Digital Sanskrit Buddhist Canon

सप्तम अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptama adhyāyaḥ

सप्तम अध्यायः

स्वयम्भूधर्मधातुवागीश्वरगुतिकृतप्रवर्तनो नाम



अथ भूयः स मैत्रेयो बोधिसत्त्वो महामतिः।

भगवन्त त मानस्य साञ्जलिरेवमव्रवीत्॥१॥



भगवच्छिलयाछाद्य धर्म्मधातुमिमं कदा।

केनैव हेतुना स्तूपं को व्यधादीष्टिकामयं॥२॥



भगवन्तत्समालोक्य सर्व्वाल्लोकान्सकौतुकान्।

एतद्धेतु समादिश्य विनोदयितुमर्हति॥३॥



इति संप्रार्थितं तेन मैत्रेयेन मुनीश्वरः।

भगवान्स महासत्त्वं सम्पश्यन्नेवमादिशत्॥४॥



शृणु मैत्रेय येनायं गुप्तिकृतो प्रकाशने।

एतद्धेतुं समाख्यासि सर्वे लोकाभिबोधने॥५॥



तद्यथा निवृतिं याते संबुद्धे कनकमुनौ।

विंशति वर्ष साहस्र नृर्णामायु यदा भवेत्॥६॥



तदाभू भगवांञ्छास्ता धर्म्मराजो मुनीश्वरः।

सर्वज्ञोऽर्हमहाभिज्ञः काश्यपाख्यस्तथागतः॥७॥



स संबुद्धो महापुर्या वाराणस्यामुपाश्रमे।

मृगदावे जिनावासे विजहार ससांधिकः॥८॥



तदा संबोधिसत्त्वोऽहं ज्योतिराजा भिधःकिल।

काश्यपस्य जगच्छाम्तुः शरणस्थ उपासकः॥९॥



यदा स काश्यपः शास्ता सर्वत्रैधातुकाधिपः।

सद्धर्म्मं समुपादेष्टुं सभासने समाश्रयेत्॥१०॥



तत्सद्धर्म्मामृतं पातुं सर्वे लोकाः समागताः।

ब्रह्मशक्रादयो देवाः सर्वे लोकाधिपा अपि॥११॥



ग्रहास्तारागणश्चापि विद्याधराश्चसाप्सराः।

सिद्धासाध्याश्च रुद्राश्च यक्ष गुह्यक किन्नराः॥१२॥



कुम्भाण्डा राक्षसाश्चापि नागाश्च गरुडा अपि।

ऋषयस्तापसाश्चापि तीर्थिका ब्रह्मचारिणः॥१३॥



यतयो योगिनश्चापि तथान्येचाप्युपासकाः।

ब्राह्मणा क्षत्रियाश्चापि राजानोपि महीभृतः॥१४॥



वैश्याश्च मन्त्रिणोऽमात्या भृत्या सैन्याधिपागणा अपिः

शिल्पिनो वणिजश्चापि सार्थवाहो महाजनाः॥१५॥



पौरा जानपदा ग्राम्यानैगमाः पार्वता अपि।

तथोन्य देशिका लोका अपि सर्व्वे समागताः॥१६॥



तत्र सभासनासीनं संबुद्ध स्तं मुनीश्वरं।

भगवन्तं समालोक्य सर्वे संघाः समाययुः॥१७॥



भिक्षवः श्रावकाः सर्वे यतयो योगिनोऽपिः।

चैलकाव्रतिनश्चापि सर्वे उपासका अपि॥१८॥



भिक्षुण्योपि तथा सर्वाश्चैलिकाः व्रतिण्यः।

श्राविकाश्चापिः तथान्याः समुपागताः॥१९॥



बोधिसत्त्वा महासत्त्वा ऋषयो ब्रह्मचारिणः।

तीर्थिका वैष्णवाः शैवार्निर्गन्थाश्च तपस्विनः॥२०॥



तथान्येऽपि समायाताः सद्धर्मगुणलालसाः।

सर्वेऽपि ते मुनीन्द्र स्तं दृष्ट्वा ययौ प्रमोदिताः॥२१॥



तत्र सर्वेऽपि ते लोकास्तं मुनीन्द्रं यथाक्रमं।

अभ्यर्च्य विधिना नत्वा तत्सभायामुपाश्रयन्॥२२॥



तत्र सर्वेऽपि ते लोकाः परिवृत्य समन्ततः।

पुरस्कृत्य मुनीन्द्रन्तं संपश्यन्तः समाहिताः॥२३॥



तत्सद्धर्म्मामृतं पातुं तृषार्त्ता इव सागरं।

साञ्जलयः प्रसन्नास्याः समातस्थु यथाक्रमं॥२४॥



तांलोकान्समुपासीनान्सर्वान्सघान्सुरानपि।

