Digital Sanskrit Buddhist Canon

चतुर्थ अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturtha adhyāyaḥ

चतुर्थ अध्यायः

श्रीस्वयम्भूचैत्यसमुत्पत्तिकथा वीतरागतीर्थराष्ट्रप्रवर्तनो नाम



अथासौथ महासत्त्व मैत्रेय सुगतात्मजः।

भगवन्तन्तमानंम्य प्राहैवं साञ्जलिमुद्रा॥१॥



कदात्र भगवान् ग्राम नगरपङक्तादयः।

प्रवर्त्तिता महाराष्ट्राः तत्समादेष्टुमर्हति॥२॥



इति संप्रार्थिते तेन मैत्रेयेन निशस्य स।

भगवान्तं महाभिज्ञं समालोक्यैवमादिशत्॥३॥



साधु शृणु महासत्त्व मैत्रेय त्वं समाहितः।

तत्कालं संप्रवक्ष्यामि यदात्र वसतिरभूत्॥४॥



यदायुष्नृणां वर्षचत्वारिशत्सहस्रके।

धर्म्मराजो जगन्नाथः क्रकुछन्दो मुनीश्वरः॥५॥



सर्व विद्याधिपः शास्ता त्रैधातुक विनायकः।

सर्वज्ञोऽह माभिज्ञेस्तथागतो जिनोऽभवत्॥६॥



म संबुद्धा जगल्लोकहितार्थेन ससांधिकः।

क्षेमावत्या महापुर्य्यादुपारामे मनोरमे॥७॥



विहारे सौगतावासे सद्धर्म्मसमुपादिशत्।

आदिमध्यान्तकल्याणं विजहार प्रभासयन्॥८॥



तदा संबोधिसत्त्वोऽहं ज्योतिपालाभिधः सुधीः।

शास्तारन्तं क्रकुच्छन्दं समाराध्य सदाभजं॥९॥



तदा स भगवाञ्छास्ता क्रकुच्छन्दो जगद्धिते।

जनपदेषु सद्धर्म्मं समुपादेष्टुमैच्छतः॥१०॥



ततः स भगवान् शास्ता सर्वसंघैः समन्वितः।

सर्वत्र भद्रतां कृत्वा संभाषयन्समाचरत्॥११॥



एवं स सञ्चरञ्छास्ता सर्वत्र धर्म्ममादिशत्।

क्रमेणेहसमातः सन्ददर्श समन्ततः॥१२॥



दृष्ट्वेमं धर्म्मधातुं संप्रज्वलित जिनालयं।

ससंघ समुपाश्रित्य प्राभजद्विधिना मुदा॥१३॥



ततः स प्रस्थितोत्रैव शंखभिधे शिलाच्चयं।

महछुद्धशिलायां च विजहार स सांधिकः॥१४॥



तत्र तंत्रि जगन्नाथं क्रकुछन्दो मुनीश्वरं।

सभामध्यासनासीनं भिक्षुसंघैः पुरस्कृतं॥१५॥



समालोक्य महासत्त्वा जिनात्मजाः।

तत्सद्धर्म्मामृतं पातुं संहर्षिताः समागताः॥१६॥



भिक्षुण्यापि शुशीलाद्या श्चैलकाश्चाप्युपासकाः।

चैलका व्रतिनश्चापि सर्वे उपासिका अपि॥१७॥



बोधिसत्त्वा महासत्त्वा सद्धर्म्म गुणलालसाः।

तत्सद्धर्म्मामृतं पातुं सर्वे ते समुपागताः॥१८॥



भगवन्तन्तं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि।

नत्वा सांजलयस्तत्र पश्यन्तः समुपाश्रयन्॥१९॥



तथा ब्रह्मादयश्चापि महर्षयस्तपस्विनः।

यतयो योगिनश्चापि मुनयो ब्रह्मचारिणः॥२०॥



एवं शक्रादयो दवाः सर्वे लोकाधिपा अपि।

ग्रहास्तारागणाः सिद्धासाध्या विद्याधरा अपि॥२१॥



