Digital Sanskrit Buddhist Canon

पञ्चम अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcama adhyāyaḥ

पञ्चम अध्यायः

स्वयम्भूत्पत्यनेक तीर्थसंजातपुण्यमहात्म्यवर्णनो नाम



अथासौ च महासत्त्व मैत्रेय साञ्जलिर्मुदा।

भगवन्तं तमानस्य प्रार्थयेदेवमादरात्॥१॥



भगवन् तत्र तीर्थानां स्नात्वा दानादि कर्म्मजं।

पुण्यफल विशेषत्वं समादिशतु साम्प्रतम्॥२॥



इति संप्रार्थिते तेन भगवान्स मुनीश्वरः।

मैत्रेयं तं महासत्त्वं सम्पश्यन्नेवमादिशत्॥३॥



साधु श्रृणु महासत्त्व तीर्थ सेवा फलोद्भवं।

पुण्यं तद् विशेषत्वं वक्षामि सर्व बोधने॥४॥



तद्यथा मूलतीर्थानि कथ्यन्ते द्वादशात्र हि।

महापुण्यानि सर्वेषां तीर्थानां यानि भूतले॥५॥



अमोघ फलदायिन्यां वाग्मत्यां यत्र संगमे।

तत्तीर्थ शोधनं ख्यातं दशपापविशोधनात्॥६॥



तत्र नागाधिपा रक्तस्तक्षकाख्यः सुकान्तिमान्।

समुज्वलन्महारत्नंश्रीमत्फणा विभूषितः॥७॥



येनरा श्रद्धया तत्र पुण्यतीर्थे यथाविधिः।

स्नानं कुर्युमुदा यावदेक विंशति वासरं॥८॥



जप यज्ञादि कर्म्माणि कुर्युः सप्तदिनान्यपि।

पितृन् देवाञ्च संपूज्य कुर्युः संतृप्तमोदितान्॥९॥



दद्युर्दानानिचार्थिभ्यो यथेप्सितं समादरात्।

शुद्धशीलाः समाधायैश्चरेयुश्च व्रतं तथा॥१०॥



एतत्पुण्यविशुद्धास्ते निःक्लेशा निर्म्मलेन्द्रियाः।

बोधिसत्त्वा महासत्त्वा भवेयुः श्री गुणाश्रयाः॥११॥



ततस्ते बोधिसम्भारं पूरयित्वायथाक्रमं।

त्रिविधां बोधिमासाद्य संवुद्ध पदमाप्नुयुः॥१२॥



ततश्च मारदायिण्यो वाग्मत्या यत्र संगमः।

तच्छान्ततीर्थमाख्यातं क्लेश दोष विशोधनं॥१३॥



तत्रनागाधिपः शुक्लः सोम शिखीतिविश्रुतः।

विलसन्मणिरत्नश्रीफणामण्डल भूषितः॥१४॥



तत्रापि शान्त तीर्थ च ये क्लेश दुःषिता नराः।

कुर्यु स्नानं सदा यावदेकविंशति वासरं॥१५॥



जप यज्ञादिक कुर्युश्चरेयुश्चाधि पोषधं।

पितृन् देवाञ्च संपूज्य कुर्युः संतुष्टनन्दितान्॥१६॥



दद्युर्दानांनि चार्थि भ्यो यथाभिलषितं मुदा।

शुद्धशीला समाचाराः ध्यात्वा भजेयुरीश्वरं॥१७॥



एतत्पुण्याभिलिप्तास्ते परिशुद्ध त्रिमण्डलाः।

बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणालयाः॥१८॥



ततस्ते बोधि सम्भारं पूरयित्वा यथाक्रमं।

अर्हन्त स्त्रिविधाम्बोधि प्राप्येयुः सौगतं पदं॥१९॥



ततश्च मणिरोहिण्या वाग्मत्या यत्रसंगमे।

तत्रोर्द्धनिःसृता शुद्ध स्फटिकादारसंन्निभां॥२०॥



रुद्रधारा मृताख्याता तया च तत्र संगमे।

त्रिवेणी संगमे तेन शंकर तीर्थ मुच्यते॥२१॥



तत्र नागाधिप शंखपालो गौराति सुन्दरः।

मणिरस्मि समुद्दिप्त श्रीमत्फणा विभूषितः॥२२॥



तत्र शंकर तीर्थे ये मानवाश्च यथाविधिः।

स्नानं कुर्युर्मुदा यावदेकविंशतिवासरं॥२३॥



जप यज्ञादिकर्म्माणिः कुर्युश्च सप्तवासरं।

पितृन्देवाञ्च संपूज्य तर्प्पयेयुर्यथाविधि॥२४॥



दद्युर्दानानि चार्थिभ्य श्रद्धया बोधिमानसाः।

