Digital Sanskrit Buddhist Canon

अष्टम अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭama adhyāyaḥ

अष्टम अध्यायः

स्वयम्भूचैत्याश्रमनाम साधनासुवृष्टिचरणो नाम



अथ स भगवाञ्छास्ता स समाधेरुत्थितः पुनः।

मैत्रेयं तं सभां चापि समालोक्यैवमादिशत्॥१॥



शृणु मैत्रेय भूयो स्या एतद् देवानुभावतः।

सिद्धभूमेः प्रवक्षापि महत्सिद्धि प्रभावतां॥२॥



तद्यथात्रोपछन्दोहे सिद्धलोक हिमालय।

नेपाल इति विख्याते एतद्देवानुभावतः॥३॥



सदा भद्रमहोत्साहं सुभिक्षं निरुपद्रवं।

सर्वद्रव्यसमापन्न समृद्धाधमवर्त्तत॥४॥



तदा सर्वत्र लोकाश्च दशकुशलचारिणः।

त्रिरत्नभजनारक्ताः प्राचरन्तः सहाशुभ॥५॥



एतत्पुण्यानुलिप्तास्ते चतुर्ब्रह्मविहारिणः।

भद्रश्रीसद्गुणाधीरा बभूवुर्बोधिचारिणः॥६॥



एवमेषां प्रसिद्धाभूदृद्धिसिद्धिगुणार्थदा।

ऋद्धास्फीता सुभिक्षा श्रीसमाश्रयाभिशोभिताः॥७॥



तेनात्र योगिनो विज्ञा यतयो ब्रह्मचारिणः

स्मृत्वा ध्यात्वा कुलेशानं समाराध्य समाश्रयन्॥८॥



तथान्येऽपि सुलोकाश्च समागत्य प्रसादिताः।

धर्मधातुमिमं भक्त्या भजमानाः समाश्रयन्॥९॥



सर्वष्वपि च तीर्थेषु स्नानदानादि संबरं।

कृत्वाष्टौ वीतरागांश्च भजन्त समुपाश्रयन्॥१०॥



एताश्च देवताः पञ्च समाराध्य यथाविधि।

भजमाना सदोत्साहैः प्राचरन्त समाहिताः॥११॥



तदा खगाननादेवीं समाराध्य यथाविधि।

भजमाना महोत्साहैः प्राचरन्त सदा शुभं॥१२॥



एवमिमं च पुच्छाग्रं चैत्यं मञ्जुश्रियापि ते।

सर्वे लोकाः समाराध्य प्राभजन्त प्रसादिताः॥१३॥



एवं सर्वेऽपि लोकाश्च सद्धर्म्माभिरता मुदा।

सदा भद्राणि कर्म्माणि कृत्वात्र सर्व्वदाश्रयन्॥१४॥



एवमेषां महासिद्धि भूमिः श्रीसंप्रशोभिताः।

महाजन समाकीर्ण्णा सर्वभूम्युत्तमा वभौ॥१५॥



ततः कालान्तरेणात्र राजा भूमि यतिर्नृपः।

श्रीगुणकामदेवाख्य शास्ता लोकाधिपाभवत्॥१६॥



तदा स नृपतिः प्रौढा युवा कामातिलालसः।

यथा कामरसं भुक्त्वा प्राचरन् स्वेच्छयारमन्॥१७॥



ततः स क्षत्रियाप्येवं कामभागाभिमोहिताः।

प्रमदा गुणसंरक्ता नीतिधर्मे निरादरः॥१८॥



दृष्ट्वा स सुन्दरीं कान्तामगम्यामपि मोहितः।

बलेनापि समाकृष्य वुभुजे स्वेच्छया मुदा॥१९॥



एवं स नृपराजापि कामधर्म्मातिलालसः।

मन्त्रिषु सर्व राज्याङ्ग निवेश्य स्वेच्छया रमेत्॥२०॥



ततः स्ते मन्त्रिणः सर्वे नृपं तं प्रमदा वशे।

प्रतिष्ठाप्य यथाकामं भुक्त्वा चरन् यथेच्छया॥२१॥



तथा भृत्या जनाश्चापि सर्वेऽपि क्लेशिताशयाः।

सद्धर्म्माणि प्रतिक्षिप्य प्राचरन् कामभागिनः॥२२॥



ब्राह्मणाश्च तथा सर्वे दशाकुशल चारिणः।

स्वकुलधर्म्ममर्यादं त्यक्त्वा चरन् यथेच्छया॥२३॥



वैश्याश्चापि तथा धर्म्मद्रव्यसंग्रहलालसाः।

स्वकुलवृत्तिमुत्सृज्य भुक्त्वा चरन् यथेप्सितं॥२४॥



महाजनास्तथा सर्वेप्यन्यायद्रव्यसाधिनः।

स्वकुलधर्ममुत्सृज्य भुक्त्वैव प्राचरन् सुखं॥२५॥



वणिजोऽपि तथा सर्वे मिथ्यार्थसाधनोद्यताः।

सत्यधर्म प्रतिक्षिप्य चेरुः क्लेशाभिमानिताः॥२६॥



शिल्पिनोऽपि तथा सर्वे कवलभृतिलालसाः।

अविधिज्ञाः प्रमादान्धाश्चक्रुः कर्म्म यंथेच्छया॥२७॥



तथा नारीजनाश्चापि कामक्लेशाः कुलाशयाः।