गन्धर्वा किन्नरा यक्षा गुह्यका राक्षसा अपि।

दानवा गरुडा नागास्तथान्येह समागताः॥२२॥



भगवन्तं ससंघन्तं समभ्यर्च्य प्रमोदिताः।

नत्वा धर्म्मामृतं पातुमुपतस्थुः समाहिताः॥२३॥



एवं च ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि।

वैश्याश्च मन्त्रिणोऽमात्याः सैन्या भृत्या जनान्यपि॥२४॥



गृहस्थे। धनिनः श्रेष्ठाः साधवश्च महाजनाः।

शिल्पिनो वनिजश्चापि सार्थवाहश्च पौरिकाः॥२५॥



प्रजा जानपदाश्राम्याः कार्पटिकाश्च शैलिकाः।

एवंमन्येऽपि लोकाश्चसर्वदिग्भ्यः समागताः॥२६॥



भगवन्तन्तमालोक्य प्रणत्वा समुपागताः।

यथाक्रमं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि॥२७॥



कृत्वाष्टांग प्रणामञ्च कृतांजलि पुटो मुदा।

तत्सद्धर्म्मामृतं पातुं तत्सभायां समन्ततः॥२८॥



परिवृत्य पुरस्कृत्य समाश्रित्य समाहिताः।

गुरुकृत्य मुनीन्द्रन्तं समुद्वीक्ष्य निषेदिरे॥२९॥



ततः स भगवान्दृष्ट्वा सर्वास्तान्समुपस्थितान्।

आर्यसत्यं समालक्ष्य सद्धर्म्मं समुपादिशत्॥३०॥



तत्सद्धर्म्मामृतं पीत्वा सर्वेऽपि ते प्रवोधिताः।

बोधिचर्या व्रतं धर्तुं समेच्छन्त प्रसादिताः॥३१॥



तदाशयं परिज्ञाय भगवान् स मुनीश्वरः।

बोधिसत्त्वात्म मार्मेत्यः सम्पश्यन्नेवमादिशत्॥३२॥



कुलपुत्र मुदायेपि श्रद्धया सौगतेवृषे।

प्रव्रजितुं समीच्छन्ति तत्र प्रव्रजिताद्रिताः॥३२॥



अत्र ये ह्युपछन्दोऽह सर्व धर्म्मार्थसिद्धिदे।

प्रव्रज्या शासने बौद्धे चरन्ति बोधिसंवरं॥३४॥



ते सर्वे पातका मुक्ताः परिशुद्ध त्रिमण्डलाः।

निःक्लेशा विमलात्मानो बोधिसत्त्वा जितेन्द्रियाः॥३५॥



जित्वा मारगणान्दुष्टान् हन्ता ब्रह्मचारिणः।

त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः॥३६॥



इति मत्वात्र संसारे ये वांछन्ति सुनिर्वृतिं।

तत्र प्रव्रज्या सान्बौद्धं चरन्तु श्रद्धया व्रतं॥३७॥



इत्यादिष्टं मुनीन्द्रेण निशम्य ते प्रवोधिताः।

सभासीना महासत्त्वाः प्रव्रजिन्तु समीछिरे॥३८॥



ततो गुणध्वजादीनां ब्राह्मणानां चतुःशतं।

तथा भयं ददानाम क्षत्रियाणांशतत्रयं॥३९॥



तथानेक महासत्त्वा वैश्याशूद्राश्च सज्जनाः।

सर्वेऽपि सुप्रसन्नास्ते प्रव्रजितुं समीच्छिरे॥४०॥



ततस्ते सर्व उत्थाय साञ्जलयः पुरागताः।

भगवन्तं तमानम्य प्रार्थयन्नेवमादरात्॥४१॥



भगवन्नाथ सर्वज्ञ धृत्वाज्ञा भवतां वयं।

प्रव्रज्यशासन बौद्धेचर्तुमिछामहे व्रतं॥४२॥



भगवन्स्त भवानस्मान् सर्वान् पश्यन् कृपा दृशा।

