Digital Sanskrit Buddhist Canon

षष्ठम अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣaṣṭhama adhyāyaḥ

षष्ठम अध्यायः

स्वयम्भूधर्मधातुवागीश्वराभिधानप्रसिद्धप्रवर्तनो नाम



अथासौ च महासत्त्वो मैत्रेयः सुगतात्मजः

मुनीन्द्रं श्रीघनं नत्वा साञ्जलिरेवमब्रवीत्॥१॥



यदस्य भगवन् धर्म्मधातु वागीश्वराभिधं।

प्रसिद्ध हेतुना केन तत्समादेष्टुमर्हति॥२॥



इति संप्रार्थिते तेनः मैत्रेयेण स सर्ववित्।

भगवान्स्तं महासत्त्वं संपश्यन्निदमादिशत्॥३॥



येनास्य हेतुना धर्म्मधातु वागीश्वराभिधं।

प्रसिद्धिं तत्प्रवक्षामि शृणु मैत्रेय सादरं॥४॥



तद्यथायुर्यदा नृणां त्रिंशद्वर्ष सहस्रिके।

शोभावत्यां महापूर्यामुदपादि तदा जिनः॥५॥



संबुद्धोऽर्हञ्जगच्छास्ता धर्म्मराजो मुनीश्वरः।

कनक मुनीरित्याख्यास्तथागतो विनायकः॥६॥



तदाहं कुलपुत्रो स सुधर्म्माख्य आत्मवित्।

बोधिसत्त्वो महासत्त्वो धर्म्मश्री सद्गुणार्थभृत्॥७॥



स कनकमुनेः शास्तुः शासने समुपाश्रितः।

त्रिरत्नभजनं कृत्वाः प्राचरम् बोधिसंवरं॥८॥



यदा च भगवाञ्छास्ता शोभावत्या उपाश्रमे।

विहारे शोभितारामे विजहार स सांघिकः॥९॥



तदा तत्र सभालोके ब्रह्मेन्द्र प्रमुखाः सुराः।

सर्वलोकाधिपाश्चापि धर्म्मं श्रोतुमुदागताः॥१०॥



सर्वे ग्रहाश्च ताराश्च सर्वा विद्याधरा अपि।

सिद्धाः साध्याश्च रुद्राश्च मुनयोऽपि महर्षयः॥११॥



गन्धर्वाः किन्नरा यक्षा गुह्यका राक्षसा अपि।

कुम्भाण्डा गरुडा नागा दैत्याश्चापि समागताः॥१२॥



यतयो योगिनश्चापि तीर्थिकाश्च तपस्विनः।

पाखण्डाश्च परिव्राजको निर्ग्रन्था ब्रह्मचारिणः॥१३॥



श्रमणाः श्रावकाश्चापि व्रतिनश्चाप्युपासकाः।

तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः॥१४॥



ब्राह्मणा क्षत्रिया श्चापि वैश्याश्च मन्त्रिणोजनाः।

गृहाधिपाश्च श्रेष्टाश्चः भृत्याः सैन्याधिपा अपि॥१५॥



शिल्पिनो वणिजश्चापि सार्थवाहा महाजनाः।

पौरा जानपदा ग्राम्याः कार्पटिकाश्च शैरिकाः॥१६॥



तथान्य वासिनश्चापि सर्वलोकाः प्रसादिताः।

तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः॥१७॥



तान्सर्वान्समुपायातान् दृष्ट्वा स भगवान्मुदा।

सभा मध्यासनासीनस्तस्थौ ध्यात्वा प्रभासयन्॥१८॥



तं मुनीन्द्रं प्रभाकान्तं दृष्ट्वा सर्वेऽपि सांधिकाः।

श्रवणाः श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः॥१९॥



भिक्षुण्यो ब्रह्मचारिण्यो उपासिकाश्च चैलिकाः।

चैलका व्रतिनश्चापि धर्मकामा उपासकाः॥२०॥



सर्वेऽपि ते समागत्य प्रणत्वा तं मुनीश्वरं।

परिवृत्य परिस्कृत्य धर्म्म श्रोतुमुपाश्रयन्॥२१॥



ततो ब्रह्मदयो देवाः सर्वे लोकाधिपा अपि।

तं मुनीन्द्रं समभ्यर्च्य प्रणत्वा च यथाक्रमं॥२२॥



परिवृत्य पुरस्कृत्य तत्सभायां समन्ततः।

