Digital Sanskrit Buddhist Canon

२ शिबि-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

2 śibi-jātakam

२. शिबि-जातकम्



दुष्करशतसमुदानीतोऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः। तद्यथानुश्रूयते-



बोधिसत्त्वभूतः किलायं भगवानपरिमितकालाभ्यासात्सात्मीभूतोपचितपुण्यकर्मा कदाचिच्छिबीनां राजा बभूव। स बाल्यात्प्रभृत्येव बृद्धोपासनरतिर्विनयानुरक्तोऽनुरक्तप्रकृतिः प्रकृतिमेधावित्वादनेकविद्याधिगमविपुलतरमतिरुत्साहमंत्रप्रभाव[प्रभुत्व]-शक्तिदैवसंपन्नः स्वा इव प्रजाः प्रजाः पालयति स्म।



तस्मिंस्त्रिवर्गानुगुणा गुणौघाः संहर्षयोगादिव संनिविष्टाः।

समस्तरूपा विबभुर्न चासुर्विरोधसंक्षोभविपन्नशोभाः॥१॥



विडम्बनेवाविनयोद्धतानां दुर्मेधसामापदिवातिकष्टा।

अल्पात्मनां या मदिरेव लक्ष्मीर्बभूव सा तत्र यथार्थनामा॥२॥



उदारभावात्करुणागुणाच्च वित्ताधिपत्याच्च स राजवर्यः।

रेमेऽर्थिनामीप्सितसिद्धिहर्षादक्लिष्टशोभानि मुखानि पश्यन्॥३॥



अथ स राजा दानप्रियत्वात्समन्ततो नगरस्य सर्वोपकरणधनधान्यसमृद्धा दानशालाः कारयित्वा स्वमाहात्म्यानुरूपं यथाभिप्रायसंपादितं सोपचारं मनोहरमनतिक्रान्तकालसुभगं दानवर्षं कृतयुगमेघ इव ववर्ष। अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, शयनासनवसनभोजनगन्धमात्यरजतसुवर्णादिकं तत्तदर्थिभ्यः। अथ तस्य राज्ञः प्रदानौदार्यश्रवणाद्विस्मितप्रमुदितहृदया नानादिगभिलक्षितदेशनिवासिनः पुरुषास्तं देशमुपजग्मुः।



परीत्य कृत्स्नं मनसा नृलोकमन्येष्वलब्धप्रणयावकाशाः।

तमर्थिनः प्रीतमुखाः समीयुर्महाह्रदं वन्यगजा यथैव॥४॥



अथ स राजा समन्ततः समापततो लाभाशाप्रमुदितमनसः पथिकजननेपथ्यप्रच्छादितशोभस्य वनीपकजनस्य



विप्रोषितस्येव सुहृज्जनस्य संदर्शनात्प्रीतिविजृम्भिताक्षः।

याच्ञां प्रियाख्यानमिवाभ्यनन्दद्दत्त्वा च तुष्टयार्थिजनं जिगाय॥५॥



दानोद्भवः कीर्तिमयः सुगन्धस्तस्यार्थिनां वागनिलप्रकीर्णः।

मदं जहारान्यनराधिपानां गन्धद्विपस्येव परद्विपानाम्॥६॥



अथ कदाचित्स राजा दानशालाः समनुविचरंस्तृप्तत्वादर्थिजनस्य प्रविरलं याचकजनसंपातमभिसमीक्ष्य दानधर्मस्यानुत्सर्पणान्न तुष्टिमुपजगाम।



तर्ष विनिन्येऽर्थिजनस्तमेत्य न त्वर्थिनः प्राप्य स दानशौण्डः।

न ह्यस्य दानव्यवसायमर्थी याच्ञाप्रमाणेन शशाक जेतुम्॥७॥



तस्य बुद्धिरभवत्-अतिसभाग्यास्ते सत्पुरुषविशेषा ये विस्रम्भनिर्यन्त्रणप्रणयमर्थिभिः स्वगात्राण्यपि याच्यन्ते। मम पुनः प्रत्याख्यानरूक्षाक्षरवचनसंतर्जित इवार्थिजनो धनमात्रकेऽप्रगल्भप्रणयः संवृत्त इति।