ध्यात्वा भजेयुरीशं चसंचरेञ्चपोषढं॥२५॥



एतत्पुण्य विशुद्धात्मा निःक्लेशाः निर्म्मलेन्द्रियाः।

लभेयुः श्री महापुष्टिशान्ति गुणा च शान्त्यपि॥२६॥



दुर्ग्गति तेन यायुश्च संजाताः सङ्गतौ सदा।

बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः॥२७॥



ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं।

अर्हन्त स्त्रिविधां बोधि प्राप्येयुः सौगतं पदं॥२८॥



ततश्च राजमञ्चर्या वाग्मत्या यत्र संगमं।

तद्राजतीर्थमाख्यातं राज्यारोग्यसुखपदं॥२९॥



तत्र नागाधिपः शुक्लः सुरुपाख्यातिसुन्दरः।

मणिरत्न महादीप्ति श्रीप्रभा मण्डिताश्रयः॥३०॥



तत्र ये मानवाया वदेक विंशतिवासरं।

स्नान दान जप ध्यानं कुर्यु दद्युश्च संवरं॥३१॥



एतत्पुण्य विशुद्धास्ते निर्दोषा विमलेन्द्रियाः।

राज्यश्वर्य सदारोग्य भद्र सौख्यम वाप्नुयुः॥३२॥



तेऽपि न दुर्ग्गति यायुः सदासद्‍गति संभवाः।

बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः॥३३॥



ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं।

अर्हन्त स्त्रिविधां बोधि प्राप्ययायु जिनालयं॥३४॥



तथात्र विमलावत्या केशावत्या च संगमेः।

मनोरथं तदाख्यातं स्वेच्छालंकार संप्रदं॥३५॥



तत्र नागाधिपो भीमः कुलिकाख्योऽतिकर्वुरः।

फणामणि समुद्दीप्त श्रीप्रभामण्डिताश्रयः॥३६॥



तत्र मनोरथे तीर्थे मनुजा ये यथाविधिः।

स्नान दानादिकं कुर्युरेकविशति वासरं॥३७॥



तेऽपि न दुर्गतिं यायुः सदा सद्‍गतिसंभवाः।

बोधिसत्त्वा महासत्त्वा भद्रश्री सद्‍गुणाश्रयाः॥३८॥



पट्टसुवस्त्ररत्नादि स्वेच्छालंकारभूषिताः।

सर्वसत्त्व हिताधान चरेर्युर्बोधिसवरं॥३९॥



ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं।

त्रिविधां बोधिमासाद्य संबुद्ध पदमाप्नुयुः॥४०॥



ततश्च कुसुमावत्या केशावत्यापि संगमे।

निर्म्मलतीर्थमाख्यातं कल्पनाविघ्ननाशनं॥४१॥



तत्र नागो पलालाख्यः पीतवर्ण्णो महाकृतिः।

दिव्यरत्न प्रभोज्ज्वाल श्रीमत्फणा विभूषितः॥४२॥



तत्र ये मानवा यावदेकविंशतिवासरं।

स्नानदानादिकं कुर्युस्तथासर्वे च पूर्ववत्॥४३॥



तेऽपि न दुर्गतिं यायुः सदा सङ्गतिसंभवाः।

बोधिसत्त्वा महासत्त्वा भद्रश्रीसद्‍गुणायाः॥४४॥



कलि विघ्न मल क्लेश निर्मुक्त भद्रचारिणः।

सर्वसत्त्व हितारक्ता भवेयु ब्रह्मचारिणः॥४५॥



ततस्ते बोधिसंभार पुरयित्वा यथाक्रमं।

अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥४६॥



ततः सुवर्ण्णवत्या च बागमत्या यत्र संगमे

निधानतीर्थमाख्यातं सर्व सम्पतिदायकं॥४७॥



तत्र नागौ हरितवर्णौ नन्दौपनन्दनावुभौ।

नाना रत्न प्रभाद्दीप्तिः श्री मत्फणाविभूषितौ॥४८॥



तत्र ये मनुजा यावदेक विंशतिवासरं।

स्नानादि पूर्ववत्सर्व कर्म्मं कुर्युर्यथाविधिः॥४९॥



तेऽपि न दुर्ग्गतिं यायुः सदा सङ्गतिसंभवाः।

बोधिसत्त्वा महासत्त्वा भद्रश्री सद्‍गुणाश्रयाः॥५०॥



सर्वसत्त्वार्थ सम्पन्ना भवेयुः धर्म्मचारिणः।

