Digital Sanskrit Buddhist Canon

१ व्याघ्री-जातकम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 vyāghrī-jātakam

आर्यशूरविरचिता

बोधिसत्त्वावदानमालापरपर्याया

जातकमाला



ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः॥



श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि कीर्त्यास्पदान्यनवगीतमनोहराणि।

पूर्वप्रजन्मसु मुनेश्चरिताद्भु तानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये॥१॥



श्लाध्यैरमीभिरभिलक्षितचिन्हभूतैरादेशितो भवति यत्सुगतत्वमार्गः।

स्यादेव रूक्षमनसामपि च प्रसादो धर्म्याः कथाश्च रमणीयतरत्वमीयुः॥२॥



लोकार्थमित्यभिसमीक्ष्य करिष्यतेऽयं श्रुत्यार्षयुक्त्यविगुणेन पथा प्रयत्नः।

लोकोत्तमस्य चरितातिशयप्रदेशैः स्वं प्रातिभं गमयितुं श्रुतिवल्लभत्वम्॥३॥



स्वार्थोद्यतैरपि परार्थचरस्य यस्य नैवान्वगम्यत गुणप्रतिपत्तिशोभा।

सर्वज्ञ इत्यवितथाक्षरदीप्तकीर्ति मूर्ध्ना नमे तमसमं सहधर्मसंघम्॥४॥



१ व्याघ्री-जातकम्



सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः॥



तद्यथानुश्रूयते-रत्नत्रयगुरुभिः प्रतिपत्तिगुणाभिराधितगुरुभिर्गुणप्रविचयगुरुभिरस्मद्गुरुभिः परिकीर्त्यमानमिदं भगवतः पूर्वजन्मावदानम्।



बोधिसत्त्वः किलायं भगवान्भूतः प्रतिज्ञातिशयसदृशैर्दानप्रियवचनार्थचर्याप्रभृतिभिः प्रज्ञापरिग्रहनिरवद्यैः कारूण्यनिस्यन्दैर्लोकमनुगृह्णन् स्वधर्माभिरत्युपनतशुचिवृत्तिन्युदितोदिते महति ब्राह्मणकुले जन्मपरिग्रहं चकार। स कृतसंस्कारक्रमो जातकर्मादिभिरभिवर्धमानः प्रकृतिमेधावित्वात्सानाथ्यविशेषाज्ज्ञानकौतूहलादकौसीद्याच्च नचिरेणैवाष्टादशसु विद्यास्थानेषु स्वकुलक्रमाविरुद्धासु च सकलासु कलास्वाचार्यकं पदमवाप।



स ब्रह्मवद् ब्रह्मविदां बभूव राजेव राज्ञां बहुमानपात्रम्।

साक्षात्सहस्राक्ष इव प्रजानां ज्ञानार्थिनामर्थचरः पितेव॥५॥



तस्य भाग्यगुणातिशयसमावर्जितो महाँल्लाभसत्कारयशोविशेषः प्रादुरभूत्। धर्माभ्यासभावितमतिः कृतप्रव्रज्यापरिचयस्तु बोधिसत्त्वो न तेनाभिरेमे।