संपश्यन्तं मुनीन्द्रं तं उपतस्थुः समाहिताः॥२३॥



ततस्ते मानवाः सर्वे ऋषि विप्रनृपादयः।

तं मुनीन्द्रं समभ्यर्च्य संप्रणत्वा यथाक्रमं॥२४॥



तत्सभां समुपाश्रित्य परिवृत्य समन्ततः।

पुरस्कृत्य समुद्वीक्ष्य संतस्थिरे समाहिताः॥२५॥



ततस्तान् समुपासीनान् दृष्ट्वा स भगवान् मुदा।

आर्यसत्यं समारभ्य सद्धर्म्म समुपासदित्॥२६॥



क्रमेन बोधिचर्यागमार्याष्टांङ्ग च सत्पथं।

आदिश्य बोधिमार्गे तान् सर्वाल्लोकान् योजयेत्॥२७॥



तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः।

सद्धर्म्म साधना युक्ता बभूवु र्बोधिमानसाः॥२८॥



तदा विक्रमशीलाख्ये विहारे भिक्षुरात्मवित्।

ससंघा व्यहरद् धर्म्मश्रीमित्राख्यः सुधीर्यतिः॥२९॥



स तत्र सर्वलोकानां हितार्थेन समाश्रितः।

स संघा नामसंगीतिं व्याख्यातुमभ्यवाञ्छत॥३०॥



ततः स सत्मतिः सर्वान् संघा नाम प्रसादरं।

सभामध्यासनासीनस्तस्थौ ध्यानसमाहितः॥३१॥



तं सभासन आसीनं दृष्ट्वा सर्वेऽपि सांघिकाः।

तत्सद्धर्म्मामृतं पातुमिच्छतः समुपागताः॥३२॥



तत्र ये यतिं नत्वा परिवृत्य समन्ततः।

पुरस्कृत्य समीक्षन्त उपतस्थुः समाहिताः॥३३॥



तत्राऽन्येऽपि समायाता लोकद्विजनृपादयः।

वैश्याश्च मन्त्रिनोऽमात्याः भृत्या सैन्याधिपा अपि॥३४॥



शिल्पिनो वनिजश्चापि सार्थवाहा महाजनाः।

पौरा जानपदाग्राम्यास्तथान्यदेशवासिनः॥३५॥



सर्वे ते समुपागत्य प्रणत्वा तं यतिं मुदा।

परिवृत्य पुरस्कृत्य सपश्यन्तमुपाश्रयन्॥३६॥



ततः स यतिरालोक्य सर्वान्स्तान्समुपाश्रितान्।

मञ्जुश्रीनाम संगीतिं समाख्यातं यथात्क्रमात्॥३७॥



तत्समादिष्टमाकर्ण्यं सर्वे लोकाः सभाश्रिताः।

संबुद्ध गुणमहात्म्यं मत्वानन्दप्रवोधिताः॥३८॥



ततः सर्वेऽपि लोकास्ते ब्राह्मण भूमिपादयः।

नत्वा तं यतिमामन्त्र्य स्वस्वालयं मुदाययुः॥३९॥



ततस्ते श्रावका विज्ञा यतयो ब्रह्मचारिणः।

द्वादशाक्षर गुह्यार्थं सम्यक् श्रोतुंममीच्छिरे॥४०॥



ततस्ते योगिनः सर्वे कृताञ्जलि पुटा मुदा।

शास्तारं तं यतिं नत्वा समामत्र्यैवमव्रुवन्॥४१॥



भदन्त द्वादशानां यदक्षराणां विशेषतः।

विशुद्धिं श्रोतुमिच्छामस्तत्समादेष्टुमर्हति॥४२॥



इति तै र्प्रार्थितं धर्म्मश्री मित्रः ससुधीरपि।

द्वादशाक्षर गुह्यार्थं विशुद्धिं न समादिशत्॥४३॥



तं विशुद्धा नभिज्ञाता विषण्णात्मा स उत्थितः।

ध्यानागारं समासीनो ध्यात्वैवं समचिन्तयन्॥४४॥



नैतदक्षरं गुह्यार्थं विशुद्धिर्ज्ञायते मया।

तत्कथं उपदेक्ष्यामि हाहा कुत्र भ्रमेयहि॥४५॥



इति चिन्ता विषर्ण्णोऽत्मा लज्जा संमोहिताशयः।

स्मृत्वा रत्नत्रयं ध्यात्वा तस्थौ धैर्यसमाहितः॥४६॥



तत्क्षणे स त्रिरत्नानां स्मृति पुण्यानुभावतः।

एवं मतिं महावीर्य महोत्साहिनिमाप्तवान्॥४७॥