सर्वाल्लोकाधिपांश्चापि दृष्ट्वा स भगवाञ्जिनः॥२५॥



आर्यसत्यं समारभ्य संबोधि ज्ञानसाधनं।

आदि मध्यान्त कल्याणं सद्धर्म्म समुपादिशत्॥२६॥



तत्सद्धर्म्मामृतं पीत्वा सर्वेऽलोकाः प्रवोधिताः।

सदा भद्रसुखं प्राप्नु समीच्छिरे सुसंवरं॥२७॥



ततः सर्वेऽपि ते लोकाः संबुद्ध गुणवाञ्छिनः।

बोधिचर्या व्रतं धृत्वा संचरिरे सदा शुभे॥२८॥



तदा सर्वाणि कार्याणि कृत्वा वज्री स योगवित्।

मञ्जुदेवः स भार्यान्ते स्वयं निर्वृतिमाययौ॥२९॥



ततो गत्वा महाचीने स मञ्जुश्री जिनाश्रमें।

स्वदिव्यवपुराधाय तंस्थौ भार्या समन्वितः॥३०॥



अत्र तेषां शरीराणि शिष्याः सर्वेऽपि पावके।

संस्कृत्य विधिनास्थीनि गृहित्वा समशोधयन्॥३१॥



ततस्तेऽत्र तदस्थीनिगर्व्यस्थाप्य यथाविधि।

चैत्यं कृत्वा प्रतिस्थाप्य समभ्यर्च्य सदाभजन॥३२॥



येयीदं चैत्यमभ्यर्च्य भजन्ति श्रद्धया सदा।

ते तस्य मञ्जुदेवस्य सद्धर्म्मगुणमाप्नुयुः॥३३॥



मत्वैवं येभिवाञ्छन्ति मञ्जुश्री धर्म्मसद्गुणं।

अत्र मञ्जुश्री यश्चैत्य सर्वदा प्रभजन्तु ते॥३४॥



इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाजनाः।

सर्वे तथेति श्रुत्व प्रात्यनन्दत्प्रवोधिताः॥३५॥



अथाऽसौ भगवान् भूयः शाक्यसिंहो मुनीश्वरः।

मैत्रेय स्तं सभांचापि समालोक्यैवमादिशत्॥३६॥



तत श्चिराङ्गते काले गौडराष्ट्रे नराधिपः।

अभूत्प्रचण्ड देवाख्यः श्रीमान् वज्रधरांशजः॥३७॥



स राजा सुचिरं राज्यं नीतिधर्म्मेण पालयन्।

सर्वाल्लोकाञ्छुभे धर्मे नियुज्य समचारयत्॥३८॥



एतद्धर्म्मानुभावेन सदा तत्र समन्ततः।

सुभिक्षं मंगलोत्साहं निरुत्पातनवर्क्तत॥३९॥



तदा सर्वेऽपि ते लोकाः सद्धर्मगुणलालसाः।

कुलधर्म समाचारा दानशीलव्रतारताः॥४०॥



सत्यसंघा निकाधीराश्चतुर्ब्रह्मविहारिणः।

कुलेशभजनं कृत्वा प्राचरन्त मिथो हिते॥४१॥



दृष्ट्वा स नृपती राजा सर्वाल्लोकाञ्छुभार्थिनः।

मुदितस्तान्समामन्त्रय सम्पश्यन्नेवमादिशत्॥४२॥



भो लोकाः पौरिकाः सर्वे सद्धर्म यदि वाञ्छथ।

त्रिरत्न भजनं कृत्वा चरत बोधिसम्वरं॥४३॥



तेन यूयं शुभात्मानः परिशुद्धत्रिमण्डलाः।

बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः॥४४॥



ततस्ते निर्मलात्मानो निःक्लेशो विमलेन्द्रियाः।

अर्हन्ता बोधिमासाद्य सम्बुद्धपदमाप्स्यथः॥४५॥



इत्यादिष्टं नरेन्द्रेण सर्वे लोका निशंम्यते।

तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्प्रवोधिताः॥४६॥



ततः सर्वेऽपि ते लोका धृत्वा राज्ञानुशासनं।

त्रिरत्नभजनं कृत्वा प्राचरन्त शुभाचरिं॥४७॥



दृष्ट्वा तान्सकलाल्लोकान् बोधिचर्या व्रतारतान्।

महानन्द प्रसन्नात्मा पुनरेव व्यचिन्तयन्॥४८॥



सफलं जीवितं जन्म ममयेच्छासनारताः।

सर्वेऽलोकाः समाधाय प्रचरन्ति सदा शुभे॥४९॥



अथ प्रचण्डदेवौऽसौ दृष्ट्वा राज्यं महोत्सवं।