समन्वागत्य सद्धर्म्म नियोजयितुमर्हति॥४३॥



इति तैः प्रार्थिते सर्वैर्भगवान्स मुनीश्वरः।

सर्वान्स्तान् सन्मतिन् पश्यन् समामन्भ्यैवमादिशत्॥४४॥



यद्यत्र सौगते धर्म्म प्रव्रजितुं समीच्छथ।

एतत् प्रव्रज्य सर्वत्र चरध्वं सौगतं व्रतं॥४५॥



इत्यादिश्य स संबुद्धः पाणिना तच्छिरःस्पृशन्।

तान्सर्वान्सौगते धर्मे समन्वाहरदादरात्॥४६॥



ततोऽवतार्य ते केशान् रक्त चीवर प्रावृताः।

खिखिरी पात्रमाधाय सर्वेऽपि भिक्षुवो भवन्॥४७॥



ततः स भगवान्तेभ्योः यतिभ्यो संम्यक् संबोधिपाक्षिकान्।

सद्धर्म्मान्समुपादिश्य प्रददौ बोधिसम्वरं॥४८॥



ततस्ते विमलात्मानो निःक्लेशा विमलेन्द्रियाः।

सत्कारं लाभ निःकांक्षा वीतसंगा निरंजनाः॥४९॥



स्वपरात्म समाचाराः संसारगतिनिःस्पृहाः।

मारचर्या निरासक्ताः समलोष्ट सुवर्ण्णिकाः॥५०॥



क्लेशा निर्मलात्मानो परिशुद्ध त्रिमण्डलाः।

अर्हन्त भद्रका चारा बभुबु ब्रह्मचारिणः॥५१॥



ततस्सर्वेऽपि ते बौद्धा यतयो बोधिचारिणः।

सर्वसत्त्व हितं कृत्वा संप्रचारन्सदाशुभे॥५२॥



ततस्ते ति विशुद्धात्माः पञ्चाभिज्ञा महर्द्धिकाः।

वन्द्याः पूज्याः सदेवानां लोकानां गुरवो भवन्॥५३॥



तस्मिंश्च समये तत्र गिरेः शंखस्य मूर्द्धनि।

वज्रसत्त्व कराङ्गुष्ठान्निश्चचाराम्बु निर्म्मलं॥५४॥



तदेमान्वद्‍भुति स्पन्दं पुण्यतीर्थमहत्सरित्।

यदभूत् सर्वलोकानां चतुवर्गफलप्रदा॥५५॥



भूयोऽपि साददी तस्यः क्रकुछन्द स्पतायिनः।

सद्धर्म्म देशना वाक्यावभूवा ति पवित्रता॥५६॥



तेनासौ सर्वतीर्थाग्रा वाग्मतीतिप्रसिद्धिता।

भद्रश्री गुण संभर्त्री सर्वपाप विशोधनी॥५७॥



ये तत्र विधिना स्नात्वा पितृ देवादितर्पणं।

कृत्वा दानादिकं दत्वा व्रतं चापि प्रकुर्वते॥५८॥



ते संघविमलात्मानो भद्रश्रीसद्‍गुणान्विताः।

यथाकामं सुखं भुत्वा संप्रयान्ति जिनालयं॥५९॥



इति मत्वा सदा तत्र स्नात्वा पित्रादितर्प्पणं।

दानादि संवरं कृत्वा सचरन्तां जगद्धिते॥६०॥



तस्या दर्शनमात्रेण पीताम्वु विमात्रके।

स्पर्शनादपि नश्यन्ते सर्वाणि पातकान्यपि॥६१॥



प्रक्षाल्यापि च तत्रास्यं गंगा स्नान फलं लभेत।

शिलसिं च मात्रेण शुद्धान्ते इन्द्रियानि षट्॥६२॥



एवं महत्तरं पुण्यं वाग्मती भजनोद्‍भवं।

सर्वे तीर्थोत्तमाख्यातं ते नासौ वाग्मती जिनैः॥६३॥



इति मत्वात्र संसारे इच्छन्ति ये सदाशुभं।

वाग्मती श्री सुखाधारां भजन्तु सर्वदापि ते॥६४॥



भूयोप्यन्या सरिज्जाता तस्यैव करसंभवा।