ततस्तत्मति शौण्डौऽसौः पुन ध्यात्वा समाहितः।

मनसा सर्व लोकेषु विचारयन् व्यलोकयन्॥४८॥



तदापश्यन्महाचीने उत्तरस्यां नगोत्तमे।

मञ्जुश्रीयं महाभिज्ञं सर्व विद्याधिपेश्वरं॥४९॥



बोधिसत्त्वं महासत्त्वं सर्व धर्म्माधिपप्रभुं।

सर्व गुह्य विशुद्धार्थ विज्ञानज्ञानदायकं॥५०॥



तं पश्यन् मनसा धर्म्मश्री मित्रः समुत्सुकः।

सहसोत्थाय तान्संघान् सभामन्त्र्यैवमव्रवीत्॥५१॥



भो भदन्तो गमिष्यामि महाचीने नगोत्तमे।

मञ्जुश्रीयं महासत्त्वं द्रष्टुमिच्छामि सांप्रतं॥५२॥



एतस्या नामसंगीत्या गुह्य विशुद्धि विस्तरं।

पृष्टा सम्यक् विज्ञाय आगमिष्याम्यहं द्रुतं॥५३॥



यावन्नाहमिहायात स्तावत्सर्वे समाहिताः।

त्रिरत्न भजनं कृत्वा तिष्ठत मा विषीदत॥५४॥



इत्युक्त्वा स महाभिज्ञस्ततः संप्रस्थितो द्रुतं।

सञ्चरन्नत्र नेपालविषये समुपाययौ॥५५॥



तमायातं यतिं नत्वा मञ्जुदेवः स सर्ववित्।

स्वान्तिके समुपाद्रष्टुमेच्छत् ऋद्धिं प्रदर्शयन्॥५६॥



ततः मंजुदेवोऽपि भूत्वा कृषिकरः स्वयं।

शार्दूल मृगराजाभ्यां हलेनाकर्षयन् महीं॥५७॥



तं दृष्ट्वा दूरतो धर्म्मश्रीमित्रो अतिविस्मितः।

किमेतत् महदाश्चर्यमितिद्रष्टुमुयाचरत्॥५८॥



ततः समुपाश्रित्य दृष्ट्वा तन्महदद्भुतं।

कृषिकरं तमामन्त्र्यपप्रच्छैव व्यवलोकयन्॥५९॥



भो साधो इतो देशान्महाचीन नगोक्तमः।

पञ्चशीर्षः कियद्दूरे तदुपदेष्टुमर्हति॥६०॥



इति संप्रार्थितं तेन श्रुत्वा स हलवाहकः।

सुचिरं तं यतिं पश्यन्सादरमेवमव्रवीत्॥६१॥



यत्त्वं कुत इहायासि किमर्थमुक्तरापथे।

महाचीनस्य दूरतो गन्तुं त्वं परिपृच्छ से॥६२॥



अद्य प्रवर्तते सायं तद् विहारे ममाश्रमे।

उषित्वा प्रात रुत्थाय गच्छ मद्देशितात्पथः॥६३॥



इति तेनोदितं धर्मश्री मित्रो निशंम्य सः।

तथेत्यनुमतं धृत्वा तूष्णीं भूत्वा व्यतिष्ठतः॥६४॥



ततः संबोधितं भिक्षु मत्वा स हलवाहकः।

तौ शार्दुल मृगेन्द्रो द्वौतत्रैवान्तव्यर्धापयेत्॥६५॥



हलं तु सर्वलोकानां संप्रवोधन हेतुना।

तत्रैवोच्च स्थल क्षेत्रे यूप वदवरोपयत्॥६६॥



अद्यापि तत्महीस्थानं मञ्जुश्रीभूः प्रसिध्यते।

सावाचेति प्रसिद्धा च यत्रावरोपितं हलं॥६७॥



ततस्तं यतिमाहुय सायं स हलवाहकः।

तत्र प्रविश्य धर्मश्रीमित्र संप्रति विस्मितः॥६८॥



ततो मूलफल स्कन्ध पत्रादि भोगमादरात्।

दत्वा तस्मै स्वयं भुक्त्वा तस्थौ स हलवाहकः॥६९॥



ततः स विविधां धर्म्मश्रीमित्रोरजनी कथां।

भाषित्वा तं महाभिज्ञं कृषिकरं व्यनोदयन्॥७०॥



ततः स मञ्जुदेवस्तं यति छात्रालये निशि।

प्रेषयित्वा स्वयं गह्वागारे शय्यां समाश्रयत्॥७१॥



तत्र प्रविश्य धर्म्मश्री मित्र संप्रति विस्मितः।

सुप्त्वाक्षणं समुत्थाय मनसैवं व्यचिन्तयत्॥७२॥



नाद्यात्र शयनीयं यदयंपुमान्महर्द्धिकः।

