Digital Sanskrit Buddhist Canon

नवम अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Navama adhyāyaḥ
नवम अध्यायः

श्रीमहाचार्य शान्तिकरगुणसंसिद्धिमहात्म्यानुभाव प्रकथनप्रवर्तनो नाम



अथ मैत्रेय आलोक्य समुत्थाय कृताञ्जलिः।

भगवन्तं तमानम्य प्रार्थयच्चैवमादरात्॥१॥



कदा शान्तिकरं नाम तस्याभवत् कथं पुनः।

तद्धेतुं श्रोतुमिच्छामि समुपादेष्टुमर्हति॥२॥



इति संप्रार्थिते तेन मैत्रेयेण स सर्ववित्।

भगवास्तं महासत्त्वं सम्पश्यन्नेवमादिशत्॥३॥



शृणु मैत्रेय वक्ष्यामि शान्तश्रियां महद्गुणं।

सद्धर्म्मसाधनोत्साहं भद्रश्रीसद्गुर्णार्थदं॥४॥



योऽसौ राजा महासत्त्वः सधर्म्मगुणलालसः।

त्यक्त्वा कामसुखं राज्यं तीर्थयात्रामुपाचरत्॥५॥



स सर्वेष्वपि तीर्थेषु स्नात्वा दानं विधाय च।

त्रिसमाधिसमाचारः संचर पोषधं व्रतं॥६॥



एवं सर्वेषु पीठेषु भ्रमन् सद्धर्म्ममानसः।

योगचर्याव्रतं धृत्वा प्रचचार समाहितः॥७॥



पुण्यक्षेत्रेषु सर्वेषु भ्रमन्नैवमिहागताः।

दृष्ट्वैमं मण्डलं रम्ये विस्मितं समुपाययौ॥८॥



अत्रैमं दूरतो दृष्ट्वा धर्म्मधातुं जिनालयं।

मुदाष्टाङ्गैः प्रणत्वाशुः संद्रष्टुं समुपाययौ॥९॥



समेत्य संमहासत्त्वा ज्योतीरूपं जिनालयं।

धर्म्मधातुमिमं दृष्ट्वा प्रणत्वा समुपाश्रयत्॥१०॥



ततः समुदितो राजा नेपालेऽत्र मनोरमे।

सर्वत्रापि च संद्रष्टुं प्रचचार विलोकयन्॥११॥



तेषु सर्वेषु तीर्थेषु स्नात्वा दत्वा यथेप्सितं।

यथाविधि समाधाय व्रतं चर समाहितः॥१२॥



ततोष्टौ वीतरागांश्च दृष्ट्वा स संप्रमोदितः।

यथाविधि समाराध्य समभ्यर्च्य सदाभजन्॥१३॥



ततश्चासौ महादेवी खगाननां महेश्वरीं।

यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा॥१४॥



ततो मञ्जुश्रियश्चैत्यं समीक्ष्य स प्रमोदितः।

यथाविधि समभ्यर्च्य प्राभजत् समुपस्थितः॥१५॥



ततः श्चैतत्महत्पुण्यैः शान्तिश्रीशुभितेन्द्रियः।

प्रवज्या संवरं धृत्वा ब्रह्मचारी बभूव सः॥१६॥



यत्तस्य सुप्रशान्तश्रीशोभितानीन्द्रियानि षट्।

तं ननाम प्रसिद्धं च शान्तश्रीरित्यभूद्यतः॥१७॥



ततोऽसौ सत्मतिर्विज्ञो बोधिसत्त्वो जगद्धिते।

वज्रचर्याव्रतं गृहय प्रचचार समाहितः॥१८॥



ततश्च शिलयाछाद्य धर्म्मधातुंमिमं जिनं।

इष्टिकाभिर्महत्स्तूपं विधाय समगोपयत्॥१९॥



ततः पञ्चपुरेष्वत्र स्थापिता पञ्च देवताः।

मञ्जुश्रीयामिदं चैत्यमनेन च महत्कृतं॥२०॥



एवं कृत्वात्र कार्याणि सर्वाणि स महामतिः।

बोधिसत्त्वा महाभिज्ञः प्रचचार जगद्धिते॥२१॥



ततश्चात्र महत्पातं शमीकृत्य समंततः।

भद्रश्रीमङ्गलोत्साहं न शान्तश्रीःस्सदा व्यधात्॥२२॥



ततश्चासौ महाभिज्ञो दुर्वृष्टि परिवर्त्तते।

नागराजान् समाराध्य सुवृष्टि समचारयत्॥२३॥



एवं स त्रिगुणाभिज्ञां महोत्पात प्रशान्तिकृत्।

शुभंकर सदा तेन शान्तिकरे इति स्मृतः॥२४॥



ईदृग्मन्त्री महाभिज्ञो वज्राचार्या महामतिः।

समृद्धिसिद्धिसंपन्ना न भूता न भविष्यति॥२५॥



एवं विधाय सर्वत्र निरुत्पातं शुभोत्सवं।

बोधिसत्त्व स शान्तश्रीस्त्रैलोक्यमहितोभवत्॥२६॥



एवमस्य महत्पुण्यं भद्रश्रीगुणसाधनं।

विज्ञाय शरणं गत्वा सवितव्यं शुभार्थिभिः॥२७॥