संसारेऽनर्थ संदृष्ट्वा चिन्तयामास सात्मवत्॥५०॥



अत्राहं जलसांक्रान्तोऽनु नस्यां जिर्ण्णितेन्द्रियः।

तदारोगाभिभूतोऽपि व्रजेयंमणं ध्रुवं॥५१॥



तदत्रैव कियत्कालं तिष्ठेयं सन्सुखान्वितः।

अवश्यं भाविनो भावा भवन्ति भवचारिणां॥५२॥



सदा भवे भवेद् भद्रमेव सद्धर्म्मचारिणां।

दुःखमेव सदा कामचारिणां भवचारणे॥५३॥



तस्मादहं परित्यज्य कामाश्रय गृहाश्रमं।

निर्जने वन एकाकी विहरेयं समाहितः॥५४॥



स्मृत्वा रत्नत्रयं ध्यात्वा संबोधिनिहिताशयः।

बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते॥५५॥



इति निश्चित्य स प्राज्ञः प्रचण्डदेव आत्मवित्।

नृपतिमन्त्रिणः सर्वान्समामन्त्र्यैवमादिशत्॥५६॥



भो सर्व मन्त्रिणो यूयं शृणुध्वं मे वचो हितं।

अथ मयाख्यातं तथा चरितुमर्हथ॥५७॥



तद्यथा जरासाक्रान्तो वृद्धोस्यां जीर्णितेन्द्रियः।

तथा रोगाभिभूतोऽपि ग्रसिष्ये मृत्युना ध्रुवं॥५८॥



इति मे त्रस्यते चित्तं दुर्गति भयशंकितं।

अवश्यं भाविनो भावा भवचारिणां॥५९॥



भवे भवेत् सदा भद्रमेव सद्धर्मचारिणां।

दुःखमेव सदाकामचारिणां भवचारिणे॥६०॥



अनर्थराज्यं विषयोपभोग्यं भयंकरं सर्पभयाकुलं यत्।

अनित्यमसारेति विचिन्त्य तत्र आगारमध्यावसितुं न रोचते॥६१॥



इति मत्वाहमुत्सृज्य कामाश्रयं गृहाश्रमं।

वनाश्रमे शुभारामे विहर्तुमुत्सहेऽधुना॥६२॥



तदहं स्वात्मजं पुत्रं शक्तिदेवं नृपासने।

प्रतिष्ठाप्य नृपं कर्तुमिच्छामि सांप्रतं खलु॥६३॥



तद् भवन्तो निशम्यात्र सर्वेऽपि मम शासनं।

अभिषिंच्य नृपं कृत्वा भजतैनं ममात्मजं॥६४॥



इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः।

प्रमाणं शासनं भर्तुरित्येवं प्रतिशुश्रुवः॥६५॥



तदा स राजा पुत्रं शक्तिदेवमामन्त्रयैवमाह।

भेदो दण्डः सामदानमित्यत्युपायचतुष्टयं॥६६॥



अत्राहं जरसाभिक्रान्तं नूनं स्याद् निर्जितेन्द्रियं।

तदा रोगाभिभूतेऽपि वज्रेयं मरणं धुवं॥६७॥



तद् वनाश्रयमिच्छामि श्रेयः श्लाघेन यत्मना।

पुरो मृत्यु रिपुं हन्ति गृहसंरक्तमेव वा॥६८॥



तस्मात् संसारभीतो मे वहुधा भयशंकया।

नात्र स्थातुं मनोरेमे गच्छामि निर्जनं वनं॥६९॥



तस्मात् मया यथा प्रोक्तं तथा चरितुमर्हसि।

प्रजानां पालनं कृत्वा धर्मनीत्या समाचर॥७०॥



लोकान् मा खेख यत्तापैः कुलधर्म्म समाचर।

परेष्वपि दयायुक्तैर्दानं हि श्रद्धया कुरु॥७१॥



प्राणातिपातादत्तादान काममिथ्यादिं मा कुरु।

मा मृषावाद पैशून्यं पारुष्यं संभिन्नमेव च॥७२॥



माभिध्या व्यापाददोषैर्मिथ्यादृष्ट्यादि संत्यज।

एतानि तानि सर्वाणि धारय दृढचेतसा॥७३॥



पापानां मूल एषो हि सुगतेनेति देशितः।

इत्थं कृतेऽपि नृपतेरितयो न भविष्यति॥७४॥



तत्कस्मात् धर्म्मेण प्राप्यते राज्यं धर्म्मेण धनवर्द्धनं।

धर्म्मेण धनसाध्यन्ते धर्म्मेण काम सिध्यते॥७५॥