तेप्यैवं बोधिसंभारं पूरयित्वा यथाक्रमं॥५१॥



अर्हन्तो बोधिमासाद्य सौगतं पदमाप्नुयुः।

ततश्च पाप नाशिन्या केशवत्याभिसंगमे॥५२॥



ज्ञानतीर्थं तदाख्यातं दिव्यभोग सुखप्रदं।

तत्र नागाधिपः शुक्ल वाशुकिर्नाम भीषणः॥५३॥



दिव्य रत्न प्रभाश्री मत्फणालंकारमण्डितः।

तत्र येमानवा या वदेकविंशतिवासरं॥५४॥



स्नान दानादि कर्म्माणि कुर्युः सर्वाणि पुर्ववत्।

तेऽपि न दुर्ग्गति यायुर्जाताः सदापि सङ्गतौ॥५५॥



सर्व भोग महासम्पत्सुखवन्तो निरामयाः।

बोधिसत्त्वा महसत्त्वाश्चतुर्ब्रह्म विहारिणः॥५६॥



भद्रश्रीसद्‍गुणाधारा भवेयु बोधिचारिणः।

तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं॥५७॥



अर्हन्तो बोधिमासाद्य सर्वज्ञ पद्‍माप्नुयुः।

भद्‍श्री सद्‍गुणाधाराः सम्बुद्धगुणसाधिनः॥५८॥



ततश्च यत्र वाग्मत्याः केशावत्या च संगमेः।

तच्चिन्तामणिमाख्यातं सर्वकामार्थ संपदम्॥५९॥



गंगा च यमुनाचापि तथा देवी सरस्वती।

पर्व प्रत्यागता तत्र तेन पञ्च समागमा॥६०॥



तत्र नागाधिपः शुक्लो वरुणा सर्व नागरात्।

दिव्यरत्न प्रभाश्रीमत्फणामण्डल भूषितः॥६१॥



तत्र ये मानवा यावदेकविंशति वासरं।

स्नानदानादिकं सर्वे कुर्युः पूर्ववदादरात्॥६२॥



तेऽपि न दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः।

संपूर्ण्ण परमायुष्काः विद्याधिपा विचक्षणाः॥६३॥



सुसन्ताना महाभोगा धम्मार्थ कामभोगिनः।

बोधिसत्त्वा महासत्त्वा श्चतुर्ब्रह्मविहारिणः॥६४॥



भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥६५॥



अर्हन्तो बोधिमासाद्य संबुद्ध पदमाप्नुयुः।

ततश्च यत्र वाग्मत्या रत्नावत्याः समागमे॥६६॥



प्रमोदतीर्थमाख्यातं रतिप्रीतिवशार्थदः।

तत्र नागाधिपः पद्मो धवलदिव्य सुन्दरः॥६७॥



दिव्यरत्न महाकान्ति फणामण्डल भूषितः

तत्र ये मानवा यावदेकविंशतिवासरं॥६८॥



स्नान दानानि सर्वाणि कुर्युः कर्म्माणि पूर्ववत्।

तेऽपि नदुर्गतीं यायुः सदा सद्गति संभवाः॥६९॥



रति प्रीति वशानन्द महासौख्य समन्विता।

बोधिसत्त्वो महासत्त्वोः परिशुद्ध त्रिमण्डलाः॥७०॥



भद्रश्री सद्गुणाधारा भवेयुः बोधिसाधिनः।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥७१॥



अर्हन्त श्त्रिविधां बोधिंप्राप्य यायु र्जिनालयं।

तत्रश्चयत्र वाग्मत्या चारुमत्या समागमे॥७२॥



तत्सुलक्षणमाख्यातं श्री तेजो भाग्यसम्पदं।

तत्र नागो महापद्मोऽति धवलोऽति सुन्दरः॥७३॥



दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः।

तत्र ये मानवा यावदेकविंसतिवासरं॥७४॥



स्नान दानं जप ध्यानं कुर्युर्यज्ञं च पूर्ववत्।

तेऽपिन दुर्गतिं यायुः सदा सद्गति संभवाः॥७५॥



श्रीतेजो भोग्यसंपन्ना सुरुपालक्षणान्विता।

बोधिसत्त्वा महासत्त्वाः भद्रश्रीसद्गुणाश्रयाः॥७६॥



सर्वसत्त्व हितोद्युक्ताः भवेयुः बोधिचारिणः।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥७७॥