भार्याया सहसाकथ्यं किंकिं कुर्याद् विनोदयं॥७३॥



इति ध्यात्वा सधर्म्मश्रीमित्र यतिरुत्थितः।

संवर निभृतं तस्य द्वारमूलमुपाश्रयेत्॥७४॥



तत्क्षणे मञ्जुदेवं तं केशिनी सुप्रिया सती।

शयासनसमासीना भर्क्तारमेवमव्रवीत्॥७५॥



स्वामिन्कोऽयं यति र्धीमान्किमर्थमस्मदाश्रमे।

इह कुतः समायात स्तत्समादेष्दुमर्हति॥७६॥



इति संप्रार्थितं देव्या मञ्जुदेवो निशम्य सः।

केशिनीं तां प्रियां भार्यां सम्पश्यन्नेवमव्रवीत्॥७७॥



साधु शृणु प्रिये देवी यदर्थ यमिमिहागतः।

तदर्थ हि महद्धेतुं वक्ष्यामि ते विचारयत्॥७८॥



अयं भिक्षु महाभिज्ञो बोधिसत्त्वो महामतिः।

विख्यातो यो महाधर्म्मश्रीमित्रोभिधो यति॥७९॥



विक्रमशील आख्याते विहारे स निवासकः।

नामसंगीति व्याख्यानं शिक्षेभ्यो विस्तरं व्यधात्॥८०॥



द्वादशाक्षर गुह्यार्थ विशुद्धि ज्ञान विस्तरं।

नाम सम्यगुपाख्यातुं शक्नोति न सुधीरपि॥८१॥



तदायं च विषण्णात्माः ध्यानागारे समाश्रितः।

ध्यात्वा लोकेषु सर्वत्र विलोक्यैवं व्यचिन्तयन्॥८२॥



मञ्जुश्री रेव जानीयात्सर्व गुह्य विशुद्धिवित्।

द्वादशाक्षर गुह्यार्थ विशुद्धिं समुपादिशत्॥८३॥



इति ध्यात्वा समुत्थाय सर्वान् शिष्यान्स सांघिकान्।

बोधयित्वा महोत्साहः वीर्येण प्रचारक्ततः॥८४॥



उक्तरस्यां महाचीने पञ्चशीर्षेस्मदाश्रमे।

गन्तुमनेन मार्ग्गेण चरन्नीह समागतः॥८५॥



तमिह समयायातं दृष्ट्वा समृद्धिभावतः।

बोधयित्वैवमाहुयोः नयामि स्वाश्रमेऽधुना॥८६॥



इति भक्ता समादिष्टं श्रुत्वा सा केशिनी प्रिया।

स्वामिनं तं समालोक्य पप्रच्छैवं समादरात्॥८७॥



स्वामिनहं न जानामि शृणोमि न कदाचन।

कथमेतद्विशुद्ध्यर्थं समुपादिश मेऽधुना॥८८॥



इति संप्राथितं देव्या मञ्जुदेवो निशम्य सः।

केशिनीं तां प्रियां भार्या सम्पश्यन्नेवमव्रवीत्॥८९॥



साधु देवी तव प्रीत्या साम्प्रतमुपदिश्यते।

एतदर्थ महागुह्यं गोपनीयं प्रयत्नतः॥९०॥



इत्युक्त्वा मञ्जुदेवोऽसौ तस्यै देव्यै यथाविधिः।

द्वादशाक्षर गुह्यार्थं विशुद्धि समुपादिशत्॥९१॥



एतत्सर्व समाख्यातं विस्तरं स महामतिः।

धर्मश्रीमित्र आकर्ण्य प्रात्यनन्द प्रवोधितः॥९२॥



तत समुदितो धर्म्मश्री मित्र उत्थिते मुदा।

मञ्जुश्रीरयमेवेति निश्चयं समुपाययौ॥९३॥



ततः ससुप्रसन्नात्मा द्वारमूले कृताञ्जलिः।

अष्टांग प्रणतिं कृत्वा तस्थौ तद्गत मानसः॥९४॥



ततः प्रातः समुत्थाय केशिनी मोक्षदायनी।

द्वारकपारमुदधाटयः वहिर्गन्तुमुपाक्रमत्॥९५॥



तत्र तं यतिमालोक्य द्वारमूले व्यवस्थितं।

भीता सा केशिनी देवी द्रुतमुपाचरत्प्रभोः॥९६॥



तां प्रत्यागतां दृष्ट्वा मञ्जुदेवः स सर्ववित्।

विभिन्नास्यां समालोक्य पप्रच्छैवं अधीरवत्॥९७॥



देवी किंद्वारमुध्याट्य सत्त्वरं त्वमुपागताः।