कामसिध्येन मोक्षं च प्राप्यते नात्र संशयः।

अनेन ज्ञानमार्गेण सशास नृपतिः सुतं॥७६॥



ततःस जनको राजा शक्तिदेवं ममात्मजं।

अभिषिंच्य प्रतिस्थाप्य नृपासने नृपं व्यधात्॥७७॥



ज्ञानांकुशभयेनैव कुंचितः सगजो यथानिव।

तत्र स जनकः सर्व पुत्राय सर्वमर्प्पयेत्॥७८॥



त्यक्त्वा परिग्रहान् सर्वान् पुनरेवमभाषत।

अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुं॥७९॥



सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत्।

नमाम पितरं तेन श्रुत्वा वाक्यं रसानिव॥८०॥



धृत्वाज्ञां ते यथा तात प्रजानां प्रतिपालने।

इति प्रशाश्य ततो भूपः प्रचण्डदेव सन्मतिः॥८१॥



प्रबोध्य पुत्रपत्न्यादिं एको ययौ वनाश्रमे।

तृणासनस तत्र स निर्जनेरण्ये विविक्ते उतजाश्रये॥८२॥



तृणासनसमासीन तस्थौ ध्यान समाहितः।

तत्रैकं विहरन् कंचित्कालं स ऋषिधर्म्मभृत्॥८३॥



सर्वसत्त्वहितोत्साही मनसैवं व्यचिन्तयत्।

किमेवं निर्ज्जनेऽरण्ये ध्यात्वैको विहरन्निह॥८४॥



कस्मै समुपदेक्ष्यामि सद्धर्म्म बोधिसाधनं।

दानशीलक्षमावीर्यध्यानप्रज्ञासमुद्भवं॥८५॥



पुण्यं सत्त्वहितार्थाय समाख्यातं मुनीश्वरैः।

तदेवं निर्ज्जने स्थित्वा किं मे धर्मार्थसाधनं॥८६॥



विना सत्त्वहितार्थेन निरर्थ तपसापि हि।

किमत्र दुष्करेणापि तपसा सिद्धिसाधनं॥८७॥



केवलं सद्गतौ श्रीमत्सौख्यलाभार्थमेव यत्।

विना सत्त्वहितार्थेन निष्फलं सिद्धिसाधनं॥८८॥



तदत्र निर्ज्जने स्थित्वा तपसा निष्फलं मम।

यत्सत्त्वानां हितार्थाय धर्म्मश्रीगुणसाधनं॥८९॥



विद्यासिद्धिः समृद्धिश्च क्षणं वीर्यबलं शुभं।

तत् ममैतानि सर्वाणि संसिद्धि संमितान्यपि॥९०॥



विना सत्त्वहितार्थेन निरर्थानि पशोरिव।

तदिदं व्रतमृसृज्य दुष्करं बोधिमानसः॥९१॥



बोधिचर्याव्रतं धृत्वा चरेऽहं जगद्धिते।

तस्मात् तीर्थेषु तीर्थेषु पीठेषु पुण्यभूमिषु॥९२॥



सद्धर्म्मदेशनां कुर्वन् सत्त्वेभ्यः प्रचराण्यहं।

एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः॥९३॥



आशु बोधिं समासाद्य संबुद्धपद माप्नुयां।

इति निश्चित्य स प्राज्ञः प्रचण्डदेव उत्थितः॥९४॥



ततः सत्त्वहितार्थेन प्रचचार समाहितः।

एवं सः प्रचरन् धर्म्ममुपदेश्य समन्ततः॥९५॥



पुण्यक्षेत्रेषु तीर्थेषु पीठेषु प्राग्रमन् मुदा।

एवं भ्रमन् स सर्वत्र भूतलेषु यथाक्रमं॥९६॥



क्रमेण संचरन्नत्र हिमालये समाययौ।

अत्रायातः स संविक्ष्य सर्वत्र संप्रमोदितः॥९७॥



अहो हीदं महापीठमितिप्रोक्ताभ्यनन्दत।

ततः स इदमालोक्य धर्म्मधातुं जिनालयं॥९८॥



ज्योतिरूप्यं प्रसन्नात्मा प्रणत्वैह समाययौ।

अत्र स समुपागत्य संमिक्ष्येनं जिनालयं॥९९॥



यथाविधि समभ्यर्च्य श्रद्धाभक्ति प्रसन्नधीः।

नैकप्रदक्षिणीकृत्य स्तुत्वा गीतैर्मनोहरैः॥१००॥



अष्टांगै प्रणतिं कृत्वा ध्यात्वा जप्त्वा भजन् मुदा।