अर्हन्त त्रिविधां बोधि प्राप्येयुः सौगतं पदं।

ततश्च यत्र वाग्मत्या प्रभामत्या समागमेः॥७८॥



जयतीर्थ समाख्यातं सर्वशत्रुभयान्तकृत्।

तत्र नागाधिपः शुक्रः श्रीकान्ति दिव्य सुन्दरः॥७९॥



दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः।

तत्र ये मानवा यावदेक विंशतिवासरं॥८०॥



स्नात्वा यज्ञादि कर्म्माणि कुर्युः सर्वाणि पूर्ववत्।

तेऽपि न दुर्ग्गतीं यायुः सदा सद्गति संभवाः॥८१॥



निर्भया स्त्रिगुणोत्साहाजयिनो निर्जितारयः।

बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः॥८२॥



भद्रश्री सद्गुणाचारा भवेयु बोधिचारिणः।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥८३॥



अर्हन्तस्त्रिविधां बोधिप्राप्येयुः सौगतपदं।

द्वादशैतानि नामानि तीर्थानि महान्त्यत्र हिमालये॥८४॥



अन्यान्यपि च संत्यत्र तानि वक्ष्याम्यहं शृणु।

तद्यथो परि वाग्मत्याः श्रोतसिद्धारसंनिधौ॥८५॥



सौन्दर्य तीर्थमाख्यातं सौन्दर्य गुणसंपदं।

तत्र येमानवा यावदेकविंशतिवासरं॥८६॥



स्नान दानानि कर्म्माणि कुर्युः सर्वाणि पूर्ववत्।

तेऽपिन दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः॥८७॥



सुरूपा लक्षणोपेताः श्रीमन्त सद्गुणान्विताः।

बोधिसत्त्वा महासत्त्वा चतुर्ब्रह्म विहारिणः॥८८॥



सर्वसत्त्व हिताधानं चरेयु र्बोधिसंम्वरं।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥८९॥