दृष्ट्वा किं तत्र भीतासि तत्सत्यं वद मे पुरः॥९८॥



इति पृष्टे जगच्छास्ता भर्क्ता सा केशिनी विरात्।

स्वामिनं तं समालोक्य शनैरेवंन्यवेदयेत्॥९९॥



स्वामिन्यति नमस्कृत्वा द्वारमूले निपातितः।

जीवितो वा मृतौ वासौ मया न ज्ञायते खलु॥१००॥



इत्युक्तं भार्यया श्रुत्वा मञ्जुदेवः स उत्थितः।

उपेत्य द्वारमूले तं संददर्श निपातितं॥१०१॥



दृष्ट्वा स मञ्जुदेवस्तं यतिं ध्यात्वा जितेन्द्रियं।

हस्तं धृत्वा समुत्थाय संपश्यन्नेवव्रवीत्॥१०२॥



यते किमर्थमत्रैवं द्वारं ध्यात्वावतिष्ठसि।

तत्ममपुरतः सभ्यं वदय ते समाहितं॥१०३॥



इत्युक्त्वा मञ्जुदेवेंन धर्मश्रीमित्र उन्मनाः।

मञ्जुश्रियन्तमष्टांगैनत्वैवं प्रार्थयन्मुदा॥१०४॥



भगवन्नाथ सर्वज्ञ सर्वविद्याधिप प्रभो।

भवत्पादाम्बुजे भक्त्या शरणे समुपाश्रये॥१०५॥



भवानेव जगच्छास्ता मञ्जुश्रीर्भगवानपि।

ज्ञायते दृश्यते ह्यत्र ज्ञानरत्ननिधि र्मया॥१०६॥



तद् भवाह्नि विजानीते यदर्थेहमिहा व्रज।

तत्मेभिवांच्छितं शास्ताः संपूरयितुमर्हति॥१०७॥



इति संप्रार्थितं तेन मञ्जुदेव निशम्य स।

विज्ञाय तं महाभिज्ञं संपश्यन्नेवमव्रवीत्॥१०८॥



कथं विना अभिषेकं ते मन्त्रार्थमुपदेश्यते॥१०९॥

तावदत्रभिषेक त्वं गृह्वाण्हेदं यदीच्छसि।



इत्युक्तं मञ्जुदेवेन निशम्य स यतिः सुधीः॥११०॥

मञ्जुदेवं नमोस्तस्य साञ्जलिरेवमव्रवीत्।



सर्वज्ञ भगवाञ्छास्ता निर्धनोऽहमकिंचनः॥१११॥

किं दास्ये भवतं शास्त्रे दक्षिणां गुरु भक्तिमान्।



इति तेनोदितं श्रुत्वाः मञ्जुदेवः ससन्मतिः॥११२॥

संपश्यन्स्तेयती धर्मश्रीमित्रमेवमव्रवीत्।



यतः किं धनसंपत्या श्रद्धा ते यदि विद्यते॥११३॥

तुष्यन्ते गुरुवो भक्तिमात्रेणात्र धनेनतु।



इत्युक्त्वा मञ्जुदेवेन धर्मश्रीमित्र उन्मताः॥११४॥

अष्टांगेस्तं गुरुं नत्वा प्रार्थयदेवमादरात्।



भगवन्यदि भक्त्यैव तुष्यतेऽत्र भवान् मम॥११५॥

भवतां सुश्रूषामेष करोमि भक्तिमानहं।



इति मे कृपया शास्त अभिषेक यथाविधिः॥११६॥

दत्वा द्वादश मन्त्रार्थं विशुद्धि दातुमर्हसि।



इति संप्रार्थितं तेन मञ्जुदेवं स सर्ववित्॥११७॥

भक्तिमन्त तमालोक्य पण्यमेवमभाषत।

दास्यामि ते महाभाग भक्ति श्रद्धास्ति ते यदि॥११८॥



अभिषेक प्रसन्नात्मा समादत्स्व समाहितः।

ततःस मञ्जुदेवः श्री वज्राचार्य यथाविधि॥११९॥



संस्थाप्य मण्डलं धर्मधातुवागीश्वराभिधं।

तन्मण्डलं समाराध्य समभ्यर्च्य यथाविधिं॥१२०॥



अभिषेकं प्रसन्नाय तस्मै ददौ स वज्रधृक्।

ततस्तान् मण्डले देवान् संदर्शयं यथाक्रमात्॥१२१॥



पूजयित्वा यथाशक्ति शरणे समयोजयेत्।

ततस्तस्मै प्रसन्नाय मञ्जुदेवो यथाविधि॥१२२॥



द्वादशाक्षर गुह्यार्थ विशुद्धिसमुपादिशत्।

ततो लब्धाभिषेकोऽसौ धर्मश्रीमित्र उत्मना॥१२३॥



द्वादशभूमि गुह्यार्थ विशुद्धिज्ञानमाप्तवान्।