सापि पवित्रिता भूता क्रकुछन्दस्य वाक्यतः॥६५॥



तत्र प्रव्रजितानां यत् श्मश्रुकेशनखानि च।

कृत्वा भागद्वयं तत्र भागमेकं प्रचिक्षिपुः॥६६॥



तदा केशावतीत्यासीत्प्रसिद्धा सा महानदी।

एक भागन्तु तत्रैव संस्थापितं शिलातले॥६७॥



यावन्ति श्मश्रु केशानि तावन्त्यपि शिलातले।

प्रादुर्भूतानि चैत्यानि तांन्यद्यापि वसंति हि॥६८॥



सापि नदी महातीर्थ वाग्मती व प्रसीद्धता।

तेषां प्रव्रजितानां हि महत्पुण्यानुभावतः॥६९॥



तेषां प्रव्रजितानांच भिक्षुणां ब्रह्मचारिणां।

तदापुण्य महाकीर्ति शब्द सर्वत्र प्रासरत्॥७०॥



तदनन्तरमष्टौ च वीतरागा निराश्रयाः।

ज्योतिरूपा निराकाराः प्रादुर्भूता जगद्धिते॥७१॥



एकः शंखगिरेः पार्श्वे मणिचूडाश्रमान्तिके।

मणिलिंग इति ख्यातः सोऽद्यापि संप्रतिष्ठितः॥७२॥



द्वितीयो भुच्च गोकर्ण स्थले ज्योतिर्षयाकृतिः।

चारुगिरौ तृतीयश्च कुम्भतीर्थे चतुर्थकः॥७३॥



पंचमः फणिशैलश्च षष्ठश्च गर्तकस्थले।

सप्तमो गन्धवत्यां च अष्टमो विक्रमस्थले॥७४॥



एतेऽष्टौ महादेवाः वीतरागा निरंजनाः।

ज्योतिरूपा निरांकाराः प्रादुर्भूता जगद्धिते॥७५॥



अत्रैषां वीतरागान्यनुभावात् समन्ततः।

मनोरमामही जाता सर्व पीठोक्तमावनौ॥७६॥



तदायोभू महास्वो महासंमत वंशजः।

कृपाकारुण्य भद्रात्मा बोधिसत्त्वो नृपोऽभवत्॥७७॥



तत्र स नृप राजेन्द्रः क्रकुछन्देन तायिना।

सहात्र द्रष्टुमायातः स्वयंभुवं खगाननां॥७८॥



दूरात्स येनमालोक्य स्वयंभुवं जिनालयं।

प्रणत्वा समुपागत्य चक्रे प्रदक्षिणात्रयं॥७९॥



ततोऽभ्यर्च्ये महोत्साहैरेणं पञ्चजिनात्मकं॥८०॥



अष्टांगैश्च प्रणत्वा च प्राभजच्छरणाश्रितः।

ततस्तथा च राजेन्द्रो मञ्जुदेवं च सङ्गुरुं॥८१॥



यथाविधि समभ्यर्च्य प्राभजत्संप्रमोदितः।

ततस्तथा स राजेन्द्रः खगाननां जिनेश्वरीं॥८२॥



यथाविधि समभ्यर्च्य महोत्साहैर्मुदाभजत्।

ततोऽष्टौ वीतरागाश्च सर्वानता त्स्वयंभुवः॥८३॥



दृष्ट्‍वा समुदितो राजा महोत्साहैस्तथा भजत्।

एतत्पुण्यानुभावैः स महत्पुण्याशयः कृती॥८४॥



सर्वधर्म्माधि राजेन्द्रः सर्वलोकाधिपो वभौ।

सर्व विद्याधिपो राजा भद्रश्री सद्‍गुणाश्रयः॥८५॥



तेन धर्माकरो नाम्नो प्रसिद्धौऽभूद्विराजितेः।

ततः सोऽत्र महाराजः संस्थास्तुं काम आत्मना॥८६॥



क्रकुछन्दं मुनीन्द्रन्तं प्रणत्वैवं न्यवेदयत्।

भगवन्यह वांछास्ता विजानीयात् ममेच्छितं॥८७॥



तदनुज्ञां पदत्वामेनुग्रहं कर्तुमर्हति।