अथ क्षितीशस्य तमत्युदारं गात्रेष्वपि स्वेषु निवृत्तसङ्गम्।

विज्ञाय दानाश्रयिणं वितर्कं पतिप्रिया स्त्रीव मही चकम्पे॥८॥



अथ शक्रो देवेन्द्रः क्षितितलचलनादकम्पिते विविधरत्नप्रभोद्भासिनि सुमेरौ पर्वतराजे किमिदमिति समुत्पतितवितर्कस्तस्य राज्ञ इमं वितर्कातिशयं धरणीतलचलननिमित्तमवेत्य विस्मयावर्जितहृदयश्चिन्तामापेदे।



दानातिहर्षोद्धतमानसेन वितर्कितं किं स्विदिदं नृपेण।

आबध्य दानव्यवसायकक्ष्यां स्वगात्रदानस्थिरनिश्चयेन॥९॥



तन्मीमांसिष्ये तावदेनमिति। अथ तस्य राज्ञः पषंदि निषण्णस्यामात्यगणपरिवृतस्य समुचितायां कृतायामर्थिजनस्य कः किमिच्छतीत्याह्वानावघोषणायामुद्धाट्यमानेषु कोशाध्यक्षाधिस्थितेषु मणिकनकरजतधननिचयेषु विश्लेष्यमाणासु पुटासु विविधवसनपरिपूर्णगर्भासु समुपावर्त्यमानेषु विनीतविविधवाहनस्कन्धप्रतिष्ठितयुगेषु विचित्रेषु यानविशेषेषु प्रवृत्तसंपातेऽर्थिजने शक्रो देवानामिन्द्रो वृद्धमन्धं ब्राह्मणरूपमभिनिर्माय राज्ञश्चक्षुःपथे प्रादुरभवत्। अथ तस्य राज्ञः कारूण्यमैत्रीपरिभावितया धीरप्रसन्नसौम्यया प्रत्युद्गत इव परिष्वक्त इव च दृष्ट्या केनार्थ इत्युपनिमन्त्र्यमाणः क्षितिपानुचरैर्नृपतिसमोपमुपेत्य जयाशीर्वचनपुरःसरं राजानमित्युवाच-



दूरादपश्यन्स्थविरोऽभ्युपेतस्त्वच्चक्षुषोऽर्थी क्षितिपप्रधान।

एकेक्षणेनापि हि पङ्कजाक्ष गम्येत लोकाधिप लोकयात्रा॥१०॥



अथ स बोधिसत्त्वः सममिलषितमनोरथप्रसिद्ध्या परं प्रीत्युत्सवमनुभवन् किस्विदिदं सत्यमेवोक्तं ब्राह्मणेन स्यादुत विकल्पाभ्यासान्मयैवमवधारितमिति जातविमर्शश्चक्षुर्याच्ञाप्रियवचनश्रवणतृषितमतिस्तं चक्षुर्याचनकमुवाच-



केनानुशिष्टस्त्वमिहाभ्युपेतो मां याचितुं ब्राह्मणमुख्य चक्षुः।

सुदुस्त्यजं चक्षुरिति प्रवादः संभावना कस्य मयि व्यतीता॥११॥



अथ स ब्राह्मणवेषधारी शक्रो देवेन्द्रस्तस्य राज्ञ आशयं विदित्वोवाच-



शक्रस्य शक्रप्रतिमानुशिष्ट्या त्वां याचितुं चक्षुरिहातगोऽस्मि।

संभावनां तस्य ममैव चाशां चक्षुःप्रदानात्सफलीकुरुष्व॥१२॥



अथ स राजा शक्रसंकीर्तनान्नुनमस्य ब्राह्मणस्य भवित्री देवतानुभावादनेन विधिना चक्षुःसंपदिति मत्वा प्रमोदविशदाक्षरमेनमुवाच-



येनाभ्युपेतोऽसि मनोरथेन तमेष ते ब्राह्मण पूरयामि।

आकाङ्क्षमाणाय मदेकमक्षि ददामि चक्षुर्द्वयमप्यहं ते॥१३॥



स त्वं विबुद्धनयनोत्पलशोभितास्यः

संपश्यतो व्रज यथाभिमतं जनस्य।

स्यात् किं नु सोऽयमुत नेति विचारदोला-

लोलस्य सोऽयमिति चोत्थितविस्मयस्य॥१४॥



अथ तस्य राज्ञोऽमात्याश्चक्षुःप्रदानावसायमवेत्य ससंभ्रमावेगविषादव्यथितमनसो राजानमूचुः-