तस्मै शास्त्रे सभार्याय स्वमात्मानं स दक्षिणां॥१२४॥



संकल्प्य श्रद्धया भक्त्या नत्वैवं प्रार्थयन् मुदा।

भगवन् नाथ सर्वज्ञ भवत् कृपा प्रसादतः॥१२५॥



संप्राप्तपूर्ण संकल्पो भवामि श्रीगुणार्थभृत्।

तत् सदाहं भवत्पादशरणे समुपाश्रितः॥१२६॥



यथात्र भवादिष्टं तथैव संचरे भवे।

तत् मेऽनुज्ञादि दत्वात्र संबोधिज्ञानसाधनं॥१२७॥



सर्वसत्त्व हितार्थेन चरेयं बोधिसंवरं।

इति संप्रार्थ्य धर्मश्री मित्र स समुपाश्रितः॥१२८॥



श्रद्धाभक्ति प्रसन्नात्मा गुरुसेवा परोऽभवत्।

ततः स मञ्जुदेवस्तं महासत्त्वं विचक्षणं॥१२९॥



मत्वा संबोधि चर्यायां नियोक्तुं संव्यनोदयन्।

साधु साधु महाभागः संचरत्वं जगद्धिते॥१३०॥



संबोधि साधनं बोधिचर्या व्रत सदा भव।

एतत्पुण्याभि लिप्तात्मा परिशुद्ध त्रिमण्डलाः॥१३१॥



बोधिसत्त्वा महाभिज्ञा भवेः श्री सद्गुणाश्रयाः।

ततस्त्वं बोधिसंभारं पूरयित्वा यथाक्रमं॥१३२॥



निःक्लेशो बोधिप्राप्तोऽहं सम्बुद्धपदमाप्नुयाः।

इति मे शासनं धृत्वा स्मृत्वा ध्यात्वा समाहितः॥१३३॥



त्रिरत्नं समुपाश्रित्य संचरस्व जगद्धिते।

यदि जगद्धितं कर्तुं संबोधिं प्राप्नुमिच्छसि॥१३४॥



सद्धर्मं समुपादिश्य सर्वान् लोकान् प्रवोधय॥

ततस्तान् बोधितान् सर्वान् कमेन बोधिसाधनं॥१३५॥



बोधिमार्गे प्रतिष्ठाप्य चारयस्व जगद्धिते।

ततस्तेषां समालोक्य चित्तं संबोधि निश्चितं॥१३६॥



त्रियानं समुपादिश्य परमार्थे नियोजये।

एवं कृत्वा महद्धर्ममाशु सम्बोधिसाधनं॥१३७॥



भद्रश्री सद्गुणापन्नां समाप्नुया जगच्छुभे।

तेनाशुः परिशुद्धात्मा सम्बुद्धपदमाप्तवान्॥१३८॥



जगद्धर्म्ममयं कृत्वा जिनालयं समाप्नुयाः।

इति भद्रव्रतं धृत्वा गत्वा त्वं स्वाश्रमे पुनः॥१३९॥



व्याख्याय नाम संगीतिं सद्धर्म्मं संप्रचारये।

अहमपि महासत्त्व श्रोतुं त्वद् धर्म्मदेशनां॥१४०॥



सांघिकांश्चापि तान्द्रुष्टुमायास्यामि तवाश्रमे।

इति शास्ता समादिष्टं निशंम्य स महामतिः॥१४१॥



धर्मश्री मित्र आलोक्यः तं गुरुमेवमव्रवीत्।

महर्द्धिको भगवाञ्छास्त विज्ञास्य ते कथं मया॥१४२॥



इति चिह्नं समाधाय तत्रागन्तुं समर्हति।

इति तेनोदितं श्रुत्वा मञ्जुदेवः स सन्मति॥१४३॥



धर्मश्री मित्रमालोक्यः पुनरेवमभाषत।

वत्साहमुत्पलं धृत्वा समायास्यामि ते सभां॥१४४॥



तेन चिह्नेन मां यात संजानीष्व समागतं।

इति सत्यं समाधाय धृत्वानुशासनं मम॥१४५॥



सद्धर्म्म समुपादेष्टुं प्रवाहि तेस्तु मंगलं।

इति शास्ता समादिष्टं श्रुत्वा स यतिरुत्सुकः॥१४६॥



शास्तारं तं समालोक्य प्रणत्वैवमभाषतः।

प्रसीदतु भगवाञ्छास्ताः क्षन्तुमर्हति चागसं॥१४७॥



भवत्प्रसादतः सर्वे सिध्यते मे समीहितं।

तदनुशासनं धृत्वा भवतां तत्र जगद्धिते॥१४८॥