स्वकुलधर्ममृत्सृज्य प्राचरन्त यथेप्सितं॥२८॥



एवं सर्वेऽपि लोकाश्च दशाकुशलसंरताः।

स्वकुलाचारमुत्सृज्य प्राचरन्त यथेच्छया॥२९॥



तीर्थिकाश्चापि ये दुष्टास्ते दृष्ट्वैवं जिनालयं।

निन्दित्वा परिभाषन्तः प्राचरन्त यथेच्छया॥३०॥



तदात्र वहवो दुष्टा चौरा धूर्त्ताः प्रगल्भिकाः।

साधुजनाः प्रतिक्षिप्य चेरु मत्तद्वीपा इव॥३१॥



साधवः सज्जनाश्चापि नीचकर्मानुचारिणः।

सद्धर्म्मविरतोत्साहाश्चेरु भुक्त्वैव नीचवत्॥३२॥



तदैवं पापसंचारात् सर्वत्राप्यचरत् कलिः।

सद्धर्म्मो दुर्वली भूतो नीचवद्विलयं ययौ॥३३॥



तदात्र प्रवरीभूते कलिसंचार वर्त्तते।

दृष्ट्वा लोकाधिपाः सर्वे भवन्रुष्टपरान्मुखाः॥३४॥



ततोऽत्र विमुखीभूय सर्वलोकाधिपा अपि।

धिग्नृपमिति बा दन्तो द्रष्टुमपि न चेच्छिरे॥३५॥



तदात्र लोकपालानां सुदृष्टिविरतोत्सवे।

ईतयः समुपाक्रम्य प्रावर्त्तितुमुपाचरत्॥३६॥



ततो देवा अपि क्रूरा ये दुष्टा मारपाक्षिकाः।

सर्वे तत्र रूपालोक्य महोत्पातं प्रचक्रिरे॥३७॥



वह्निरपि तथालोक्य दुष्टवत् कोपिताशयः।

धूमाकुलार्चिषा दग्धा महोत्पातं व्यधादिह॥३८॥



धर्मराजापि रुष्टाभून् निर्दयां निरुजानपि।

निहन्तुं प्राणिनः सर्वान् महामारीमचारयत्॥३९॥



नैऋत्या राक्षसेन्द्रोऽपि प्रकोपितातिनिर्दयः।

सर्वत्रापि प्रविष्टोऽत्र महोत्पातं व्यधात्सदा॥४०॥



वरुणो नागराजापि प्रदुष्टः क्रूरचक्षुषा॥

दृष्ट्वा वारिवहान् मेघान् सर्वान् वृष्टिं न्यवारयेत्॥४१॥



मरुतोऽपि तथालोक्य प्ररुष्टा निर्दया स्थिताः।

असाध्यं प्रचरन्तात्र महोत्पातं प्रचक्रिरे॥४२॥



तथा यक्षाश्च ये दुष्टाः किन्नरा गुह्यका अपि।

गृहे गृहे प्रविश्यापि रोगोत्पातं प्रचक्रिरे॥४३॥



तथा भूताः पिशाचाश्च वेतालाः कटपूटिनाः।

डाकिण्यः प्रमथाश्चापि शाकिन्यः सगणा अपि॥४४॥



रुद्रा अपि सगन्धर्वा कुम्भाण्डा गरुडा अपि।

सर्वत्र प्रचरन्तोऽत्र महोत्पातं प्रचक्रिरे॥४५॥



मातृका अपि सर्वाश्च सगणा अप्रसादिताः।

सुदुष्टवालोक्य सर्वान् स्तान् द्रक्षितुं न समाहिरे॥४६॥



ग्रहास्तारागणाः सर्वे विरुद्धा अप्रसादिताः।

अनुसंदर्शनं वापि कर्तु नैवाववांञ्छिरे॥४७॥



कुलेशा अपि सर्वाश्च देवता अप्रसादिताः।

संत्रात समर्थास्तान् पश्यंत्य एव तस्थिरे॥४८॥



एवमन्येपि देवाश्च सर्वत्राणपराङ्मुखाः।

तेषां संदर्शनं कर्तुमपि नैव वांछिरे॥४९॥



तेषां त्रातुं तदेकापि न शशाक कथंचन।

एवमत्र महोत्पातं प्रावर्त्तत समन्ततः॥५०॥



एवमत्र महोत्पातं प्रर्वर्त्ततेऽपि सर्वतः।

सर्वक्लेशा हतात्मानः प्रचक्रु विग्रहं मिथः॥५१॥



तदेवं कलिसंरक्तान् सर्वान् लोकान् विलोक्य सः।

नृपतिः सुचिरं ध्यात्वा मनसैवं व्यचिन्तयत्॥५२॥



हा कष्टं पापजं धोरं जायतेऽत्राधुना मम।

तत्पापशमनायायं को दधान्महिताशयः॥५३॥



कथमिह महद्दुःखं शमीकर्त्तुं विधास्यते।

पश्यन्नेवमुपेक्ष्यैव रमेयं साम्प्रतं च किं॥५४॥



यो हि राजा प्रजादुःखमुपेक्ष्य रमते सुखं।

स किं राजा प्रभुर्भत्तां दुष्टाहिवद्विगर्ह्यते॥५५॥



यत्र राजा प्रजादुःखमुपेक्ष्य न विचारयेत्।

स्वयमेव सुखं भुक्त्वारमंश्चरेयथेच्छया॥५६॥



तत्र सर्वप्रजा लोकाः क्लेशव्याकुलमानसाः।

