Digital Sanskrit Buddhist Canon

३ कुल्माषपिण्डी-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3 kulmāṣapiṇḍī-jātakam
३. कुल्माषपिण्डी-जातकम्



चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वात्। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवान्कोशलाधिपतिर्बभूव। तस्योत्साहमन्त्रप्रभू [त्वशक्तिसम्पत्प्रभृतीनां प्रकर्षिणामपि राजगुणानां विभूतिमतिशिश्ये दैवसम्पद्गुणशोभा।



गुणास्तस्याधिकं रेजुर्दैवसमपद्विभूषणाः।

किरणा इव चन्द्रस्य शरदुन्मीलितश्रियः॥१॥



तत्याज दृप्तानपि तस्य शत्रून् रक्तेव रेमे तदपाश्रितेषु।

इत्यास तस्यान्यनराधिपेषु कोपप्रसादानुविधायिनी श्रीः॥२॥



धर्मात्मकत्वान्न च नाम तस्य परोपतापाशिवमास चेतः।

भृत्यानुरागस्तु तथा जजृम्भे द्विषत्सु लक्ष्मीर्न यथास्य रेमे॥३॥



सोऽनन्तरातीतां स्वजातिमनुसस्मार। तदनुस्मरणाच्च समुपजातसंवेगो विशेषवत्तरं श्रमणब्राह्मणकृपणवनीपकेभ्यः सुखहेतुनिदानं दानमदाच्छीलसंवरमनवरतं पुपोष पोषधनियमं च पर्वदिवसेषु समाददे। अभीक्ष्णं च राजा पर्षदि स्वस्मिंश्चान्तःपुरे पुण्यप्रभावोद्भावनाल्लोकं श्रेयसि नियोक्तुकामः प्रतीतहृदयो गाथाद्वयमिति नियतार्थं बभाषे-



न सुगतपरिचर्या विद्यते स्वल्पिकापि

प्रतनुफलविभूतिर्यच्छ्रुतं केवलं प्राक्।

तदिदमलवणायाः शुष्करूक्षारूणायाः

फलविभवमहत्त्वं पश्य कुल्माषपिण्ड्याः॥४॥



रथतुरगविचित्रं मत्तनागेन्द्रनीलं

बलमकृशमिदं मे मेदिनी केवला च।

बहु धनमनुरक्ता श्रीरुदाराश्च दाराः

फलसमुदयशोभां पश्य कुल्माषपिण्ड्याः॥५॥



तममात्या ब्राह्मणवृद्धाः पौरमुख्याश्च कौतूहलाधूर्णितमनसोऽपि न प्रसहन्ते स्म पर्यनुयोक्तुं किमभिसमीक्ष्य महाराजो गाथाद्वयमिदमभीक्ष्णं भाषत इति। अथ तस्य राज्ञो वाग्नित्यत्वादव्याहततरप्रणयप्रसरा देवी समुत्पन्नकौतूहला संकथाप्रस्तावागतं पर्षदि पर्यपृच्छदेनम्।



नियतमिति नरेन्द्र भाषसे हृदयगतां मुदमुद्गिरन्निव।

भवति मम कुतूहलाकुलं हृदयमिदं कथितेन तेन ते॥६॥



तदर्हति श्रोतुमयं जनो यदि प्रचक्ष्व तत्किं न्विति भाषसे नृप।

रहस्यमेवं च न कीर्त्यते क्वचित्प्रकाशमस्माच्च मयापि पृच्छ्यते॥७॥



अथ स राजा प्रीत्यभिस्निग्धया दृष्ट्या समभिवीक्ष्य देवीं स्मितप्रविकसितवदन उवाच-



अविभाव्य निमित्तार्थं श्रुत्वोद्गारमिमं मम।

न केवलं तवैवात्र कौतूहलचलं मनः॥८॥



समन्तमप्येतदमात्यमण्डलं कुतूहलाघूर्णितलोलमानसम्।

पुरं च सान्तःपुरमत्र तेन मे निशम्यतां येन मयैवमुच्यते॥९॥



सुप्तप्रबुद्ध इव जातिमनुस्मरामि

यस्यामिहैव नगरे भृतकोऽहमासम्।

शीलान्वितोऽपि धनमात्रसमुच्छ्रितेभ्यः

कर्माभिराधनसमर्जितदीनवृत्तिः॥१०॥



सोऽहं भृतिं परिभवश्रमदैन्यशालां

त्राणाशयात्स्वयमवृत्तिभयाद्विविक्षुः।

भिक्षार्थिनश्च चतुरः श्रमणानपश्यं

वश्येन्द्रियाननुगतानिव भिक्षुलक्ष्म्या॥११॥



तेभ्यः प्रसादमृदुना मनसा प्रणम्य

कुल्माषमात्रकमदां प्रयतः स्वगेहे।

तस्याङ्करोदय इवैष यदन्यराज-

चूडाप्रभाश्चरणरेणुषु मे निषक्ताः॥१२॥



तदेतदभिसन्धाय मयैवं देवि कथ्यते।

पुण्येन च लभे तृप्तिमर्हतां दर्शनेन च॥१३॥



अथ सा देवी प्रहर्षविस्मयविशालाक्षी सबहुमानमुदीक्षमाणा राजानमित्युवाच। उपपन्नरूपः पुण्यानामयमेवंविधो विपाकाभ्युदयविशेषः। पुण्यफलप्रत्यक्षिणश्च महाराजस्य यदयं पुण्येष्वादरः। तदेवमेव पापप्रवृत्तिविमुखः पितेव प्रजानां सम्यक्परिपालनसुमुखः पुण्यगणार्जनाभिमुखः।