व्याख्यातुं नामसंगीति संचरे साम्प्रतं गुरोः।

इति संप्रार्थ्य धर्म्मश्री मित्र सः संप्रासादितः॥१४९॥



शास्तुस्तस्य पदाम्भोजं नत्वा संप्रस्थितो ततः।

मात्रोराचार्य याश्चापि मोक्षदा वरदाख्ययोः॥१५०॥



पादाम्वुजेषु संनत्वा संप्रस्थितः प्रमोदितः।

ततः स सन्मति धर्म्मश्रीमित्रः सहसाव्रजन्॥१५१॥



आशु स्वाश्रममासाद्य विहारं समुपाविशत्।

तत्र तं यतिमायातं दृष्ट्वा सर्वेऽपि सांघिकाः॥१५२॥



प्रणत्वा कुशलं पृष्टवा प्रवेशयन् निजालये।

ततः परेद्युरामन्त्रय सर्वान्संघान्स सन्मतिः॥१५३॥



व्याख्यातुं नामसंगीति सभासनं समाश्रयत्।

तं सभासनमासीनं दृष्ट्वा सर्वेऽपि सांधिकाः॥१५४॥



दिव्‌ज भूपादयश्चापि सर्वे लोकाः समागताः।

तत्र सर्वेऽपि ते लोकाः प्रणत्वा तं यति क्रमात्॥१५५॥



परिवृत्य पुरस्कृत्य समन्तत उपाश्रयत्।

तान् सर्वान्समुपासीनान् दृष्ट्वा स यतिरात्मवित्॥१५६॥



व्याख्याय नामसंगीतिं स विशुद्धि समादिशत्।

तदा तत्र मनस्तस्य जिज्ञासितुं स मञ्जुवाक्॥१५७॥



धृत्वोत्पलं विनिद्यांगः कुचीवरमुपाचरत्।

तत्र स मक्षिकान् काये उत्पलेन निवारयन्॥१५८॥



समागत्य सभैकान्ते पश्यल्लोकानुपाश्रयेत्।

समाश्रितं स धर्म्मश्रीमित्रो दृष्ट्वात्मना गुरुं॥१५९॥



उत्पलेन परिज्ञाय मनसैवं व्यचिन्तयत्।

अहो नूनमयं शास्ता मनो जिज्ञासितुं मम॥१६०॥



कुचरा दुर्भगाकारो धृत्वोत्पलमिहागतः।

तत्कथमहमुत्थाय प्रत्युङ्गम्य न मेय हि॥१६१॥



अथ पश्यन्नमस्कारं नकुर्याः गुरवे कथं।

यद्यत्राहं समुत्थाय न मेयमेनमादरात्॥१६२॥



दृष्ट्वा लोका इमे मां धिक्कुर्युः सर्वे विचारतः।

एते न ज्ञायते यं हि मञ्जुश्री ऋद्धिमानपि॥१६३॥



ईदृगेवास्य शास्ता यं मिति मे स्याद् विहास्यतां।

इति ध्यात्वा स धर्म्मश्रीमित्रो लज्जाभिमोहितः॥१६४॥



मनसैवं नमस्कृत्वा शास्तारन्तममानयेत्।

ततः स विमुखी भूय पश्यन्नप्य विभावितः॥१६५॥



अज्ञात वान्निवापश्यन् पदमात्रमुपादिशत्।

ततः सर्वेऽपि ते लोकाः श्रुत्वा तत्सद्धर्म्मदेशनां॥१६६॥



उत्थाय तं यतिं नत्वा स्वस्वालयमुपाचरन्।

तत लोके गते धर्म्मश्री मित्रः स समुत्थितः॥१६७॥



शास्तारं तं समालोक्य वन्दितुं समुपाचरत्।

तं दृष्ट्वा मञ्जुदेवोऽसौ वन्दितुं समुपागतं॥१६८॥



अपश्यन् विमुखी भूय ततः संप्रस्थितोऽचरत्।

तं दृष्ट्वा विमुखी भूत धर्म्मश्री मित्र आत्मनः॥१६९॥



अपराध महत्पापमनुस्मृत्वापतद्भुवि।

निपतन्तं तमालोक्य मञ्जुश्रीः स कृपानिधिः॥१७०॥



सहसा पाणिना धृत्वा समुत्थाय तथाचरत्।

तत्र स उत्थितो धर्म्मश्री मित्रस्तं महामतिं॥१७१॥



प्रचरन्तं समालोक्य नत्वाहैवं मृषा पुनः।

भगवन्न मया दृष्टो भवानत्र समागतः॥१७२



पश्चादुत्पलचिह्नेन ज्ञायतेऽत्र समाश्रितः।

इत्युक्त्वा स मृषावादं साञ्जलिस्तस्य सङ्गुरोः॥१७३॥