इति संप्रार्थिते तेन भगवान्स मुनीश्वरः॥८८॥



धर्म्माकरं नरेन्द्रंन्तं सम्पश्यन्नेवमादिशत्।

साधु राजन् महासत्त्व यदेवं त्वं समीच्छसि॥८९॥



तथात्वमिह सन् स्थित्वा पालयं बोधयन् प्रजाः।

तथात्रसकरलाल्लोकान् संस्थाप्य संप्रबोधयन्॥९०॥



बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे।

धर्म्मेण पालयन् सर्वाल्लोकान् स्वयं समाचरन्॥९१॥



यथाकाम सुखं तु प्रासचरस्व जगद्धिते।

धर्म्मनीत्या समाधाय कृत्वा लोकहितं सदा॥९२॥



साधयन्वोधि सम्भारं सदेह निवसाश्रिताः।

सदास्य शरणे स्थित्वा धर्म्मधातोः स्वयम्भुवः॥९३॥



श्रद्धया भजनं कृत्वा संचरस्व जगद्धिते।

अस्याः खगाननायाश्च देव्याः शरण आश्रितः॥९४॥



सर्वदा भजनं कृत्वा चरस्व बोधिसंवरं।

अस्यापि मञ्जुदेवस्य सद्गुरोः समुपाश्रितः॥९५॥



बुद्धानुशासनं धृत्वा सद्धर्म्मे संचरंस्व स।

एषां च वीतरागानामष्टानामपि सर्वदा॥९६॥



श्रद्धया भजनं कृत्वाः साधय धर्म्ममुक्तमं।

वाग्मती प्रमुखानाञ्च तीर्थानां समुपाश्रयेन॥९७॥



स्नान दानादिकं कृत्वा पित्तृन्देवाञ्च तोषयन्।

लब्धा त्रिकाय संशुद्धिं धृत्वा संबोधिमानसं॥९८॥



सर्वसत्त्वा हितं कृत्वा निवसस्व यथासुखं।

एवं राजेन्द्र लोकांश्च सर्वानपि प्रवोधयं॥९९॥



एतेषामपि सर्वेषां संस्थाप्य शरणे सदा।

पूजा भक्ति महोत्साहैः चारयित्वा समादरात्॥१००॥



बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे।

एवं कृत्वा महाराज संबोधि निहिताश्रयः॥१०१॥



बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते।

एतत्पुण्याभिलिप्तात्मा भविष्यसि जिनात्मजः॥१०२॥



बोधिसत्त्व महाभिज्ञा भद्रश्री सद्‍गुणाश्रयः।

कदाचिदपि नैवत्वं दुर्गतौ च क्वचित्सरेः॥१०३॥



सदासद्‍गति संजातोः समृद्धि सिद्धिमान्सुधीः।

श्रीमान्सर्वगुणाधीशः सर्वलोकाधिपः कृति॥१०४॥



क्रमेण बोधिसंभारं पूरयित्वा समाहितं।

त्रिरत्न भजनोत्साह महानन्दसुखं सदा॥१०५॥



भुंजाना निर्म्मलाचारश्चतुर्ब्रह्म विहारिणः।

निःक्लेशो निर्जयन् मारान् सर्वानर्हन्त्वमाप्तवान्॥१०६॥



त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः।

लोकाः सर्वेऽपि चैवंहि परिशुद्धत्रिमण्डलाः॥१०७॥



बोधिसत्त्वा महासत्त्वाः सदा सद्‍गति संभवाः।

बोधिचर्या व्रतं धृत्वा संचरन्तो जगद्धिते॥१०८॥



जित्वा मारगणान्सर्वाश्वतुर्ब्रह्म विहारिणः।

निःक्लेशा निर्म्मलात्मानः संसारगति निःस्पृहा॥१०९॥