स पूर्वचर्यापरिशुद्धबुद्धिः कामेषु दृष्ट्वा बहुदोषजातम्।

गार्हस्थ्यमस्वास्थ्यमिवावधूय कंचिद्वनप्रस्थमलंचकार॥६॥



स तत्र निःसङ्गतया तया (च) प्रज्ञावदातेन शमेन चैव।

प्रत्यादिदेशेव कुकार्यसङ्गाद्विश्लिष्टशिष्टोपशमं नृलोकम्॥७॥



मैत्रीमयेण प्रशमेन तस्य विस्यन्दिनेवानुपरीतचित्ताः।

परस्परद्रोहनिवृत्तभावास्तपस्विवद् व्यालमृगा विचेरुः॥८॥



आचारशुद्ध्या निभृतेन्द्रियत्वात्संतोषयोगात्करुणागुणाच्च।

असंस्तुतस्यापि जनस्य लोके सोऽभूत् प्रियस्तस्य यथैव लोकः॥९॥



अल्पेच्छभावात्कुहनानभिज्ञस्त्यक्तस्पृहो लाभयशःसुखेषु।

स देवतानामपि मानसानि प्रसादभक्तिप्रवणानि चक्रे॥१०॥



श्रुत्वाथ तं प्रव्रजितं मनुष्या गुणैस्तदीयैरवबद्धचित्ताः।

विहाय बन्धूंश्च परिग्रहांश्च तच्छिष्यतां सिद्धिमिवोपजग्मुः॥११॥



शीले शुचाविन्द्रियभावनायां स्मृत्यप्रमोषे प्रविविक्ततायाम्।

मैत्र्यादिके चैव मनःसमाधौ यथाबलं सोऽनुशशास शिष्यान्॥१२॥



अथ कदाचित्स महात्मा परिनिष्पन्नभूयिष्ठे पृथूभूते शिष्यगणे प्रतिष्ठापितेऽस्मिन्कल्याणे वर्त्मन्यवतारिते नैष्क्रम्यसत्पथं लोके संवृतेष्विवापायद्वारेषु राजमार्गीकृतेष्विव सुगतिमार्गेषु दृष्टधर्मसुखविहारार्थं तत्कालशिष्येणाजितेनानुगम्यमानो योगानुकूलान् पर्वतदरीनिकुञ्जाननुविचचार।



अथात्र व्याघ्रवनितां ददर्श गिरिगह्वरे।

प्रसूतिक्लेशदोषेण गतां निस्पन्दमन्दताम्॥१३॥



परिक्षामेक्षणयुगां क्षुधा छाततरोदरीम्।

आहारमिव पश्यन्तीं बालान्स्वतनयानपि॥१४॥



स्तन्यतर्षादुपसृतान्मातृविस्रम्भनिर्व्यथान्।

रोरूयितरवैः क्रूरैर्भर्त्सयन्तीं परानिव॥१५॥



बोधिसत्त्वस्तु तां दृष्ट्वा धीरोऽपि करुणावशात्।

चकम्पे परदुःखेन महीकम्पादिवाद्रिराट्॥१६॥



महत्स्वपि स्वदुःखेषु व्यक्तधैर्याः कृपात्मकाः।

मृदुनाप्यन्यदुःखेन कम्पन्ते यत्तदद्भुतम्॥१७॥



अथ स बोधिसत्त्वः ससंभ्रमाम्रेडितपदं स्वभावातिशयव्यञ्जकं करुणाबलसमाहिताक्षरं शिष्यमुवाच-वत्स वत्स!



पश्य संसारनैर्गुण्यं मृग्येषा स्वसुतानपि।

लङ्घितस्नेहमर्यादा भोक्तुमन्विच्छति क्षुधा॥१८॥



अहो बतातिकष्टेयमात्मस्नेहस्य रोद्रता।

येन मातापि तनयानाहारयितुमिच्छति॥१९॥



आत्मस्नेहमयं शत्रुं को वर्धयितुमहति।

येन कुर्यात् पदन्यासमीदृशेष्वपि कर्मसु॥२०॥



तच्छीघ्रमन्विष्यतां तावत्कुतश्चिदस्याः क्षुद्‍दुःखप्रतीकारहेतुर्यावन्न तनयानात्मानं चोपहन्ति। अहमपि चैनां प्रयतिष्ये साहसादस्मान्निवारयितुम्। स तथेत्यस्मै प्रतिश्रुत्य प्रक्रान्तस्तदाहारान्वेषणपरो बभूव। अथ बोधिसत्त्वस्तं शिष्यं सव्यपदेशमतिवाह्य चिन्तामापेदे।