यशःश्रिया दानसमृद्धया ज्वलन्प्रतिष्ठिताज्ञः प्रतिराजमूर्धसु।

समीरणाकुञ्चितसागराम्वरां चिरं महीं धर्मनयेन पालय॥१४॥



राजोवाच-किं ह्येतद्देवि न स्यात्?



सोऽहं तमेव पुनराश्रयितुं यतिष्ये

श्रेयःपथं समभिलक्षितरम्यचिह्नम्।

लोकः प्रदित्सति हि दानफलं निशम्य

दास्याम्यहं किमिति नात्मगतं निशम्य॥१५॥



अथ स राजा देवीं देवीमिव श्रिया ज्वलन्तीमभिस्निग्धमवेक्ष्य श्रीसम्पत्तिहेतुकुतूहलहृदयः पुनरुवाच-



चन्द्रलेखेव ताराणां स्त्रीणां मध्ये विराजसे।

अकृथाः किं नु कल्याणि! कर्मातिमधुरोदयम्॥१६॥



देव्युवाच-अस्ति देव किञ्चिदहमपि पूर्वजन्मवृत्तिं समनुस्मरामीति। कथय कथयेदानीमिति च सादरं राज्ञा पर्यनुयुक्तोवाच-



बाल्येऽनुभूतमिव तत्समनुस्मरामि

दासी सती यदहमुद्धृतभक्तमेकम्।

क्षीणास्रवाय मुनये विनयेन दत्त्वा

सुप्तेव तत्र समवापमिह प्रबोधम्॥१७॥



एतत्स्मरामि कुशलं नरदेव ! येन

त्वन्नाथतामुपगतास्मि समं पृथिव्या।

क्षीणास्रवेषु न कृतं तनु नाम किञ्चि-

दित्युक्तवानसि यथैव मुनिस्तथैव॥१८॥



अथ स राजा पुण्यफलप्रदर्शनात्पुण्येषु समुत्पादितबहुमानामभिप्रसन्नमनसं पर्षदं विस्मयैकाग्रामवेत्य नियतमीदृशं किञ्चित्समनुशशास-



अल्पस्यापि शुभस्य विस्तरमिमं दृष्ट्वा विपाकश्रियः

स्यात्को नाम न दानशीलविधिना पुण्यक्रियातत्परः।

नैव द्रष्टुमपि क्षमः स पुरुषः पर्याप्तवित्तोऽपि सन्

यः कार्पण्यतमिस्रयावृतमतिर्नाप्नोति दानैर्यशः॥१९॥



त्यक्तव्यं विवशेन यन्न च तथा कस्मैचिदर्थाय यत्

तन्न्यायेन धनं त्यजन्यदि गुणं कञ्चित्समुद्भावयेत्।

कोऽसौ तत्र भजेत मत्सरपथं जानन्गुणानां रसं

प्रीत्याद्या विविधाश्च कीर्त्यनुसृता दानप्रतिष्ठागुणाः॥२०॥



दानं नाम महानिधानमनुगं चौराद्यसाधारणं

दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः।

संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं

दानं नैकसुखोपधानसुमुखं सन्मित्रमात्यन्तिकम्॥२१॥



विभवसमुदयं वा दीप्तमाज्ञागुणं वा

त्रिदशपुरनिवासं रूपशोभागुणं वा।

यदभिलषति सर्वं तत्समाप्नोति दाना-

दिति परिगणितार्थः को न दानानि दद्यात्॥२२॥



सारादानं दानमाहुर्धनानामैश्वर्याणां दानमाहुर्निदानम्।

दानं श्रीमत्सज्जनत्वावदानं बाल्यप्रज्ञैः पांसुदानं सुदानम्॥२३॥



अथ सा पर्षत्तस्य राज्ञस्तद्ग्राहकं वचनं सबहुमानमभिनन्द्य प्रदानादिप्रतिपत्त्यभिमुखी बभूव।



तदेवं चित्तप्रसादोद्गतं पात्रातिशयप्रतिपादितं च नाल्पकं नाम दानमस्ति विपाकमहत्त्वादिति प्रसन्नचित्तेनानुत्तरे पुण्यक्षेत्र आर्यसंघे दानं ददता परा प्रीतिरुत्पादयितव्या। अदूरे ममाप्येवंविधा अतो विशिष्टतराश्च सम्पत्तय इति।



इति कुल्माषपिण्डी-जातकं तृतीयम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project