ततश्चेदं स संवीक्ष्य मञ्जुदेवस्य निर्म्मितं॥१०१॥



चैत्यमभ्यर्च्य संस्तुत्वा गीतैर्नत्वा भजन् मुदा।

ततोऽसौ च महादेवी योनिरूपां खगाननां॥१०२॥



समालोक्य प्रसन्नात्मा यथाविधि समर्च्चयेत्।

तत्रापि स महासत्त्व स्तुत्वा गीतैर्मनोहरैः॥१०३॥



अष्टाङ्गैः प्रणतिं कृत्वा प्रदक्षिणात्यनेकशः।

श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा समाहितः॥१०४॥



तद् विद्या धारणीमन्त्रं जपित्वा प्राभ्यनन्दत।

ततोऽसौ च महासत्त्वो वाग्मतीप्रमुखान्यपि॥१०५॥



तीर्थान्येतानि सर्वाणि स समीक्ष्य प्राभ्यनन्दत।

तत स तेषु तीर्थेषु सर्वेष्वपि यथाक्रमं॥१०६॥



स्नात्वा दानव्रतादीनि कृत्वा भजन् प्रमोदितः।

ततोऽष्टौ वीतरागांश्च दृष्ट्वा स संप्रहर्षितः॥१०७॥



यथाविधि समभ्यर्च्य स्तुत्वा नत्वा भजन् क्रमात्।

ततः प्रचण्डदेवः स बोधिसत्त्वः प्रसादितः॥१०८॥



अत्रैव सर्वदाश्रित्य व्रतं चरितुमैच्छत।

ततः स विमलालोक्य हिमालये समन्ततः॥१०९॥



सद्धर्म परमानन्दं भुक्त्वोत्सहे सुनिवृत्तौ।

ततः स मञ्जुदेवस्य शिष्यं शासन सम्भृतं॥११०॥



सद्गुरुं समुपाश्रित्य प्रार्थयदेवमानतः।

भदन्तात्र पुण्यक्षेत्रे महापीठे हिमालये॥१११॥



प्रब्रज्यासम्बरं धृत्वा संस्थातुमुत्सहे सदाः।

तद् भवान् कृपया महयं संबोधिज्ञानसाधनं॥११२॥



प्रब्रज्यासम्वरं दातुं समर्हति जगद्धिते।

इति संप्रार्थितं तेन निशम्य स गुणाकरः॥११३॥



बोधिसत्त्वं सुविज्ञं तं सम्पश्यन्नेवमब्रवीत्।

एहि भद्र समीच्छा ते यद्यस्ति बौद्धसम्बरे॥११४॥



प्रवज्या व्रतमाधाय संचरस्व समाहितः।

इत्युक्त्वा स महाभिज्ञः प्रव्रजितं विधाय तं॥११५॥



बोधिचर्याव्रतं दत्वा प्रचारयेज्जगद्धिते।

तत्र स मुण्डितपात्री सुरक्त चीवरावृतः॥११६॥



ब्रह्मचारी यतिर्भिक्षुनिः क्लेशोर्हन् सुधीरभूत्॥

शान्तश्रीभिक्षुरिति नामोऽभूत्।

ततः स सर्वविच्छास्ता बोधिसत्त्वा हितार्थदिक्॥११७॥



स देवासुरलोकानामपि वन्द्यार्चितोऽभवत्।

तदारभ्य स शान्तश्रीधर्मधातो जिनालये॥११८॥



त्रिरत्नभजनं कृत्वा तस्थौ बोधिव्रतं चरन्।

स एकस्मिन् दिने चेमं ज्योतीरूपं प्रभास्वरं॥११९॥



रत्नपद्मासनासीनं पश्यन्नेवं व्यचिन्तयेत्।

अहो ह्ययं स्वयं जातो ज्योतिरूपो प्रभास्वरः॥१२०॥



रत्नपद्मासनासीनः संतिष्ठते जगद्धिते।

कियत्कालमयं श्रीमान् धर्म्मधातुर्जिनालयः॥१२१॥



एवं संभाषयन् लोकान् संस्थास्यते जगद्धिते।

यतः कलौ समया ते लोक पञ्चकषायिते॥१२२॥



सर्वे लोका दुराचारा भविष्यन्ति दुराशयाः।

मदाभिमानिनो दुष्टा लोभिनः कामचारिणः॥१२३॥



ईर्ष्यालवः प्रमत्ताश्च मात्सर्यव्याकुलाशयाः।

क्लेशाहंकारगर्वान्धा निर्विवेकाः प्रमादिनः॥१२४॥



कामभोगातिसंरक्ता दशाकुशलचारिणः।

तदा कथमयं श्रीमान् ज्योतीरूपः प्रभास्वरः॥१२५॥



रत्नपद्मासनासीन एवं तिष्ठेज्जगद्धिते।