दानातिहर्षादनयमसमीक्ष्याहितोदयम्।

प्रसीद देव मा मैवं न चक्षुर्दातुमर्हसि॥१५॥



एकस्यार्थे द्विजस्यास्य मा नः सर्वान्पराकृथाः।

अलं शोकाग्निना दग्धुं सुखं संवर्धिताः प्रजाः॥१६॥



धनानि लक्ष्मीप्रतिबोधनानि श्रीमन्ति रत्नानि पयस्विनीर्गाः।

रथान् विनीताँश्च युजः प्रयच्छ मदोर्जितश्रीललितान् द्विपान्वा॥१७॥



समुच्चरन्नूपुरनिस्वनानि शरत्पयोदाभ्यधिकद्युतीनि।

गृहाणि सर्वर्तुसुखानि देहि मा दाः स्वचक्षुर्जगदेकचक्षुः॥१८॥



विमृश्यतामपि च तावन्महाराज !

अन्यदीयं कथं नाम चक्षुरन्यत्र योज्यते।

अथ देवप्रभावोऽयं त्वच्चक्षुः किमपेक्ष्यते॥१९॥



अपि च देव !

चक्षुषा किं दरिद्रस्य पराभ्युदयसाक्षिणा।

धनमेव यतो देहि देव मा साहसं कृथाः॥२०॥



अथ स राजा तानमात्यान्सानुनयमधुराक्षरमित्युवाच-

अदाने कुरुते बुद्धिं दास्यामीत्यभिधाय यः।

स लोभपाशं प्रभ्रष्टमात्मनि प्रतिमुञ्चति॥२१॥



दास्यामीति प्रतिज्ञाय योऽन्यथा कुरुते मनः।

कार्पण्यानिश्चितमतेः कः स्यात्पापतरस्ततः॥२२॥



स्थिरीकृत्यार्थिनामाशां दास्यामीति प्रतिज्ञया।

विसंवादनरूक्षस्य वचसो नास्ति निष्कृतिः॥२३॥



यदपि चेष्टं देवतानुभावादेव चक्षुरस्य किं न संभवतीत्यत्र श्रूयताम्-



नैककारणसाध्यत्वं कार्याणां ननु दृश्यते।

कारणान्तरसापेक्षः स्याद्देवोऽपि विधिर्यतः॥२४॥



तन्न मे दानातिशयव्यवसाये विध्नाय व्यायन्तुमर्हन्ति भवन्त इति।



अमात्या ऊचुः-धनधान्यरत्नानि देवो दातुमर्हति न स्वचक्षुरिति विज्ञापितमस्माभिः। तन्न देवं वयमतीर्थे प्रतारयामः। राजोवाच-



यदेव याच्येत तदेव दद्यान्नानीप्सितं प्रीणयतीह दत्तम्।

किमुह्यमानस्य जलेन तोयैर्दास्याम्यतः प्रार्थितमर्थमस्मै॥२५॥



अथ तस्य राज्ञो दृढतरविस्रम्भप्रणयः स्नेहावेगादनपेक्षितोपचारोऽमात्यमुख्यस्तं राजानमित्युवाच-मा तावद् भोः !



या नाल्पेन तपःसमाधिविधिना संप्राप्यते केनचिद्

यामासाद्य च भूरिभिर्मखशतैः कीर्ति दिवं चाप्नुयात्।

संप्राप्तामतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीं

किं दृष्ट्वा नयने प्रदित्सति भवान्कोऽयं कुतस्त्यो विधिः॥२६॥



लब्धावकाशस्त्रिदशेषु यज्ञैः कीर्त्या समन्तादवभासमानः।

नरेन्द्रचूडाद्युतिरञ्जिताङ्घ्रिः किं लिप्समानो नु ददासि चक्षुः॥२७॥



अथ स राजा तममात्यं सानुनयमित्युवाच-



नायं यत्नः सार्वभौमत्वमाप्तुं नैव स्वर्गं नापवर्गं न कीर्तिम्।

त्रातुं लोकानित्ययं त्वादरो मे याच्ञाक्लेशो मा च भूदस्य मोघः॥२८॥



अथ स राजा नीलोत्पलदलशकलरुचिरकान्ति नयनमेकं वैद्यपरिदृष्टेन विधिना शनकैरक्षतमुत्पाट्य परया प्रीत्या चक्षुर्याचनकाय प्रायच्छत्। अथ शक्रो देवेन्द्रस्तादृशमृद्ध्यभिसंस्कारं चक्रे यथा ददर्श स राजा सपरिजनस्तत्तस्य चक्षुश्चक्षुःस्थाने प्रतिष्ठितम्। अथोन्मिषितैकचक्षुषं चक्षुर्याचनकमभिवीक्ष्य स राजा परमेण प्रहर्षेण समापूर्णहृदयो द्वितीयमप्यस्मै नयनं प्रायच्छत्।