सत्यधर्मकुलाचारं हित्वा चरेयुरौद्धटाः॥५७॥



ततस्ते दुरितारक्ता दशकुशलचारिणः।

महापापेऽपि निर्लज्जाः संचरेरन् यथेच्छया॥५८॥



एतत् सर्व महत्पातं र्भुजीयान्नृपतिर्ध्रुवं।

इति सत्यं समाख्यातं नीतिविज्ञैर्महर्षिभिः॥५९॥



इत्येतत्पापवैपाक्यं भोक्तव्यं हि मया भव।

तदत्र किं करिष्यामि यदुपायं न मन्यते॥६०॥



धिग् जन्म मेऽत्र संसारे यस्य राज्ये सदा कलिः।

दुर्भिक्षादि महात्पातं प्रवर्त्तते दिवानिशं॥६१॥



धन्यास्ते पुरुषा ये हि निःक्लेशा विमलाशया।

विमुक्त भव संचारा भिक्षवो ब्रह्मचारिणः॥६२॥



किं मेऽत्र जन्म संसारे सुकुलमपि प्रभोर्नृणां।

यदहं पशुवद् भुक्त्वा काममेव रमे गृहे॥६३॥



तदेततपापलिप्तोऽहं क्लेशव्याकुलमानसः।

नरकेषु भ्रमन् दुःखं भुंजीयां विविधं सदा॥६४॥



तदा को मे सुहृत् मित्रं संरक्षितुमुपाचरत्।

धर्ममेव तदा त्राणं सर्वदुःखापहं भवे॥६५॥



धर्माणां प्रवरं बौद्धं धर्मं सर्वभयापहं।

सर्वार्थसाधनं सिद्धमित्याख्यातं जगद्धितं॥६६॥



इत्यहं साम्प्रतं गत्वा गोशृङ्गे पर्वते स्थितं।

शान्तश्रियं महाचार्यं प्रार्थयेयं समादरात्॥६७॥



स एव हि महाचार्य एतदुत्पातशान्तये।

विधानं समुपादिश्य कुर्यान्मेऽत्र हितं सदा॥६८॥



इति निश्चित्य भूपालः पुरोहितं समन्त्रिणः।

महाजनान सपौरांश्च समामन्त्रयैवमादिशत्॥६९॥



भो भवन्तो यदत्रैवं महोत्पातं प्रवर्त्तते।

तच्छान्तिकरणं धर्मं कर्त्तुमिच्छामि सांप्रतं॥७०॥



तदाचार्य महाभिज्ञं शान्तिश्रियं समादरात्।

प्रार्थयित्वा तदा देशाद् धर्त्तुमिच्छामि सदृशं॥७१॥



इति सर्वे वयं तत्र गोशृङ्गेऽग्रे समादरात्।

शान्तश्रियं महाचार्य संप्रार्थितुं वज्रावहै॥७२॥



इत्यादिष्टं नरेन्द्रण श्रुत्वा पुरोहितादयः।

सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥७३॥



ततः स नृपती राजा समन्त्रिजनपौरिकाः।

पुरोहितं पुरोधाय गोशृङ्गेऽग्रे मुदाचरत्॥७४॥



तत्र दृष्ट्वा तमाचार्य नृपतिः संप्रमोदितः।

समेत्य साञ्जलिर्नत्वा पादाब्जे समुपाश्रयत्॥७५॥



तथा सर्वेऽपि लोकाश्च समीक्ष्येनं प्रसादिताः।

समेत्य पादयोर्नत्वा समुपतस्थिरे मुदा॥७६॥



तान् सर्वान् समुपासीनान् समीक्ष्य स महामतिः।

शान्तश्रीस्तं महीपालं सम्पश्यन्नेवमादिशत्॥७७॥



राजन् सदास्तु वो भद्रं सर्वत्रापि निरन्तरं।

किमर्थमिह प्रायासि तत् मेऽग्रे वक्तुंमर्हसि॥७८॥



इति शान्तश्रिया प्रोक्ते नृपतिः स कृताञ्जलिः।

प्रणत्वा तं महाचार्य पश्यन्नेवं न्यवेदयेत्॥७९॥



भो श्रीशास्तयदर्थेऽहं भवच्छरणमाव्रजे।

तदर्थ प्रार्थयाम्यत्र मे समुपादेष्टुमर्हति॥८०॥



यत् मेऽत्र पापतो राज्ये महोत्पातं प्रवर्त्तते।

तच्छान्तिकरणोपायं समुपादेष्टुमर्हति॥८१॥



इति संप्रार्थिते राज्ञा शान्तश्री मन्त्रवित् सुधीः।

नृपते तं महासत्त्वं समालोक्यैवमादिशत्॥८२॥



नृपते पापतोऽत्रैवं महोत्पातं प्रवर्त्तते।

तत्पापशमनोपायं वक्षामि ते शृणुष्व तत्॥८३॥



यत्वमत्र नृपा राजा सर्वधर्मानुपालकः।

नीतिधर्म्मानुसारेण संपालयसि न प्रजाः॥८४॥



मन्त्रिणोऽपि तथा सर्वनीतिधर्मपराङ्मुखाः।

भुक्त्वा कामसुखान्येव प्रचरन्ति यथेच्छया॥८५॥



तथा भृत्या जनाश्चापि पौराश्चापि महाजनाः।

