थान्।

शरत्सहस्राणि बहूनि तेषामस्मिन्निवासोऽसुलभप्रवासः॥५॥



अर्थस्त्रिवर्गस्य विशेषहेतुस्तस्मिन्हते केन हतो न धर्मः।

धर्मं च हत्वार्थनिबर्हणेन कथं नु न स्यान्नरकप्रतिष्ठः॥६॥



दानप्रसङ्गेन च धर्ममूलं घ्नता त्वयार्थं यदकारि पापम्।

त्वामत्तुमभ्युद्गतमेतदस्माज्ज्वालाग्रजिह्वं नरकान्तकास्यम्॥७॥



तत्साधु दानाद्विनियच्छ बुद्धिमेवं हि सद्यःपतनं न ते स्यात्।

विचेष्टमानैः करुणं रुदद्भिर्मा दातृभिर्गाः समताममीभिः॥८॥



प्रतिग्रहीता तु जनोऽभ्युपैति निवृत्तदानापनयः सुरत्वम्।

तत्स्वर्गमार्गावरणाद्विरम्य दानोद्यमात्संयममाश्रयस्व॥९॥



अथ बोधिसत्त्वो नूनमस्यैतद्‍दुरात्मनो मम दानविघ्नाय विचेष्टितमित्यवगम्य सत्त्वावष्टम्भधीरं विनयमधुराविच्छेदं नियतमित्यवोचदेनम्।



अस्मद्धितावेक्षणदक्षिणेन विदर्शितोऽयं भवतार्यमार्गः।

युक्ता विशेषेण च दैवतेषु परानुकम्पानिपुणा प्रवृत्तिः॥१०॥



दोषोदयात्पूर्वमनन्तरं वा युक्तं तु तच्छान्तिपथेन गन्तुम्।

गते प्रयासं ह्युपचारदोषैर्व्याधौ चिकित्साप्रणयो विघातः॥११॥



इदं च दानव्यसनं मदीयं शङ्के चिकित्साविषयव्यतीतम्।

तथा ह्यनादृत्य हितैषितां ते न मे मनः सङ्कचति प्रदानात्॥१२॥



दानादधर्मं च यदूचिवांस्त्वमर्थं च धर्मस्य विशेषहेतुम्।

तन्मानुषी नेयमवैति बुद्धिर्दानादृते धर्मपथो यथार्थः॥१३॥



निधीयमानः स नु धर्महेतुश्चौरैः प्रसह्याथ विलुप्यमानः।

ओघोदरान्तर्विनिमग्नमूर्तिर्हुताशनस्याशनतां गतो वा॥१४॥



यच्चात्थ दाता नरकं प्रयाति प्रतिग्रहीता तु सुरेन्द्रलोकम्।

विवर्धितस्तेन च मे त्वयाऽयं दानोद्यमः संयमयिष्यतापि॥१५॥



अनन्यथा चास्तु वचस्तवेदं स्वर्गं च मे याचनका व्रजन्तु।

दानं हि मे लोकहितार्थमिष्टं नेदं स्वसौख्योदयसाधनाय॥१६॥



अथ स मारः पापीयान्पुनरपि बोधिसत्त्वं हितैषीव धीरहस्तेनोवाच-

हितोक्तिमेतां मम चापलं वा समीक्ष्य येनेच्छसि तेन गच्छ।

सुखान्वितो वा बहुमानपूर्वं स्मर्तासि मां विप्रतिसारवान्वा॥१७॥



बोधिसत्त्व उवाच-म र्ष ! मर्षयतु भवान्।



कामं पतामि नरकं स्फुरदुग्रवह्निं

ज्वालावलीढशिथिलावनतेन मूर्ध्ना।

न त्वर्थिनां प्रणयदर्शितसौहृदानां

सम्मानकालमवमाननया हरिष्ये॥१८॥



इत्युक्त्वा बोधिसत्त्वः स्वभाग्यबलावष्टम्भाज्जानानश्च निरत्ययतां दानस्य निवारणैकरसमवधूय स्वजनपरिजनं साध्वसानभिभूतमतिरभिवृद्धदानाभिलाषो नरकमध्येन प्रायात्।



पुण्यानुभावादथ तस्य तस्मिन्नपङ्कजं पङ्कजमुद्बभूव।

अवज्ञयेवावजहास मारं यच्छुक्लया केशरदन्तपङ्कत्या॥१९॥



अथ बोधिसत्त्वः पद्मसंक्रमेण स्वपुण्यातिशयनिर्जातेनाभिगम्य प्रत्येकबुद्धं प्रसादसंहर्षापूर्णहृदयः पिण्डपातमस्मै प्रायच्छत्।



मनःप्रसादप्रतिबोधनार्थं तस्याथ भिक्षुर्वियदुत्पपात।

वर्षञ्ज्वलंश्चैव स तत्र रेजे सविद्युदुद्‍द्योतपयोदलक्ष्म्या॥२०॥



अवमृदितमनोरथस्तु मारो द्युतिपरिमोषमवाप्य वैमनस्यात्।

तमभिमुखमुदीक्षितुं न सेहे सह नरकेण ततस्तिरोबभूव॥२१॥



तत्किमिदमुपनीतम् ? एवमत्ययमप्यविगणय्य दित्सन्ति सत्पुरुषाः। केन नाम स्वस्थेन न दातव्यं स्यात् ? न सत्त्ववन्तः शक्यन्ते भयादप्यगतिं गमयितुमित्येवमप्युन्नेयम्।



इति श्रेष्ठिजातकं चतुर्थम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project