अर्हन्त स्त्रिविधां बोधिसंप्राप्येयुः जिनालयं।

तदुपरिचयत्तीर्थ अगस्त्यो न महर्षिणा॥९०॥



नित्यस्नानं जप ध्यानं कृत्वा यज्ञं च सेवितं।

तेनागस्त्यं महत्तीर्थ तदा ख्यान्तं मुनीश्वरैः॥९१॥



तत्र ये मनुजा स्नायूस्ते यायुः परमां गतिं।

दान यज्ञ जपादिश्च कुर्यु ध्यात्वायि चेश्वरं॥९२॥



तोषययुस्तथापित्तृन्दद्युर्दानं यथेप्सितं।

ते सर्वे विमलात्मानश्च चतुर्ब्रह्मविहारिणः॥९३॥



बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः।

तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं॥९४॥



अर्हन्त स्त्रिविधाम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः।

तत्रैवानन्तनागेन यदाश्रितं महाह्रदं॥९५॥



तेन तदह्रदमाख्यातं अनन्ततीर्थमर्थदं।

तत्र ये मनुजायावदेकंविंशति वासरं॥९६॥



स्नान दान जप ध्यानं कुर्युर्यज्ञंच पूर्ववत्।

तेऽपि न दुर्गतिं यायुःसदा सद्‍गतिसम्भवाः॥९७॥



बोधिसत्त्वा महासत्त्वा र्भवेयुः श्रीगुणाश्रयाः।

तथा ते बोधिसम्भारं पूरयित्वा यथाक्रमं॥९८॥



अर्हन्तो बोधिमासाद्य सर्वज्ञपदमाप्नुयुः।

तत्रैव च महत्तीर्थ आर्यतारानिषेवितम्॥९९॥



तेनेदं प्राथितं प्रार्यतारा तीर्थ सुभाग्यदं।

तत्रापि ये नरा र्यावदेकविंशतिवासरं॥१००॥



स्नानदानजप ध्यानं यज्ञं कुर्यु र्यथाविधि।

तेऽपि न दुर्गतिं यायुः संजाताः सद्‍गतौ सदा॥१०१॥



बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः।

सौभाग्यशालिनो धीरा भद्रश्रीसद्‍गुणाश्रयाः॥१०२॥



सर्वसत्त्वहितोत्साहा भवेयु र्बोधिचारिणः।

तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं॥१०३॥



अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतंपदं।

अर्द्ध‍उर्द्धञ्च वाग्मन्त्याः प्रभवतीर्थमुक्तमं॥१०४॥



सर्वेषामपि तीर्थानां प्रधानमग्रमुच्यते।

तत्रैकस्नान मात्रेण गंगा स्नान शताधिकं॥१०५॥



पुण्यं महत्तरं सिद्धं वाञ्छितार्थ सुखप्रदं।

तत्र ये मानवा यावदेकविंसतिवासरं॥१०६॥



स्नान दान जप ध्यानं यज्ञं कुर्युर्युयथाविधिः।

शुविशुद्ध त्रिकायास्ते यथाकाम सुखाशिन च॥१०७॥



धमार्थं श्रीसमृद्धाः स्युश्चतुर्ब्रह्मविहारिणः।

क्वचिन्न दुर्ग्गतिं यायुः संजाता सद्‍गतो सदा॥१०८॥



स्वपरात्महितं कृत्वा संचरेन्सदा शुभे।

ततस्ते विमलात्मानो सुविशुद्धेन्द्रियाशयाः॥१०९॥



बोधिसत्त्वा महासत्त्वाः भवेयुः सद्गुणाकराः।

तथा ते बोधिसंभारं पूरयित्वा यथाविधिः॥११०॥



अर्हन्तस्त्रिविधां बोधि प्राप्येयुः सौगतंपदं।

तं शंखपर्वत नाम सर्व शिलोच्चयोत्तमं॥१११॥



समारोहण मात्रेण निष्णा येः सिद्धिमान् भवेत्।

तत्रापि ये समाश्रित्य स्नात्वा ध्यात्वा समाहितः॥११२॥



जप यज्ञादि दानं च कुर्युः संबोधिमानसाः।

तेऽपि न दुर्गतिं यायुः सदासद्‍गति संभवाः॥११३॥



बोधिसत्त्वा महासत्त्वाः परिशुद्ध त्रिमण्डलाः।

निःक्लेशा विमलात्मानः सर्व सत्त्व हिताशयाः॥११४॥



भद्रश्री सद्‍गुणाधारा भवेयु र्ब्रह्मचारिणः।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥११५॥



अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः।

वहूनि चोप तीर्थानि विद्यन्तेऽत्र हिमालये॥११६॥



तानि तीर्थानि सर्वाणि भुक्ति मुक्ति प्रदान्यपि।

यत्र यत्र श्रवन्तीनाम न्येषां च समागमे॥११७॥



तत्र तत्रापि तीर्थानि पुण्य फल प्रदानि हि।

तेषां चाप्युप तीर्थानां पृथक्पृथत्फलं महत्॥११८॥



पाप संशोधनं पुण्यं सद्धर्म्मसुखसाधनं।।

तेष्वपि ये नराः स्नात्वा चरेयु पोषढं व्रतं॥११९॥



दद्युर्दानानि चार्थिभ्यं कुर्युर्यज्ञानि च ये मुदा।

पितृसंतर्प्य येयुश्च पूजयेयुः सुरानपि॥१२०॥



स्मृत्वा ध्यात्वा त्रिरत्नानां भजेयुनेमिजल्यनैः।

एवं लोकाधिपानां च स्मृत्वा ध्यात्वा समाहिताः॥१२१॥



जपित्वा नाम मन्त्राणि साधयेयु र्यथाविधिः।

तानि सर्वानि सिध्येयुः साधितानि जगद्धिते॥१२२॥



दद्युश्चेह शुभोत्साहं परत्र निर्वृतं पदं।

तेऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः॥१२३॥



निःक्लेशा विमलात्मानः परिशुद्धा त्रिमण्डलाः।

बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः॥१२४॥



भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः।

ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं॥१२५॥



अर्हन्त बोधिं प्राप्ययायु र्जिनालयं।

एकं विज्ञाय सर्वेषां तीर्थानामपिसत्फलं॥१२६॥



भद्रश्री सद्गुणात्साहं सौख्यसंबोधि साधनं।

सर्वेष्वेतेषु तीर्थेषुभद्रश्री गुण वांछाभिः॥१२७॥



स्नान दानादिकं कर्म कर्त्तव्यं बोधि प्राप्तये।

ये ये एतेषु तीर्थेषु स्नात्वा नित्यं यथाविधिः॥१२८॥



दत्वा दान व्रतं धृत्वा ध्यात्वा भजेयुरीश्वरं।

ते ते सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः॥१२९॥



निःक्लेशा विमलात्मानो भवेयुर्बोधिभागिनः।

इति लोकाधिपैः सर्वे र्ब्रह्मेन्द्र प्रमुखैरपि॥१३०॥



सर्वान्येतानि तीर्थानि संसेवितानि सर्वदा।

तथा च मुनिभिः सर्वेस्ताप सैर्ब्रह्मचारिभिः॥१३१॥



यतिभिर्योगिभिश्चापि तीर्थिकैः श्रावकै रपि।

ब्राह्मणै वैष्णवैः शैवैः कौलिकैरपि शक्तिकैरपि॥१३२॥



देवैश्च दानवैश्चापि यक्षगन्धर्वकिन्नरैः।

गुह्यक सिद्धसाध्यै श्च ग्रहैः विद्याधरैरपि॥१३३॥



अप्सरोभिश्च सर्वाभिः सदा संसेवितानि हि।

नागेन्द्रै र्गरुडैश्चापि कुम्भाण्डै राक्षसैरपि॥१३४॥



एवमन्यैरप्रिप्रेत्य सेवितानि शुभार्थिभिः।

ग्रहैश्चः सांधिकैश्चापि व्रतिश्चाप्युपासकैः॥१३५॥



बोधिसत्त्वै र्मुनीन्द्रैश्च सेवितानि जगद्धिते।

अहमपितथैतेषु तीर्थेषु समुपाश्रयन्॥१३६॥



स्नात्वा दानानि दत्वा च कृत्वा यज्ञं यथाविधि।

पितृन्सतर्पयित्वापि समभ्यर्च्य सुरानपि॥१३७॥



त्रिरत्नभजनं कृत्वा प्राचरं पोषध व्रंतं।

धर्म्मधातुं समाराध्य स्मृत्वा ध्यात्वा समाहितः॥१३८॥



जपित्वा धारणी मन्त्रं प्रचरन्बोधिसम्वरं।

एतत् पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः॥१३९॥



निःक्लेशो निर्म्मलात्मोहं चतुर्ब्रह्मविहारिणः।

बोधिसत्त्वा महासत्त्वाः भद्रश्री सद्गुणाद्धिर्मान्॥१४०॥



आशु संबोधिं संभार पूरयित्वा यथाक्रमं।

जित्वा मारगणान्सर्वान् कलावपि जगद्धिते॥१४१॥



त्रविधबोधिमासाद्य संबुद्धो धर्म्मरात्भुवे।

थुयमपिज्ञात्वानि विघ्न बोधि प्राप्तये॥१४२॥



सर्वेषु तेषु तीर्थेषु प्रवध्वं यथाविधिः।

धर्म्मधातुं सदाभ्यर्च्य स्मृत्वा ध्यात्वा समाहिताः॥१४३॥



जपित्वा धारणीमन्त्रं संभजध्वं जगद्धिते।

एत्पुण्यु प्रभोवण परिशुद्धत्रिमण्डलाः॥१४४॥



दुर्ग्गतिन्नैवगछेत जायध्वं संद्गतौ सदां।

तत्र सदा त्रिरत्नानो शरणे समुपस्थिताः॥१४५॥



सत्कारै र्भजन कृत्वा संचरध्वं जगद्धिते।

तेषां हि विमलात्मानश्चतुर्ब्रह्म विहारिणः॥१४६॥



बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः।

ततः श्री सद्गुणाधाराः सर्वविद्याविचक्षणाः॥१४७॥



सर्व सत्त्वाहिताधानं संचरध्व जगद्धिते।

ततः संबोधिं संभारं पूरयित्वा यथाक्रमं॥१४८॥



आशु त्रिबोधिमासाद्य प्राप्स्यथ सौगतं पदं।

इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे प्रवोधिताः॥१४९॥



मैत्रेयादि सभालोकाः प्राप्यनन्द प्रवोधिताः।



इति श्री स्वयंभू समुत्पत्ति कथायां अनेक तीर्थ संजात पुण्य महात्म्य वर्णनो नाम पञ्चमोऽध्याय।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project