यद्यस्य शरणं गत्वा श्रद्धया समुपाश्रिताः।

यथाविधि समाराध्य भजेयुः सर्वदा मुदा॥२८॥



ते सर्वे विमलत्मानो निःक्लेशा विजितेन्द्रियाः।

भद्रश्रीगुणसंपत्तिं सर्द्धिसिद्धिं समाययुः॥२९॥



ये च तस्य सदा स्मृत्वा ध्यात्वापि च समाहिताः।

नामापि च समुच्चार्य भजेयुः श्रद्धया सदा॥३०॥



तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः।

तद्गुणश्रीसमापन्ना भवेयु बोधिचारिणः॥३१॥



इत्येवं तत्महत्पुण्यं विज्ञाय तद्गुणार्थिनः।

तस्यैव शरणं गत्वा भजन्तु ते सदा मुदा॥३२॥



इत्यादिष्टं मुनीन्द्रेण सर्वेऽपि ते सभाश्रिताः।

लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥३३॥



एवमसौ महासत्त्वो भद्रश्रीसद्गुणार्थभृत्॥

सर्वसत्त्वहितं कृत्वा संतस्थे सुचिरं तथा॥३४॥



ततः काले गते राजा वृद्धोभिजीर्ण्णितेन्द्रियः।

निःक्लेशो विरताभागो ध्यात्वैव समचिन्तयत्॥३५॥



अहं वृद्धोतिजीर्ण्णाङ्गः स्थास्याम्येवं कियाच्चरं।

अवश्यं दैवयोगेण यास्यामि मरणं ध्रुवं॥३६॥



तदत्राहं स्वपुत्राय यूने लोकानुपालने।

साभिषेकमिदं राज्यं दातुमर्हामि साम्प्रतं॥३७॥



इति ध्यात्वा स भूपालो नरेन्द्रदेवमात्मजं।

अभिषिंच्य नृपं कृत्वा बोधयन्नेवमंन्वशात्॥३८॥



राजन् पुत्र समाधाय धर्मनीत्या समाचरन्।

त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे॥३९॥



अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुः।

सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत्॥४०॥



तदत्र सकलान् लोकान् धर्मनीत्यानुपालयन्।

त्रिरत्नभजनं कृत्वा संचरंस्व सदा शुभे॥४१॥



इत्यनुशास्य तन्पुत्रं पिता स भवनिस्पृहः।

सर्वपरिग्रहान्स्त्यक्त्वा वनप्रस्थसमाश्रयन्॥४२॥



तत्रस्थासौ महाभिज्ञः परिशुद्धित्रिमण्डलः।

समाधिनिहितः स्वान्तः ससंचरे बह्मसंबरं॥४३॥



ततः काले गते मृत्युसमये स समाहितः।

त्रिरत्नं स स्मरंस्त्यक्त्वा देहं ययौ सुखावतीं॥४४॥



ततः स नृपती राजा नरेन्द्रदेव इन्द्रवत्।

संबोधयन् प्रयत्नेन सर्वान् लोकानपालयत्॥४५॥



सोऽपि राजा विशुद्धात्मा सद्धर्म्मगुणलालसः।

शान्तिकरं तमाचार्य समेत्य शरणं ययौ॥४६॥



तत्र स समुपाश्रित्य शास्तुराज्ञां शिरोवहन्।

त्रिरत्नभजनं कृत्वा प्राचरत् सर्वदा शुभे॥४७॥



सदा सर्वेषु तीर्थेषु स्नानं कृत्वा यथाविधि।

पित्रेभ्यः प्रददौ पिण्डंमर्थिभ्योऽपि यथेप्सितं॥४८॥



तथाष्टौ वीतरागांश्च क्षत्रलोकाधिपामपि।

यथाविधि समाराध्य समार्चयत् स पर्वसुः॥४९॥



तथा च श्रीमहादेवीं खगाननां यथाविधि।

समाराध्य समभ्यर्च्य महोत्साहैर्मुदाभजत्॥५०॥



तथा मञ्जुश्रीयश्चैत्ये पृच्छाग्रेस्मिन्नुपाश्रयत्।

यथाविधि समाराध्य समभ्यर्च्याभजत् सदा॥५१॥



तथा वायुपुरे वायुदेवताः सगणा अपि।

यथाविधि समाराध्य समभ्यर्च्याभजत् सदा॥५२॥



तथा वह्निपुरे वह्निदेवताः सगणा अपि।

यथाविधि समाराध्य समभ्यर्च्याभजत् सदा॥५३॥



तथा नागपुरे नागदेवताः सगणा अपि।

यथाविधि समाराध्य समभ्यर्च्याभजत् सदा॥५४॥



तथा वसुपुरे देवीं वसुधारां समण्डलाम्।

यथाविधि समाराध्य समभ्यर्च्या सदाभजत्॥५५॥



तथा शान्तिपुरे श्रीमत्सम्बरं सगणं जिनं।