स्वकुलधर्ममुत्सृज्य प्रचरन्ति यथेच्छया॥८६॥



एवं सर्वेऽपि लोकाश्च दशाकुशलचारिणः।

सद्धर्माणि प्रतिक्षिप्य प्रचरन्ति प्रमादतः॥८७॥



तदैतत् पापवैपाक्यं भोक्तव्यंमेव हि भव।

येनैव यत्कृतं कर्म्म भोक्तव्यं तेन तत्फलं॥८८॥



एवं मत्वा नृपः स्वामी स्वयं नीत्या विचारयन्।

बोधयित्वा प्रयत्नेन लोकान् संपालयत् सदा॥८९॥



यद्यत्र नृपतिः सम्यग विचार्य प्रमादतः॥

स्वयं कामसुखान्येव भुक्त्वा चरद्यथेच्छया॥९०॥



तथा सर्वेऽपि लोकाश्च नृपचर्यानुचारिणः

भुक्त्वा कामसुखान्येव प्रचरेयुर्यथेच्छया॥९१॥



तदा तत्र महोत्पातं प्रवर्त्तत् पापतो ध्रुवं।

प्रवर्त्तिते महोत्पात लोका स्युः पापदुःखिताः॥९२॥



तत्र तान् नृपतिः पश्यन्नुपेक्ष्यं निर्दयश्चरत्।

लोकसंरक्षणे असक्तः स सर्वपापभाग् भवेत्॥९३॥



सर्वाण्यपि हि पापानि सर्वलोकैः कृतान्यपि।

पतित्वा नृपतेरग्रे प्रदद्युस्तत्फलानि हि॥९४॥



इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः।

नत्वा राजा स्वयं नीत्या विचारयन् समाचरेत्॥९५॥



इति तेन समादिष्टं शान्तश्रिया सुमन्त्रिणा।

श्रुत्वा स नृपतीर्भीत्या संतापतापिताशयः॥९६॥



शान्तश्रियं तमाचार्य समीक्ष्य शरणं गतः।

नत्वा पादाम्बुजे भूयः प्रार्थयदेवमादरात्॥९७॥



शास्तः सदा चरिष्यामि भवदाज्ञां शिरावहन्।

तत् मे यदुचितं धर्म्म तत् समादेष्टुमर्हति॥९८॥



इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः।

नृपतिं तं महासत्त्वं सम्पश्यन्नेवमादिशत्॥९९॥



राजञ्छृणु समाधाय वक्ष्यामि शुभकारणं।

यद्यस्ति ते कृपा लोक तत् कुरु यन्मयोदितं॥१००॥



तद्यथैतेषु तीर्थेषु स्नात्वा नित्यं यथाविधि।

शुचिशीलसमाचारः समाहितः त्रिमण्डलः॥१०१॥



सम्बोधिं प्रणिधानेन सर्वसत्त्वहितार्थभृत्।

त्रिरत्नभजनं कृत्वा चरस्व पोषधं व्रतं॥१०२॥



तत इमं जगन्नाथं धर्मधातुं जिनालयं।

यथाविधि समाराध्य संभजस्व सदादरात्॥१०३॥



तथा सर्वा इमा पञ्च देवताश्च यथाविधि।

समाराध्य समभ्यर्च्य संभजस्व सदादरात्॥१०४॥



इमं मञ्जुश्रीयंश्चापि चैत्यमाराध्य सर्वदा।

यथाविधि समभ्यर्च्य संभजस्व महोत्सवैः॥१०५॥



तथाष्टौ वीतरागांश्च समाराध्य यथाविधि।

समभ्यर्च्य महोत्साहैः संभजस्व सदादरात्॥१०६॥



तथा माहेश्वरीं देवी खगाननां समादरां।

समाराध्य समभ्यर्च्य संभजस्व यथाविधिं॥१०७॥



एते सर्वेऽपि देवा हि सर्वलोकाधिपेश्वराः।

सर्वसत्त्वहितार्थेन प्रादुर्भूताः स्वयं खलु॥१०८॥



तदत्रैतेषु देवेषु सर्वेषु श्रद्धया सदा।

विधिना भजनं कृत्वा संचरस्व जगद्धिते॥१०९॥



लोकांश्चापि तथा सर्वान् बोधयित्वा प्रयत्नतः।

सर्वेष्वेतेषु तीर्थेषु स्नानदानादिकं सदा॥११०॥



कारयित्वा महत्पुण्यं जगद्भद्रसुखार्थदं।

संबुद्धगुणसत्सौख्यं चारय पोषधं व्रतं॥१११॥



एतेषां च त्रिरत्नादिदेवानां भजनं सदा।

कारयित्वा महोत्साहैर्बोधिमार्गे प्रचारय॥११२॥



तदैतत्पुण्यभावेन सर्वत्रापि चरच्छुभं

तदा सर्वमहोत्पातं सर्वत्र विलयं व्रजेत्॥११३॥



तदा ब्रह्ममरेन्द्राद्याः सर्वे लोकाधिपा अपि।

सुदृशात्र समालोक्य पालयेयुः सदा मुदा॥११४॥



तदा संपालितेऽस्मिंन तैः सवैर्लोकाधिपैः पुनः।