अर्हन्त त्रिविधासम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः।

एषां च वीतरागानां अष्टानामपि साम्प्रतं॥११०॥



पूजाफल विशेषत्वं व क्ष्यामि शृणु तन्नृपः।

वाग्मतिसलिले यस्तु स्नात्वा नित्यं समाहितः॥१११॥



अष्टावेतान् महेशान् वीतरागान् सदा भजेत्।

यतत्पुण्य विशुद्धात्मा श्री समृद्धि सुखान्वितः॥११२॥



संसारे सर्वदा सौख्यं भुक्त्वा यायाच्छिवालयं।

घृतेन स्नापयेत् यस्तु वीतरागान् स्वयंभूवः॥११३॥



शिवालयं व्रजेत् सोऽपि मधुरा ब्रह्ममन्दिरं।

दध्ना यः स्नापयेद् देवान् वीतरागान् स्वयंभुवः॥११४॥



स यायाद् वैष्णवं लोकं श्री समृद्धि सुखाश्रयं।

स्नानादिक्षुरसेनापि विद्याधरं पदं व्रजेत्॥११५॥



गन्धोदकेन गान्धर्व क्षीरेण शशिनः पदं।

शीतोदकेन शुद्धात्मा निष्पापा निर्मलेन्द्रियं॥११६॥



एषां पूजां च यः कुर्यान्नानापुष्पैः सुगन्धितैः।

सर्व काम सुखं भुक्त्वा मोदते मनुजाधिपः॥११७॥



विल्वपत्राणि श्रेष्ठानि रोहणर्च्चं अतन्द्रितः।

शिवं सर्वत्र प्राप्नोति यज्ञानां च सहस्रकं॥११८॥



नैवेद्यं ढोकयेद्यः स दीर्धायुः स्याद् वलि नृपः।

दीपमालां च यो दद्यात्तेजस्वी स्यात्सुदृष्टिमान्॥११९॥



गुग्गुरुं यो दहेत्तस्य नश्यते सर्वपातकं।

तिलपात्रं च योदद्यादुर्ग्गति स व्रजेन्नहि॥१२०॥



सुवर्णं ये प्रदद्याच्च स यायात् सङ्गतौ सदा।

तिलधेनुं प्रदद्याद्योः स सं यायाच्छिवालयं॥१२१॥



रौप्यखुरां हेम शृंगी रणद् घण्ठावलं विना।

सवत्सां कपिलां दद्याद्यः स यज्ञफलं लभेत्॥१२२॥



यो रत्नकंचुकं दद्यात् स भवेद् बहुरत्नवान्।

वस्त्रवान् वस्त्रदानेन भूमिदानेन भूमिवान्॥१२३॥



तूर्यसंगीति नृत्यादि महोत्साहं प्रचारयेत्।

यः सदिव्य श्रुतिप्राप्तः शिवपार्श्वचरो भवेत्॥१२४॥



नीलोत्पलार्कपद्‍मानि यो दद्यात् स श्रियं लभेत्।

योऽर्चयेद् विल्वपत्रेण स बलिष्ठो भवेत् कृती॥१२५॥



धत्तुरकेन निर्वार्य केन वीरेण सद् वनो।

सुगन्धिकुसुमैः सर्वै योष्टावपि समर्चयत्॥१२६॥



स श्रीमान् सुभगो धीमान् भवेत्सौगन्धिताश्रये।

दिव्यातिसुन्दरः कान्ता भद्रश्री सद्‍गुणाद्धिमान्॥१२७॥



पुष्पैः पत्रैः फलमूलैस्तोत्रै र्वा योऽर्चयेच्छिवान्।

स देवालयमासाद्य भुक्त्वा दिव्यसुखं चरेत्॥१२८॥



यश्च प्रदक्षिणां कृत्वा भजेन्नित्यं समादरात्।

रूपवान्स भवेदन्ते संप्रयायाच्छिवालयं॥१२९॥



यश्च स्तोत्रैः प्रसन्नात्मा भजेतेतान्महेश्वरान्।

स तु पित्रालयं गत्वा महानन्द सुखं लभेत्॥१३०॥



यश्चनाम समुच्चार्य जपित्वा च समाहितः।