यथाविधि समाराध्य समभ्यर्च्या सदाभजत्॥५६॥



तथा तस्य धर्मधातोः स नरेन्द्रः समुपाश्रितः।

यथाविधि समाराध्य प्राभजन् सर्वदार्चयन्॥५७॥



एवं स नृपती राजा सद्धर्मगुणलालसः।

त्रिरत्नभजनं कृत्वा संप्राचरत् सदा शुभे॥५८॥



एवं स नृप एतेषु तीर्थयात्रादिकर्मसु।

बोधयित्वा प्रयत्नेन सर्वान् लोकान् यया जयत्॥५९॥



तथा सर्वेऽपि ते लोका धृत्वा नृपानुशासनं।

एतेषु तीर्थयात्रादिकर्मसु संप्रचेरिरे॥६०॥



तथाष्टौ वीतरागांश्च देवीं खगाननामपि।

पञ्चैता देवताश्चापि चैत्यं मञ्जुश्रियोऽपि च॥६१॥



जगदीशं जगन्नाथं धर्मधातुं जिनालयं।

यथाविधि समभ्यर्च्य प्राभजन्त सदा मुदा॥६२॥



एतद्धर्मानुभावेन सर्वदात्र सुमङ्गलं।

निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः॥६३॥



एवं स नृपती राजा नरेन्द्र देव आत्मनः।

बोधिचर्याः व्रतं धृत्वा संप्रचर जगद्धिते॥६४॥



परानपि तथा सर्वान् लोकान् यत्नेन बोधयन्।

बोधिमार्गे समायुज्य प्राचारयज्जगद्धिते॥६५॥



एवं स इन्द्रवद् राज बोधिसत्त्वा जगत्प्रभुः।

सर्वसत्त्वहितं कृत्वा तस्थौ चिरं शुभे रमन्॥६६॥



ततः श्रीमान् स आचार्यः शान्तिकरो महर्द्धिकः।

कृतकृत्यः प्रवृद्धोऽपि निर्वातुं नाभिवांछति॥६७॥



सर्वसत्त्वहिताकांक्षी शान्तिपुराग्रताधसि।

ध्यानागारे महोद्दारे याजनैक प्रमाणिके॥६८॥



आरोप्य श्रीमहोज्वाले चिन्तामणि महाध्वजं।

स प्राज्ञः स महासत्त्वो बोधिसत्त्वा जिनात्मजः॥६९॥



समाधिधारणीविद्यायोगध्यानसमाहितः।

सम्बोधिप्रणिधिं धृत्वा तस्थौ निश्चरमानसः॥७०॥



यदा सद्धर्म्महीणेऽत्र लोकपंच कषायिते।

तदोत्थाय समाधेः स सद्धर्म्म देशयिष्यति॥७१॥



यदा यदात्र सत्मित्रः शास्त्रा विद्याधिपा न हि।

तदा तदा न सन्मित्रः शास्त्राविद्याधिपोभवन्॥७२॥



सर्वान्‌लोकान् प्रयत्नेन निवार्य पापमार्गतः।

बोधिमार्गे प्रतिष्ठाप्य चारयिष्यति सद्धर्मे॥७३॥



एवं ध्यात्वा स आचार्यः शान्तिकरः समाधिभृत्।

सर्वसत्त्वहितार्थेन तस्थौ योगसमाहितः॥७४॥



एवं स त्रिगुणाचार्यः सर्वसत्त्वहितार्थभृत्।

बोधिसत्त्वमहाभिज्ञ तिष्ठ तत्र जगद्धित॥७५॥



ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा समादरात्।

नामापि च समुच्चार्यं भजन्ति श्रद्धया सदा॥७६॥



तेऽपि सर्वे महाभिज्ञा बोधिसत्त्वा विचक्षणाः।

भद्रश्रीगुणसंपन्ना भविष्यन्ति सदा भवे॥७७॥



ततस्ते विमलात्मानश्चतुर्ब्रह्मविहारिणः।

बोधिचर्याव्रतं धृत्वा चरिष्यन्ति जगद्धिते॥७८॥



ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं।

अर्हन्तो बोधिमासाद्य प्राप्स्यन्ति सौगतं पदं॥७९॥



ये च तद्गुणमाहात्म्यं शृण्वन्ति श्रद्धया मुदा।

तेऽपि तद्गुण संपत्ति संसिद्धिं समवाप्नुयुः॥८०॥



इति विज्ञाय वाञ्छन्ति यस्तस्य गुणसंपद।

ते सद्गुणमाहात्म्यं श्रोतुमर्हति सादरं॥८१॥



इत्यादिष्टं मुणीन्द्रेन श्रुत्वा सर्वसभाश्रिताः।

लोकास्तथेति संश्रुत्य प्राभ्यनन्दन् प्रबोधिताः॥८२॥



इति श्रीमहाचार्यशान्तिकरगुणसंसिद्धिमाहात्म्यानुभावप्रकथनप्रवृत्तो नामाध्याय नवमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project