सुभिक्षं श्रीशुभोत्साहं प्रवर्त्तयेद्धि सर्वदा॥११५॥



तदा सर्बेऽपि लोकाश्च नीरोगाः श्रीगुणाश्रयाः।

विरम्य पापमार्गेभ्यः संचरेरन् सदा शुभे॥११६॥



एवं धृत्वा सदा राजन् महापुण्य प्रभावतः।

अन्ते बोधिं समासाद्य संबुद्धपदमाप्नुयुः॥११७॥



एवं महत्तरं पुंण्यं त्रिरत्नभजनाद् भवं।

विज्ञायादौ त्रिरत्नानां भजस्व श्रद्धया स्मरन्॥११८॥



ततः सर्वेषु तीर्थेषु स्नात्वा शुद्धेन्द्रियाशयः।

त्रिरत्नं शरणं गत्वा भजस्व पोषधं व्रतं॥११९॥



ततः सर्वानिमान् देवान् धर्म्मधातुमुखान् सदा।

यथाविधि समाराध्य संभजस्व समर्चयन्॥१२०॥



लोकानपि तथा सर्वान् बोधयित्वा प्रयत्नतः।

सर्वेष्वेतेषु तीर्थेषु स्नापयित्वा यथाविधिं॥१२१॥



त्रिरत्नशरणे स्थाप्य संबोधिज्ञानसाधनं।

भद्श्रीसत्गुणाधारं चारय पोषधं व्रतं॥१२२॥



एतेषामपि देवानां कारयित्वा सदार्चनं।

बोधिमार्गे प्रतिष्ठाप्य चारय पालयञ्छुभे॥१२३॥



एवं कृत्वा महत्पुण्यं प्राप्य श्रीसद्गुणाश्रयः।

बोधिसत्त्व महासत्त्व महाभिज्ञा भवेद्ध्रुवं॥१२४॥



ततः संबोधिसंभारं पूरयित्वा यथाक्रमं।

अर्हन् बोधिं समासाद्य संबुद्धपदमाप्नुयाः॥१२५॥



इति शान्तश्रिया शास्ता समादिष्टं निशम्य सः।

नृपस्तथेति विज्ञप्य कर्तुमेवं समैच्छत॥१२६॥



ततः स नृपतिः सर्वान् मन्त्रिणस्सचिवाञ्जनान्।

पौरान् महाजनाश्चापि समामन्त्रयैवमादिशत्॥१२७॥



भो मन्त्रिणो जनाः सर्वेऽमात्याः पौरा महाजनाः।

आचार्येन यथादिष्टं तथा चरितुमर्हथ॥१२८॥



अहमपि तथा धृत्वा सर्वदा भद्रकारणं।

त्रिरत्नशरणं कृत्वा व्रतं चरितुमुत्सहे॥१२९॥



इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः।

पौरा महाजनाः सर्व तथेति प्रतिशुश्रुवुः॥१३०॥



ततः स नृपतिः सर्वेः सपुरोहितमन्त्रिभिः।

अमात्यैःसचिवैः पौरैर्महाजनैः समन्वितः॥१३१॥



सर्वेष्वेतेषु तीर्थेषु स्नात्वा यथाविधि क्रमात्।

शुद्धशीलः समाधाय प्राचरत् पोषधं व्रतं॥१३२॥



ततस्स विमलात्मान त्रिरत्नशरणं गताः।

धर्मधातुं समाराध्य समभ्यर्च्यभिजन्मुदा॥१३३॥



तथा वायुपुरे वायुदेवतांश्च यथाविधि।

अग्निपुरेऽग्निदेवं च नागपुरे फणेश्वरान्॥१३४॥



वसुपुरे वसुन्धारां सद्धर्म्मश्रीगुणप्रदां।

शान्तपुरे महेशानं सम्बरं सगणं क्रमात्॥१३५॥



यथाविधि समभ्यर्च्य श्रद्धया समुपाश्रितः।

तथा मञ्जुश्री यश्चैत्यं समभ्यर्च्याभजन् सदा॥१३६॥



तथाष्टौ वीतरागांश्च श्रीदेवींश्च खगाननां।

यथाविधि समाराध्य समभ्यर्च्याभजत् सदा॥१३७॥



तथा सर्वेऽपि लोकास्ते नृपवृत्तानुचारिणः।

स्नात्वा सर्वेषु तीर्थेषु शुद्धशीला समादरात्॥१३८॥



त्रिरत्नशरणं कृत्वा चरन्तः पोषधं व्रतं।

धर्म्मधातुमुखान् सर्वान् देवांश्चाभ्यर्च्य प्राभजन्॥१३९॥



तदैतत्पुण्यभावेन सर्वत्र शुभमाचरत्।

ततः सर्व महोत्पातं क्रमेण प्रशमं ययौ॥१४०॥



तदा सर्वेऽपि ते लोका नीरोगाः पुष्टितेन्द्रियाः।

महानन्दं सुखं प्राप्य बभूवु धर्म्मलालसाः॥१४१॥



तद् दृष्ट्वा न नृपो राजा प्रत्यक्षं धर्मसत्फलं।

अहो सद्धर्ममाहात्म्यमित्युक्त्वा नन्दिताचरत्॥१४२॥



तदा सुवृष्टिरेवात्र न बभूव कथंचन।

तद् दृष्ट्वा न नृपश्चासीद् दुर्भिक्षशंकिताशयः॥१४३॥