नूनं ये लोभिनो दुष्टाः क्लेशव्याकुलमानसाः॥१२६॥



इमं चैत्यं प्रतिक्षिप्य रत्नानि संहरेत् तदा।

दुष्टा च तथान्येऽपि दुष्टाः क्लेशाभिमानिनः॥१२७॥



ज्योतीरूपमिमं चैत्यं ध्वंसयिष्यन्ति सर्वथा।

एवं तदा कलौ काले ध्वंसितेऽस्मिन् जिनालये॥१२८॥



महापातकसंभूतं महोत्पातं भवेद् ध्रुवं।

इति हेतोरहं धर्मधातोरस्य सुरक्षणे॥१२९॥



गुप्तिकर्त्तु शिलाछाद्य चैत्यं कुर्या महोछ्रयं।

तदा सर्वेऽपि लोकास्ते इमं स्तूपं महोछ्रितं॥१३०॥



समीक्ष्य श्रद्धया भक्त्या भजिष्यन्ति प्रसादिताः।

तदैतत् पुण्यभावेन सर्वदात्र समन्ततः॥१३१॥



सुभिक्षं मङ्गलोत्साहं निरुत्पातं भवेद् ध्रुवं।

इति ध्यात्वा स शान्तश्रीः शास्तारं तं पुनर्मुदा॥१३२॥



उपेत्य साञ्जलिर्नत्वा प्रार्थयदेवमादरात्।

भदन्त सद्गुरोशास्तर्यदिच्छामिह साम्प्रतं॥१३३॥



धर्म्माधातुमिमं चैत्यं गुप्ति कर्त्तुं सुरक्षणे।

तदूर्द्ध शिलयाछाद्य स्वीष्टिकाभिः समुछ्रितं॥१३४॥



स्तूपं कृत्वा प्रतिष्ठाप्य स्थिरीकर्त्तुं समुत्सहे।

इत्यत्र मे भवाञ्छास्ता गुप्ति कृत्वाभिरक्षणे॥१३५॥



धर्म्मधातोः जगद्भर्त्तुरनुज्ञां दातुमर्हति।

इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः॥१३६॥



महामतिर्महासत्त्वं तं पश्यन्नेवमब्रवीत्।

भद्रस्वंयम्भूवांस्तस्य गुप्तिकर्त्तुं यदीच्छसि॥१३७॥



प्रत्येकं श्रावकं यानं मुक्त्वा महति संश्रितः।

वज्राभिषेकमादाय चर वज्रव्रतं पुनः॥१३८॥



ततो मारान् विनिर्ज्जित्य समाराध्य जिनेश्वरं।

संप्रार्थ्य शिलयाच्छाद्य कुरु स्तूपं समुछ्रितं॥१३९॥



इति शास्ता समादिष्टं निशम्य स प्रमोदितः।

शास्तारं तं प्रणत्वा च प्रार्थयदेवमादरात्॥१४०॥



सद्गुरुर्मे भवाञ्छास्ता धर्म्मधातुसुरक्षणे।

वज्रचर्याव्रतं दत्वा चारय मां जगद्धिते॥१४१॥



इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः।

महामतिर्महासत्त्वं तं समीक्ष्यैवमब्रवीत्॥१४२॥



यदि श्रद्धास्ति ते भद्र वज्रचर्या महाव्रतं।

यथाविधि प्रदास्यामि तद् गृहाण जगद्धिते॥१४३॥



इत्युक्त्वा स महाचार्यस्तस्मै शान्तश्रिये क्रमात्।

साभिषेकं महायाने वज्रचर्याव्रतं ददौ॥१४४॥



शान्तश्रीवज्राचार्य इति स्थापितः तत्क्षणेऽर्ये चाधिज्ञप्राप्तोऽभूत्।

ततः प्राप्ताभिषेकः स शान्तश्री वज्रयोगवित्॥१४५॥



स स्वात्मा दक्षिणां तस्मै गुरवे प्रददौ मुदा।

ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान्॥१४६॥



स्वकुलेशं समाराध्य सगणं प्राभजन् मुदा।

ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान्॥१४७॥



सद्धर्म्मसाधनोत्साही सर्वविद्याधिपोप्यभूत्।

ततः सास्तुरनुज्ञां स समासाद्य प्रसादितः॥१४८॥



धर्मधातुं समाराध्य प्रार्थयदेवमानतः।

भगवन् नाथ सर्वज्ञ भवतां रक्षणाय यत्॥१४९॥



ज्योतीरूपं समाच्छाद्य चैत्यं कर्त्तुमिहोत्सहे।