मञ्जुदेवस्य पादाब्जे प्रणनाम रुदन् पुनः।

तत्र तस्य मृषा वक्तुं रुभेऽपि नयने मुखात्॥१७४॥



शास्तुः पादाब्जयो रग्रे निपेतंतु महीतले।

तत्पतित स धर्म्मश्रीमित्रो विहतमानसः॥१७५॥



चिराद्रुदं समुत्थायः शास्तारमेवमव्रवीत्।

भगवन् यत्मयाज्ञानादपराधं कृतं गुरौ॥१७६॥



भवति तद् भवाञ्छास्ता क्षन्तुंमर्हति दुर्मतेः।

इति संप्रार्थितं तेन मञ्जुश्रीः स कृपानिधिः॥१७७॥



विचक्षुष्कं तमालोक्यः कृपादृशैवमव्रवीत्।

यदभिलज्जया कर्म्म ज्ञात्वापि दुष्कृतं त्वया॥१७८॥



तस्येदं फलमासाद्य भोक्त अन्यंमेव भुज्यते।

तथापि ज्ञान दृष्ट्वा त्वं सम्पश्य द्दृष्टिमान् यथा॥१७९॥



ज्ञानं हि तेऽस्ति यत्तेन ज्ञानश्री मित्र उच्यसे।

इत्युक्त्यैव स मञ्जुश्रीः क्षणादन्तर्हित स्ततः॥१८०॥



आकाशात् पक्षिवद् गत्वा स्वाश्रमे समुपाययौ।

अत्रैतत्सर्ववृत्तान्तं भार्ययोः पुरतोर्मुदा॥१८१॥



समाख्याय स मञ्जुश्री स्तस्थौ लोकहितार्थभृत्।

ततः प्रभृतिस ज्ञानश्रीमित्रो ज्ञानचक्षुषा॥१८२॥



पश्यन् सद्धर्म्ममाख्याय प्राचरच्च जगद्धिते।

तदा मैत्रेय तेनास्य धर्मधातोः स्वयंभुवः॥१८३॥



अभुत्प्रसिद्धितं धर्मधातुं वागीश्वराभिधं।

इति मत्वात्र ये धर्मधातु वागीश्वर नराः॥१८४॥



श्रद्धया विधिनाभ्यर्च्य भजन्ति शरणाश्रिताः।

अभिषेकं च संप्राप्य बोधिचित्ता समाहिताः॥१८५॥



सद्धर्म्म धारणी विद्यामन्त्राणि धारयन्ति ये।

ते सर्वे विमलात्मानः परिशुद्ध त्रिमण्डलाः॥१८६॥



बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः।

भद्रश्री सद्गुणाधाराः सर्व विद्या विचक्षणाः॥१८७॥



ऋद्धि सिद्धि महाभिज्ञा भवेयुर्भद्रचारिणः।

आशुः सम्बोधि संभारं पूरयित्वा यथाक्रमं॥१८८॥



अर्हन्तस्त्रिविधां बोधिं प्राप्य यायु जिंनालयं॥१८९॥

इति मत्वाऽभिवाछन्ति प्राप्तुं ये सौगतं पदं।



तेऽत्र बौद्धालये धर्म्मधातु वागीश्वरे सदा॥१९०॥



श्रद्धया भजनं कृत्वा प्राप्याभिषेकमादरात्।

सधर्म्मधारणी विद्यामन्त्र साधारतत्पराः॥१९१॥



यथाविधि समभ्यर्च्य संबोधि निहिताश्रयाः।

बोधिचर्या व्रतं धृत्वा संचरते जगद्धिते॥१९२॥



आशु ते विमलात्मानः परिशुद्ध त्रिमण्डलाः।

बोधिसत्त्व महासत्त्वश्चतुर्ब्रह्म विहारिणः॥१९३॥



भद्रश्री सद्गुणाधाराः सर्वविद्या विचक्षणाः।

ऋद्धिसिद्धि महाभिज्ञा भवेयु भर्द्रचारिणः॥१९४॥



ततः संबोधिसंभारं पूरयित्वा द्रुतं क्रमात्।

अर्हन्तम्त्रिविधां बोधिं प्राप्य यास्यथ निवृतिं॥१९५॥



इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः।

सर्वे तथेति विज्ञाय प्राभ्यनन्दन् प्रवोधिताः॥१९६॥



इतिश्री स्वयंभू धर्म्मधातु वागीश्वराभिधान प्रसिद्ध प्रवर्तनो नाम षष्ठोऽध्यायः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project