ततः स करुणाविष्टहृदयः स नृपः पुनः।

शान्तश्रियं तमाचार्य नत्वैव प्राह साञ्जलिः॥१४४॥



आचार्य कृपया तेऽत्र चरते शुभताधुना।

सर्वदापि महोत्पातं संशाम्यत समन्ततः॥१४५॥



सुवृष्टिरेव नाद्यापि प्रवर्त्तते कथंचन।

सुवृष्टिकरणोपायं तत् समादेष्टुमर्हति॥१४६॥



इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः।

नृपतिं तं महासत्त्वं संपश्यन्नेवमब्रवीत्॥१४७॥



साधु राजञ्छृणुष्वात्र सदा सुभिक्षकारणं।

सुवृष्टिकरणोपायमुपदेक्ष्यामि सांप्रतं॥१४८॥



लिखित्वा मण्डलं नागराजानां यद्यथाविधि।

तत्र नागाधिपान् सर्वानावाह्याराधयेवहि॥१४९॥



तदत्र त्वं महावीरा भवस्वात्तरः साधकः।

यथा मायोपदिष्टानि तथा सर्वाणि साधय॥१५०॥



इत्याचार्य समादिष्टं श्रुत्वा स नृपतिर्मुदा।

तथेति प्रतिविज्ञप्य तथा भवितुमैच्छत॥१५१॥



ततः स वज्रधृग् वारा नागपुरं यथाविधि।

लिखित्वा मण्डलं रम्यं प्रतिष्ठाप्य समार्च्चयत्॥१५२॥



तत्र नागाधिपान् सर्वानाचार्यः स यथाक्रमं।

समाराध्य समावाह्य पूजयितुं समालभत्॥१५३॥



तत्र नागाधिपाः सर्वे समागत्य यथाक्रमं।

स्वस्वासनं समाश्रित्य संतस्थिरे प्रसादिताः॥१५४॥



कर्कोटकोऽहिराडेक एव न लज्जयागतः।

तत्समीक्ष्य स शान्तश्रीर्महाचार्या महर्द्धिमान्॥१५५॥



नृपतिं तं महावीरं महासत्त्वं महर्द्धिकं।

महाभिज्ञं समालोक्य समामन्त्रयैवमादिशत्॥१५६॥



राजन् नागाधिपाः सर्वे समागता इहाधुना।

एक कर्क्कोटको नागराज एवेह नागतः॥१५७॥



विरूपोऽहं कथं नागराज महासभासने।

गत्वा तिष्ठेयमित्येवं ध्यात्वा नायाति लज्जया॥१५८॥



अतस्तं सहसा राजन् गत्वा तत्र महाह्रदे।

कर्क्कोटकं तमामन्त्रय संप्रार्थ्येह समानय॥१५९॥



यदि संप्रार्थ्यमानापि नागछेदिह सोऽहिराट्।

तदा बलेन धृत्वापि सर्वथा तं समानय॥१६०॥



इत्याचार्य समादिष्टं श्रृत्वा स नृपतिः सुधीः।

शान्तश्रियं तमाचार्य पश्यन्नेवं न्यवेदयत्॥१६१॥



आचार्य कथमकोऽहं तत्रागाढमहाह्रदे।

गत्वा बलेन नागेन्द्रं धृत्वा नेतुं प्रशक्नुयां॥१६२॥



इति निवेद्य तं राज्ञा श्रुत्वाचार्यः स मन्त्रवित्।

नृपतिं तं महावीरं सम्पश्यन्नेवमब्रवीत्॥१६३॥



हरिदश्वं समारुह्य पुष्पमत्मन्त्रशोधितं।

धृत्वा ब्रज प्रशक्नोषि मम मन्त्रानुभावतः॥१६४॥



दुर्वाकुण्डमिदं पुष्पं तत्रादौ क्षिप मां स्मरन्।

भ्रमन् यत्र चरेन् पुष्पं तत् यथानुसरन् बज॥१६५॥



इत्युपदेश्य दुवीकं कुण्डं मन्त्राभिशोधितं।

पुष्पं दत्वा नरेन्द्राय पुनरेवमुपादिशत्॥१६६॥



गत्वैवं नृपते तत्र नागपुरे समेत्य तं।

कर्कोटकं समामन्त्रय मद्गिरैवं निवेदय॥१६७॥



भो कर्क्कोटक नागेन्द्र यदर्थेदमिहाव्रज।

तद्भवानपि जानीयात् तथापि वक्ष्यते मया॥१६८॥



गोशृङ्गे महाचार्यः शान्तश्री र्वज्रभृत् कृती।

दुर्भिक्षशमनं कर्त्तुं सुवृष्टिचारणे सदा॥१६९॥



तत्र नागपुरे सर्वान् नागाधिपान् यथाविधि।

समाराध्य समावाह्य पूजयितुं समारभत्॥१७०॥



सर्वे नागाधिपास्तत्र वरुणाद्याः समागताः।

त्वमेव नागतः कस्मात् सहसा गन्तुमर्हति॥१७१॥



एवं संप्रार्थ्यमानोऽपि नागछेत् सोऽहिराड् यदि।

वलेनापि समाकृष्य सहसा नीयतां त्वया॥१७२॥



इति शान्तश्रिया शास्ता समादिश्य समादरात्।