तद् भवान् त्रिजगन्नाथ कृपया मे प्रसीदतु॥१५०॥



यद त्राप्यपरार्ध मे तत्सर्व क्षन्तुमर्हति।

इति संप्रार्थ्य स प्राज्ञ ज्योतीरूपं जिनालयं॥१५१॥



स रत्नपद्माछाद्य शिलया समगोपयत्।

तदुपरीष्टिकाभिश्च विधाय चैत्यमुच्छ्रितं॥१५२॥



यथाविधि प्रतिष्ठाप्य महोत्साहैः सदाभजत्।

तत इदञ्च पुच्छाग्रं मञ्जुदेवस्य निर्म्मितं॥१५३॥



चैत्यं स शिलयाछाद्य स्तूपं व्यधात्तथोत्तमं।

इदं स्तूपं च स शान्तश्रीः प्रतिष्ठाप्य यथाविधि॥१५४॥



सर्वदा श्रद्धया भक्त्या महोत्साहैर्मुदाभजत्।

ततश्चासौ महाचार्यं आराध्य पञ्चदेवताः॥१५५॥



पञ्च सुताः पुरेष्वेवं प्रतिष्ठाप्य सदाभजत्।

तद् यथा देवता पञ्च प्रथमं वायुदेवता॥१५६॥



वायुपुरे प्रतिष्ठाप्य वह्निपुरोऽग्निदेवता।

नागपुरे च नागेन्द्रो वसुपुरे वसुन्धरां॥१५७॥



शान्तिपुरे महाश्रीमत्सम्बरं सुगणं तथा।

एतान् सर्वान् समाराध्य स आचार्य यथाविधि॥१५८॥



महोत्साहैः समभ्यर्च्य प्राभजन् सर्वदा मुदा।

एवं कृत्वा स आचार्य शान्तश्रीः कृतकृत्यौ महर्द्धिकः॥१५९॥



भद्रश्रीमन्त्रसंसिद्धः सर्वविद्याधिपोऽभवत्।

ततो भूयः स आचार्यो बोधिसत्त्वा महामतिः॥१६०॥



सर्वसत्त्वहितोत्साही ध्यात्वैवं समचिन्तयत्।

अत्रैवमहमाराध्य सर्वान् देवान् यथाविधि॥१६१॥



प्रतिष्ठाप्य समभ्यर्च्य महोत्साहैर्भजे मुदा।

तथात्र सर्वदा धर्म्मधातुवागीश्वरं सदा॥१६२॥



स्मृत्वा ध्यात्वा समाराध्य संतिष्ठेयं जगद्धिते।

इति ध्यात्वा स शान्तश्रीराचार्यस्त्रिगुणार्थभृत्॥१६३॥



सर्वसत्त्वहितार्थेन तथावत्रैव नन्दितः।

एवं ता देवता भक्त्या भजन्ति ये यथाविधि॥१६४॥



ते भद्रश्रीगुणापन्ना भवेयुर्बोधिचारिणः।

तद् विशेषफलं चापि शृणु मैत्रेय सांप्रतं॥१६५॥



सर्व सत्त्वानुबोधार्थ वक्ष्याम्यत्र समासतः।

तद्यथा ये समाराध्य सगणां वायुदेवतां॥१६६॥



यथाविधि समभ्यर्च्य संभजन्ते समादरात्।

तेषां वातमहोत्पातभयं क्वापि न विद्यते॥१६७॥



नीरोग्यं श्रीसमापन्नं कामभोज्यं सदा भवे।

ये चाप्येवं समाराध्य सगणां वह्निदेवतां॥१६८॥



यथाविधि समभ्यर्च्य सम्भजन्ते समादरात्।

तेषां वह्निमहोत्पातं भयं क्वापि न विद्यते॥१६९॥



परिपुष्टेन्द्रियारोग्य महासौख्यं सदा भवे।

ये चाप्येवं समाराध्य सगणां नागदेवतां॥१७०॥



यथाविधि समभ्यर्च्य प्रभजन्ते सदा मुदा।

तेषां न विद्यते क्वापि दुर्भिक्षोत्पातजं भयं॥१७१॥



भद्रश्रीरत्नसंपत्तिकामभोज्यं सदा भवे।

ये चाप्येवं समाराध्य सगणां श्रीबसुन्धरां॥१७२॥



यथाविधि समभ्यर्च्य संभजन्ते समादरात्।

तेषां दारिद्रयदुःखादि भयं नास्ति कदाचन॥१७३॥



भद्रश्रीसद्गुणापन्नमहासंपत्सुखं सदा।

ये चाप्येवं समाराध्य सगणं सम्बरं जिनं॥१७४॥



यथाविधि समभ्यर्च्य संभजन्ते सदादरात्।

तेषां मारापसर्ग्ग च भयं क्वापि न विद्यते॥१७५॥