सोऽपि श्रीमान् महाभिज्ञः प्रान्ते यायाच्छिवालयं॥१३१॥



अष्टांगैः प्रणतिं कृत्वा यो भजेत् तान् महेश्वरान्।

स यायात् सङ्गतावेव दुर्गतिं न कदाचन्॥१३२॥



स्मृत्वा ध्यात्वा समुच्चार्य नामपि यो भजत् सदा।

स दिव्यामृतभुंजानो रमेद् दिवि यथासुखं॥१३३॥



यश्च दृष्टा प्रसन्नात्मा प्रणमेत् सांजलिर्मुदा।

सोऽपि दिव्यामृतं भुक्त्वा रमेत् स्वर्गे सुरैः सह॥१३४॥



इत्येषां वीतरागाणामष्टानां भजनाद् ध्रुवं।

विशेषफलमाज्ञाय भजस्वैनां यथेच्छया॥१३५॥



तदत्र भूतले शुद्ध विधाय पुरमाश्रयन्।

सर्वाल्लोकान् प्रतिष्ठाप्य पालयन्सर्वदा वस॥१३६॥



तदात्र सर्वदिग्भ्योऽपि सर्वलोकाः प्रमोदिताः।

आगत्य संस्थिति कृत्वानि वसेयुः सदा मुदा॥१३७॥



तदा जानपदाश्चात्र ग्रामाश्चनगराण्यपि।

निर्गम पक्तनं चापि प्रवर्क्तेयुः समन्ततः॥१३८॥



तथा देवा सुरेन्द्राश्चं सर्वे लोकाधिपा अपि।

आगत्यात्र समालोक्य धर्मधातोः स्वयंभुवः॥१३९॥



गन्धर्वा गुह्यका यक्षाः किन्नरा राक्षसा अपि।

कुम्भाण्डा गरुडा नागाः सिद्धा विद्याधरा अपि॥१४०॥



साध्याश्च मातृका श्चापि स भैरवगणा अपि।

ऋषयो योगिनश्चापि यतय स्तीर्थिका अपि॥१४१॥



श्रावका भिक्षवोऽर्हन्त श्चैलकाश्चाप्युपासकाः।

बोधिसत्त्वा महासत्त्वाः शैव कौलाश्च वैष्णवाः॥१४२॥



आगत्यात्र समालोक्य धर्म्मधातोः स्वयंभुवः।

देव्याः खगाननायाश्च मञ्जुदेवस्य सङ्गुरोः॥१४३॥



एषां च वीतरागानां तीर्थानां चानुभावतां।

प्रसादिताः समाश्रित्य भजेयुः सर्वदा मुदा॥१४४॥



तदात्र सर्वदैतेषां सर्वा पुण्यानुभावतः।

सुभिक्षं मंगलोत्साहं निरुत्पातं भवेद्ध्रुव्रं॥१४५॥



इत्यादिष्टं मुनीन्द्रेण क्रकुछन्देन सप्रतुः।

धर्म्माकर समाकर्ण्य तथेति प्रतिबुध्यत॥१४६॥



ततः सःनृप उत्थाय साञ्जलिस्तं मुनीश्वरं।

क्रकुच्छन्द स संघं य प्रणत्वेवं न्यवेदयत॥१४७॥



भगवन् भवतामाज्ञां धृत्वाहमत्र सर्वदा।

पुरं विधाय लोकानां हितार्थे निवसे खलु॥१४८॥



तद् भवान् कृपयालोक्य सर्वदात्र हिमालये।

ससंघो धर्म्ममादिश्य विहरंतु जगद्धिते॥१४९॥



इति संप्रार्थिते तेन भगवान् स मुनीश्वरः।

धर्म्माकरं महासत्त्वं तं पश्यन्नेवमव्रवीत्॥१५०॥



नाहं सदात्र तिष्ठेयं चरेयं सर्व भूतले।

सर्वसत्त्व हितार्थ हि भवामि धर्म्मदिक्षिणः॥१५१॥



इत्यादिश्य मुनीन्द्रेण क्रकुछन्दः स सांधिकः।

ततः संप्रस्थितोऽ न्यत्र देशें संभाषयन् ययौ॥१५२॥



ततो धर्माकरः सोऽत्र विधाय नगरं तथा।