प्रेषितोऽहं तदर्थेत्र तत् समगन्तुमर्हति॥१७३॥



इत्यादिश्य स आचार्यः पुष्पं मन्त्राभिशोधितं।

दत्वा तं नृपतिं वीरं प्रेषयत् तत्र सत्वरं॥१७४॥



इत्याचार्य समादिष्टं निशम्य स महामतिः।

दुर्वामुण्डं समादाय तथेत्युक्त्वा ततोऽचरत्॥१७५॥



ततः स नृपतिर्वीरः शास्तु राज्ञां शिरावहन्।

हरिदश्वं समारुह्य संचरन्स्तद् हदं ययौ॥१७६॥



तत्र तीरं समासाद्य पश्यं नृपः स तं हदं।

नत्वाचार्यमनुस्मृत्वा दुर्व्वाकुण्डं जलेऽक्षिपत्॥१७७॥



तन्प्रक्षिप्तं जलेऽगाढे भ्रमन् नागपुरेऽचरत्।

राजाप्यश्वं समारुह्य तत्पुष्पानुसरन् ययौ॥१७८॥



एवं नागपुरे गत्वा नृपतिः स विलोकयन्।

कर्कोटक महीन्द्रं तं सहसा समुपाचरत्॥१७९॥



तत्र समेत्य स वीरस्तं कर्कोटकमहीश्वरं।

यथाचार्याय संदिप्टं तथा सर्वं न्यवेदयत्॥१८०॥



तत् सन्निवेदितं सर्व श्रुत्वा नागाधिपापि सः।

किञ्चिदप्युत्तरं नैव ददौ तस्मै महीभुजे॥१८१॥



ततः स नृपतिश्चैवं निवेद्य तं महीश्वरं।

संपश्यन् समुपामन्त्रय प्रार्थयदमादरात्॥१८२॥



नागेन्द्रोऽत्र प्रसीद त्वं शास्तुराज्ञां शिरोवहं।

त्वदामन्त्र न एवाहं प्रागतस्तत् समाव्रज॥१८३॥



इति संप्रार्थ्यमानोऽपि राजा स भुजगाधिपः।

किञ्चित्प्राप्युत्तरं नैव ददौ तस्मै महीभुजे॥१८४॥



ततोऽसौ नृपतिवीरः शास्त्रादिष्टं यथा तथा।

सर्व निवेद्य तस्याग्रे पुनरेवमभाषत॥१८५॥



नागेन्द्र नापराधं मे यत्त्वया न श्रुतं वचः।

तन्मे शास्त्रा यथादिष्टं तथा नूनं चरेय हि॥१८६॥



इत्युक्तेपि नरेन्द्रेण कर्कोटको हि योऽपि सः।

किञ्चिदप्युत्तरं नैव ददौ राज्ञे महीभृते॥१८७॥



ततः स नृपतिवीरः शास्तुराज्ञां शिरोवहन्।

धृत्वा तमहिमाकृष्य गुरुत्मानिव प्राचरत्॥१८८॥



ततो हयात् समानीताः गुणकामदेवेन सः।

आनीते तेन मार्गेण वशिकाचल उच्यते॥१८९॥



एवं धृत्वा समाकृष्य स वीरस्तं महीश्वरं।

सहसा नागपुरे नीत्वा शास्तुरग्रे समाचरत्॥१९०॥



आचार्य भवदादेशात् तथा कर्क्कोटकोऽहिराट्।

धृत्वाकृष्य मयानीतस्तं समीक्ष्य प्रसीदतु॥१९१॥



इति निवेदितं राज्ञा श्रुत्वाचार्यः समादितः।

नृपतिं तं महावीरं सम्पश्यन्नेवमादिशत्॥१९२॥



साधु राजन् महावीर यदानीतस्त्वयाहिरात्।

तदेनमासने नीत्वा संस्थापय यथाक्रमं॥१९३॥



इत्याचार्य समादिष्टं श्रुत्वा स नृपतिस्तथा।

नागराजं तमामन्त्रय स्वासने संन्यवेशयत्॥१९४॥



तं दृष्ट्वा स्वासनासीनांमाचार्यः स यथाविधिं।

नागेन्द्रान् स्तान् समावाह्य समाराध्य समार्चयत्॥१९५॥



ततः स व्रजधृकाज्ञ आचार्यः स महीपतिः।

सर्वान् नागाधिपान् स्तुत्वा प्रार्थयुच्चैवमादरात्॥१९६॥



भो भवन्तो महानागराजाः सर्वे मयाग्रतः।

समाराध्य समावाह्य यथाविधि समर्चिताः॥१९७॥



तन्मे सदा प्रसीदन्तु दातुमर्हन्ति वाञ्छितं।

सर्वलोक हितार्थेव आराध्ययामि नान्यथा॥१९८॥



यदत्र पापसंचाराद् दुर्भिक्षं वर्त्ततेऽधुना।

तेन सर्वेऽपि दुःखार्त्ता लोकश्चरन्ति पातकं॥१९९॥



तद्दुर्भिक्षाभिशान्त्यर्थ सुभिक्षकारणं सदा।

सुवृष्टिचरणोपायं करोमीदं जगद्धिते॥२००॥



ते भवन्तोऽत्र सर्वेऽपि सर्वसत्त्वाभिरक्षणे।

चारयितुं समर्हन्ति सुवृष्टिमत्र सर्वदा॥२०१॥