सद्धर्म्मरत्नसंपत्तिमहैश्वर्यसुखं सदा।

ये चेदं चैत्यमाराध्य मञ्जुदेवस्य निर्म्मितं॥१७६॥



यथाविधि समभ्यर्च्य संभजन्ते समादरात्।

तद्दुर्भ्भगा दुराचारा दुष्टा स्युर्न कदाचन॥१७७॥



सर्वे धर्माधिपा नाथा भवेयुः श्रीगुणाकराः।

ये चापीदं समाराध्य धर्म्मधातुं जिनालयं॥१७८॥



यथाविधि समभ्यर्च्य सम्भजन्ते समादरात्।

ते सर्व्वे विमलत्मानो भद्रश्रीसद्गुणाश्रयाः॥१७९॥



बोधिसत्त्वा महाभिज्ञा भवेयु बोधिचारिणः।

य एता देवताः सर्वाः स्मृत्वा ध्यात्वापि सर्वदा॥१८०॥



नामापि च समुच्चार्य संभजन्ते समाद्रिताः।

तेऽपि सर्वे न यास्यन्ति दुर्ग्गतिं च कदाचन॥१८१॥



सदा सद्गतिसंजाता भवेयुः श्रीगुणाश्रयाः।

ततस्ते सुकृतारक्ताः सधर्म्मगुणलालसाः॥१८२॥



त्रिरत्नशरणं कृत्वा संचरेरन् सदा शुभे।

ततस्ते विमलात्मानः परिशुद्धेन्द्रियाशयाः॥१८३॥



बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः।

सर्वसत्त्वहिताधानं चरेयुर्बोधिसम्बरं॥१८४॥



ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं।

दशभूमीश्वरा नाथा भवेयुः सुगतात्मजाः॥१८५॥



ततस्ते निर्म्मलात्मानः संसारगति निःस्पृहाः।

अर्हन्तः सवल मारं निर्जित्य स्युर्निरंजनाः॥१८६॥



त्रिविधां बोधिमासाद्य सद्धर्म्मगुणभास्कराः।

सर्वसत्त्वहितार्थेन संबुद्धपदमाप्नुयु॥१८७॥



येप्येतद्गुणमाहात्म्यं श्रुत्वाप्यत्यनुमोदिताः।

तथा तत्पुण्यमाहात्म्यं प्रशसन्ति समादरात्॥१८८॥



तेऽपि सर्वे विकल्माषाः परिशुद्धित्रिमण्डलाः।

श्रीमन्तः सद्गुणाधारा भवेयु बोधिमानसाः॥१८९॥



न यायुर्दुगतिं क्वापि सदा सद्गतिसम्भवाः।

सर्वसत्त्वहितं कृत्वा संचरेरञ्जगद्धिते॥१९०॥



ततः सर्वाधिपास्ते स्यु र्धम्मार्थि संप्रपूरकाः।

बोधिसंभारं संपूर्य संबुद्धपदमाप्नुयुः॥१९१॥



इति सत्यं परिज्ञाय बौद्धं पदं यदीच्छथ।

एतान् देवान् समाराध्य भजध्वं सर्वदा भवे॥१९२॥



एतत्पुण्यानुभावेन यूयमप्येवमाभवं।

दुर्ग्गतिं नैव यायात कदाचिन् कुत्रचिद् ध्रुवं॥१९३॥



सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः।

बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः॥१९४॥



ततः संबोधिसंभारं पूरयित्वा यथाक्रमं।

त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ॥१९५॥



इति मत्वात्र ये लोका र्वाञ्छन्ति सौगतं पदं।

स देवान् सगणां सर्वान् समाराध्य भजन्तु ते॥१९६॥



इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः।

सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः॥१९७॥



तदा शान्तश्रिया यंस्सं गुप्तिकृतो जिनालयः।

इत्यादिश्य मुनीन्द्रोऽपि समाधिं विद्धेक्षणं॥१९८॥



इति श्रीस्वयंभूधर्म्मधातुवागीश्वर गुप्तिकृत प्रवर्त्तनो नाम सप्तमोऽध्यायः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project