ततः स राजा नयने प्रदाय विपद्मपद्माकरतुल्यवक्त्रः।

पौरैरसाधारणतुष्टिरासीत्समग्रचक्षुर्ददृशे द्विजैश्च॥२९॥



अन्तःपुरेऽथ मनुजाधिपतेः पुरे च

शोकाश्रुभिर्वसुमती सिषिचे समन्तात्।

शक्रस्तु विस्मयमवाप परां च तुष्टिं

संबोधये नृपमकम्प्यमतिं समीक्ष्य॥३०॥



अथ शक्रस्य विस्मयावर्जितहृदयस्यैतदभवत्-

अहो धृतिरहो सत्त्वमहो सत्त्वहितैषिता।

प्रत्यक्षमपि कर्मेदं करोतीव विचारणाम्॥३१॥



तन्नायमाश्चर्यसत्त्वश्चिरमिमं परिक्लेशमनुभवितुमर्हति। यतः प्रयतिष्ये चक्षुरस्योपायप्रदर्शनादुत्पादयितुम्।



अथ तस्य राज्ञः क्रमात्संरूढनयनव्रणस्यावगीतप्रतनूभूतान्तःपुरपौरजानपदशोकस्य प्रविवेककामत्वादुद्यानपुष्करिण्यास्तीरे कुसुमभरावनतरुचिरतरुवरनिचिते मृदुसुरभिशिशिरसुखपवने मधुकरगणोपकूजिते पर्यङ्केण निषण्णस्य शक्रो देवेन्द्रः पुरस्तात्प्रादुरभवत्। क एष इति च राज्ञा पर्यनुयुक्तोऽव्रवीत्-



शक्रोऽहमस्मि देवेन्द्रस्त्वत्समीपमुपागतः।



राजोवाच। स्वागतम्। आज्ञाप्यतां केनार्थ इति। स उपचारपुरःसरमुक्तो राजानं पुनरुवाच-



वरं वृणीष्व राजर्षे यदिच्छसि तदुच्यताम्॥३२॥



अथ स राजा प्रदानसमुचितत्वादनभ्यस्तयाच्ञाकार्पण्यमार्गो विधृत्य विस्मयशौटीर्यमेनमुवाच-



प्रभूतं मे धनं शक्र शक्तिमच्च महद् बलम्।

अन्धभावात्त्विदानीं मे मृत्युरेवाभिरोचते॥३३॥



कृत्वापि पर्याप्तमनोरथानि प्रीतिप्रसादाधिकलोचनानि।

मुखानि पश्यामि न याचकानां यत्तेन मृत्युर्दयितो ममेन्द्र॥३४॥



शक्र उवाच-अलमलमनेन ते व्यवसायेन। सत्पुरुषा एवेदृशान्यनुप्राप्नुवन्ति। अपि च पृच्छामि तावद् भवन्तम्।



इमामवस्थां गमितस्य याचकैः कथं नु ते संप्रति तेषु मानसम्।

प्रचक्ष्व तत्तावदलं निगूहितुं व्रजेश्च संप्रत्यपनीय तां यथा॥३५॥



राजोवाच-कोऽयमस्मान् विकत्थयितुमत्रभवतो निर्बन्धः? अपि च देवेन्द्र श्रूयताम्-



तदैव चैतर्हि च याचकानां वचांसि याच्ञानियताक्षराणि।

आशीर्मयाणीव मम प्रियाणि यथा तथोदेतु ममैकमक्षि॥३६॥



अथ तस्य राज्ञः सत्याधिष्ठानबलात् पुण्योपचयविशेषाच्च वचनसमनन्तरमेवेन्द्रनीलशकलाक्रान्तमध्यमिव नीलोत्पलदलसदृशमेकं चक्षुः प्रादुरभवत्। प्रादुर्भूंते च तस्मिन्नयनाश्चर्ये प्रमुदितमनाः स राजा पुनरपि शक्रमुवाच-



यश्चापि मां चक्षुरयाचतैकं तस्मै मुदा द्वे नयने प्रदाय।

प्रीत्युत्सवैकाग्रमतिर्यथासं द्वितीयमप्यक्षि तथा ममास्तु॥३७॥



अथाभिव्याहारसमनन्तरमेव तस्य राज्ञो विस्पर्धमानमिव तेन नयनेन द्वितीयं चक्षुः प्रादुरभवत्।