संविद्यमाने सकले शरीरे कस्मात्परस्मान्मृगयामि मांसम्।

यादृच्छिकी तस्य हि लाभसंपत् कार्यात्ययः स्याच्च तथा ममायम्॥२१॥



अपि च

निरात्मके भेदिनि सारहीने दुःखे कृतध्ने सतताशुचौ च।

देहे परस्मायुपयुज्यमाने न प्रीतिमान्यो न विचक्षणः सः॥२२॥



स्वसौख्यसङ्गेन परस्य दुःखमुपेक्ष्यते शक्तिपरिक्षयाद्वा।

न चान्यदुःखे सति मेऽस्ति सौख्यं सत्यां च शक्तौ किमुपेक्षकः स्याम्॥२३॥



सत्यां च शक्तौ मम यद्युपेक्षा स्यादाततायिन्यपि दुःखमग्ने।

कृत्वेव पापं मम तेन चित्तं दह्येत कक्षं महताग्निनेव॥२४॥



तस्मात्करिष्यामि शरीरकेण तटप्रपातोद्गतजीवितेन।

संरक्षणं पुत्रवधाच्च मृग्या मृग्याः सकाशाच्च तदात्मजानाम्॥२५॥



किं च भूयः -

सदर्शनं लोकहितोत्सुकानामुत्तेजनं मन्दपराक्रमाणाम्।

संहर्षणं त्यागविशारदानामाकर्षणं सज्जनमानसानाम्॥२६॥



विषादनं मारमहाचमूनां प्रसादनं बुद्धगुणप्रियाणाम्।

व्रीडोदयंस्वार्थपरायणानां मात्सर्यलोभोपहतात्मनां च॥२७॥



श्रद्धापनं यानवराश्रितानां विस्मापनं त्यागकृतस्मयानाम्।

विशोधनं स्वर्गमहापथस्य त्यागप्रियाणामनुमोदि नॄणाम्॥२८॥



कदा नु गात्रैरपि नाम कुर्यां हितं परेषामिति यश्च मेऽभूत्।

मनोरथस्तत्सफलीक्रियां च संबोधिमग्र्यामपि चाविदूरे॥२९॥



अपि च।

न स्पर्धया नैव यशोऽभिलाषान्न स्वर्गलाभान्न च राज्यहेतोः।

नात्यन्तिकेऽप्यात्मसुखे यथायं ममादरोऽन्यत्र परार्थसिद्धेः॥३०॥



तथा ममानेन समानकालं लोकस्य दुःखं च सुखोदयं च।

हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः॥३१॥



दृष्टे गुणेऽनुस्मृतिमागतो वा स्पष्टः कथायोगमुपागतो वा।

सर्वप्रकारं जगतो हितानि कुर्यामजस्रं सुखसंहितानि॥३२॥



एवं स निश्चित्य परार्थसिद्ध्यै प्राणात्ययेऽप्यापतितप्रमोदः।

मनांसि धीराण्यपि देवतानां विस्मापयन्स्वां तनुमुत्ससर्ज॥३३॥



अथ सा व्याघ्री तेन बोधिसत्त्वस्य शरीरनिपातशब्देन समुत्थापितकौतूहलामर्षा विरम्य स्वतनयवैशसोद्यमात्ततो नयने विचिक्षेप। दृष्टै व च बोधिसत्त्वशरीरमुद्गतप्राणं सहसाभिसृत्य भक्षयितुमुपचक्रमे।



अथ स तस्य शिष्यो मांसमनासाद्यैव प्रतिनिवृत्तः कुत्रोपाध्याय इति विलोकयंस्तद्बोधिसत्त्वशरीरमुद्गतप्राणं तया व्याघ्रयुवत्या भक्ष्यमाणं दर्दश। स तत्कर्मातिशयविस्मयात्प्रतिव्यूढशोकदुःखावेगस्तद्गुणाश्रयबहुमानमिवोद्गिरन्निदमात्मगतं ब्रुवाणः शोभेत।



अहो दयास्य व्यसनातुरे जने स्वसौख्यनैःसङ्ग्यमहो महात्मनः।

अहो प्रकर्षं गमिता स्थितिः सतामहो परेषां मृदिता यशःश्रियः॥३४॥



अहो पराक्रान्तमपेतसाध्वसं गुणाश्रयं प्रेम परं प्रदर्शितम्।

अहो नमस्कारविशेषपात्रतां प्रसह्य नीतास्य गुणातनुस्तनुः॥३५॥



निसर्गसौम्यस्य वसुंधराधृतेरहो परेषां व्यसनेष्वमर्षिता।

अहो मदीया गमिता प्रकाशतां खटुङ्कता विक्रमसंपदानया॥३६॥



अनेन नाथेन सनाथतां गतं न शोचितव्यं खलु सांप्रतं जगत्।

पराजयाशङ्कितजातसंभ्रमो ध्रुवं विनिश्चासपरोऽद्य मन्मथः॥३७॥



सर्वथा नमोऽस्त्वस्मै महाभागाय सर्वभूतशरण्यायातिविपुलकारुण्यायाप्रमेयसत्त्वाय भूतार्थबोधिसत्त्वाय महासत्त्वायेति। अथ स तमर्थं सब्रह्मचारिभ्यो निवेदयामास।



तत्कर्मविस्मितमुखैरथ तस्य शिष्यैर्गन्धर्वयक्षभुजगैस्त्रिदशाधिपैश्च।

माल्याम्बराभरणचन्दनचूर्णवर्षैश्छन्ना तदस्थिवसुधा वसुधा बभूव॥३८॥



तदेवं सर्वसत्त्वेष्वकारणपरमवत्सलस्वभावः सर्वभूतात्मभूतः पूर्वजन्मस्वपि स भगवानिति बुद्धे भगवति परः प्रसादः कार्यः। जातप्रसादैश्च बुद्धे भगवति परा प्रीतिरुत्पादयितव्या। एवमायतनगतो नः प्रसाद इत्येवमप्युन्नेयम्। तथा सत्कृत्य धर्मः श्रोतव्यः। एवं दुष्करशतसमुदानीतत्वात् करुणावर्णेऽपि वाच्यमेवं स्वभावातिशयस्य निष्पादिका परानुग्रहप्रवृत्तिहेतुः करुणेति।



इति व्याघ्रीजातकं प्रथमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project