राज्यांगानि प्रतिस्थाप्य राज्यं कृत्वाध्यतिष्ठत॥१५३॥



तदात्र सर्वे आगत्य मन्दिरेषु समन्ततः।

आश्रित्य संस्थितिं कृत्वा निवसन्तो मुदा चरन्॥१५४॥



ततोऽन्येपि समायाताः सर्वदिग्भ्योऽत्र सर्वतः॥

जानपदे पुरेनेकं ग्रामेषु न्यवसन् मुदा॥१५५॥



तथा देवा सुराद्याश्च सर्वे लोकाधिपा अपि।

स्वस्वपरिजनैः सार्द्धं आगत्यात्र मुदा वसन्॥१५६॥



तथा महर्षयश्चापि यतयो ब्रह्मचारिणः।

योगिनो भिक्षवोऽर्हन्तो व्रतिनश्चाप्युपासकाः॥१५७॥



बोधिसत्त्वा महासत्त्वा श्चैलकाः श्रावका अपि।

यथाभिलषिते देशे कृत्वा श्रमं समाश्रयन्॥१५८॥



तथान्य तीर्थिकाः शैवा वैष्णवाः कौलिका अपि।

यथाभिलषिते स्थाने कृत्वाश्रमं समाश्रयन्॥१५९॥



प्रत्येक सुगताश्चापि समागत्य समन्ततः।

विविक्ते आश्रमे रम्ये समाश्रित्य मुदा वसन्॥१६०॥



मुनीन्द्रा अपि चागत्य विहृत्यात्र ससांधिकाः।

प्रार्य सम्बोधि सद्धर्म्मं समादेश्यन् त्वरागताः॥१६१॥



एवं पुण्यतमा भूमीरियं हिमालयाहवया।

सुखावतिनिभारम्या बोधिसत्त्व समाश्रय॥१६२॥



वहूनि चात्र तीर्थानि सर्वपापहराण्यपि।

जातानि सन्ति सर्वार्थ समृद्धि सिद्धिदाण्यपि॥१६३॥



तदेतेषु च तीर्थेषु स्नात्वा चरत सद्‍व्रतं।

पापं हन्तुं शुभं प्राप्तुं समीछन्त्यत्र ये नराः॥१६४॥



येऽत्र तीर्थेषु सर्वेषु स्नात्वा नित्यं समाहित।

जप यज्ञादि कर्म्माणि कृत्वा चरन्ति सम्वरं॥१६५॥



पितृञ्चापि समभ्यर्च्य देवाञ्च श्रद्धयादरात्।

दत्वा दानं समाधाय ध्यात्वापीशं भजन्ति च॥१६६॥



तेऽपि सर्वे विकल्माषाः परिशुद्ध त्रिमण्डलाः।

श्रीमन्तः सिद्धि मन्तश्च भवेयुः सद्‍गुणाश्रयाः॥१६७॥



ततस्ते सर्व सत्त्वानां हितार्थे धर्म साधकाः।

बोधिसत्त्वा महासत्त्वाः भवेयुः सुगतात्मजाः॥१६८॥



ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं।

त्रिरत्न भजनं कृत्वा संचरेरञ्जगद्धिते॥१६९॥



ततस्ते विमलात्मानो निःक्लेशा विजितेन्द्रियाः।

अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतं पदं॥१७०॥



एवं मत्वात्र तीर्थेषु सर्वेषु बोधिवांछिभिः।

नात्वा दानादि कर्म कर्त्तव्य सर्वदा भवे॥१७१॥



इत्यादिष्टं मुनीन्द्रेण समादिष्टं निसम्य ते।

सर्व सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः॥१७२॥



इति श्री स्वयंभू चैत्य समुत्पत्ति कथा वीतरागतीर्थ राष्ट्र प्रवर्त्तनो नाम चतुर्थोऽध्यायः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project