ततश्चकम्पे सधराधरा धरा व्यतीत्य वेलां प्रससार सागरः।

प्रसक्तगम्भीरमनोज्ञनिस्वनाः प्रसस्वनुर्दुंन्दुभयो दिवौकसाम्॥३८॥



प्रसादरम्यं ददृशे वपुर्दिशां रराज शुद्ध्या शरदीव भास्करः।

परिभ्रमच्चन्दनचूर्णरञ्जितं पपात चित्रं कुसुमं नभस्तलात्॥३९॥



समाययुर्विस्मयफुल्ललोचना दिवौकसस्तत्र सहाप्सरोगणाः।

ववौ मनोज्ञात्मगुणः समीरणो मनस्सु हर्षो जगतां व्यजृम्भत॥४०॥



उदीरिता हर्षपरीतमानसैर्महर्द्धिभिर्भूंतगणैः सविस्मयैः।

नृपस्य कर्मातिशयस्तवाश्रयाः समन्ततः शुश्रुविरे गिरः शुभाः॥४१॥



अहो बतौदार्यमहो कृपालुता विशुद्धता पश्य यथास्य चेतसः।

अहो स्वसौख्येषु निरुत्सुका मतिर्नमोऽस्तु तेऽभ्युद्गतधैर्यविक्रम॥४२॥



सनाथतां साधु जगद्गतं त्वया पुनर्विबुद्धेक्षणपङ्कजश्रिया।

अमोघरूपा बत पुण्यसञ्चयाश्चिरस्य धर्मेण खलूर्जितं जितम्॥४३॥



अथ शक्रः साधु साध्वित्येनमभिसंराध्य पुनरुवाच-



न नो न विदितो राजंस्तव शुद्धाशयाशयः।

एवं नु प्रतिदत्ते ते मयेमे नयने नृप॥४४॥



समन्ताद्योजनशतं शैलैरपि तिरस्कृतम्।

द्रष्टुमव्याहता शक्तिर्भविष्यत्यनयोश्च ते॥४५॥



इत्युक्त्वा शक्रस्तथैव चान्तर्दधे।



अथ बोधिसत्त्वो विस्मयपूर्णमनोभिर्मन्दमन्दनिमेषप्रविकसितनयनैरमात्यैरनुयातः पौरैश्चाभिवीक्ष्यमाणो जयाशीर्वचनपुरःसरैश्च ब्राह्मणैरभिनन्द्यमानः पुरवरमुच्छ्रितध्वजविचित्रपताकं प्रवितन्यमानाभ्युदयशोभमभिगम्य पर्षदि निषण्णः सभाजनार्थमभिगतस्यामात्यप्रमुखस्य ब्राह्मणवृद्धपौरजानपदस्यैवमात्मोपनायिकं धर्मं देशयामास-



को नाम लोके शिथिलादरः स्यात् कर्तुं धनेनार्थिजनप्रियाणि।

दिव्यप्रभावे नयने ममेमे प्रदानपुण्योपनते समीक्ष्य॥४६॥



अनेकशैलान्तरितं योजनानां शतादपि।

अदूरस्थितविस्पष्टं दृश्यं पश्यामि सर्वतः॥४७॥



परानुकम्पाविनयाभिजाताद्दानात्परः कोऽभ्युदयाभ्युपायः।

यन्मानुषं चक्षुरिहैव दत्त्वा प्राप्तं मयाऽमानुषदिव्यचक्षुः॥४८॥



एतद्विदित्वा शिबयः प्रदानैर्भोगेन चार्थान् सफलीकुरुध्वम्।

लोके परस्मिन्निह चैष पन्थाः कीर्तिप्रधानस्य सुखोदयस्य॥४९॥



धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन।

निधानतां याति हि दीयमानमदीयमानं निधनैकनिष्ठम्॥५०॥



तदेवं दुष्करशतसमुदानीतोऽयमस्मदर्थं तेन भगवता सद्धर्म इति सत्कृत्य श्रोतव्यः। तथागतमाहात्म्ये पूर्ववच्च करुणावर्णेऽपि वाच्यम्-इहैव पुण्यफलप्रदर्शने चैवं सत्कृत्योपचितानि पुण्यानीहैव पुष्पमात्रमात्मप्रभावस्य कीर्तिसंततिमनोहरं प्रदर्शयन्तीति॥



इति शिबिजातकं द्वितीयम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project