इति संप्रार्थितं तेन शान्तश्रिया निशम्यत।

सर्वे नागाधिपास्तस्य तथेति प्रतिशुश्रुवुः॥२०२॥



तैस्तथेति प्रतिज्ञातं नागराजैर्निशम्य सः।

शान्तश्री नागराजान् स्तान् प्रार्थयदेवमादरात्॥२०३॥



भवन्तो मे प्रसीदन्तु यदहं प्रार्थये पुनः।

सर्वसत्त्वहिते दातुं तदप्यर्हन्ति वाञ्छितं॥२०४॥



इति संप्रार्थिते तेन शान्तश्रिया निशम्यते।

सर्व्वनागाधिपा तस्मै तथेति प्रतिशुश्रुवुः॥२०५॥



सर्वे नागाधिपैस्तैः सम्प्रतिज्ञातं निश्म्य सः।

आचार्यस्तानहीन्द्रांश्च प्रार्थयेदेवमादरात्॥२०६॥



भवन्तः श्रूयतां वाक्यं यत् मया प्रार्थ्यते पुनः।

तद्भवद्भिः प्रतिज्ञातं संधातव्यं तथा सदा॥२०७॥



यदात्र पापसंचाराद् दुर्वष्टिश्च भवेद् ध्रुवं।

तदा सुवृष्टिसंसिद्धिर्साधनं तत् प्रनीयतां॥२०८॥



तद्यथा भवतां पट्टे लिखित्वा मण्डलं शुभं।

यथाविधि प्रतिष्ठाप्य संस्थापितुं समुत्सहे॥२०९॥



दुर्वृष्टिः स्याद्यदाप्यत्र तदेवं पट्टमण्डलं।

प्रसार्य विधिनाराध्य समावाह्य समर्चयत्॥२१०॥



एवं प्रसार्य पट्टेस्मिन् संपूजिते यथाविधि।

सुवृष्टिरत्र युष्माभिः संभर्त्तव्या जगद्धिते॥२११॥



इति संप्रार्थिते तेन शान्तश्रिया निशम्यते।

सर्वनागाधिपास्तस्मै तथेति प्रतिशुश्रुवुः॥२१२॥



ततः स मन्त्रवित् प्राज्ञः सर्वनागाधिपाज्ञया।

लिखित्वा मण्डलं पट्टे प्रतिष्ठाप्य यथाविधि॥२१३॥



पश्चात् कालेऽत्र दुर्वृष्टिवृत्ते सुवृष्टिसाधने।

नागपुरेऽत्र संस्थाप्य निर्दग्ध संप्रगोपितं॥२१४॥



ततो वज्री स आचार्यः सर्वान् स्तान् भुजगाधिपान्।

संप्रार्थ्य विनयं कृत्वा विससर्ज्ज विनोदयन्॥२१५॥



ततः सर्वेऽपि ते नागराजाः स्वस्वालयं गताः।

मेघमालां समुत्थाप्य सर्वत्र समवर्षयन्॥२१६॥



तदा सुवृष्टिसंचाराद् दुर्भिक्षं विलयं ययौ।

सुभिक्षमंगलोत्साहं प्रावर्त्तत समन्ततः॥२१७॥



तदा सर्वेऽपि लोकास्ते महानन्दप्रमोदितः।

त्रिरत्नभजनं कृत्वा प्राचरन्त सदा शुभे॥२१८॥



ततः स नृपति राजा दृष्टसत्यः प्रसादितः।

शान्तिश्रियं तमाचार्यं समभ्यर्च्य यथाविधि॥२१९॥



नत्वाष्टाङ्गैः प्रसन्नात्मा कृत्वा प्रदक्षिणानि च।

कृताञ्जलिपुटः पश्यन् प्रार्थयच्चैवमादरात्॥२२०॥



भो भगवन् महाचार्य भवद्धर्म्मानुभावतः।

सर्वोत्पातं शमीभूत सुवृष्टिः संप्रवर्त्तते॥२२१॥



तदत्र सर्वदा नूनं निरुत्पातं समन्ततः।

धर्मश्रीमंगलोत्साहं भवदेव निरन्तरं॥२२२॥



एवं सदा कृपा दृष्टया संपश्यन् विषये मम।

निरुत्पातं शुभोत्साहं कर्तुमर्हति सर्वथा॥२२३॥



साम्प्रतं सफलं जन्म संसारजीवितं च मे।

यल्लोकाश्च सुखीभूताः संचरन्त सदा शुभे॥२२४॥



तदहं साम्प्रतं शास्तर्भवदाज्ञां शिरावहन्।

स्वराज्याश्रममाश्रित्य चरेयं पालयञ्जगत्॥२२५॥



तन्मेनुग्रहमाधाय कृपया संप्रसादितः।

संबोधिसाधने चित्तं स स्थितिं कर्त्तुमर्हति॥२२६॥



इति विज्ञप्य भूपालस्त स्य शास्तुः पदाम्बुजे।

नत्वानुज्ञां समासाद्य महोत्साहैः पुरं ययौ॥२२७॥



तत्र स नृप आश्रित्य समन्त्रि सचिवो मुदा।

बोधिचर्याव्रतं धृत्वा तस्थौ कुर्वन् सदा शुभं॥२२८॥



इति स्वयम्भू चैत्याश्रमनामसाधनसुवृष्टिचारणो नामाष्टमोऽध्यायः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project